विष्णुपुराणम्/पञ्चमांशः/अध्यायः १५

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

श्रीपराशर उवाच
ककुद्मति हतेऽरिष्टे धेनुके विनिपातिते
प्रलंबे निधनं निधनं नीते धृते गोवर्द्धनाचले १
दमिते कालिये नागे भग्ने तुंगद्रु मद्वये
हतायां पूतनायां च शकटे परिवर्त्तिते २
कंसाय नारदः प्राह यथावृत्तमनुक्रमात्
यशोदादेवकीगर्भपरिवृत्ताद्यश्षोतः ३
श्रुत्वा तत्सकलं कंसो नारदाद्देवदर्शनात्
वसुदेवं प्रति तदा कोपं चक्रे सुदुर्मतिः ४
सोतिकोपादुपालभ्य सर्वयादवसंसदि
जगर्ह यादवांश्चैव कार्यं चैतदचिंतयत् ५
यावन्न बलमारूढौ रामकृष्णौ सुबालकौ
तावदेव मया वध्यावसाध्यौ रूढयौवनौ ६
चाणूरोत्र महावीर्यो मुष्टिकश्च महाबलः
एताभ्यां मल्लयुद्धेन मारयिष्याम दुर्मती ७
धनुर्महमहायोगव्याजेनानीय तौ व्रजात्
तथा तथा यतिष्यामि यास्येते संक्षयं यथा ८
श्वफल्कतनयं शूरमक्रूरं यदुपुंगवम्
तयोरानयनार्थाय प्रेषयिष्यामि गोकुलम् ९
वृंदावनचरं घोरमादेक्ष्यामि च केशिनम्
तत्रैवासावतिबलस्तावुभौ घातयिष्यति १०
गजः कुवलायापीडो मत्सकाशमिहागतौ
घातयिष्यति वा गोपौ वसुदेवसुतावुभौ ११
श्रीपराशर उवाच
इत्यालोच्य स दुष्टात्मा कंसो रामजनार्दनौ
हंतुं कृतमर्तिवीरावक्रूरं वाक्यमब्रवीत् १२
कंस उवाच
भो भो दानपते वाक्यं क्रियतां प्रीतये मम
इतः स्यंदनमारुह्य गम्यतां नंदगोकुलम् १३
वसुदेव सुतौ तत्र विषणोरंशसमुद्भवौ
नाशाय किल संभूतौ मम दुष्टौ प्रवर्द्धतः १४
धनुर्महो ममाप्यत्र चतुर्दश्यां भविष्यति
आनेयौ भवता गत्वा मल्लयुद्धाय तत्र तौ १५
चाणूरमुष्टिकौ मल्लौ नियुद्धकुशलौ मम
ताभ्यां सहानयोर्युद्धं सर्वलोकोऽत्र पश्यतु १६
गजः कुवलयापीडो महामात्रप्रचोदितः
स वा हनिष्यते पापौ वसुदेवात्मजौ शिशू १७
तौ हत्वा वसुदेवं च नंदगोपं च दुर्मतिम्
हनिष्ये पितरं चैनमुग्रसेनं सुदुर्मतिम् १८
ततस्समस्तगोपानां गोधनान्यखिलान्यहम्
वित्तं चापहरिष्यामि दुष्टानां मद्वधैषिणाम् १९
त्वामृते यादवाश्चैते द्विषो दानपते मम
एतेषां च वधायाहं यतिष्येऽनुक्रमात्ततः २०
तदा निष्कंटकं सर्वं राज्यमेतदयादवम्
प्रसाधिष्ये त्वया तस्मान्मत्प्रीत्यै वीर गम्यताम् २१
यथा च माहिषं सर्पिर्दधिचाप्युपहार्य वै
गोपास्समानयंत्वाशु तथा वाच्यास्त्वया च ते २२
श्रीपराशर उवाच
इत्याज्ञप्तस्तदाऽक्रूरो महाभागवतो द्विज
प्रीतिमानभवत्कृष्णं श्वो द्रक्ष्यामीति सत्वरः २३
तथेत्युक्त्वा च राजानं रथमारुह्य शोभनम्
निश्चक्राम ततः पुर्य्या मथुराया मधुप्रियः २४
इति श्रीविष्णुमहापुराणे पंचमांशे पंचदशोऽध्यायः १५