विष्णुपुराणम्/पञ्चमांशः/अध्यायः ३३

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

बाणोऽपि प्रणिपत्याग्र मैत्रेयाह त्रिलोचनम् ।
देव!बाहुसहस्त्रण निर्व्विण्णोऽहं विनाहवम् ।। ५-३३-१ ।।

क्वचिन्ममैषां बाहूनां साफल्यजनको रणः ।
भविष्यति विना युद्धं भाराय मम किं भुजैः ।। ५-३३-२ ।।

मयूरध्वजभङ्गस्ते यदा बाणा! भविष्यति ।
पिशिताशिजनानन्दं प्राप्स्यसे त्वं तदा रणम् ।। ५-३३-३ ।।

ततः प्रणम्य मुदितः शम्भुमभ्यागतो गृहम् ।
भग्रञ्च ध्वजमालोक्य ह्टष्टो हर्षान्तरं ययौ ।। ५-३३-४ ।।

एतस्मिन्नेव काले तु योगविद्याबलेन तम् ।
अनिरुद्धमथानिन्ये चित्रलेखा वराप्सराः ।। ५-३३-५ ।।

कन्यान्तःपुरमध्ये तं रममाणणं सहोषया ।
विज्ञाय रक्षिणो गत्वा शशंसुर्दैत्यभूपतेः ।। ५-३३-६ ।।

आदिष्टं किङ्कराणान्तु सैन्यं तेन दुरात्मना ।
जघान परिघ लोह मादाय परवीरहा ।। ५-३३-७ ।।

हतेषु तेषु वाणोऽपि रथस्थस्तदूधोद्यतः ।
युध्यमानो यथाशक्ति यदा वीर्य्येण निर्ज्जितः ।। ५-३३-८ ।।

मायया युयुधे तेन स तदा मन्त्रिचोदितः ।
ततस्तं पन्नगास्त्रेण बबन्ध यदुनन्दनम् ।। ५-३३-९ ।।

द्रारतत्यां क्व यातोऽसावनिरुद्धेति जल्पताम् ।
यदूनामाचचक्षे तं बद्धं बाणेन नारदः ।। ५-३३-१० ।।

तं शोणितपुरे श्रुत्वा नीतं विद्याविदग्धया ।
योषिता प्रत्ययं जग्मुर्यादवा नामरैरिति ।। ५-३३-११ ।।

ततो गरुड़मारुह्य स्मृतमात्रागतं हरिः ।
बल-प्रद्यु म्रसहितो बाणस्य प्रययौ पुरम् ।। ५-३३-१२ ।।

पुरीप्रवेशे प्रमथैर्युद्धमासीन्महात्मनः ।
ययौ बाणपुराभ्यासं नीत्वा तान् संक्षयं हरिः ।। ५-३३-१३ ।।

ततस्त्रिपादस्त्रिशिरा ज्वरो माहेश्वरो महान् ।
वाणारक्षार्थमत्यर्थं युयुधे शाङ्गधन्वना ।। ५-३३-१४ ।।

तद्भस्मस्पर्शसम्भूततापः कृष्णाङ्गसङ्गमात् ।
अवाप बलदेवोऽपि श्रममामीलितेक्षणः ।। ५-३३-१५ ।।

ततः स युघ्यमानस्तु सह देवेन शार्ङ्गिणा ।
वैष्णवेन ज्वरियणाशु कृष्णदेहान्निराकृतः ।। ५-३३-१६ ।।

नारायणभुजाघातपरिपीड़नविह्वलम् ।
तं वीक्ष्य क्षम्यतामस्येत्याह देवः पितामहः ।। ५-३३-१७ ।।

ततश्व क्षान्तमेवेति प्रोत्तय तं वैष्णवं ज्वरम् ।
आत्मन्येव लय निन्ये भगवान् मधुसूदनः ।। ५-३३-१८ ।।

मम त्वया समं युद्धं ये स्मरिष्यन्ति मानवाः ।
विज्वरास्ते भविष्यन्तोत्युक्त्वा चैनं ययौ ज्वरः ।। ५-३३-१९ ।।

ततोऽग्रीन् भगवान् पञ्च जित्वा नीत्वा तथा क्षयम् ।
दानवानां बलं विष्णुश्चूर्णयामास लीलया ।। ५-३३-२० ।।

ततः समस्तसैन्येन दैतेयानां बलेः सुतः।
युयुधे शङ्करश्चैव कार्त्तिकेयश्व शौरिणा ।। ५-३३-२१ ।।

हरि-शङ्करयोर्युद्धमतीवासीत् सुदारुणम् ।
चुक्षुभुः सकला लोकाः शस्त्रास्त्रांशुप्रतापिताः ।। ५-३३-२२ ।।

प्रलयोऽयमशेषस्य जगतो नूनमागतः ।
मेनिरे त्रिदशा यत्र वर्त्तमाने महाहवे ।। ५-३३-२३ ।।

जृम्भणास्त्रेण गोविन्दो जृम्भयामास शह्करम् ।
ततः प्रणेशुर्दैतेयाः प्रमथाश्व समन्ततः ।। ५-३३-२४ ।।

जृम्भाभिबूतश्व हरो रथोपस्थ उपाविशत् ।
न शशाक तथा योद्धु कृष्णेनाक्लिष्टकर्म्मणा ।। ५-३३-२५ ।।

गरुड़क्षतवाहश्व प्रद्यु म्रास्त्रप्रपोड़ितः ।
कृष्णहुङ्कारनिर्द्धूतशक्तिश्वापि ययौ गुहः ।। ५-३३-२६ ।।

जृम्भिते शङ्करे नष्टे दैत्यसैन्ये गुहे जिते ।
नीते प्रमथसैन्ये च संक्षयं शाङ्गधन्वना ।। ५-३३-२७ ।।

नन्दीश-संगृहीताश्वमधिरूढ़ो महारथम् ।
बाणस्तत्राययौ योद्धु कृष्णा-कार्ष्णिबलैः सह ।। ५-३३-२८ ।।

बलभद्रो महावीर्य्यो बाणसैन्यमनेकधा ।
विव्याध बाणैः प्रभ्रश्य धर्म्मतस्तत् पलायत ।। ५-३३-२९ ।।

आकृष्य लाङ्गलाग्रण मुषलेनावपोथितम् ।
बलं बलेन ददृशे बाणो बाणैश्व चक्रिणा ।। ५-३३-३० ।।

ततः कूष्णस्य बाणेन युद्धमासीत् समस्यतोः ।
परस्परमिषून् दीप्तान् कायत्रणविभेदकान् ।। ५-३३-३१ ।।

कृष्णश्विच्छेदे बाणौस्तान् बाणोन प्रहिताञ्छरान ।
बिभेद केशवं बाणो बाणं विव्याध चक्रभूत् ।। ५-३३-३२ ।।

मुमुचाते तथास्त्राणि बाण-कृष्णौ जिगीषया ।
परस्पर क्षनिपरौ परमामर्षणौ द्रिज ।। ५-३३-३३ ।।

छिद्यमानेष्वशेषेषु शरेष्वस्त्रे च सीदति ।
प्राचुर्य्येण हरिर्बाणं हन्तुञ्चक्र ततो मनः ।। ५-३३-३४ ।।

 ततोऽर्कशतसङ्घाततेजसा सदृशद्यु ति ।
जग्राह दैत्यचक्रारिर्हर्रिश्वक्र सूदर्शनम् ।। ५-३३-३५ ।।
मु
 ञ्चतो बाणनाशाय तत्र चक्र मधुद्रिषः ।
नग्रा दैतेयविद्याभूत् कोटरी पुरतो हरेः ।। ५-३३-३६ ।।

 तामग्रतो हरिर्दृष्ट्वा मीलिताक्षः सुदर्शनम् ।
मुमोच बाणमुद्दिश्य च्छेत्तुं बाहुवनं रिपोः ।। ५-३३-३७ ।।
 
क्रमेण तत्तु बाहूनां बाणस्याच्युतनोदितम् ।
छेदञ्चक्रेऽसुरापास्तशस्त्रौघक्षपणादृतम् ।। ५-३३-३८ ।।

 छिन्ने बाहुवने तत्तु करस्थं मधुसूदनः ।
मुमुक्षुर्बाणानाशाय विज्ञातस्त्रिपुरद्रिषा ।। ५-३३-३९ ।।
 
स उपेत्याह गोविन्दं सामपूर्व्वमुमापतिः ।
विलोक्य बाणं दोर्द्दणडच्छेदासृकूस्त्राववर्षिणम् ।। ५-३३-४० ।।

 कृष्ण!कृष्ण!जगन्नाथ जाने!त्वां पुरुषोत्तमम् ।
परेशं परमानन्दमनादि-निधनं परम् ।। ५-३३-४१ ।।
दे
व-तिर्य्यङू-मनुष्येषु शरीरग्रहणात्मिका ।
लीलेयं सर्व्वभूतस्य तव चेष्टोपलक्षणा ।। ५-३३-४२ ।।

 तत् प्रसीदाभयं दत्तं बाणस्यास्य मया प्रभो ।
तत्त्वया नानृतं कार्य्यं यन्मया व्याह्टतं वचः ।। ५-३३-४३ ।।

अस्मत्संश्रयवृद्धोऽयं नापराध्यस्तवाव्यय!
मया दत्तवरो दैत्यस्ततस्त्वां क्षामयाम्यहम् ।। ५-३३-४४ ।।

इत्युक्तः प्राह गोविन्दः शूलपाणिमुमापतिम् ।
प्रसन्नवदनो भूत्वा गतामर्षोऽसुरं प्रति ।। ५-३३-४५ ।।

युष्मद्दत्तवरो बाणो जीवतामेष शङ्कर!
त्वदूवाक्यगौरवादेतन्मया चक्र निवर्त्तितम् ।। ५-३३-४६ ।।

त्वया यदभयं दत्तं तद्दत्तमखिलं मया ।
मत्तोऽविभिन्नमात्मानं द्रष्टुमर्हसि शङ्कर ।। ५-३३-४७ ।।

योऽहं स त्वं जगच्चेदं सदेवासुरमानुषम् ।
अविद्यामोहितात्मानः पुरुषां भिन्नदर्शिनः ।। ५-३३-४८ ।।

इत्युक्ता प्रययौ कृष्णः प्राद्यु म्रिर्यत्र तिष्ठति ।
तदूबन्धफणिनो नेशुगेरुड़ानिलभीषिताः ।। ५-३३-४९ ।।

ततोऽनिरुद्धमारोप्य सपत्रीकं गरुत्मति ।
आजग्मुर्द्रारकां रामकार्ष्णिदामोदराः पुरीम् ।। ५-३३-५० ।।