विष्णुपुराणम्/पञ्चमांशः/अध्यायः १३

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

गते शक्र तु गोपालाः कृष्णमक्लिष्टकारिणम् ।
ऊचुः प्रीत्या धृतं दृष्ट्वा तेन गोवर्द्धनाचलम् ।। ५-१३-१ ।।

वयमस्मान्महाबाहो! भवता महतो भयात् ।
गावश्व भवता त्राता गिरिधारणकर्म्मणा ।। ५-१३-२ ।।

बालीक्रीड़ेयमतुला गोपालत्वं जुगुप्सितम् ।
दिव्यञ्च कर्म्म भवतः किमेतत् तात!कथ्यताम् ।। ५-१३-३ ।।

कालियो दमितस्तोये प्रलम्बो विनिपातितः ।
धृतो गोवर्द्धनश्वायं शङ्कितानि मनांसि नः ।। ५-१३-४ ।।

सत्यं सत्यं हरेः पादौ शापामीऽमितविक्रम ।
यथा त्वद्रीर्य्यमालोक्य न त्वां मन्यामहे नरम् ।। ५-१३-५ ।।

प्रीतिः सस्त्रीकुमारस्य व्रजस्य तव केशव!
कर्म्म चेदमशक्यं यत् समस्तैस्त्रिदशैरपि ।। ५-१३-६ ।।

बालत्वं चातिवीर्य्यञ्च जन्म जास्मास्वशोभनम् ।
चिन्त्यमानममेयात्मन्!शङ्कां कृष्ण प्रयच्छति ।। ५-१३-७ ।।

देवो वा दानवो वा त्वं यक्षो गन्धर्व्व एव वा ।
किं वास्माकं विचारेण बान्धवोऽसि नमोऽस्तु ते ।। ५-१३-८ ।।

क्षणं भूत्वा त्वसौ तूष्णीं किञ्चित् प्रणयकोपवान् ।
इत्येवमुक्तस्तैर्गोपैः कृष्णोऽप्याह महामुने ।। ५-१३-९ ।।

मत्सम्बन्धेन भो गोपा! यदि लज्जा न जायते ।
शलाध्यो वाहं ततऋः किं वो विचारेण प्रयोजनम् ।। ५-१३-१० ।।

यदि वोऽस्ति मयि प्रीतिः श्लाध्योऽहं भवतां यदि ।
तदात्मबन्धुसदृशी बुद्धिर्वः क्रियतां मयि ।। ५-१३-११ ।।

नाहं देवो न गन्धर्व्वो न यक्षो न च दानवः ।
अहं वो बान्धवो जातो नास्ति चिन्त्यमतोऽन्यथा ।। ५-१३-१२ ।।

इति श्रुत्वा हरेर्वाक्यं बद्धमौनास्ततो वनम् ।
ययूर्गोपा महाभाग!तस्मिन् प्रणयकोपितनि ।। ५-१३-१३ ।।

कृष्णस्तु विमलं व्योम शरच्चन्द्रस्य चन्दिरकाम् ।
तथा कुमुदिनीं फुल्लामामोदितदिगन्तराम् ।। ५-१३-१४ ।।

वनराजिं तथा कूजदूभृङ्गमालां मनोरमाम् ।
विलोक्य सह गोपीभिर्मनश्वक्र रतिं प्रति ।। ५-१३-१५ ।।

सह रामेणा मधुरमतीव वनिताप्रियम् ।
जगौ कलपदं शौरिर्नानातन्त्री-कृतव्रतम् ।। ५-१३-१६ ।।

रम्यं गीतध्वनि श्रत्वा सन्त्यज्यावसथांस्तदा ।
आजग्मुस्त्वरिता गोप्यो यत्रास्ते मधृसूदनः ।। ५-१३-१७ ।।

शनैः शनैर्ज्जगौ गोपी काचित् तस्य लयानुगम् ।
दत्तावधाना काचित्तू तमेव मनसास्मरत् ।। ५-१३-१८ ।।

काचित् कृष्णेति कृष्णेति प्रेक्त्वा लज्जामुपागता ।
ययौ च काचित् प्रेमान्धा ततपार्श्वमविलज्जिता ।। ५-१३-१९ ।।

काचिदावसथस्यान्तः स्थिता दृष्ट्वा बहिर्गुरून् ।
तन्मयत्वेन गोविन्दं दध्यौ मीलितलोचना ।। ५-१३-२० ।।

तच्विन्ताविपुलाह्लाद-क्षीणपुणयचया तथा ।
तदप्राप्ति-महादुःविलीनाशेषपातका ।। ५-१३-२१ ।।

चिन्तयन्ती जगत्सूतिं परब्रह्मस्वरूपिणम् ।
निरुच्छ्वासतया मुक्ति गतान्या गोपकन्यका ।। ५-१३-२२ ।।

गोपीपरिवृतो रात्रि शरचन्द्रमनोरमाम् ।
मानयामास गोविन्दो रासारम्भरसोत्सुकः ।। ५-१३-२३ ।।

गोप्यश्व वृन्दशः कृष्णचेष्टास्वायत्तमूर्त्तयः ।
अन्यदेशं गते कृष्णो चेरुर्वृन्दावमान्तरम् ।। ५-१३-२४ ।।

कृष्णो निरुद्धह्टदया इदसूचुः परस्परम् ।
कृष्णोऽहमेतल्ललितं व्रजाम्यालोक्यतां गतिः ।
अन्या ब्रवीति कष्णस्य मम गीतिर्निशम्यताम् ।। ५-१३-२५ ।।

दुषृकालिय!तिष्ठात्र कृणोऽहमिति चापरा ।
बाहुमास्फोठ्य कृष्णस्य लीलासर्व्वस्वमाददे ।। ५-१३-२६ ।।

अन्यां ब्रवीति भो गोपा!निः शङ्कः स्थीयतामिह ।
अलं बृष्टिभयेनात्र धृतो गोवर्द्धनो मया ।। ५-१३-२७ ।।

धेनुकोऽयं मया क्षिप्तो विचरन्लु यथेच्छया ।
गोपी ब्रवीति वै चान्या कृष्मालीलानुकारिणी ।। ५-१३-२८ ।।

एवं नानाप्रकारासु कृष्णचेष्टासु तास्तदा ।
गोप्या व्यग्राः समं चरू रम्य वृन्दावनान्तरम् ।। ५-१३-२९ ।।

विलोक्यैका भुवं प्राह् गोपी गोपवराङ्गना ।
पुलकाञ्चितसर्व्वाङ्गी विकाशि-नयनोत्पला ।। ५-१३-३० ।।

ध्वजवज्राङ्कु शाब्जाङ्क-रेखावन्त्यालि पश्यत ।
पदान्येतानि कृष्णस्य लीलालङ्कृतगामिनः ।। ५-१३-३१ ।।

कापि तेम समं याता कृतपुण्या मदालसा ।
पदानि तस्याश्चैतानि घनान्यल्पतनूनि च ।। ५-१३-३२ ।।

पुष्पावचयमत्रोच्चैश्वक्रे दामोदरो ध्रु वम् ।
येनाग्राक्रान्तिमात्राणि पदान्यत्र महात्मनः ।। ५-१३-३३ ।।

अत्रोपविश्य सा तेन कापि पुष्पैरलङ्कृता ।
अन्यजन्मनि सर्व्वात्मा विष्णुरभ्यर्ज्वितो यया।। ५-१३-३४ ।।

पुष्पबन्धनसम्मान-कृतमानामपास्य ताम् ।
नन्दगोपसुतो यातो मार्गेणानेन पश्यत ।। ५-१३-३५ ।।

अनुयानेऽसमर्थान्या नितम्बभरमन्थरा ।
या गन्तव्ये द्रुतं याति निम्रपादाग्रसंस्थितिः ।। ५-१३-३६ ।।

हस्तन्यस्ताग्रहस्तेयं तेन याति तथा सखि!
अनायत्तपदन्यासा लक्ष्यते पदपद्धतिः ।। ५-१३-३७ ।।

हस्तसंस्पर्शमात्रेण धूर्त्तेनैषा विमानिता ।
नैराश्यमन्दगामिन्या निवुत्तं लक्ष्यते पदम ।। ५-१३-३८ ।।

नूनमुक्ता त्वरामीति पुनरेष्यामि तेऽन्तिकम् ।
तेन कृष्णेन येनैषा त्वरिता पदपद्धतिः ।। ५-१३-३९ ।।

प्रविष्टो गहनं कृष्णः पदमत्र न लक्ष्यते ।
निवर्त्तध्व शशाङ्कस्य नैतद्दीधितिगोचरे ।। ५-१३-४० ।।

निवृत्तास्तास्ततो गोप्यो निराशाः कृष्णदर्शने ।
यमुनातीरमागत्य जगुस्तज्वरितं तदा ।। ५-१३-४१ ।।

ततो ददृशुरायान्तं विकाशिमुखपङ्कजम् ।
गोप्यस्त्रैलोक्यगोप्तारं कृष्णमक्लिष्टचेष्टितम् ।। ५-१३-४२ ।।

काचिदालोक्य गोविन्दमायान्तमतिहर्षिता ।
कूष्ण् कृष्णेति कृष्णेति प्राह नान्यदुदैरयत् ।। ५-१३-४३ ।।

काचिदू भ्रू भङ्गुरं कृत्वा ललाटफलकं हरिम् ।
विलोक्य नैत्रभृङ्गाभ्यां पपौ यन्मुखपङ्कजम् ।। ५-१३-४४ ।।

काचिदालोक्य गोविन्दं निमीलित-विलोचना ।
तस्यैव रूपं ध्यायन्ती योगारूढ़ेव चाबभौ ।। ५-१३-४५ ।।

ततः काश्वित् प्रियालापैः काश्विदू भ्रू भङ्गवीक्षणः ।
निन्येऽनुनयमन्याञ्च करस्पर्शेन माघवः ।। ५-१३-४६ ।।

ताभिः प्रसन्नचित्तामभिर्गोपीभिः सह सादरम् ।
रराम रासगोष्ठीभिरुदारचरितो हरिः ।। ५-१३-४७ ।।

रासमणडलबन्धोऽपि कृष्णपार्श्वमनुजूझता ।
गोपीजनेन नैवाभूदेकस्थानस्थिरात्मना ।। ५-१३-४८ ।।

हर्ते प्रगृह्य चैकैकां गोपिकां रासमणडलीम् ।
चकार तत्करस्पर्श-निमीलितदृशं हरिः ।। ५-१३-४९ ।।

ततः स ववृते रासश्वलदूवलयनिः स्वनः ।
अनुयातशरतूकाव्यगेयगीतिरनुक्रमात् ।। ५-१३-५० ।।

कृष्णाः शरज्वन्द्रमसं कौमुदीं कुमुदाकरम् ।
जगौ गोपीजनस्त्वेकं कूष्णनाम पुनः पुनः ।। ५-१३-५१ ।।

परिवर्त्तश्रमेणोक चलदूवलयलापिनीम् ।
ददौ बाहुलतां स्कन्धे गोपी मधुनिघातिनः ।। ५-१३-५२ ।।

काचित् प्रविलसदूबाहुः परिरभ्य चुचुम्ब तम् ।
गोपी गीतस्तुतिव्याज-निपुणा मधुसूदनम् ।। ५-१३-५३ ।।

गोपी-कपोल-संश्लेषमभिपत्य हरेभुर्जौ ।
पुलकोदूगमशस्याय स्वेदाम्बुघनतां गतौ ।। ५-१३-५४ ।।

रासगेयं जगौ कृष्णेति यावत् तारतरध्वनिः ।
साधु कृष्णेति कृष्णेतितावत् ता द्रिगुणं अगुः ।। ५-१३-५५ ।।

गते तु गमनं चक्रु र्वलने सम्मुखं ययुः ।
प्रतिलोमानुलोमाब्यां भेजुर्गोपाङ्गना हरिम् ।। ५-१३-५६ ।।

स तथा सह गोपीभी रराम मघुसूदनः ।
यथाब्दकोटिप्रमितः क्षणस्तेन विनामवत् ।। ५-१३-५७ ।।

ता वार्य्यमाणाः पतिभिः पितृभिर्भ्रातृभिस्तथा ।
कृष्णां गोपाङ्गना रात्रौ रमयन्ति रतिप्रियाः ।। ५-१३-५८ ।।

सोऽपि कैशोरकवयो मानयन् मधुसूदनः ।
रेमे ताभिरमेयात्मा क्षपासु क्षपिताहितः ।। ५-१३-५९ ।।

तद्भर्त्तृषु तथा तासु सर्व्वभूतेषु चेश्वरः ।
आत्मखरूपरूपोऽसौ व्याप्य सर्व्वमवस्थितः ।। ५-१३-६० ।।

यथा समस्तभूतेषु नभोऽग्रिः पृथिवी जलम् ।
वायुश्वात्मा तथैवासौ व्याप्य सर्व्वमवस्थितः ।। ५-१३-६१ ।।