विष्णुपुराणम्/पञ्चमांशः/अध्यायः १०

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८


तयोविंहरतोस्तत्र राम-केशवयोर्व्रजे ।
प्रावृट् व्यतीता विकसत्-सरोजा चाभवच्छरत् ।। ५-१०-१ ।।
अवापुस्तापमत्यर्थं शफर्य्यः पल्वलोदके ।
पुत्रक्षेत्रादिसक्तेन ममत्वेन यथा गृही ।। ५-१०-२ ।।
मयूरा मौनिस्तस्थुः परित्यक्तमदा वने ।
असारतां परिज्ञाय संसारस्येव योगिनः ।। ५-१०-३ ।।
उत्सृज्य जलसर्वस्वं निर्म्मलाः सितमूर्त्तयः ।
तत्यजुश्वाम्बरं मेघा गृहं विज्ञानिनो यथा ।। ५-१०-४ ।।
शरत्सूर्य्यांशुतप्तानि ययुः शोष संरासि च ।
बह्वालम्बि-ममत्वेन हृदयानीव देहिनाम् ।। ५-१०-५ ।।
कुमुदैः शरदम्भांसि योग्यतालक्षणं ययुः।
अवबोधैर्मनांसीव सम्बन्धममलात्मनाम् ।। ५-१०-६ ।।
तारका विमले व्योम्नि रराजाखण्डमण्डलः ।
चन्द्रश्चरमदेहात्मा योगी साधुकुले यथा ।। ५-१०-७ ।।
शनकैः शनकैस्तीरं तत्यजुश्व जलाशयाः ।
ममत्वं क्षेत्रपुत्रादिरूढ़मुच्चैर्यथा बुधाः ।। ५-१०-८ ।।
पूर्व्वं त्यक्तैः सरोऽम्भोभिर्हंसा योगं पुनर्ययुः ।
क्लेशैः कुयोगिनोऽशेषैरन्तरायहता इव ।। ५-१०-९ ।।
निभृतोऽभवदत्यर्थं समुद्रः स्तिमितोदकः ।
क्रमावाप्तमहायोगो निश्वलात्मा यथा यतिः ।। ५-१०-१० ।।
सर्व्वत्रातिप्रसन्नानि सलिलानि तदाभवन् ।
ज्ञाते सर्व्वगते विष्णौ मनांसीव सुमेधसाम् ।। ५-१०-११ ।।
बभूव निर्म्मलं व्योम शरदा ध्वस्ततोयदम् ।
योगाग्निदग्धक्लेशौघं योगिनामिव मानसम् ।। ५-१०-१२ ।।
सूर्य्यांशुजनितं तापं निन्यं तारापतिः शमम् ।
अहङ्कारोद्भवं दुःखं विवेकः सुमहानिव ।। ५-१०-१३ ।।
नभसोऽभ्रान् भुवः पङ्कान् कालुष्यं चाम्भसः शरत् ।
इन्द्रियाणीन्द्रियार्थेभ्यः प्रत्याहार इवाहरत् ।। ५-१०-१४ ।।
प्राणायाम इवाम्भोभिः सरसां कृतपूरकैः ।
अभ्यस्यतेऽनुदिवसं रेचकाकुम्भकादिभिः ।। ५-१०-१५ ।।
विमलाम्बरनक्षत्रे काले चाभ्यागते व्रजे।
ददर्शेन्द्रमहारम्भायौद्यतांस्तान् व्रजौकसः ।। ५-१०-१६ ।।
कृष्णस्तानुत्सुकान् दृष्ट्वा गोपानुत्सवलालसान् ।
कौतूहलादिदं वाक्यं प्राह वृद्धान् महामतिः ।। ५-१०-१७ ।।
कोऽयं शक्रमहो नाम येन वो हर्ष आगतः ।
प्राह तं नन्दगोपश्व पृच्छन्तमतिसादरम् ।। ५-१०-१८ ।।
मेघानां पयसां चेशो देवराजः शतक्रतुः ।
तेन सञ्चोदिता मेघा वर्षन्त्यम्बुमयं रसम् ।। ५-१०-१९ ।।
तद्वृष्टिजनितं शस्यं वयमन्ये च देहिनः ।
वर्त्तयामोपयुञ्जानास्तर्पयामश्व देवताः ।। ५-१०-२० ।।
क्षीरवत्य इमा गावो वत्सवत्यश्व निर्वृताः ।
तेन संवर्द्धितैः शस्यैः पुष्टास्तुष्टा भवन्ति वै ।। ५-१०-२१ ।।
नासस्या नातृणा भूमिर्न बुभुक्षार्द्दितो जनः ।
दृश्यते यत्र दृश्यन्ते वृष्टिमन्तो बलाहकाः ।। ५-१०-२२ ।।
भौममेतत् पयो दुग्धं गोभिः सूर्य्यस्य वारिदः ।
पर्ज्जन्यः सर्व्वलोकस्य भवाय भुवि वर्षति ।। ५-१०-२३ ।।
तस्मात् प्रावृषि राजानः सर्व्वे शक्र मुदा युताः ।
मखैः सुरेशमर्च्चन्ति वयमन्ये च मानवाः ।। ५-१०-२४ ।।
नन्दगोपस्य वचनं श्रुत्वेत्थं शक्रपूजने ।
कोपाय त्रिदशेन्द्रस्य प्राह दामोदरस्तदा ।। ५-१०-२५ ।।
न वयं कृषिकर्त्तारो वाणिज्यजीवनो न च ।
गावोऽस्मद्दैवतं तात! वयं वनचरा यतः ।। ५-१०-२६ ।।
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिस्तथापरा ।
विद्याचतुष्टयं त्वेतत् वार्त्तामत्र शृणुष्व मे ।। ५-१०-२७ ।।
कृषिर्वणिज्या तद्वच्च तृतीयं पशुपालनम् ।
विद्या ह्येका महाभाग! वार्त्ता वृत्तित्रयाश्रया ।। ५-१०-२८ ।।
कर्षकाणां कृषिर्वृत्तिः पणयं विपणिजीविनाम् ।
अस्माकं गाः परा वृत्तिर्वार्त्ताभेदैरियं त्रिभिः ।। ५-१०-२९ ।।
विद्यया यो यया युक्तस्तस्य स दैवतं महत् ।
सैव पूज्यार्च्चनीया च सैव तस्योपकारिका ।। ५-१०-३० ।।
यो यस्य फलमश्नन् वै पूजयत्यपरं नरः ।
इह च प्रेत्य चैवासौ न तदाप्नोति शोभनम् ।। ५-१०-३१ ।।
कृष्यान्ता प्रथिता सीमा सीमान्तञ्च पुनर्वनम् ।
वनान्ता गिरयः सर्व्वे ते चास्माकं परा गतिः ।। ५-१०-३२ ।।
न द्वारबन्धावरणा न गृहक्षेत्रिणस्तथा ।
सुखिनस्त्वखिले लोके यथा वै चक्रचारिणः ।। ५-१०-३३ ।।
श्रूयन्ते गिरयश्चैव वनोऽस्मिन् कामरूपिणः ।
तत्तद्रूपं समास्थाय रमन्ते स्वेषु सानुषु ।। ५-१०-३४ ।।
यदा चैते प्रबाध्यन्ते तेषां ये काननौकसः ।
तदा सिंहादिरूपैस्तान् घातयन्ति महीधराः ।। ५-१०-३५ ।।
गिरियज्ञस्त्वयं तस्माद् गोयज्ञश्च प्रवर्त्त्यताम् ।
किमस्माकं महेन्द्रेण गावः शैलाश्व देवताः ।। ५-१०-३६ ।।
मन्त्रयज्ञपरा विप्राः सीतायज्ञाश्व कर्षकाः ।
गिरि-गोयज्ञशीलाश्व वयमद्रिवनाश्रयाः ।। ५-१०-३७ ।।
तस्माद् गोवर्द्धनः शैलो भवद्भिर्विविधार्हणैः ।
अर्च्च्यतां पूज्यतां मेध्यान् पशून् हत्वा विधानतः ।। ५-१०-३८ ।।
सर्व्वघोषस्य सन्दोहो गृह्यतां मा विचार्य्यताम् ।
भोज्यन्तां तेन वै विप्रास्तथा ये चाभिवाञ्छकाः ।। ५-१०-३९ ।।
तत्रार्चिते कृते होमे भोजितेषु द्विजातिषु ।
शरत्पुष्पकृतापीड़ाः परिगच्छन्तु गोगणाः ।। ५-१०-४० ।।
एतन्मम मतं गोपाः सम्प्रीत्या क्रियते यदि ।
ततः कृता भवेत् प्रीतिर्गवामद्रेस्तथा मम ।। ५-१०-४१ ।।
इति तस्य वचः श्रुत्वा नन्दाद्यास्ते व्रजौकसः ।
प्रीत्युत्फुल्लमुखा विप्र! साधु साध्वित्यथाब्रुवन् ।। ५-१०-४२ ।।
शोभनं ते मतं वत्स! यदेतद्भवतोदितम् ।
तत् करिष्यामहे सर्व्वं गिरियज्ञः प्रवर्त्त्यताम् ।। ५-१०-४३ ।।
तथा च कृतवन्तस्ते गिरियज्ञं व्रजौकसः ।
दधि-पायस-मांसाद्यैर्ददुः शैलबलिं ततः ।। ५-१०-४४ ।।
द्विजांश्च भोजयामासुः शतशोऽथ सहस्रशः ।
अन्यानप्यागतानित्थं कृष्णेनोक्तं यथा पुरा ।। ५-१०-४५ ।।
गावः शैलं ततश्वक्रुरर्चितास्ताः प्रदक्षिणम् ।
ऋषभाश्वापि नर्द्दन्तः सतोया जलदा इव ।। ५-१०-४६ ।।
गिरिमूर्द्धनि कृष्णोऽपि शैलोऽहमिति मूर्त्तिमान् ।
बुभुजेऽन्नं बहु तदा गोपवर्य्याहृतं द्विज ।। ५-१०-४७ ।।
अन्येन कृष्णो रूपेण गोपैः सह गिरेः शिरः ।
अधिरुह्यार्च्चयामास द्रितीयामात्मनस्तनुम् ।। ५-१०-४८ ।।
अन्तर्द्धानं गते तस्मिन् गोपा लब्ध्वा ततो वरान् ।
कृत्वा गिरिमखं गोष्ठं निजमभ्याययुः पुनः ।। ५-१०-४९ ।।