विष्णुपुराणम्/पञ्चमांशः/अध्यायः ३१

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

संस्तुतो भगवानित्थं देवराजेन केशवः ।
प्रहंस्य भावगम्भीरमुवाचेदं द्रिजोत्तम ।। ५-३१-१ ।।

देवराजो भवानिन्द्रो वयं मर्त्त्या जगत्पते !
क्षन्तव्यं भवता चदमपराधकृत मम ।। ५-३१-२ ।।

पारिजाततरुश्वायं नीयतामुचितास्पदम ।
गृहीतोऽयं मया शक्र!सत्यावचनकारणात् ।। ५-३१-३ ।।

वज्रञ्चेदं गृहाण त्वं यत्त्वया प्रहितं मयि ।
तवैवैतत् प्रहरणां शक्र!वैरिविदारणम् ।। ५-३१-४ ।।

विमोहयसि मामीश!मर्त्त्योऽहमिति किं वदन् ।
जानीमस्त्वां भगवतो न तु सूक्ष्मविदो वयम् ।। ५-३१-५ ।।

योऽसि सोऽसि जगत्त्रण!प्रवृत्तौ नाथ!संस्थितः ।
जगतः शल्यनिष्कर्षं करोष्यसुरसूदन ।। ५-३१-६ ।।

नीयतां पारिजातोऽयं कृष्ण!द्रारवतीं पुरीम् ।
मर्त्त्यलोके त्वया त्यक्ते नायं संस्थास्यते भुवि ।। ५-३१-७ ।।

तथेत्युक्त्वा च देवेन्द्रमाजगाम भुवं हरिः ।
प्रसक्तैः सिद्ध-गन्धर्व्वैः स्तूयमानस्तथषिंभिः ।। ५-३१-८ ।।

ततः शङ्खमुपाध्माय द्रारकोपरि संस्थितः ।
हर्षमुत्पादयामास द्रारकावासिनां द्रिज ।। ५-३१-९ ।।

अवतीर्य्यथ गरुड़ात् सत्यभामासहायवान् ।
निष्कुटे स्थापयामास पारिजातं महातरुम ।। ५-३१-१० ।।

यमभ्येत्य जनः सर्व्वो जातिं स्मरति पौर्व्विकीम् ।
वास्यते सादराः सर्व्वे देहबन्धानमानुषान् ।
ददृशुः पादपे तस्मिन् कुर्व्वन्तो सुखदर्शनम् ।। ५-३१-११ ।।

ततस्ते सादराः सर्व्वे देहबन्धानमानुषान् ।
ददृशुः पादपे तस्मिन् कुर्व्वन्तो मुखदर्शनम् ।। ५-३१-१२ ।।

किङ्करैः समुपानीतं हस्त्यश्वादि ततो धनम ।
स्त्रियश्व कृष्णो जग्राह नरकस्य परिग्रहान् ।। ५-३१-१३ ।।

ततः काले शुभे प्राप्त उपयेमे जनार्द्दनः ।
ताः कन्या नरकेणासन् सर्व्वतो याः समाह्टताः ।। ५-३१-१४ ।।

एकस्मिन्नेव गोविन्दः काले तासां महामते!
जग्राह विधिवत् पाणीन् पृथगूगेहेषु धर्म्मतः ।। ५-३१-१५ ।।

षोड़शस्त्रीसहस्त्राणि शतमेकं तथाधिकम् ।
तावन्ति चक्र रूपाणि भगवान् मधुसूदनः ।। ५-३१-१६ ।।

एकैकश्येन ताः कन्या मेनिरे मधुसूदनम् ।
ममैव पाणिग्रहणं भगवान् कृतवानिति ।। ५-३१-१७ ।।

निशासु च जगतस्त्रष्टा तासां गुहेषु केशवः ।
उवास विप्र! सर्व्वासां विश्वरूपधरो हरिः ।। ५-३१-१८ ।।