सामवेदः/कौथुमीया/संहिता/ऊहगानम्/दशरात्रपर्व/विंशः ११/उद्वꣳशीयम्

विकिस्रोतः तः
उद्वंशीयम्
उद्वंशीयम् (अष्टाचत्वारिंशस्तोमः)
उद्वꣳशीयम्

गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः ।
ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे॥१३४४ ॥ ऋ. १.१०.१
यत्सानोः सान्वारुहो भूर्यस्पष्ट कर्त्त्वं ।
तदिन्द्रो अर्थं चेतति यूथेन वृष्णिरेजति ॥१३४५ ॥
युङ्क्ष्वा हि केशिना हरी वृषणा कक्ष्यप्रा ।
अथा न इन्द्र सोमपा गिरामुपश्रुतिं चर ॥ १३४६ ॥



उद्वꣳशीयम् ।। विश्वेदेवाः। अनुष्टुप् । इन्द्रः ।।
गायन्तित्वागायत्रिणआ ॥ अर्चन्त्यर्कमर्काऽ२३इणाः । ब्रह्माणस्त्वाऽ२होऽ१इ । शतक्राऽ२३ताउ । उद्वꣳशमिवयाऽ१इमीऽ३रे । उद्वꣳशाऽ२३४मी ॥ वायाऽ३२उवाऽ३ । उप् । माऽ२इरोऽ३५"हाइ ॥श्रीः।। यत्सानोस्सान्वारुहआ॥ भूर्यस्पष्टकर्तूऽ२३वाम् । तदिन्द्राऽ२होऽ१इ । अर्थञ्चेताऽ२३ताइ । यूथेनवृष्णिराऽ१इजाऽ३ताइ ॥ यूथेनाऽ२३४वॄ ॥ ष्णाइराऽ३२उवाऽ३ । उप् । जाऽ२तोऽ३५"हाइ ॥ श्रीः ॥ युङ्क्ष्वाहिकेशिनाहरीआ। वृषणाकक्षियाऽ२३प्रा । अथानाऽ२होऽ१इ। इन्द्रसोमाऽ२३पाः । गिरामुपश्रुताऽ१इञ्चाऽ३रा ॥ गिरामूऽ२३४पा ॥ श्रूताऽ३२उवाऽ३ । उप् । चाऽ२रोऽ३५"हाइ ॥

दी. २३. उत् . ४. मा. २७. ढे. ।।२०८।।


[सम्पाद्यताम्]

टिप्पणी

दशरात्रस्य नवमेऽहनि उक्थेषु विनियोगः - आर्षेयकल्पः उपोद्घातः पृ. ८२

गायन्ति त्वा गायत्रिणो अर्चन्त्य् अर्कम् अर्किणः। ब्रह्माणस् त्वा शतक्रत उद् वंशम् इव येमिरे॥ इति यद् वै शतवत् सहस्रवत् तच् छन्दोमानां रूपम्। पशवो वै छन्दोमाः॥जैब्रा ३.२७७

तासूद्वंशीयम् उक्तब्राह्मणम्। तस्य पुरस्तान् निधनस्य प्रतिहारम् उपयन्ति। प्रस्तावप्रतिहाराभ्यां वै यजमानो धृतः। अतीता इवैतर्हि भवन्ति। तद् यत् पुरस्तान् निधनस्य प्रतिहारम् उपयन्त्य् अनतिपादायैव। तत् स्वारं भवति। अभि दशमम् अह स्वरति। स्वारम् एतद् भवति। स्वरेण श्वो भूते प्रतिपद्यन्ते। स यथा समात् समं संक्रामेद्, यथा प्राणेन प्राणं संदध्यात्, तादृक् तत्॥जैब्रा ३.२७८