विष्णुपुराणम्/पञ्चमांशः/अध्यायः ३८

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

अर्ज्जुनोऽपि तदान्विष्य कृष्णरामकलेवरे ।
संस्कारं लम्भयामास तथान्येषामनुक्रमात् ।। ५-३८-१ ।।

अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु याः ।
उपगुह्य हरेर्देहं विविशुस्ता हुताशनम् ।। ५-३८-२ ।।

रेवती चैव रामस्य देहमाश्व्लिष्य सत्तम ।
विवेश ज्वलितं वह्निं तत्सङ्गाह्लादशीतलम् ।। ५-३८-३ ।।

उग्रसेनस्तु तच्छ्रु त्वा तथैवानकदुन्दुभिः ।
देवकी रोहिणी चैव विविशुर्जातवेदसम् ।। ५-३८-४ ।।

ततोऽर्ज्जुनः प्रेतकार्य्यं कृत्वा तेषां यथाविधि ।
निश्वक्राम जनं सर्व्वं गृहीत्वा वज्रमेव च ।। ५-३८-५ ।।

द्रारवत्या विनिष्कान्ताः कृष्णपत्नयः सहस्त्रशः ।
वज्र जनञ्च कौन्तेयः पालयञ्छनकैर्ययौ ।। ५-३८-६ ।।

सभा सुधर्म्मा कृष्णोन मर्त्त्यलोके समुजूह्मिते ।
स्वर्गं जगाम मैत्रेय पारिजातश्व पादपः ।। ५-३८-७ ।।

यस्मिन् दिने हरिर्यातो दिवं सन्त्यज्य मेदिनीम् ।
तस्मिन्नेवावतीर्णोऽयं कालकायो बली कलिः ।। ५-३८-८ ।।

प्लावयामास तां शून्यां द्रारकाञ्च महोदधिः ।
यदुदेवगृहं त्वेकं नाप्लावयत सागरः ।। ५-३८-९ ।।

नातिक्रान्तुमलं ब्रंह्म स्तदद्यापि महोदधिः ।
नित्यं सन्निहितस्तत्र भगवान् गेशवो यतः ।। ५-३८-१० ।।

तदतीव महत् पुण्यं सर्व्वपातकनाशनम् ।
विष्णुक्रीड़ान्वितस्थानं दृष्ट्वा पापात् प्रमुच्यते ।। ५-३८-११ ।।

पार्थःपञ्चनदे धनधान्यसमन्विते ।
चकार वासं सर्व्वस्य जनस्य मुनिसत्तम ।। ५-३८-१२ ।।

ततो लोभः समभवद्दस्यूनां निहतेश्वराः ।
दृष्ट्वा स्त्रियो नीयमानाः पार्थेनैकेन धन्विना ।। ५-३८-१३ ।।

ततस्ते पापकर्म्माणो लोभोपहतचेतसः ।
आभीरा मन्त्रयामासुः समेत्यात्यन्तदुर्म्मदाः ।। ५-३८-१४ ।।

अयमेकोऽर्ज्जुनो धन्वी स्त्रीजनं निहतेश्वरम् ।
नयत्यस्मानतिक्रम्य धिगेतद्भवतां बलम् ।। ५-३८-१५ ।।

हत्वा गर्व्वसमारूढ़ो भीष्म-द्रोण-जयद्रथान ।
कर्णादींश्व न जानाति बलं ग्रामनिवासिनाम् ।। ५-३८-१६ ।।

हे हे यष्टीर्महायामा गृह्णीतायं सुदुर्म्मतिः ।
सर्व्वानेवावजानाति कि वो बाहुभिरुन्नतैः ।। ५-३८-१७ ।।

ततो यष्टिप्रहरणा दस्यवो लोष्टहारिणः ।
सहस्त्रशोऽभ्यधावन्त तं जनं निहतेश्वरम् ।। ५-३८-१८ ।।

ततो निवृत्य कौन्तेयः प्राहाभीरान् हसन्निव ।
निवर्त्तध्वमधर्म्मज्ञा यदि न स्थ मुमूर्षवः ।। ५-३८-१९ ।।

अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम् ।
स्त्रीजनञ्चैव मैत्रेय विष्वकूसेनपरिग्रहम् ।। ५-३८-२० ।।

ततोऽर्ज्जुनो धनुर्द्दिव्य गाण्डीवमजरं युधि ।
आरोपितु समारेभे न शशाक स वीर्य्यवान ।। ५-३८-२१ ।।

चकार सज्यं कृच्छ्राच्च तच्चाभूच्छिथिल पुनः ।
न सस्मार तथास्त्राणि चिन्तयन्नपि पाण्डवः ।। ५-३८-२२ ।।

शरान्मुमोच वै तेषु पार्थो वैरिष्वमषिंतः ।
त्वगूभेदं ते परं चक्रु रस्ता गाण्डीवधन्वना ।। ५-३८-२३ ।।

वह्निना येऽक्षया दत्ताः शरास्तेऽपि क्षयं ययुः ।
युध्यत सह गोपाल रर्ज्जुनस्य भवक्षये ।। ५-३८-२४ ।।

अचिन्तयच्च कौन्तेयः कृष्णस्यैव हि तदूबलम् ।
यन्मया शरसङूघातैः सकला भूभुजो जिताः ।। ५-३८-२५ ।।

मिषतः पाण्डुपुत्रस्य ततस्ताः प्रमदोत्तमाः ।
आभीरैरपकृष्यन्त्यः कामाच्चान्या प्रवव्रजुः ।। ५-३८-२६ ।।

ततः शरेषु क्षीणोषु धदुष्कोट्या धनञ्चयः ।
जघान दस्यूस्ते चास्य प्रहारान् जहसुर्मुने ।। ५-३८-२७ ।।

प्रे क्षतश्चैव पार्थस्य वृष्ण्यन्धकवरस्त्रियः ।
जग्मुरादाय ते म्लेच्छाः सम्मता मुनिसत्तम ।। ५-३८-२८ ।।

ततः सुदुः खितो जिष्णुः कष्टं कष्टमिति ब्रु वन् ।
अहो भगवता तेन मुषितोऽस्मि रुरोद ह ।। ५-३८-२९ ।।

तद्धनुस्तानि चास्त्राणि स रथस्ते च वाजिनः ।
सर्व्वमेकपदे नष्टं दानमश्वोत्रियथा ।। ५-३८-३० ।।

अहोऽतिबलवद्दैवं विना तेन महात्मना ।
यदसामर्थ्ययुक्तेऽपि नीचवर्गे जयप्रदम् ।। ५-३८-३१ ।।

तौ बाहू स च मे मुष्टिः स्थानां तत् सोऽस्मि चार्ज्जुनः ।
पुण्येनैव विना तेन गतं सर्व्वमसारताम् ।। ५-३८-३२ ।।

ममार्ज्जुनत्वं भीमस्य भीमत्वं तत्कृतं घ्रुवम् ।
विना तेन यदाभीरैर्जितोऽहं कथमन्यथा ।। ५-३८-३३ ।।

इत्था वदन् ययौ जिष्णुर्मथुराख्यं पुरोत्तमम् ।
चक्रार तत्र राजानं वज्र यादवनन्दनम् ।। ५-३८-३४ ।।

स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम् ।
तमुपेत्य महाभागं विनयेनाभ्यवादयत् ।। ५-३८-३५ ।।

त वन्दमान् चरणाववलोक्य मुनिश्वरम् ।
उवाच पार्थं विच्छायः कथमत्यन्तमीदृशः ।। ५-३८-३६ ।।

अवीरजोऽनुगमनं ब्रह्महत्याथवा कृता ।
दृढ़ाशाभिङ्गदुःखी वा भ्रष्टच्छायोऽसि साम्प्रतम् ।। ५-३८-३७ ।।

सान्तानिकादयो वा ते याचमाना निराकृताः ।
अगम्यस्त्रीरतिर्वात्वं तेनासि विगतप्रभः ।। ५-३८-३८ ।।

भुक्तोऽप्रदाय विप्रभ्य एको मिष्टमथो भवान् ।
किं वा कृष्णावित्तानि ह्टतानि भवतार्ज्जुन ।। ५-३८-३९ ।।

कच्चित्त्वं शूर्पवातस्य गोचरत्वं गतोऽर्ज्जुन ।
दुष्टचक्षुर्हतो वापि निः श्रीकः कथमन्यथा ।। ५-३८-४० ।।

स्पृष्टो नखाम्भसा चाथ घटाम्भः प्रोक्षितोऽपि वा ।
तेनातीवासि विच्छायो न्यूनैर्वा युघि निर्ज्जितः ।। ५-३८-४१ ।।

ततः पार्थो विनिः श्वस्य श्रूयतां भगवन्निति ।
प्रोक्त्वा यथावदाचष्ट व्यासायात्मपराभवम् ।। ५-३८-४२ ।।

यदूबलं यच्च नस्तेतजो यदूवार्य्य यत्पराक्रमः ।
या श्राशछाया च नः सोऽस्मानू परिंत्यज्य गतो हरिः ।। ५-३८-४३ ।।

इतरेणाव महता स्मितपूर्व्वाभिभाषिणा ।
हीना वयं मुने तेन जातास्तृणमया इव ।। ५-३८-४४ ।।

अस्त्राणां सायकानाञ्च गाणडीवस्य तथा मम ।
सारता याभवन् मूलं स गतः पुरुषोत्तमः ।। ५-३८-४५ ।।

यस्यावलोकनादस्मान् श्रीर्जयः सम्पदुन्नतिः ।
न तत्याज स गोविन्दस्त्यक्त्वास्मान् भगवान् गतः ।। ५-३८-४६ ।।

भीष्मद्रोणाङ्गराजाद्यास्तथा दुर्य्योधनादयः ।
यत्प्रभावेण निर्दंग्धाः सकृष्णस्त्यक्तवान् भुवम् ।। ५-३८-४७ ।।

निर्यौवन-हतश्रीका भ्रष्टच्छायेव मेदिनी ।
विभाति तात नैकोऽहं विरहे तस्य चक्रिणः ।। ५-३८-४८ ।।

यस्यानुभावादू भीष्माद्य र्मय्यग्रौ शलभायितम् ।
विना तेनाद्य कृष्णोन गोपालैरस्मि निर्ज्जितः ।। ५-३८-४९ ।।

गणडीवं त्रिषु लोकेषु ख्यातिं यदनुभावतः ।
गतं तेन विनाभीरलगुड़स्तैन्निराकृतम् ।। ५-३८-५० ।।

स्त्रीसहस्त्राणयनेकानि मन्नाथानि महामुने ।
यततो मम नीतानि दस्युभिर्लगुड़ायुधैः ।। ५-३८-५१ ।।

आनीयमानमाभीरैः कृष्ण कृष्णावरोधनम् ।
ह्टतं यष्टिप्रहरणैः परिभूय बलं मम ।। ५-३८-५२ ।।

निःश्रीकता न मे चित्रं यज्जीवामि तदद्भुतम् ।
न चावमानपङ्काङ्की निर्लज्जोऽस्मि पितामह ।। ५-३८-५३ ।।

अलं ते व्रीडया पार्थ न त्वं शोचितुमर्हसि ।
अवेहि सर्व्वभूतेषु कालस्य गतिरीदृशी ।। ५-३८-५४ ।।

कालो भवाय भूतानामभवाय च पाणडव ।
कालमूलमिदं ज्ञात्वा भव स्थैर्य्यधनोऽर्ज्जुन ।। ५-३८-५५ ।।

नद्यः समुद्रा गिरयः सकला च वसुन्धरा ।
देवा मनुष्याः पशवस्तरवः ससरीसृपाः ।। ५-३८-५६ ।।

सृष्टाः कालेन कालेन पुनर्यास्यन्ति संक्षयम् ।
कालात्मकमिदं सर्व्वं ज्ञात्वा शममवाप्तु हि ।। ५-३८-५७ ।।

यच्चाह कृष्णमाहात्म्यं तत्तथेव धनञ्जय ।
भारावतारकार्य्यार्थमवतीर्णः स मेदिनीम् ।। ५-३८-५८ ।।

भाराक्रान्ता धरा याता देवानां समितं पुरा ।
तद्भारमवतीर्णोऽसौ कालरूपी जनार्द्दनः ।। ५-३८-५९ ।।

तच्च निष्पादितं कार्य्यमशेषा भुभृतो हताः ।
वृष्ण्यन्धककुलं सर्व्वं तथा पार्थोपसंह्टतम् ।। ५-३८-६० ।।

न किञ्चिदन्यत् कर्त्तव्यमस्य भूमितले प्रभोः ।
अतो गतः स भगवान् कृतकृत्यो यथेच्छया ।। ५-३८-६१ ।।

सृष्टिं सर्गे करोत्येष देवदेवः स्थितौ स्थितिम् ।
अन्तेऽन्ताय समर्थोऽयं साम्प्रतं हि यथाकृतम् ।। ५-३८-६२ ।।

तस्मात् पार्थं न सन्तापस्त्वया कार्य्यः पराभवात् ।
भवन्ति भवकालेषु पुरुषाणां पराक्रमाः ।। ५-३८-६३ ।।

त्वयैकेन हता भीष्म-द्रोण-कर्णादयो नृपाः ।
तेषामर्ज्जुन कालोत्थः किं न्यूनाबिभवो न सः ।। ५-३८-६४ ।।

विष्णोस्तथानुभावेन यथा तेषां पराभवः ।
ततस्तथैव भवतो दस्युब्योऽन्ते तदुद्भवः ।। ५-३८-६५ ।।

स देवोऽन्यशरीराणि समाविश्य जगत्स्थितिम् ।
करोति सर्व्वभूतानां नाशं चान्ते जगत्पतिः ।। ५-३८-६६ ।।

भवोद्भवे च कौन्तेय सहायोऽभूज्जनार्द्दनः ।
भवान्ते त्वदूविपक्षास्ते केशवेनावलोकिताः ।। ५-३८-६७ ।।

कः श्वद्दध्यात् सगाङ्कयान् हन्यास्त्वं सर्व्वकौरवान् ।
आभीरेभ्यश्व बवतः कः श्रद्दध्यात् पराभवम् ।। ५-३८-६८ ।।

पार्थैतत् सर्व्वभूतस्य हरेर्लीलाविचेष्टितम् ।
त्वया यत् कौरवा ध्वस्ता यदाभीरैर्भवान् जितः ।। ५-३८-६९ ।।

 गृहीता दस्युभिर्याश्व भवतः शोचिताः स्त्रियः ।
तदप्यह यथावृत्तं कथयामि तवार्ज्जुन ।। ५-३८-७० ।।
अष्टावक्रः पुरा विप्रो जलवासरतोऽभवत् ।
बहून् वर्षगणानन् पार्थ गृणन ब्रह्म सनातनम् ।। ५-३८-७१ ।।

जितेष्वसुरसङ्घषु मेरुपृष्ठे महोत्सवः ।
बङूव तत्र गच्छन्त्यो ददृशुस्तं वरस्त्रयः ।। ५-३८-७२ ।।

रम्भातिलोत्तमाद्याश्व शतशोऽथ सहस्त्रशः ।
तुष्टुवुस्तं महात्मानं प्रशशंसुश्व पाणडव।। ५-३८-७३ ।।

आकण्ठमग्नं सलिले जटाभारधरं मुनिम् ।
विनयावनताश्चैनं प्रणेमुः स्तोत्रतत्पराः ।। ५-३८-७४ ।।

यथा यथा प्रसन्नोऽसौ तुष्टुवुस्तं तथा तथा ।
सर्व्वास्ताः कौरवश्वेष्ठ वरिष्ठं त द्रिजन्मनाम् ।। ५-३८-७५ ।।

प्रसन्नोऽहं महाभागा भवतीनां यदिष्यते ।
मत्तस्तदूव्रियतां सर्व्वं प्रदास्याम्यतिदुर्सभम् ।। ५-३८-७६ ।।

रम्भातिलोत्तमाद्यास्तं वैदिक्योऽप्सरसोऽब्रु वन् ।
प्रसन्ने त्वय्यपर्य्याप्तं किमस्माकमिति द्रिज ।। ५-३८-७७ ।।

इतरास्त्वब्रु वन् विप्र प्रसन्नो भगवान् याद ।
तदिच्छामः पतिं प्राप्तुं विप्र न्द्र पुरुषांत्तमम् ।। ५-३८-७८ ।।

एवं भविष्यतीत्युक्त्वा उत्ततार जलान्मुनिः ।
ददृशुस्तास्तमुत्तीर्णां विरूपं वक्मष्टधा ।। ५-३८-७९ ।।

तं दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत् ।
ताः शशाप मुनिः कोपमवाप्य कुरुनन्दन ।। ५-३८-८० ।।

यस्माद् विरूपरूपं मां ज्ञात्वा हासावमानना ।
भवतीभिः कृता तस्मादेष शापं ददामि वः ।। ५-३८-८१ ।।

मतूप्रसादेन भर्त्तरं लब्ध्वा तं पुरुषोत्तमम् ।
मच्छापोपहताः सर्व्वा दस्युहस्तं गमिष्यथ ।। ५-३८-८२ ।।

इत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितः ।
पुनः सुरेन्द्रलोकं वै प्राह भूयो गमिष्यथ ।। ५-३८-८३ ।।

एवं तस्य मुनेः शापादष्टावक्रस्य केशवम् ।
भर्त्तारं प्राप्य ता दस्युहस्तं याता वराङ्गनाः ।। ५-३८-८४ ।।

तत्त्वया नात्र कर्त्तव्यः शोकोऽल्पोऽपि हि पाणडव ।
तेनैवाखिलनाथेन सर्व्वं तदुपसंह्टतम् ।। ५-३८-८५ ।।

भवतां चोपसंहारमासन्नं तेन कुर्व्वता ।
बलं तेजस्तथ वीर्य्यं माहात्म्यं चोपसंह्टतम् ।। ५-३८-८६ ।।

जातस्य नियतो मृत्युः पतनञ्च तथोन्नतेः ।
विप्रयोगावसानश्व संयोगः सञ्चयात् क्षयः ।। ५-३८-८७ ।।

विज्ञाय न बुधाः शोकं न हर्षमुपयान्ति ये ।
तेषामेवेतरे चेष्टां शिक्षन्तः सन्ति तादृशाः ।। ५-३८-८८ ।।

तस्मात्त्वया नरश्वेष्ठ ज्ञात्वैतदू भ्रातृभिः सह ।
परित्यज्याखिलं तन्त्रं गन्तव्यं तपसं वनम् ।। ५-३८-८९ ।।

तदू गच्छ धर्म्मराजाय निवेद्यतैदूवचो मम ।
परश्वो भ्रातृभिः सार्द्ध यथा यासि तथा कुरु ।। ५-३८-९० ।।

पराशार उवाच ।
इत्युक्तोऽभ्येत्य पार्थाभ्यां यमाभ्याञ्च तथार्ज्जुनः ।
दृष्टं चैवानुभूतञ्च कथितं तेष्वशेषतः ।। ५-३८-९१ ।।

व्यासवाक्यञ्च ते सर्व्वे श्रुत्वार्ज्जुनसमीरितम् ।
राज्ये परीक्षितं कृत्वा यतुः पाणडुसुता वनम् ।। ५-३८-९२ ।।

इत्येतत् तव मैत्रेय विस्तरेणा मयोदितम् ।
जातस्य यदूयदोर्वंशे वासुदेवस्य चेष्टितम् ।। ५-३८-९३ ।।

इति श्रीविष्णुपुराणे पञ्चमांशे अष्टत्रिंशः अघ्यायः ।