विष्णुपुराणम्/पञ्चमांशः/अध्यायः ३०

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

गरुड़ो वारुणं छत्रं तथैव मणिपर्व्तम् ।
सभार्य्यञ्च ह्टषीकेशं लीलयैव वहन् ययौ ।। ५-३०-१ ।।

ततः शङ्खमुपाध्मासीत् स्वर्गद्रारगतो हरिः ।
उपतस्थुस्तथा देवाः सार्घ्यहस्ता जनार्द्दनम् ।। ५-३०-२ ।।

स देवैरर्ज्वितः कृष्णो देवमातुर्निवेशनम् ।
सिताभ्रशिकराकारं प्रविश्य ददृशेऽदितिम् ।। ५-३०-३ ।।

स तां प्रणाम्य शक्रेणा संह ते कुणडलोत्तम ।
ददौ नरकनाशञ्च शशंसास्यै जनार्द्दनः ।। ५-३०-४ ।।

ततः प्रीता जगन्माता धातारं जगतां हरिम् ।
तुष्टावादितिरव्यग्रा कृत्वा त्वतूप्रवणं मनः ।। ५-३०-५ ।।

नमस्ते पुण्डरीकाक्ष!भक्तानामभयङ्कर ।
मनातनात्मन सर्व्वात्मन!भूतात्मन!भूतभावन ।। ५-३०-६ ।।

प्रणेता मनसा बुद्धेरिन्द्रियाणां गुणात्मक!
त्रिगुणातीत!निर्दून्दू!शुद्धसत्त्‌व!ह्टदि स्थित ।। ५-३०-७ ।।

सितदीर्घादिनिः शेष-कल्पनापरिवर्ज्जित !
जन्मादिभिरसंस्पृष्ट!स्वप्रादिपरिवर्ज्जित ।। ५-३०-८ ।।

सन्ध्या रात्रिरहोभूमिर्गगनं वायुरम्बु च ।
हुताशनो मनो बुद्धिर्भूतादिस्त्व तथाच्युत ।। ५-३०-९ ।।

सृष्टि-स्थिति-विनाशानां कर्त्ता पतिर्भवान!
ब्रह्म-विष्णु-शिवाख्याभिरात्ममूर्त्तिभिरीश्वर ।। ५-३०-१० ।।

देवा यक्षास्तथा दैत्या राक्षसाः सिद्ध-पन्नगाः ।
कुष्माण्डाश्व पिशाचाश्व गन्धर्व्वा मनुजास्तथ ।। ५-३०-११ ।।

पशवो मृगमातङ्गस्तथैव च सरीसृपाः ।
वृक्ष-गुल्म-लता बह्वयः समस्तास्तृणजातयः ।। ५-३०-१२ ।।

स्थूला मध्यास्तथा सूक्ष्माः स्थूल-सूक्ष्मतराश्व ये ।
देहबेदा भवान् सर्व्वे ये केचित् पुदूगलाश्रयाः ।। ५-३०-१३ ।।

माया तवेयमज्ञातपरमार्थातिमोहिनी ।
अनात्मन्यात्मविज्ञानं यया मूढ़ो निरिघ्यते ।। ५-३०-१४ ।।

अस्वे स्वमिति भावोऽत्र यत् पु सामुपजायते ।
अहं ममेति भावोऽत्र यत् प्रायेणाभिजायते ।
संसारमातुर्मायायास्तवैतन्नाथ! चेष्टितम् ।। ५-३०-१५ ।।

यः स्वघर्म्मपरेर्नाथ!नरैराराधितो भवान् ।
ते तरन्त्यखिलामेतां मायामात्मविमुक्तये ।। ५-३०-१६ ।।

ब्रह्माद्याः सकला देवा सनुष्याः पशवस्तथा ।
विष्णुमायामहावर्त्तमोहान्धतमसावृताः ।। ५-३०-१७ ।।

आराध्य त्वामभीप्सन्ते कामानात्ममवक्षयम् ।
यदेते पुरुषा माया सैवेयं भगवंस्तव ।। ५-३०-१८ ।।

मया त्वं पुत्रकामिन्या वैरिपक्षक्षयाय च ।
आराधितो न मोक्षाय मायाविलसितं हि तत् ।। ५-३०-१९ ।।

कौपीनाच्छादनप्राया वाञ्चा कल्पद्रु मादपि ।
जायते यदपुण्यानां सोऽपराधः स्वदोषजः ।। ५-३०-२० ।।

तत् प्रसीदाखिलजगन्मायामोहकराव्यय!
अज्ञानं ज्ञानसद्भावभूतं भूतेश!नाशय ।। ५-३०-२१ ।।

नमस्ते चक्रहस्ताय शाङ्गहस्ताय ते नमः ।
गदाहस्ताय ते विष्णो!शङ्खहस्ताय ते नमः ।। ५-३०-२२ ।।

एतत् पश्यामि ते रूपं स्थूलचिह्नोपलक्षितम् ।
न जानीमि परं यत्ते प्रसीद परमेश्वर ।। ५-३०-२३ ।।

अदित्यैवं स्तुतो विष्णुः प्रहस्याह सुरारणिम् ।
माता देवि!त्वमस्माकं प्रसीद वरदा भव ।। ५-३०-२४ ।।

एवमस्तु यथेच्छा ते त्वमशेषैः सुरासुरैः ।
अजेयः पुरुषव्याघ्र !मर्त्त्यलोके भविष्यसि ।। ५-३०-२५ ।।

ततोऽन्तरमेवास्य शक्राणीसहितादितिम् ।
सत्यभामा प्रणम्याह प्रसीदेति पुनः पुनः ।। ५-३०-२६ ।।

मत्प्रसादान्न ते सुभ्रु!जरा वैरूप्यमेव च ।
भविष्यत्यनवद्याङ्कि!सुस्थिरं नवयौवनम् ।। ५-३०-२७ ।।

अदित्या तु कृतानुज्ञो देवराजो जनार्द्दनम् ।
यथावत् पूजयामास बहुमानपुरः सरम् ।। ५-३०-२८ ।।

शची च सत्यभामायै पारिजातस्य पुष्पकम् ।
न ददौ मानुषीं मत्वा खयं पुष्पैरलङ्कृता ।। ५-३०-२९ ।।

ततो ददर्श कृष्णोऽपि सत्यभामासहायवान् ।
देवोद्यानानि ह्टद्यानि नन्दनादीनि सत्तम ।। ५-३०-३० ।।

ददर्श च सुगन्धाढय मञ्जरीपुञ्जघारिणम् ।
नित्याह्लादकरं ताम्रबालपल्लवशोभितम् ।। ५-३०-३१ ।।

मथ्यमानेऽमृते जातं जातरूपोपमत्वचम् ।
पारिजात जगन्नाथः केशवः केशिसूदनः ।। ५-३०-३२ ।।

तं दृष्ट्वा प्राह गोविन्दं सत्यभामा द्रिजोत्तम!
कस्मान्न द्रारकामेष नीयते देवपादपः ।। ५-३०-३३ ।।

यदि ते तदूचः सत्यं सत्यात्यर्थं प्रियेति मे ।
मदूगेहनिष्कुटार्थाय तदयं नीयतां तरुः ।। ५-३०-३४ ।।

न मे जाम्बवती तादृगभीष्टा न च रुक्मिणी ।
सत्ये यथा त्वमित्युक्तं त्वया कृष्णासकृत् प्रियम् ।। ५-३०-३५ ।।

सत्यं तदू यदि गोविन्द!नोपचारकृतं तव ।
तदस्तु पारिजातोऽयं मम गेहविभूषणम् ।। ५-३०-३६ ।।

बिब्रती पारिजातस्य केशपक्षेण मञ्जरीम् ।
सपत्रीनामहं मध्ये शोभेयमिति कामये ।। ५-३०-३७ ।।

इत्युक्ताः सम्प्रहस्यैनं पारिजातं गरुत्मति ।
आरोपयामास हरिस्थमूचूर्वनरक्षिणः ।। ५-३०-३८ ।।

भोः शची देवराजस्य महिषी तत्परिग्रहम् ।
पारिजातं न गोविन्द!हर्त्तुमर्हसि पादपम् ।। ५-३०-३९ ।।

शचीविभूषणार्थाय देवैरमृतमन्तने ।
उत्पादितोऽयं न क्षेमी गृहीत्वैनं गमिष्यसि ।। ५-३०-४० ।।

देवराजो मुखप्रेक्षी यस्यास्तस्याः परिग्रहम् ।
मौढ्यात् प्रार्थयसे क्षैमी गृहीत्वैनं हि को व्रजेत् ।। ५-३०-४१ ।।

अवश्यमस्य देवेन्द्रो निष्कृतिं कृष्ण!यास्यति ।
वज्रोद्यतकरं शक्रमनुयास्यन्ति चामराः ।। ५-३०-४२ ।।

तदलं सकलैर्देवैर्विग्रहेण तवाच्युत ।
विपाककुट यत् कर्म्म तन्न शंसन्ति पण्डिताः ।। ५-३०-४३ ।।

इत्युक्ते तैरुवाचैतामन् सत्यभामातिकोपिनी ।
का शची पारिजातस्य को वा शक्रः सुराघिपः ।। ५-३०-४४ ।।

सामान्यः सर्व्वलोकानां यद्य षोऽमृतमन्थने ।
समुत्पन्नः सुराः कस्मादेको गृह्णाति वासवः ।। ५-३०-४५ ।।

यथा सुरा यथैवेन्दुर्यथा श्रीर्वनरक्षिणः ।
सामान्याः सर्व्वलोकस्य पारिजातस्तथा द्रु मः ।। ५-३०-४६ ।।

भर्त्तृबाहुमहागर्व्वाद् रुणद्धये नं यथा शची ।
तत् कथ्यतामलं क्षान्त्या सत्या हारयति द्रु मम् ।। ५-३०-४७ ।।

कथ्यताञ्च द्रु तं गत्वा पौलोम्या वचनं मम ।
सत्यभामा वदत्येतदतिगर्वोद्धताक्षरम् ।। ५-३०-४८ ।।

यदि त्वं दयिता भर्त्तूर्यदि वश्यः पतिस्तव ।
मद्भर्त्तुर्हरतो वृक्षं तत् कारय निवारणम् ।। ५-३०-४९ ।।

जानामि ते पतिं शक्र जानामि त्रिदिवेश्वरम् ।
पारिजातं तथाप्येतनं मानुषी हारयामि ते ।। ५-३०-५० ।।

इत्युक्ता रक्षिणो गत्वा शच्या ऊचुर्यथोदितम् ।
शची चोतूसाहयामास त्रिदशाधिपति पतिम् ।। ५-३०-५१ ।।

ततः समस्तदेवानां सैन्यैः परिवृतो हरिम् ।
प्रययौ पारिजातार्थमिन्द्रो योधयितु द्रिज ।। ५-३०-५२ ।।

ततः परिघ-निस्त्रिंश-गदा-शूल-वरायुधाः ।
बभूवुस्त्रिदशाः सज्जाः शक्रे वज्रकरे स्थिते ।। ५-३०-५३ ।।

ततो निरीक्ष्य गोविन्दो नागराजोपरि स्थितम् ।
शक्र देवपरीवारं युद्धाय समुपस्थितम् ।। ५-३०-५४ ।।

चकार शङ्खनिर्घोषं दिशः शब्देन पूरयन् ।
मुमोच शरसङ्घातान् सहस्त्रायुतशः शिताम ।। ५-३०-५५ ।।

ततो दिशो नभश्चैव दृष्टा शरशतैश्वितम् ।
मुमुचुस्त्रिदशाः सर्व्वे अस्त्रशस्त्राणयनेकशः ।। ५-३०-५६ ।।

एकैकमस्त्रं शस्त्रञ्च देवैर्मुक्तं सहस्त्रधा ।
चिच्छेद लीलयैवेशो जगतां मधुसूदनः ।। ५-३०-५७ ।।

पाशं सलिलराजस्य समाकृष्योरगाशनः ।
चकार खण्डशश्वञ्च्वा बालपन्नगदेहवत् ।। ५-३०-५८ ।।

यमेन प्रह्टतं दण्डं गदाविक्षेपखण्डितम् ।
पृथिव्याः पातयामास भगवान् देवकीसुतः ।। ५-३०-५९ ।।

शिविकाञ्च धनेशस्य चक्रेण तिलशो विभुः ।
चकार शौरिरर्कञ्च दृष्टिदृष्टहतौजसम ।। ५-३०-६० ।।

नीतोऽग्रिः शतशो वाणैर्द्राविता वसवो दिशः ।
चक्रविच्छिन्नशूलाग्रा रुद्रा भुवि निपातिता ।। ५-३०-६१ ।।

साध्य विश्वेऽथ मरुतो गन्धर्व्वाश्चैव सायकैः ।
शार्ङ्गिणा प्रेरितैरस्ता व्योम्रि शाल्मलितूलवत ।। ५-३०-६२ ।।

गरुत्मानपि वक्तूणे पक्षाभ्यां नखराङ्कु रैः
भक्षयंस्ताड़यन् देवान् दारयंश्व चचार वै ।। ५-३०-६३ ।।

ततः शरसहस्त्रणे देवेन्द्र-मध्रुसूदनौ ।
परस्परं ववर्षाते धाराभिरिव तोयदौ ।। ५-३०-६४ ।।

ऐरावतेन गरुड़ो युयुधे तत्र संयुगे ।
देवैः समस्तैर्युयुधे शक्रेण च चनार्द्दनः ।। ५-३०-६५ ।।

छिन्नेष्वशेषवाणेषु शस्त्रेष्वस्त्रेषु च त्वरन् ।
जग्राह वासवो वज्र कृष्णश्वक्र सुदर्शनम् ।। ५-३०-६६ ।।

ततो हाहाकृतं सर्व्वं त्रैलोक्यं द्रिजसत्तम!
वज्र-चक्रधरौ दृष्ट्वा देवराज-जनार्द्दनौ ।। ५-३०-६७ ।।

क्षिप्त वज्रमथेन्द्र णा जग्राह भगवान् हरिः ।
न मुमोच तदा चक्र तिष्ठ तिष्ठेति चाब्रवीत् ।। ५-३०-६८ ।।

प्रनष्टवज देवेन्द्र गरुड़क्षतवाहनम् ।
सत्यभामाव्रवीद् वीरं पलायनपरायणम् ।। ५-३०-६९ ।।

त्रैलोक्येश!न ते युक्तं शचीभर्तुः पलायनम् ।
पारिजातस्त्रगाभोगा त्वामुपस्थास्यते शची ।। ५-३०-७० ।।

कीदृशं देवराज्यन्ते पारिजातस्त्रगुज्जवलाम् ।
अपश्यतो यथापूर्व्वं प्रणयादागतां शचीम् ।। ५-३०-७१ ।।

अलं शक्र! प्रयातेन न ब्रीड़ां गन्तुमर्हसि ।
नीयतां पारिजातोऽयं देवाः सन्तु गतव्यथाः ।। ५-३०-७२ ।।

पतिगर्व्वावलेपेन बहुमानपुरः सरम् ।
न ददर्श गृहे यातामुपचारेणा मां शची ।। ५-३०-७३ ।।

स्त्रीत्वादगुरुचित्ताहं खभर्त्तृश्व्लाघनापरा ।
ततः कृतवती शक्र भवता सह विग्रहम् ।। ५-३०-७४ ।।

तदलं पारिजातेन परस्वेन ह्टतेन नः ।
रूपेण गर्व्विता सा तु भर्त्रा स्त्री का न गर्व्विता ।। ५-३०-७५ ।।

इत्युक्तो विनिवृत्तोऽसौ देवराजस्तथा द्रिज!
प्राह चैनामलं चणिड! सख्युः खेदातिवस्तिरैः ।। ५-३०-७६ ।।

न चापि सर्ग-संहार-स्थितिकर्त्ताखिलस्य यः ।
जितस्य तेन मे व्रीड़ा जायते विश्वरूपिणा ।। ५-३०-७७ ।।

यस्मिन् जगत् सकलमेतदनादिमध्ये यस्माद यतश्व न भविष्यति सर्व्वभूतात् ।
तेनोद्भव-प्रलय-पालनकारणोन व्रीड़ा कथं भवति देवि !निराकृतस्य ।। ५-३०-७८ ।।

सकलभुवनसूतेर्मूत्तिरस्यानुसूक्ष्मां विदितसकलवेदैर्ज्ञायते यस्य नान्यः ।
तमजमकृतमीशं शाश्वतं स्वेच्छयैनं जगदुपकृतिमर्त्त्यं को विजेतुं समर्थः ।। ५-३०-७९ ।।