ऋग्वेदः सूक्तं ३.६२
← सूक्तं ३.६१ | ऋग्वेदः - मण्डल ३ सूक्तं ३.६२ गाथिनो विश्वामित्रः, १६-१८ जमदग्निर्वा |
सूक्तं ४.१ → |
दे. १-३ इन्द्रावरुणौ, ४-६ बृहस्पतिः, ७-९ पूषा, १०-१२ सविता, १३-१५ सोमः, १६-१८ मित्रावरुणौ। गायत्री, १-३ त्रिष्टुप् |
इमा उ वां भृमयो मन्यमाना युवावते न तुज्या अभूवन् ।
क्व त्यदिन्द्रावरुणा यशो वां येन स्मा सिनं भरथः सखिभ्यः ॥१॥
अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति ।
सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पृथिव्या शृणुतं हवं मे ॥२॥
अस्मे तदिन्द्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः ।
अस्मान्वरूत्रीः शरणैरवन्त्वस्मान्होत्रा भारती दक्षिणाभिः ॥३॥
बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य ।
रास्व रत्नानि दाशुषे ॥४॥
शुचिमर्कैर्बृहस्पतिमध्वरेषु नमस्यत ।
अनाम्योज आ चके ॥५॥
वृषभं चर्षणीनां विश्वरूपमदाभ्यम् ।
बृहस्पतिं वरेण्यम् ॥६॥
इयं ते पूषन्नाघृणे सुष्टुतिर्देव नव्यसी ।
अस्माभिस्तुभ्यं शस्यते ॥७॥
तां जुषस्व गिरं मम वाजयन्तीमवा धियम् ।
वधूयुरिव योषणाम् ॥८॥
यो विश्वाभि विपश्यति भुवना सं च पश्यति ।
स नः पूषाविता भुवत् ॥९॥
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।
धियो यो नः प्रचोदयात् ॥१०॥
देवस्य सवितुर्वयं वाजयन्तः पुरंध्या ।
भगस्य रातिमीमहे ॥११॥
देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः ।
नमस्यन्ति धियेषिताः ॥१२॥
सोमो जिगाति गातुविद्देवानामेति निष्कृतम् ।
ऋतस्य योनिमासदम् ॥१३॥
सोमो अस्मभ्यं द्विपदे चतुष्पदे च पशवे ।
अनमीवा इषस्करत् ॥१४॥
अस्माकमायुर्वर्धयन्नभिमातीः सहमानः ।
सोमः सधस्थमासदत् ॥१५॥
आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतम् ।
मध्वा रजांसि सुक्रतू ॥१६॥
उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः ।
द्राघिष्ठाभिः शुचिव्रता ॥१७॥
गृणाना जमदग्निना योनावृतस्य सीदतम् ।
पातं सोममृतावृधा ॥१८॥
सायणभाष्यम्
‘इमा उ वाम्' इत्यष्टादशर्चं नवमं सूक्तम् । अत्रेयमनुक्रणिका-'इमा उ द्व्यूनैन्द्रावरुणबार्हस्पत्यपौष्णसावित्रसौम्यमैत्रावरुणास्तृचा अन्त्यो जमदग्न्यार्षो वा चतुर्थ्याद्या गायत्र्यः' इति । कृत्स्नस्य विश्वामित्र ऋषिरन्त्यस्य तृचस्य जमदग्निर्वा । आद्यास्तिस्रस्त्रिष्टुभः शिष्टाः पञ्चदश गायत्र्यः । प्रथमस्येन्द्रावरुणौ देवता द्वितीयस्य बृहस्पतिस्तृतीयस्य पूषा चतुर्थस्य सविता पञ्चमस्य सोमः षष्ठस्य मित्रावरुणौ । आभिप्लविकेषूक्थ्येषु तृतीयसवने स्तोमवृद्धौ सत्यां स्वस्वशस्त्रे होत्रका अन्त्यसूक्तमवशेष्य स्तोमाभिशंसनार्थं तृचादिसंख्या ऋच आवपेयुः । तत्र मैत्रावरुणस्यावापार्थमाद्यस्तृचः । सूत्रितं च -- ‘ इमा उ वां भृमयो मन्यमाना इति तिस्रः' (आश्व. श्रौ. ७.९ ) इति ॥
इ॒मा उ॑ वां भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या॑ अभूवन् ।
क्व१॒॑ त्यदि॑न्द्रावरुणा॒ यशो॑ वां॒ येन॑ स्मा॒ सिनं॒ भर॑थ॒ः सखि॑भ्यः ॥१
इ॒माः । ऊं॒ इति॑ । वा॒म् । भृ॒मयः॑ । मन्य॑मानाः । यु॒वाऽव॑ते । न । तुज्याः॑ । अ॒भू॒व॒न् ।
क्व॑ । त्यत् । इ॒न्द्रा॒व॒रु॒णा॒ । यशः॑ । वा॒म् । येन॑ । स्म॒ । सिन॑म् । भर॑थः । सखि॑ऽभ्यः ॥१
इमाः । ऊं इति । वाम् । भृमयः । मन्यमानाः । युवाऽवते । न । तुज्याः । अभूवन् ।
क्व । त्यत् । इन्द्रावरुणा । यशः । वाम् । येन । स्म । सिनम् । भरथः । सखिऽभ्यः ॥१
हे "इन्द्रावरुणा इन्द्रावरुणौ "वां युवयोः संबन्धिन्यः "मन्यमानाः बलिभिः शत्रुभिः अभिमन्यमानाः । अत एव "भृमयः भ्रमणशीलाः “इमाः प्रजाः । “उ पूरण:। "युवावते । तृतीयार्थे चतुर्थी । यौवनवता बलिना शत्रुणा “तुज्याः हिंस्याः "न "अभूवन् न भवन्तु । अपि च "वां युवयोः “त्यत् तादृशं "यशः "क्व कुत्रास्ते । "येन यशसा "सखिभ्यः अस्मभ्यं “सिनम् अन्नं "भरथः "स्म प्रदातुं संपादयथः । तत् क्वास्ति इत्यन्वयः। यद्वा । हे इन्द्रावरुणौ वां युवयोः संबन्धिन्य इमा अस्माभिः क्रियमाणा भृमयो युवां प्राप्तुं भ्रमणशीलाः मन्यमानाः । मन्यतिरर्चतिकर्मा । युवाम् अर्चन्त्यस्ता: स्तुतयो युवावते युवाभ्यां सदृशायान्यस्मै देवाय न तुज्याः । तुजतिर्दानकर्मार्थः । प्रदेया मा भूवन् । शिष्टं समानम् ॥ भृमयः । ‘ भ्रमु अनवस्थाने '। भ्रमेः ‘संप्रसारणं च ' इति इन्प्रत्ययः संप्रसारणं च । व्यत्ययेनान्तोदात्तत्वम् । युवावते । युष्मदस्मद्यांवन छन्दसि सादृश्य उपसंख्यानम् ' इति वतुप् । अविभक्तावपि युवादेशश्छान्दसः । तुज्याः । तुज हिंसादाननिकेतनेषु ।' अघ्न्यादयश्च ' इति यत् ।' यतोऽनावः' इत्याद्युदात्तत्वम् । सिनम् । ‘षिञ् बन्धने '। ‘इण्षिञ्दीङुष्यविभ्यो नक्' इति नक् । व्यत्ययेनाद्युदात्तत्वम् ॥
अ॒यमु॑ वां पुरु॒तमो॑ रयी॒यञ्छ॑श्वत्त॒ममव॑से जोहवीति ।
स॒जोषा॑विन्द्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हवं॑ मे ॥२
अ॒यम् । ऊं॒ इति॑ । वा॒म् । पु॒रु॒ऽतमः॑ । र॒यि॒ऽयन् । श॒श्व॒त्ऽत॒मम् । अव॑से । जो॒ह॒वी॒ति॒ ।
स॒ऽजोषौ॑ । इ॒न्द्रा॒व॒रु॒णा॒ । म॒रुत्ऽभिः॑ । दि॒वा । पृ॒थि॒व्या । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥२
अयम् । ऊं इति । वाम् । पुरुऽतमः । रयिऽयन् । शश्वत्ऽतमम् । अवसे । जोहवीति ।
सऽजोषौ । इन्द्रावरुणा । मरुत्ऽभिः । दिवा । पृथिव्या । शृणुतम् । हवम् । मे ॥२
हे "इन्द्रावरुणा इन्द्रावरुणौ "रयीयन् रयिमात्मन इच्छन् "अयमु “पुरुतमः वैदिककर्मप्रवृत्ततयातिशयेन पुनर्महानयं यजमानः “अवसे रक्षणायान्नाय वा "वां युवां "शश्वत्तमं सर्वदा "जोहवीति भृशमाह्वयति । "मरुद्भिः देवविशेषैः “दिवा “पृथिव्या च "सजोषौ संगतौ युवां “मे मम "हवं युष्मदीयमाह्वानं “शृणुतम् ॥ पुरुतमः । तमपो व्यत्ययेनाद्युदात्तत्वम् ॥ जोहवीति । ह्वयतेर्यङ्लुकि ‘ अभ्यस्तस्य च ' इति संप्रसारणे कृते रूपम् । दिवा । ' ऊडिदम्' इति विभक्तेरुदात्तत्वम् । पृथिव्या । ‘ उदात्तयणो हल्पूर्वात् ' इति उदात्तत्वम् । हवम् । ह्वयतेः ‘ भावेऽनुपसर्गस्य ' इति अप् । प्रत्ययस्य पित्त्वादनुदात्तत्वम् ॥
अ॒स्मे तदि॑न्द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुत॒ः सर्व॑वीरः ।
अ॒स्मान्वरू॑त्रीः शर॒णैर॑वन्त्व॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ॥३
अ॒स्मे इति॑ । तत् । इ॒न्द्रा॒व॒रु॒णा॒ । वसु॑ । स्या॒त् । अ॒स्मे इति॑ । र॒यिः । म॒रु॒तः॒ । सर्व॑ऽवीरः ।
अ॒स्मान् । वरू॑त्रीः । श॒र॒णैः । अ॒व॒न्तु॒ । अ॒स्मान् । होत्रा॑ । भार॑ती । दक्षि॑णाभिः ॥३
अस्मे इति । तत् । इन्द्रावरुणा । वसु । स्यात् । अस्मे इति । रयिः । मरुतः । सर्वऽवीरः ।
अस्मान् । वरूत्रीः । शरणैः । अवन्तु । अस्मान् । होत्रा । भारती । दक्षिणाभिः ॥३
“इन्द्रावरुणा' हे इन्द्रावरुणौ “अस्मे अस्मासु “तत् अभिलषितं तादृशं “वसु धनं “स्यात् भवतु । हे "मरुतः "सर्ववीरः सर्वेषुः कर्मसु वीरः समर्थः "रयिः पुत्रपौत्रयुक्तः पशुसंघः । ‘ पशवो वै रयिः' इति तैत्तिरीयकम् । सः "अस्मे अस्माकं भवतु । “वरूत्रीः सर्वैः संभजनीया देवपत्न्यः "शरणैः । शृणन्ति शीतादिक्लेशमिति शरणानि गृहाः । तैः "अस्मान् "अवन्तु । "होत्रा । हूयन्तेऽस्यां हवींषीति । यद्वा । हूयते तत्र प्राण इति होत्रा वाक् । तथा च श्रुतिः - ‘ वाचि हि प्राणं जुहुमः प्राणे वा वाचम्' इति । यद्वा । होत्रेति यज्ञनाम । हूयते अत्र हविरिति । यज्ञश्च वागुच्यते । ‘वाचं यच्छन्ति वाग्वै यज्ञः ' ( ऐ. ब्रा. ५. २४ ) इति ब्राह्मणम् । तादृशी "भारती सरस्वती "दक्षिणाभिः गोरूपाभिर्दक्षिणाभिः यद्वा उदाराभिर्वाग्भिः "अस्मान् पालयतु ॥ वसु ष्यात् इत्यत्र संहितायां पूर्वपदात् ' इति षत्वम् । वरूत्रीः । ‘ ग्रसितस्कभित°' इत्यादिना ङीबन्तत्वेन निपातनादिष्टसिद्धिः । होत्रा ।' हु दानादनयोः । “हुयामाश्रुभसिभ्यस्त्रन् इत्यधिकरणे त्रन्प्रत्ययः ॥
बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य ।
रास्व॒ रत्ना॑नि दा॒शुषे॑ ॥४
बृह॑स्पते । जु॒षस्व॑ । नः॒ । ह॒व्यानि॑ । वि॒श्व॒ऽदे॒व्य॒ ।
रास्व॑ । रत्ना॑नि । दा॒शुषे॑ ॥४
बृहस्पते । जुषस्व । नः । हव्यानि । विश्वऽदेव्य ।
रास्व । रत्नानि । दाशुषे ॥४
“विश्वदेव्य सर्वदेवहित हे "बृहस्पते "नः अस्मत्संबन्धीनि "हव्यानि हवनयोग्यानि पुरोडाशादीनि हवींषि "जुषस्व सेवस्व । ततस्त्वं "दाशुषे हविर्दत्तवते यजमानाय मह्यं "रत्नानि उत्तमानि धनानि “रास्व देहि ॥ रास्व । ‘रा दाने '। व्यत्ययेनात्मनेपदम् ॥
शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत ।
अना॒म्योज॒ आ च॑के ॥५
शुचि॑म् । अ॒र्कैः । बृह॒स्पति॑म् । अ॒ध्व॒रेषु॑ । न॒म॒स्य॒त॒ ।
अना॑मि । ओजः॑ । आ । च॒के॒ ॥५
शुचिम् । अर्कैः । बृहस्पतिम् । अध्वरेषु । नमस्यत ।
अनामि । ओजः । आ । चके ॥५
हे ऋत्विजो यूयम् "अध्वरेषु “शुचिं शुद्धं "बृहस्पतिम् "अर्कैः अर्चनीयैः स्तोत्रैः "नमस्यत परिचरत । “अनामि अनमनशीलं परैरनभिभवनीयम् “ओजः तस्य बलम् “आ “चके सर्वतो याचे ॥ बृहस्पतिम् । वनस्पत्यादित्वादुभयपदप्रकृतिस्वरः । चके । कमेर्लिट्युत्तमे मकारलोपश्छान्दसः ॥ ॥ ९ ॥
वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू॑प॒मदा॑भ्यम् ।
बृह॒स्पतिं॒ वरे॑ण्यम् ॥६
वृ॒ष॒भम् । च॒र्ष॒णी॒नाम् । वि॒श्वऽरू॑पम् । अदा॑भ्यम् ।
बृह॒स्पति॑म् । वरे॑ण्यम् ॥६
वृषभम् । चर्षणीनाम् । विश्वऽरूपम् । अदाभ्यम् ।
बृहस्पतिम् । वरेण्यम् ॥६
“चर्षणीनां मनुष्याणां "वृषभम् अभिमतफलवर्षकं “विश्वरूपं व्याप्तरूपम् । यद्वा । विश्वरूपानामकगोवाहनोपेतम् । तथा च मन्त्रवर्णः -- बृहस्पतिर्विश्वरूपामुपाजत ' ( ऋ. सं. १. १६१. ६ इति । "अदाभ्यं केनाप्यतिरस्करणीयं "वरेण्यं सर्वैर्भजनीयं "बृहस्पतिम् । अभिमतफलं याचे ‘ इति पूर्वेणान्वयः ॥ विश्वरूपम् । ‘ बहुव्रीहौ विश्वं संज्ञायाम् ' इति पूर्वपदान्तोदात्तत्वम् । यद्वा । विश्वरूपास्य अस्तीति अर्शआदित्वात् अच्प्रत्ययः । मरुद्वृधादित्वात् पूर्वपदान्तोदात्तत्वम् । अदाभ्यम् । ‘ दभेश्चेति वक्तव्यम्' इति ण्यत्प्रत्ययः ॥
इ॒यं ते॑ पूषन्नाघृणे सुष्टु॒तिर्दे॑व॒ नव्य॑सी ।
अ॒स्माभि॒स्तुभ्यं॑ शस्यते ॥७
इ॒यम् । ते॒ । पू॒ष॒न् । आ॒घृ॒णे॒ । सु॒ऽस्तु॒तिः । दे॒व॒ । नव्य॑सी ।
अ॒स्माभिः॑ । तुभ्य॑म् । श॒स्य॒ते॒ ॥७
इयम् । ते । पूषन् । आघृणे । सुऽस्तुतिः । देव । नव्यसी ।
अस्माभिः । तुभ्यम् । शस्यते ॥७
“आघृणे दीप्तिमन् हे "पूषन् "देव "नव्यसी नवतरा “इयं "सुष्टुतिः शोभनस्तुतिरूपा वाक् “ते त्वत्संबन्धिनी भवति । सैषा स्तुतिः "अस्माभिः स्तोतृभिः “तुभ्यं त्वदर्थं “शस्यते क्रियते । तां जुषस्वेत्युत्तरेणान्वयः ॥
तां जु॑षस्व॒ गिरं॒ मम॑ वाज॒यन्ती॑मवा॒ धिय॑म् ।
व॒धू॒युरि॑व॒ योष॑णाम् ॥८
ताम् । जु॒ष॒स्व॒ । गिर॑म् । मम॑ । वा॒ज॒ऽयन्ती॑म् । अ॒व॒ । धिय॑म् ।
व॒धू॒युःऽइ॑व । योष॑णाम् ॥८
ताम् । जुषस्व । गिरम् । मम । वाजऽयन्तीम् । अव । धियम् ।
वधूयुःऽइव । योषणाम् ॥८
हे पूषन् स्तोत्रं कुर्वाणस्य “मम “तां तादृशीं "गिरं स्तुतिलक्षणां वाचं "जुषस्व सेवस्व । स्तुत्या प्रीतस्त्वं "वाजयन्तीं वाजमन्नमिच्छन्तीं हर्षकारिणीं “धियम् इमां स्तुतिं प्रति “अव अभिगच्छ। तत्र दृष्टान्तः । "वधूयुरिव । यथा वधूयुः स्त्रीकामः “योषणं स्त्रियं प्रत्यागच्छति तद्वत् ॥ वाजयन्तीम् । वाजशब्दादिच्छतीत्यर्थे क्यच् । तदन्ताच्छतरि ङीपि रूपम् । ङीपोऽनुदात्तत्वे प्रत्ययस्वरः । अव । अव रक्षणादिषु इत्यस्य लोटि रूपम् ॥
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति ।
स न॑ः पू॒षावि॒ता भु॑वत् ॥९
यः । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति ।
सः । नः॒ । पू॒षा । अ॒वि॒ता । भु॒व॒त् ॥९
यः । विश्वा । अभि । विऽपश्यति । भुवना । सम् । च । पश्यति ।
सः । नः । पूषा । अविता । भुवत् ॥९
"यः पूषा "विश्वा "भुवना सर्वान् लोकान् "अभि आभिमुख्येन "विपश्यति विशेषेण पश्यति । किंच तानि “सं "पश्यति तत्तद्वस्तुयाथात्म्यं सम्यक् जानाति । "सः तादृशः "पूषा देवः “नः अस्माकम् "अविता रक्षकः "भुवत् भवतु ॥ विपश्यति । यद्वृत्तयोगदनिघातः । शपः पित्त्वादनुदात्तत्वे धातुस्वरः । ‘ तिङि चोदात्तवति ' इति गतेर्निघातः । पश्यति । अत्र सकर्मकत्वात् परस्मैपदम् । पूर्ववदनिघातः । भुवत् । भवतेर्लेटि अडागमः । ‘ भूसुवोस्तिङि ' इति गुणप्रतिषेधे उबङादेशः । निघातः ॥
दशरात्रस्य षष्ठेऽहनि वैश्वदेवशस्त्रे तत्सवितुः' इति द्वे ऋचौ प्रतिपत्तृचस्य द्वितीयातृतीये । सूत्रितं च -- ‘ तत्सवितुर्वरेण्यमिति द्वे दोषो आगात् ' ( आश्व. श्रौ. ८. १.१८) इति । अभिप्लवपृष्ठ्यषडहयोर्द्वितीयेऽहनि वैश्वदेवशस्त्रे प्रतिपत्तृचस्यैते एव प्रथमाद्वितीये । सूत्रितं च- ‘ तत्सवितुर्वरेण्यमिति द्वे आ विश्वदेवम्' (आश्व. श्रौ. ७.६.६) इति ॥
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑ः प्रचो॒दया॑त् ॥१०
तत् । स॒वि॒तुः । वरे॑ण्यम् । भर्गः॑ । दे॒वस्य॑ । धी॒म॒हि॒ ।
धियः॑ । यः । नः॒ । प्र॒ऽचो॒दया॑त् ॥१०
तत् । सवितुः । वरेण्यम् । भर्गः । देवस्य । धीमहि ।
धियः । यः । नः । प्रऽचोदयात् ॥१०
“यः सविता देवः "नः अस्माकं "धियः कर्माणि धर्मादिविषया वा बुद्धीः "प्रचोदयात् प्रेरयेत् “तत् तस्य “देवस्य "सवितुः सर्वान्तर्यामितया प्रेरकस्य जगत्स्रष्टुः परमेश्वरस्य "वरेण्यं सर्वैः उपास्यतया ज्ञेयतया च संभजनीयं "भर्गः अविद्यातत्कार्ययोर्भर्जनाद्भर्गः स्वयंज्योतिः परब्रह्मात्मकं तेजः “धीमहि वयं ध्यायामः । यद्वा । तत् इति भर्गोविशेषणम् । सवितुः “देवस्य तत्तादृशं भर्गो धीमहि। किं तदित्यपेक्षायामाह । यः इति लिङ्गव्यत्ययः। यद्भर्गो धियः प्रचोदयात् । तत् ध्यायेमेति समन्वयः। यद्वा । यः सविता सूर्यो धियः कर्माणि प्रचोदयात् प्रेरयति तस्य सवितुः सर्वस्य प्रसवितुः देवस्य द्योतमानस्य सूर्यस्य तत्सर्वैः दृश्यमानतया प्रसिद्धं वरेण्यं सर्वैः संभजनीयं भर्गः पापानां तापकं तेजोमण्डलं धीमहि ध्येयतया मनसा धारयेम । यद्वा । भर्गःशब्देनान्नमभिधीयते । यः सविता देवो धियः प्रचोदयति तस्य प्रसादाद्भर्गोऽन्नादिलक्षणं फलं धीमहि धारयामः । तस्याधारभूता भवेमेत्यर्थः । भर्गःशब्दस्यान्नपरत्वे धीशब्दस्य कर्मपरत्वे चाथर्वणं - ‘ वेदांश्छन्दांसि सवितुर्वरेण्यं भर्गो देवस्य कवयोऽन्नमाहुः । कर्माणि धियस्तदु ते प्रब्रवीमि प्रचोदयत्सविता याभिरेति' (गो. ब्रा. १. ३२) इति ॥ भर्गः । ‘ भ्रस्ज पाके'। असुन् । ‘ भ्रस्जो रोपधयो रमन्यतरस्याम् ' ( पा. सू. ६. ४. ४७ ) इति रोपधयोर्लोपो रमागमः । न्यङ्वांरसदिपाठात् कुत्वम् । धीमहि । ध्यायतेर्लिङि • बहुलं छन्दसि ' इति 'संप्रसारणम् । व्यत्ययेनात्मनेपदम् । यद्वा । ‘धीङ् आधारे । लिङि ‘ बहुलं छन्दसि ' इति विकरणस्य लुक् । प्रचोदयात् । चोदयतेर्लेट्याडागमः । यद्वृत्तयोगादनिघातः । आगमस्यानुदात्तत्वे णिचः स्वरः ॥ ॥ १० ॥
दे॒वस्य॑ सवि॒तुर्व॒यं वा॑ज॒यन्त॒ः पुरं॑ध्या ।
भग॑स्य रा॒तिमी॑महे ॥११
दे॒वस्य॑ । स॒वि॒तुः । व॒यम् । वा॒ज॒ऽयन्तः॑ । पुर॑म्ऽध्या ।
भग॑स्य । रा॒तिम् । ई॒म॒हे॒ ॥११
देवस्य । सवितुः । वयम् । वाजऽयन्तः । पुरम्ऽध्या ।
भगस्य । रातिम् । ईमहे ॥११
“वाजयन्तः वाजमन्नमात्मन इच्छन्तः "वयं "देवस्य द्योतमानस्य "सवितुः “पुरंध्या तद्विषयस्तुत्या प्रज्ञया वा “भगस्य भजनीयस्य धनस्य "रातिं दानम् "ईमहे याचामहे ॥ रातिम् ।' मन्त्रे वृष° इत्यादिना क्तिन उदात्तत्वम् ॥
दे॒वं नर॑ः सवि॒तारं॒ विप्रा॑ य॒ज्ञैः सु॑वृ॒क्तिभि॑ः ।
न॒म॒स्यन्ति॑ धि॒येषि॒ताः ॥१२
दे॒वम् । नरः॑ । स॒वि॒तार॑म् । विप्राः॑ । य॒ज्ञैः । सु॒वृ॒क्तिऽभिः॑ ।
न॒म॒स्यन्ति॑ । धि॒या । इ॒षि॒ताः ॥१२
देवम् । नरः । सवितारम् । विप्राः । यज्ञैः । सुवृक्तिऽभिः ।
नमस्यन्ति । धिया । इषिताः ॥१२
"नरः कर्मणां नेतारः "विप्राः मेधाविनोऽध्वर्य्वादयः “धियेषिताः कर्मणा बुद्ध्या वा प्रेर्यमाणाः सन्तः "सवितारं "देवं त्वां "यज्ञैः यजनीयैर्हविर्भिः "सुवृक्तिभिः शोभनस्तोत्रैश्च "नमस्यन्ति परिचरन्ति ॥ नमस्यन्ति । नमोवरिवश्चित्रङः क्यच् ' इति क्यच् ॥
अग्नीषोमप्रणयने ' सोमो जिगाति' इत्याद्यास्तिस्र ऋचः । सूत्रितं च -- सोमो जिगाति गातुविद्देवानां तमस्य राजा वरुणस्तमश्विनेत्यर्धर्च आरमेत् ' ( आश्व. श्रौ. ४. १० ) इति ॥
सोमो॑ जिगाति गातु॒विद्दे॒वाना॑मेति निष्कृ॒तम् ।
ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥१३
सोमः॑ । जि॒गा॒ति॒ । गा॒तु॒ऽवित् । दे॒वाना॑म् । ए॒ति॒ । निः॒ऽकृ॒तम् ।
ऋ॒तस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥१३
सोमः । जिगाति । गातुऽवित् । देवानाम् । एति । निःऽकृतम् ।
ऋतस्य । योनिम् । आऽसदम् ॥१३
“गातुवित्। गातुः वेदिमार्गः । तं जानानः "सोमो "जिगाति गच्छति । गन्तव्यं स्थानं दर्शयति । “देवानां संबन्धि "निष्कृतं संस्कृतम् "आसदं सर्वैरासदनीयम् “ऋतस्य यज्ञस्य “योनिं स्थानं हविर्धानाख्यम् "एति प्राप्नोति ॥ जिगाति । • गा स्तुतौ ' । जुहोत्यादिः ॥
सोमो॑ अ॒स्मभ्यं॑ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे॑ ।
अ॒न॒मी॒वा इष॑स्करत् ॥१४
सोमः॑ । अ॒स्मभ्य॑म् । द्वि॒ऽपदे॑ । चतुः॑ऽपदे । च॒ । प॒शवे॑ ।
अ॒न॒मी॒वाः । इषः॑ । क॒र॒त् ॥१४
सोमः । अस्मभ्यम् । द्विऽपदे । चतुःऽपदे । च । पशवे ।
अनमीवाः । इषः । करत् ॥१४
“सोमः स्तोतृभ्यः "अस्मभ्यं तथा “द्विपदे अस्मदीयाभ्यो द्विपाद्भ्यः प्रजाभ्यः "चतुष्पदे “पशवे चतुष्पाद्भ्यो गवादिपशुभ्यः "च "अनमीवाः रोगवर्जितानि “इषः अन्नानि "करत् करोतु ॥ चतुष्पदे । भसंज्ञायां पादस्य पद्भावः । ‘ इसुसोः सामर्थ्ये ' इति संहितायां सत्वम् ।' आदेशप्रत्यययोः' इति षत्वम् । बहुव्रीहौ पूर्वपदस्वरः । करत् । करोतेर्लेट्यडागमः । इषस्करत् इत्यत्र संहितायां ' कः करत्करति° ' इत्यादिना सत्वम् ॥
अ॒स्माक॒मायु॑र्व॒र्धय॑न्न॒भिमा॑ती॒ः सह॑मानः ।
सोम॑ः स॒धस्थ॒मास॑दत् ॥१५
अ॒स्माक॑म् । आयुः॑ । व॒र्धय॑न् । अ॒भिऽमा॑तीः । सह॑मानः ।
सोमः॑ । स॒धऽस्थ॑म् । आ । अ॒स॒द॒त् ॥१५
अस्माकम् । आयुः । वर्धयन् । अभिऽमातीः । सहमानः ।
सोमः । सधऽस्थम् । आ । असदत् ॥१५
सः "सोमः देवः "अस्माकमायुः अन्नं जीवनं वा "वर्धयन् वृद्धिं प्रापयन् "अभिमातीः कर्मविघ्नकारिणः शत्रून् "सहमानः अभिभवन्नस्माकं "सधस्थं हविर्धानाख्यं स्थानम् "आसदत् आसीदतु ॥ असदत् । सदेर्लेटि रूपम् । निघातः ॥
अग्निष्टोमे प्रातःसवने मैत्रावरुणशस्त्रे ‘आ नो मित्रावरुणा ' इति स्तोत्रियस्तृचः । सूत्रितं च -- ‘ आ नो मित्रावरुणा नो गन्तं रिशादसा ' ( आश्व. श्रौ. ५. १० ) इति । चतुर्विंशेऽहनि प्रातःसवने मैत्रावरुणे शस्त्रे ‘ आ नो मित्रावरुणा ' इति षडहस्तोत्रियसंज्ञकस्तृचः । सूत्रितं च -- ‘ आ नो मित्रावरुणा मित्रं वयं हवामहे ' ( आश्व. श्रौ. ७. २) इति । स्तोमवृद्धावयमेव तृच आवापार्थः । सूत्रितं च - ‘ आ नो मित्रावरुणेति तृचौ ' ( आश्व. श्रौ. ७. ५) इति । दाक्षायणे यज्ञे द्वे अमावास्ये कर्तव्ये। तत्रोत्तरस्याममावास्यायां द्वितीयेऽहनि मैत्रावरुणे ‘ आ नो मित्रावरुणा ' इति तस्यानुवाक्या । सूत्रितं च - ‘ आ नो मित्रावरुणा यद्वंहिष्ठं नातिविधे सुदानू ' (आश्व. श्रौ. २. १४ ) इति ॥
आ नो॑ मित्रावरुणा घृ॒तैर्गव्यू॑तिमुक्षतम् ।
मध्वा॒ रजां॑सि सुक्रतू ॥१६
आ । नः॒ । मि॒त्रा॒व॒रु॒णा॒ । घृ॒तैः । गव्यू॑तिम् । उ॒क्ष॒त॒म् ।
मध्वा॑ । रजां॑सि । सु॒क्र॒तू॒ इति॑ सुऽक्रतू ॥१६
आ । नः । मित्रावरुणा । घृतैः । गव्यूतिम् । उक्षतम् ।
मध्वा । रजांसि । सुक्रतू इति सुऽक्रतू ॥१६
"सुक्रतू शोभनकर्माणौ हे मित्रावरुणौ "नः अस्माकं "गव्यूतिं गवां मार्गं गोनिवासस्थानं “घृतैः क्षरणसाधनैः पयोभिः “आ “उक्षतं समन्तात् सिञ्चतम् । अस्मभ्यं दोग्ध्रीर्गाः प्रयच्छतमिति भावः। "रजांसि अस्मदावासस्थानानि "मध्वा मधुरेण रसेन सिञ्चतम् ॥ गव्यूतिम् । गोर्यूतौ छन्दसि ' इति वान्तादेशः । मध्वा । सर्वविधीनां छन्दसि विकल्पितत्वादत्र नुमागमाभावः ॥
उ॒रु॒शंसा॑ नमो॒वृधा॑ म॒ह्ना दक्ष॑स्य राजथः ।
द्राघि॑ष्ठाभिः शुचिव्रता ॥१७
उ॒रु॒ऽशंसा॑ । न॒मः॒ऽवृधा॑ । म॒ह्ना । दक्ष॑स्य । रा॒ज॒थः॒ ।
द्राघि॑ष्ठाभिः । शु॒चि॒ऽव्र॒ता॒ ॥१७
उरुऽशंसा । नमःऽवृधा । मह्ना । दक्षस्य । राजथः ।
द्राघिष्ठाभिः । शुचिऽव्रता ॥१७
“शुचिव्रता परिशुद्धकर्माणौ हे मित्रावरुणौ "उरुशंसा उरुभिर्बहुभिः शंसनीयौ । यद्वा । उरु महत् शंसः शस्त्रं ययोस्तौ । "नमोवृधा नमसा हविर्लक्षणेनान्नेन स्तोत्रेण वा वर्धमानौ "द्राघिष्ठाभिः अत्यन्तं दीर्घस्तुतिलक्षणाभिर्वाग्भिर्युक्तौ युवां "दक्षस्य । दक्षं धनं बलं वा । तस्य "मह्ना महत्त्वेन "राजथः ईशाथे ॥ उरुशंसा । ' शंसु स्तुतौ ' । कर्मणि घञ् । कृत्स्वरः । द्राघिष्ठाभिः । दीर्घशब्दादिष्ठनि ‘ प्रियस्थिर 'इत्यादिना द्राघीत्यादेशः । नित्त्वादाद्युदात्तः ॥
मैत्रावरुणस्य ग्रहस्य याज्या गृणाना जमदग्निना' इत्येषा। सूत्रितं च - ‘ होता यक्षन्मित्रावरुणा गृणाना जमदग्निना ' ( आश्व. श्रौ. ५. ५ ) इति । अध्यायोपाकरणे मण्डलाद्यन्तहोमे गृणाना जमदग्निना' ( आश्व. गृ. ३. ५. ७) इत्येषा ॥
गृ॒णा॒ना ज॒मद॑ग्निना॒ योना॑वृ॒तस्य॑ सीदतम् ।
पा॒तं सोम॑मृतावृधा ॥१८
गृ॒णा॒ना । ज॒मत्ऽअ॑ग्निना । योनौ॑ । ऋ॒तस्य॑ । सी॒द॒त॒म् ।
पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥१८
गृणाना । जमत्ऽअग्निना । योनौ । ऋतस्य । सीदतम् ।
पातम् । सोमम् । ऋतऽवृधा ॥१८
हे मित्रावरुणौ "जमदग्निना एतन्नामकेन महर्षिणा "गृणाना स्तूयमानौ । यद्वा । जमदग्निना प्रज्वलिताग्निना विश्वामित्रेण स्तूयमानौ युवाम् “ऋतस्य यज्ञस्य "योनौ देवयजनाख्ये देशे "सीदतम् उपविशतम् । “ऋतावृधा ऋतस्य कर्मफलस्य वर्धयितारौ युवां "सोमं "पातं पिबतम् ।। गृणाना । ‘गॄ शब्दे'। व्यत्ययेन कर्मणि शानच् । चित्त्वादन्तोदात्तः । सीदतम् । सदेर्लोटि • पाघ्रा° ' इत्यादिना सीदादेशः । पातम् । ‘पा पाने'। बहुलं छन्दसि ' इति शपो लुक् ॥ ॥ ११ ॥
इति सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये दाशतय्यां तृतीये मण्डले पञ्चमोऽनुवाकः समाप्तं च तृतीयं मण्डलम् ॥
टिप्पणी
मण्डल ३ | |||
---|---|---|---|