विष्णुपुराणम्/पञ्चमांशः/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

ककुद्मिनि हतेऽरिष्ट धेनुके विनिपातिते ।
प्रलम्बो निहिते वीरे धृते गोवर्द्धनाचले ।। ५-१५-१ ।।

दमिते कालिये नागे भग्ने तुङ्गतरुदूये ।
हतायां पूतनायाञ्च शकटे परिवर्त्तिते ।। ५-१५-२ ।।

कंसाय नारदः प्राह यथावृत्तमनुक्रमात् ।
यसोदादेवकीगर्भपरिवर्त्ताद्यशेषतः ।। ५-१५-३ ।।

श्रुत्वा तत् सकलं कंसो नारदादू देवदर्शनात् ।
वसुदेवं प्रति तदा कोपं चक्रे सुदुर्म्मतिः ।। ५-१५-४ ।।

सोऽतिकोपादुपालभ्य सर्व्वयादवसंसदि ।
जगर्ह यादवांश्चैव कार्य्यञ्चैतदचिन्तयत ।। ५-१५-५ ।।

यावन्न बलमारूढ़ौ राम-कृष्णौ सुबालकौ ।
तावदेव मया वध्यावसाध्यौ रूढ़यौवनौ ।। ५-१५-६ ।।

चाणूरोऽत्र महावीर्य्यो मुष्टिकश्व महाबलः ।
एताभ्यां मल्लयुद्धेन घातयिष्यामि दुर्म्मदौ ।। ५-१५-७ ।।

धनुर्म्महमहायागव्याजेनानीय तौ व्रजात् ।
तथा तथा यतिष्यामि यास्येते सङ्कयं यथा ।। ५-१५-८ ।।

श्वफल्कतनयं सोऽहमक्रूरं यदुपुङ्गवम् ।
तयोरानयनार्थाय प्रेषयिष्यामि गोकुलम् ।। ५-१५-९ ।।

वृन्दावनचरं घोरमादेक्ष्यामि च केशिनम् ।
तत्रैवासावतिबलस्तावुभौ घातयिष्यति ।। ५-१५-१० ।।

गजः कुवलयापीड़ो मतूसमीपमुपागतौ ।
घातयिष्यति वा गोपौ वसुदेवसुतावुभौ ।। ५-१५-११ ।।

इत्यालोच्य स दुष्टात्मा कंसो राम-जनार्द्दनौ ।
हन्तुं कृतमतिर्वीरमक्रूरं वाक्यमब्रवीत् ।। ५-१५-१२ ।।

भो भो दानपते ! वाक्य क्रियतां प्रीतये मम ।
इतऋः स्यन्दनमारुह्य गम्यतां नन्दगोकुलम् ।। ५-१५-१३ ।।

वसुदेवसुतौ तत्र विष्णोरंशसमुद्भवौ ।
नाशाय किल सम्भूतौ मम दुष्टौ प्रवर्द्धतः ।। ५-१५-१४ ।।

धनुर्महो ममाप्यत्र चतुर्द्दश्यां भविष्यति ।
आनेयौ भवता गत्वा मल्लयुद्धाय तावुभौ ।। ५-५-१५ ।।

चाणूर-मुष्टिकौ मल्लौ नियुद्धकुशलौ मम ।
ताभ्यां सहानयोर्युद्धं सर्व्वलोकोऽत्र पश्यतु ।। ५-१५-१६ ।।

नागः कुवलयापीड़ो महामात्रप्रचोदितः ।
स वा निहंस्यते पापौ वसुदेवात्मजौ शिशू ।। ५-१५-१७ ।।

तौ हत्वा वसुदेवञ्च नन्दगोपञ्च दुर्म्मतिम् ।
हनिष्ये पितरं चैनमुग्रसेनं सुदुर्म्मतिम् ।। ५-१५-१८ ।।

ततः समस्तगोपानां गोधनान्यखिलान्यहम् ।
वित्तं चापि हरिष्यामि दुष्टानां मदूवधैषिणाम् ।। ५-१५-१९ ।।

त्वामृते यादवाश्चैते दुष्टा दानपते! मयि ।
एतेषाञ्च वधायाहं प्रयतिष्याम्यनुक्रमात् ।। ५-१५-२० ।।

ततो निष्कण्टकं सर्व्वं राज्यमेतदयादवम् ।
प्रशासिष्ये त्वया तस्मान्मतप्रीत्या वीर!गम्यताम् ।। ५-१५-२१ ।।

यथा च माहिषं सर्पिर्दधि वाप्युपदार्य्य वै ।
गोपाः समानयन्त्याशु त्वया वाच्यास्तथा तथा ।। ५-१५-२२ ।।

इत्याज्ञप्तस्तदाक्रूरो महाभागवतो द्रिज ।
प्रीतिमानभवत् कृष्णां श्वो द्रक्ष्यामीति सत्वरः ।। ५-१५-२३ ।।

तथेत्युक्त्वा च राजानं रथमारुह्य शोभनम् ।
निश्वक्राम ततः पुर्य्या मथुराया मधुप्रियः ।। ५-१५-२४ ।।