विष्णुपुराणम्/पञ्चमांशः/अध्यायः २३

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

गार्ग्यं गोष्ठे द्रिजं श्यालः षण्ढ इत्युक्तवान द्रिज!
यदूनां सन्निघौ सर्व्वे जहसुः सर्व्वयादवाः ।। ५-२३-१ ।।

ततः कोपसमाविष्टो दक्षिणाब्धिमुपेत्य सः ।
सुतमिच्छस्तपस्तेपे यदुचक्रभयावहम् ।। ५-२३-२ ।।

आराधयन् महादेवं सोऽयश्चूर्णमभक्षयत् ।
ददौ वरञ्च तुष्टोऽस्मै वासरे द्रादशै हरः ।। ५-२३-३ ।।

सभाजयामास च तं यवनेशो ह्यनात्मजः ।
तदूयोषित्सङ्गमाज्वास्य पुत्रोऽभूदलिसन्निभः ।। ५-२३-४ ।।

तं कालयवनं नाम राज्ये स्वे यवनेश्वरः ।
अभिषिच्य वनं यातो वज्राग्रकठिनोरसम् ।। ५-२३-५ ।।

स तु वीर्य्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् ।
पप्रच्छ नारदस्तस्मै कथयामास यादवान् ।। ५-२३-६ ।।

म्लेच्छकोटिसहस्त्राणां सहस्त्रैर्हहुभिर्वृतः ।
गजाश्वरथपत्त्योघैश्वकार परमोद्यमम् ।। ५-२३-७ ।।

प्रययौ चाव्यवछिन्नं छिन्नयानो दिने दिने ।
यादवान् प्रति सामर्षो मैत्रेय!मथुरापुरीम् ।। ५-२३-८ ।।

कृष्णोऽपि चिन्तयामास क्षयितं यादव बलम् ।
यवनेन रणे गम्य मागधस्य भविष्यति ।। ५-२३-९ ।।

मागधस्य बलं क्षीणं स कालयवनो बली ।
हन्ता तदिदमायातं यदूनां व्यसनं द्रिधा ।। ५-२३-१० ।।

तस्मादू दुर्ग करिष्यामि यदूनामतिदुर्ज्जयम् ।
स्त्रियोऽपि यत्र युध्ययुः किं पुनर्वृष्णिपुङ्गवाः ।। ५-२३-११ ।।

मयि मत्ते प्रमत्ते वा सुप्ते प्रवसिते तथा ।
यादवाभिभवं दुष्टा मा कुर्व्वन् परयोधकाः ।। ५-२३-१२ ।।

इति सञ्चिन्त्य गोविन्दो योजनानि महोदधिम् ।
ययाचे द्रादश पुरीं द्रारकां तत्र निर्म्ममे ।। ५-२३-१३ ।।

महोद्यानां महावप्रां तड़ागशतशोभिताम् ।
प्राकारगृहसम्बाधामिन्द्रस्येवामरावतीम् ।। ५-२३-१४ ।।

मथुरावासिनो लोकांस्तत्रानीय जनाद्दनः ।
आसन्ने कालयवने मथुराञ्च स्वयं ययौ ।। ५-२३-१५ ।।

बहिरावासिते सैन्ये मथुराया निरायुधः।
निर्ज्जगाम स गोविन्दो ददृशे यवनेश्वरम ।। ५-२३-१६ ।।

स ज्ञात्वा वासुदेवं तं बाहुप्रहरणो नृपः ।
अनुयातो महायोगि-चेतोभिः प्राप्यते न यः ।। ५-२३-१७ ।।

तेनानुयातः कुष्णोऽपि प्रविवेश महागुहाम् ।
यत्र शेते महावीर्य्यो मुचुकुन्दो नरेश्वरः ।। ५-२३-१८ ।।

सोऽपि प्रविश्य यवनो दृष्ट्वा शय्यागतं नृपम् ।
पादेन ताड़यामास मत्वा कृष्णां सुदुर्म्मतिः ।। ५-२३-१९ ।।

दृष्टमात्रस्तु तेनासौ जज्वाल यवनोऽग्रिना ।
ततूक्रोधजेन मैत्रेय! भस्मीभूतश्व तत्क्षणात् ।। ५-२३-२० ।।

स हि देवासुरे युद्धे गतो जित्वा महासुरान् ।
निद्रार्त्तः सुमहाकालं निद्रां वव्र वरं सुरान् ।। ५-२३-२१ ।।

प्रोक्तश्व देवैः संसुप्तं यस्त्वामुत्थापयिष्यति ।
देहजेनाग्रिना सद्यः स तु भस्मीभविष्यति ।। ५-२३-२२ ।।

एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसूदनम् ।
कस्त्त्वमित्याह सोऽप्याह जातोऽहं शशिनःकुले
वसुदेवस्य तनयो यदेवंशसमुद्भवः ।। ५-२३-२३ ।।

मुचुकुन्दोऽपि तत्रासौ वृद्धगार्ग्यवचोऽस्मरत ।
संस्मृत्य प्रणिपत्यैनं सर्व्वभूतेश्वरं हरिम् ।। ५-२३-२४ ।।

प्राह ज्ञातो भवान विष्णोरंशस्त्वं परमेश्वरः ।
पुरा गार्ग्येण कथितमष्टाविशतिमे युगे ।
द्रापरान्ते हरेर्ज्जन्म यदोर्वशे भविंष्यति ।। ५-२३-२५ ।।

स त्वं प्राप्तो न सन्देहो मर्त्त्यानामुपकारकृत् ।
तथापि सुमहत् तेजो नालं सोढ़ महं तव ।। ५-२३-२६ ।।

तथाहि सजलाम्भोद-नादधीरतरं तव ।
वाक्यं नमति चैवोर्व्वी यस्य पादप्रमीड़िता ।। ५-२३-२७ ।।

देवासुरे महायुद्धे दैत्यसैन्ये महाभटाः ।
न शेकुर्मम तत्तेजस्त्वत्तेजो न सहाम्यहम् ।। ५-२३-२८ ।।

संसारपतितस्यैको जन्तोस्त्वं शरणं परम् ।
स प्रसीद प्रपन्नार्त्तिहर्त्ता हर ममाशुभम् ।। ५-२३-२९ ।।

त्वं पयोनिधयः शैलाः सरितस्त्वं वनानि च ।
मेदिनी गगनं वायुरापोऽग्रिस्त्वं तथा मनः ।। ५-२३-३० ।।

बुद्धिरव्याकृतं प्रामाः ग्राणेशस्त्वं तथा मुमान् ।
पुसः परतरं यज्व व्याप्यजन्माविकारि यत् ।। ५-२३-३१ ।।

शब्दादिहीनमजरममेयं क्षयवर्ज्जितम् ।
अवृद्धिनाशं तदूब्रह्म त्वमाद्यन्तविवर्ज्जितम् ।। ५-२३-३२ ।।

त्वत्तोऽमराः सपितरो यक्ष-गन्धर्व्व-किन्नराः ।
सिद्धाश्वाप्सरसस्त्वत्तो मनुष्याः पशवः खगाः ।। ५-२३-३३ ।।

सरीसृपा मृगाः सर्व्वे त्वत्तः सर्व्वे महीरुहाः ।
यज्व भूतं भविष्यञ्च किञ्चिदत्र चराचरम ।। ५-२३-३४ ।।

अमूर्त्तं मूर्त्तमथवा स्थूलं सूक्ष्मतरं स्थितम् ।
तत्सर्व्व त्वं जगतुकर्त्ता नास्ति किञ्चित् त्वया विना ।। ५-२३-३५ ।।

मया संसारचक्रऽस्मिन् भ्रमता भगवन् सदा ।
तापत्रयाभिभूतेन न प्राप्ता निर्वृतिः क्वचित ।। ५-२३-३६ ।।

दुः खान्येव सुखानीति मृगतृष्णा जलाशया ।
तथा नाथ !गृहीतानि तानि तापाय चाभवन् ।। ५-२३-३७ ।।

राष्ट्रमुर्व्वी बल कोशो मित्रपक्षस्तथात्मजाः ।
भार्य्या भृत्यजना ये च शब्दाद्या विषयाः प्रभो ।। ५-२३-३८ ।।

सुखबुद्धया मया सर्व्वं गृहीतमिदमव्यय!
परिणामे तदेवेश तापात्मकमभून्मम ।। ५-२३-३९ ।।

देवलोकमिमं प्राप्तो नाथ !देवगणोऽप्ययम् ।
मत्तः साहाय्यकामोऽभूच्छाखती कुत्र निर्वृतिः ।। ५-२३-४० ।।

त्वामनाराध्य जगतां सर्व्वषां प्रभवास्पदम् ।
शाखता प्राप्यते कन परमेश्वर !निर्वृतिः ।। ५-२३-४१ ।।

त्वन्मायामूढ़मनसो जन्म-मृत्यु-जरादिकान् ।
अवाप्य तापान् पश्यन्ति प्रेतराजाननं नराः ।। ५-२३-४२ ।।

ततो निजक्रियासूतिनरकेष्वतिदारुणम् ।
प्राप्नुवन्ति नरा दुः खमस्वरूपबिदस्तव ।। ५-२३-४३ ।।

अहमत्यन्तविषयी मोहितस्तव मायया ।
ममत्वगर्व्वगर्त्तान्तर्भ्रमामि परमेश्वर ।। ५-२३-४४ ।।

सोऽहं त्वां शरणमपारमीशमीडय सम्प्राप्तः परमपदं यतो न किञ्चित् ।
संसाराश्रमपरितापतप्तचेता निर्व्वाणे परिणधाम्रि साभिलाषः ।। ५-२३-४५ ।।