विष्णुपुराणम्/पञ्चमांशः/अध्यायः ३६

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

मेत्रेय!श्रूयतां तस्य बलस्य बलशालिनः ।
कृतं यदन्यत्तेनाभूत्तदपि श्रूयतां द्रिज ।। ५-३६-१ ।।

नरकस्यासुरेन्द्रस्य देवपक्षविरोधिनः ।
सखाभवन्महावीर्य्यो द्रिविदो नाम वानरः ।। ५-३६-२ ।।

वैरानुबन्ध बलवान् स चकार सुरान् प्रित ।
नरक हतवान् कृष्णो बलदर्पसमन्वितम् ।। ५-३६-३ ।।

करिष्ये सर्व्वदेवानां तस्मादेतत्प्रतिक्रियाम् ।
यज्ञविध्वंसनं कुर्व्वन् मर्त्तलोकक्षयं तथा ।। ५-३६-४ ।।

ततो विध्वसयामास यज्ञानज्ञानमोहितः ।
बिबेद साधुमर्य्यादां क्षयं चक्र च देहिनाम् ।। ५-३६-५ ।।

ददाह च वनोद्देशान् पुरग्रामान्तराणि च ।
क्वचिज्व पर्व्वताक्षेपैर्ग्रामादीन् समचूणोयत् ।। ५-३६-६ ।।

शैलानुतूपाट्य तोयेषु मुमोचाम्बुनिधौ तथा ।
पुनञ्चार्णवमध्यस्थः क्षोभयामास सागरम् ।। ५-३६-७ ।।

तेन विक्षोभितश्वाब्धिरुद्रेलोऽजायत द्रिज ।
प्लावयंस्तीरजान् ग्रामान् पुरादीनतिवेगवान् ।। ५-३६-८ ।।

कामरूपी महारूपं कृत्वा संस्थानशेषतः ।
लुण्ठन् भ्रमणसंमर्द्देः सञ्चूर्णायति वानरः ।। ५-३६-९ ।।

तेन विप्रकृतं सर्व्वं जगदेतदूदुरात्मना ।
निः स्वाध्यायवषटूकारं मैत्रेयासीत् सुदुः खितम् ।। ५-३६-१० ।।

एकदा रैवतोद्याने पपौ पानं हलायुधः ।
रेवती च महाभागा तथैवान्या वरस्त्रियः ।। ५-३६-११ ।।

उपगीयमानो विलसल्ललनामौलिमध्यगः ।
रेमे यदुवरश्वष्ठः कुवेर इव मन्दरे ।। ५-३६-१२ ।।

ततः स वानरोऽभ्येत्य गृहीत्वा सीरिणो हलम् ।
मुषलञ्च चकारास्य सम्मुख़्च बिड़म्बनम् ।। ५-३६-१३ ।।

तथैव योषितां तासां जहासाभिमुखं कपिः ।
पानपूर्णाश्व करकांश्विक्षेपाहत्य वै तदा ।। ५-३६-१४ ।।

ततः कोपपरीतात्मा भर्तूसयामास तं बलः ।
तथापि तमवज्ञाय चक्र किलकिलाध्वनिम् ।। ५-३६-१५ ।।

ततः समुत्थाय बलो जग्राह मुषल रुषा ।
सोऽपि शैलशिलां भीमां जग्राह प्लवगोत्तमः ।। ५-३६-१६ ।।

चिक्षेप च स तां क्षिप्तां मुषलेन सहस्त्रधा ।
बिभेद यादवश्वेष्ठः सा पपात महीतले ।। ५-३६-१७ ।।

आपतन्मुषलञ्चासौ समुल्लङ्घय प्लवङ्गमः ।
वेगेनागम्य रोषेण तलेनोरस्यताड़यत् ।। ५-३६-१८ ।।

ततो बलेन कोपेन मुष्टिना मूद्धि ताड़ितः ।
पपात रुधिरोदूगारी द्रिविदः क्षीणाजीवितः ।। ५-३६-१९ ।।

पतता तच्छरीरेण गिरेः श्वृङ्गमदीर्य्यत ।
मैत्रेय!शतधा वज्रिवजणेव हि ताड़ितम् ।। ५-३६-२० ।।

पुष्पवृष्टिं ततो देवा रामस्योपरि चिक्षिपुः ।
प्रशशंसुस्तथाभ्येत्य साध्वेतत्ते महत् कृतम् ।। ५-३६-२१ ।।

अनेन दुष्टकपिना दैत्यपक्षोपकारिणा ।
जगन्निराकृतं वीर! दिष्ट्यासौ क्षयमागतः ।। ५-३६-२२ ।।

इत्युक्त्वा दिवमाजग्मुर्देवा ह्टष्टाः सगुह्यकाः ।। ५-३६-२३ ।।

एवंविधान्यनेकानि बलदेवस्य धीमतः ।
कर्म्माण्यपरिमेयाणि शेषस्य धरणीबृतः ।। ५-३६-२४ ।।