विष्णुपुराणम्/पञ्चमांशः/अध्यायः १६

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

क्रेशी चापि बलोदग्रः कसदूत-प्रणोदितः ।
कृष्णस्य निधनाकाङ्क्षी वृन्दावनमुपागमत् ।। ५-१६-१ ।।

स खुऱक्षतभूपृष्ठः सटाक्षेपधूताम्बुदः ।
प्लुतविक्रान्तचन्द्रार्कमार्गे गोपानुपाद्रवत् ।। ५-१६-२ ।।

तस्य ह्रषितशब्देन गोपाला दैत्यवाजिनः ।
गोप्यश्व भयसंविघ्रा गोविन्दं शरणां ययुः ।। ५-१६-३ ।।

त्राहि त्राहीति गोविन्दः श्रुत्वा तेषां तदा वचः ।
सतोयजलदध्वानगम्भीरमिदमुक्तवान् ।। ५-१६-४ ।।

अलं त्रासेन गोपालाः केशिनः किं भयातुरैः ।
भवद्भिर्गोपजातीययैर्वीरवीर्य्यं विलोप्यते ।। ५-१६-५ ।।

किमनेनाल्पसारेण ह्न षिताटोपकारिणा ।
दैतेयबलावहेन वलूगता दुष्टवाजिना ।। ५-१६-६ ।।

एह्यहि दुष्ट कृष्णोऽहं पूष्णस्त्विव पिनाकधृक् ।
पातयिष्यामि बशनान् वबनादखिलांस्तव ।। ५-१६-७ ।।

इत्युक्त्वास्फोट्य गोविन्दः केशिनः सम्मुखं ययौ ।
विवृतास्यस्तु सोऽप्येनं दैतेयश्वाप्युपाद्रवत् ।। ५-१६-८ ।।

बाहुमाभोगिनं कृत्वा मुखे तस्य जनार्द्दनः ।
ष्रवेशयामास तदा केशिनो दुष्टवाजिनः ।। ५-१६-९ ।।

केशिनो वदनं तेन विशता कृष्णबाहुना ।
शातिता दशनाः पेतुः सिताभ्रावयवा इव ।। ५-१६-१० ।।

कृष्णस्य ववृधे बाहुः केशिदेहगतो द्रिज ।
विनाशाय यथा व्याधिरासम्भूतेरुपेक्षितः ।। ५-१६-११ ।।

विपाटितोष्ठो बहुलं सपेनं रुधिरं वमन् ।
सोऽक्षिणी विवृते चक्रे निःसृते मुक्तबन्धने ।। ५-१६-१२ ।।

जघान धरणीं पादैः शकृन्मूत्र समुतूसृजन् ।
स्वेदार्द्रगात्रः श्रान्तश्व निर्यत्रः सोऽभवत् ततः ।। ५-१६-१३ ।।

व्यादितास्यो महारौद्रः सोऽसुरः कृष्णबाहुना ।
निपपात द्रिधाभूतो वैद्युतेन द्रु मो यथा ।। ५-१६-१४ ।।

द्रिपादपृष्ठपुच्छार्द्धे श्रवणैकाक्षिनासिके ।
केशिनस्ते द्रिधाभूते शकले दू विरेजतुः ।। ५-१६-१५ ।।

हत्वा तु केशिनं कृष्णो गोपालैर्मुदितैर्वृतः ।
अनायस्ततनुः स्वस्थो हसंस्तत्रैव तस्थिवान् ।। ५-१६-१६ ।।

ततो गोप्यश्व गोपाश्व हतो केशिनि विस्मिताः ।
तुष्टुवुः पुण्डरीकाक्षमनुरागमनोरमम् ।। ५-१६-१७ ।।

अथाहान्तरितो विप्रो नारदो जलदे स्थितः ।
केशिनं निहतं दृष्ट्वा हर्षनिर्भरमानसः ।। ५-१६-१८ ।।

साधु साधु जगन्नाथ लीलयैव यदच्युत!
निहतोऽयं त्वया केशी क्लेशदस्त्रिदिवौकसाम् ।। ५-१६-१९ ।।

युद्धोत्सुकोऽहमत्यर्थं नरवाजि-महाहवम् ।
अभूतपूर्व्वमन्यत्र द्रष्टुं खर्गादुपागतः ।। ५-१६-२० ।।

कर्म्माणयत्रावतारे ते कृतानि मधूसूदन!
यानि तैर्विस्मितं चेतस्तोषमेतेन मे गतम् ।। ५-१६-२१ ।।

तुरङ्गस्यास्य शक्रोऽपि कृष्ण!देवाश्व विभ्यति ।
धुतकेशरजालस्य ह्न षतोऽभ्रावलोकिनः ।। ५-१६-२२ ।।

यस्मात् त्वयैव दुष्टात्मा हतः केशी जनार्द्दन!
तस्मात् केशवनाम्रा त्वं लोके गोयो भविष्यसि ।। ५-१६-२३ ।।

खस्त्यस्तु ते गमिष्यामि कंसयुद्धेऽधुना पुनः ।
परश्वोऽहं समेष्यामि त्वया केशिनिसूदन ।। ५-१६-२४ ।।

उग्रसेनसुते कसे सानुगे विनिपातिते ।
भारावतारकर्त्ता त्वं पृथिव्याः पृथिवीधर ।। ५-१६-२५ ।।

तत्रानेकप्रकाराणि युद्धानि पृथिवीक्षिताम् ।
द्रष्टव्यानि मया युस्मत्प्रणीतानि जनार्द्दन ।। ५-१६-२६ ।।

सोऽहं यास्यामि गोविन्द!देवकार्य्यं महत् कृतम् ।
त्वया सभाजितश्वायं स्वस्ति तेऽस्तु व्रजाम्यहम ।। ५-१६-२७ ।।

नारदे तु गते कृष्णः सह गोपैरविस्मितः ।
विवेश गोकृलं गोपी-नेत्रपानैकभाजनम ।। ५-१६-२८ ।।