विष्णुपुराणम्/पञ्चमांशः/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

राजमार्गे ततः कृष्णाः सानुलेपनभाजनाम् ।
ददर्श कुब्जामायान्तीं नवयौवनगोचराम् ।। ५-२०-१ ।।

तामाह ललितं कृष्णः कस्येदमनुलेपनम् ।
भवत्या नीयते सत्यं वदेन्दीवरलोचने ।। ५-२०-२ ।।

सकामेनेव सा प्रोक्ता सानुरागा हरिं प्रित ।
प्राह सा ललितं कुब्जा तद्दर्शनबलातूकृता ।। ५-२०-३ ।।

कान्त!कस्मान्न जानासि कसेमाभिनियोजिताम् ।
नैकवक्रेति विख्यातामनुलेपनकर्म्मणि ।। ५-२०-४ ।।

नान्यपिष्ट हि कंसस्य ह्यनुलेपनम् ।
भवाम्यहमतीवास्य प्रसादधनभाजनम् ।। ५-२०-५ ।।

सुगन्धमेतदू राजार्ह रुचिरं रुचिरानने!
आवयोर्गात्रसदृशं दीयतामनुलेपनम् ।। ५-२०-६ ।।

श्रुत्वैतदाह सा कुब्जा गृह्यतामिति सादरम् ।
अनुलेपञ्च प्रददौ गात्रयोग्यमथोभयोः ।। ५-२०-७ ।।

भक्तिच्छेदानुलिप्ताङ्गौ ततस्तौ पुरुषर्षभौ ।
सेन्द्रचापौ विराजेतां सितकृष्णाविवाम्बुदौ ।। ५-२०-८ ।।

ततस्तां चिबुके शौरिरुल्लापनविधानवित् ।
उत्पाट्य तोलयामास दूयङ्गु लेनाग्रपाणिना ।। ५-२०-९ ।।

चकर्ष पद्भयाञ्च तदा ऋजुत्वं केशवोऽनयत् ।
ततः सा ऋजुतां प्राप्ता योषितामभवद् वरा ।। ५-२०-१० ।।

विलासललितं प्राह प्रमगर्भभरालसम् ।
वस्त्रे प्रगृह्य गोविन्दं व्रज गेहं ममेति वै ।। ५-२०-११ ।।

आयास्ते भवतीगेहमिति तां चप्रहसन् हरिः ।
विससर्ज्ज जहासोच्चै रामस्यालोक्य चाननम् ।। ५-२०-१२ ।।

भक्तिच्छेदानुलिप्ताङ्गौ नीलपीताम्बरौ च तौ ।
धनुः शालां ततो यातौ चित्रमाल्योपशोभितौ ।। ५-२०-१३ ।।

आयोगञ्च धनूरत्नं ताभ्यां पृष्टैश्व रक्षिभिः ।
आख्याते सहसा कृष्णो गृहीत्वापूरयद्धनुः ।। ५-२०-१४ ।।

ततः पूरयता तेन भज्यमानं बलाद्धनुः ।
चकार सुमहाशब्दं मथुरा येन पूरिता ।। ५-२०-१५ ।।

अनुयुक्तौ ततस्तौ तु भग्ने धनुषि रक्षिभिः ।
रक्षिसैन्यं निहत्योभौ निष्कान्तौ कार्मुकालयात् ।। ५-२०-१६ ।।

अक्रूरागमबृत्तान्तमुपलभ्य तथा धनुः ।
भग्र श्रुत्वाथ कंसोऽपि प्राह चाणूर-मुष्टिकौ ।। ५-२०-१७ ।।

गोपालदारकौ प्राप्तौ भवदूभ्यां तौ ममाग्रतः ।
मल्लयुद्धेन हन्तव्यौ मम प्राणहरौ हि तौ ।। ५-२०-१८ ।।

नियुद्धे तदूविनाशेन भवदूभ्यां तोषितो ह्यहम् ।
दास्याम्यभिमतान् कामान् नान्यथैतन्महाबलौ ।। ५-२०-१९ ।।

न्यायतोऽन्यायतो वापि भवदूभ्यां तौ ममाहितौ ।
हन्तव्यौ तदूवधादू राज्यं सामान्यं नो भविष्यति ।। ५-२०-२० ।।

इत्याज्ञाप्य स तौ मल्लौ तत आहूय हस्तिपम् ।
प्रोवाचोच्चैस्त्वया मेऽद्य समाजद्रारि कुञ्जरः ।। ५-२०-२१ ।।

स्थाप्यः कुवलयापीड़स्तेय रङ्गद्रारमुपागतौ ।
घातनीयौ नियुद्धाय रङ्गद्रामुपागतौ ।। ५-२०-२२ ।।

तमथाज्ञाप्य दृष्ट्वा च मञ्चान् सर्व्वानुपाकृतान् ।
आसन्नमरणः कंसः सूर्त्योदयमुदैक्षत ।। ५-२०-२३ ।।

ततः समस्तमञ्चेषु नागरः स तदा जनः ।
राजमञ्चषु चारूढ़ाः सहामात्यैर्म्महीभृतः ।। ५-२०-२४ ।।

मल्लप्राश्रिकवर्गश्व रङ्गमध्यसमीपतः ।
कृतः कसेन कंसोऽपि तुङ्गमञ्चे व्यवस्थितः ।। ५-२०-२५ ।।

अन्तः पुराणां मञ्चाश्व तथान्ये परिकल्पिताः ।
अन्ये च वारमुख्यानामन्ये नागरयोषिताम् ।। ५-२०-२६ ।।

नन्दगोपादयो गोपा मञ्चेष्वन्यष्ववस्थिताः ।
अक्रूर-वसुदैवौ च मञ्चप्रान्ते व्यवस्थितौ ।। ५-२०-२७ ।।

नागरीयोषितां मध्ये देवकी पुत्रगृद्धिनो ।
अन्तकालेऽपि पुत्रस्य द्रक्ष्यामि रुचिरं मुखम् ।। ५-२०-२८ ।।

वाद्यमानेषु तूर्य्येषु चानूरे चापि वलूगति ।
हाहाकारपरे लोके ह्यास्फोटयति मुष्टिके ।। ५-२०-२९ ।।

हत्वा कुकलयापीड़ हस्त्यारोहप्रणोदितम्
मदासृगनुलिप्ताङ्गौ गजदन्तवरायुधौ ।। ५-२०-३० ।।

मृगमध्ये यथा सिंहौ गर्व्वलीलाविलोकितौ ।
प्रविष्टौ सुमहारङ्ग बलभद्र-जनार्द्दनौ ।। ५-२०-३१ ।।

हाहाकारौ महान् जज्ञ सर्व्वमञ्च ष्वनन्तरम् ।
कृष्णोऽय बलभद्रोऽयमिति लोकस्य विस्मयः ।। ५-२०-३२ ।।

सोऽयं येन हता घोरा पूतनां सा निशाचरी ।
क्षिप्तञ्च शकटं येन भग्रौ च यमलार्ज्जुनौ ।। ५-२०-३३ ।।

सौऽयं यः कालियं नागं ननर्त्तारुह्य बालकः ।
धृतो गोवर्द्धनो येन स्पतरात्रं महागिरिः ।। ५-२०-३४ ।।

अरिष्टो धेनुकः केशी लीलयैव महात्मना ।
निहता येन दुर्वृत्ता दृश्यतां सोऽयमच्युतः ।। ५-२०-३५ ।।

अयञ्चास्य महाबाहुर्बलभद्रोऽग्रजोऽग्रतः ।
प्रयाति लीलया योषिन्मनोनयननन्दनः ।। ५-२०-३६ ।।

अयं स कथ्यते प्रात्रैः पुराणार्थावलोकिभिः ।
गोपालो यादवं वंशं मग्रमभ्युद्धरिष्यति ।। ५-२०-३७ ।।

अयं स सर्व्वभूतस्य विष्णोरखिलजन्मनः ।
अवतीर्णो महीमंशो नूनं भारहरो भुवः ।। ५-२०-३८ ।।

इत्येवं वर्णिते पौरै रामे कृष्णे च तत् क्षणात् ।
उरस्तताप देवक्याः स्नहस्त्रु तपयोधरम् ।। ५-२०-३९ ।।

महोत्सवमिवासाद्य पुत्राननविलोकनम् ।
युवेव वसुदेवोऽभूदू विहायाभ्यागतां जराम् ।। ५-२०-४० ।।

विस्तारिताक्षियुगलो राजान्तः पुरयोषिताम् ।
नागरस्त्रीसमूहश्व द्रष्टु न विरराम तम् ।। ५-२०-४१ ।।

सख्यः पश्यत कृष्णस्य मुखमत्यरुणेक्षणाम् ।
गजयुद्धकृतायासृ-स्वेदाम्बुकणिकाचितम् ।। ५-२०-४२ ।।

विकाशि-शरदम्भोजमवश्यायजलोक्षितम् ।
परिभूय स्थितं जन्म सफलं क्रियतां दृशोः ।। ५-२०-४३ ।।

श्रीवत्साङ्क महद्धाम बालस्यैतद् विलोक्यताम् ।
विपक्षक्षपणां वक्षो भुजयुग्मञ्च भामिनि ।। ५-२०-४४ ।।

किन्न पश्यसि दुग्धेन्दु-मृणालधवलाननम् ।
बलभद्रमिमं नीलृ-परिधानमुपागतम् । ५-२०-४५ ।।

वलूगता मुष्टिकैनैतज्वाणूरेण तथा सखि ।
क्रियते बलभद्रस्य हास्यमीषदूविलोक्यताम् ।। ५-२०-४६ ।।

सख्याः !पश्यत चाणूरो नियुद्धार्थमयं हरिम् ।
समुपैति न सन्त्यत्र किं वृद्धा युक्तकारिणाः ।। ५-२०-४७ ।।

क्क यौवनोन्मुखीभूत-सुकुमारतनुर्हरिः ।
क्क वजूकठिनाभोगि-शरीरोऽयं महासुरः ।। ५-२०-४८ ।।

इमौ सुललितौ रङ्ग वर्त्तेते नवयौवनौ ।
दैतेयमल्लाश्वाणूर-प्रमुखास्त्वतिदारुणाः ।। ५-२०-४९ ।।

नियुद्ध-प्राश्विकानान्तु महानेष व्यतिक्रमः ।
यदू बालबलिनोर्युद्धं मध्यस्थैः समुपेक्ष्यते ।। ५-२०-५० ।।

इत्थं पुरस्त्रीलोकस्य वदतश्वालयन् भुवम् ।
ववलूग बद्धकक्षोऽन्तर्ज्जनस्य भगवान् हरिः ।। ५-२०-५१ ।।

बलभद्रोऽपि चास्फोट्य ववलूग ललितं यदा ।
पदे पदे तदा भूमिर्यन्न शीर्णा तदद्भुतम् ।। ५-२०-५२ ।।

चाणूरेण तदा कृष्णो युयुधेऽमितविक्रमः ।
नियुद्धकुशलो दैत्यो बलभद्रेण मुष्टिकः ।। ५-२०-५३ ।।

सन्निपातावधूतैस्तु चाणूरेणा समं हरिः ।
क्षेपणौर्मुष्टिभिश्चैव कीलवज्रनिपातनैः ।। ५-२०-५४ ।।

जानुभिश्वाश्मनिर्घातैस्तथा बाहुविघट्टितैः ।
पादोद्धूतैः प्रसृष्टैश्व तयोर्युद्धमभून्महत् ।। ५-२०-५५ ।।

अशस्त्रमतिघोरं तत् तयोर्युद्धं सुदारुणम् ।
बलप्रामविनिष्पाद्य समाजोतूसवसन्निधौ ।। ५-२०-५६ ।।

यावदू यावज्व चाणूरो युयुधे हरिणा सह ।
प्राणाहानिमवापाग्य्रां तावत्तावल्लवाल्लवम् ।। ५-२०-५६ ।।

कृष्णोऽपि युयुधे तैन लीलयैव जगन्मयः ।
खेदाज्वालयता कोपान्निजशेखरकेशरम् ।। ५-२०-५७ ।।

बलचक्षयं विवृद्धिञ्च दृष्ट्वा चाणूरकृष्णयोः ।
वारयामास तूर्य्याणि कंसः कोपपरायणः ।। ५-२०-५८ ।।

मृदङ्गतिषु तूर्य्येषु प्रतिषिद्धेषु तत्क्षणात् ।
खे सङ्गतान्यवाद्यन्त देवतूर्य्याण्यनेकशः ।। ५-२०-५९ ।।

जय गोविन्द !चाणुर जहि केशव!दानवम् ।
इत्यन्तर्द्धानगा देवास्तदोचुरतिहर्षिताः ।। ५-२०-६० ।।

चाणूरेण चिरं कालं क्रीड़ित्वा मधुसूदनः ।
उतूपाट्य भ्रामयामास तदूवधाय कृतोद्यमः ।। ५-२०-६१ ।।

भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित् ।
भूमावास्फोटयामास गगने गतजीवितम् ।। ५-२०-६२ ।।

भूमावास्फोटितस्तेन चाणूरः शतधाव्रजत् ।
रक्तस्त्राव-महाप ङ्कां चकार स तदा भुवम् ।। ५-२०-६३ ।।

बलदेवोऽपि तत्कालं मुष्टिकेन महाबलः ।
युयुधे दैत्यमल्लेन चाणूरेण यथा हरिः ।। ५-२०-६४ ।।

सोऽप्येनं मुष्टिना मूदूर्ध्रि वक्षस्याहत्य जानुना ।
पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् ।। ५-२०-६५ ।।

कृष्णस्तोषलकं भूयो मल्लराजं महाबलम् ।
वाममुष्टिग्रहारेण पातयामास भूतले ।। ५-२०-६६ ।।

चाणूरे निहते मल्ले मुष्टिके विनिपातिते ।
नीते क्षयं तोषलके सर्वे मल्लाः प्रदुद्रुवुः ।। ५-२०-६७ ।।

ववलूगतुस्तदा रङ्ग कृष्मसङ्कर्षणावुभौ ।
समानवयसो गोपान् बलादाकृष्य हर्षितौ ।। ५-२०-६८ ।।

कंसोऽपि कोपरक्ताक्षः प्राहोच्चैर्व्यापृतान् नरान् ।
गोपावेतौ समाजौघान्निष्काश्येतां बलादितः ।। ५-२०-६९ ।।

नन्दोऽपि गृह्यतां पापो निगड़ैरायसैरिह ।
अवृद्धार्हेण दण्डेन वसुदेवोऽपि वध्यताम् ।। ५-२०-७० ।।

वलूगनिति गोपाः कृष्णेन ये चेमे सहिताः पुरः ।
गावो ह्रियन्तामेतेषां यच्चास्ति वसु किञ्चन।। ५-२०-७१ ।।

एवमाज्ञापयानञ्च प्रहस्य मधुसूदनः ।
उतूपत्यारुह्य तं मञ्च कंस जग्राह वेगतः ।। ५-२०-७२ ।।

केशेष्वाकृष्य विगलत्किरीटमवनीतले ।
कंसं स पातयामास तस्योपरि पपात च ।। ५-२०-७३ ।।

निःशेष-जगदाघार-गुरुणा पततोपरि ।
कृष्णेन त्याजितः प्राणानुग्रसेनात्मजो नृपः ।। ५-२०-७४ ।।

मृतस्य केशेषु तदा-गृहीत्वा मधुसूदनः ।
चकर्ष देहं कंसस्य रङ्गमध्ये महाबलः ।। ५-२०-७५ ।।

गौरवेणातिमहता परिखा तेन कृष्यता ।
कृता कंसस्य देहे न वेगेनेव महाम्भसः ।। ५-२०-७६ ।।

कंसे गृहीते कृष्णेन तदूभ्राताभ्यागतो रुषा ।
सुमाली बलभद्रेण लीलयैव निपातितः ।। ५-२०-७७ ।।

ततो हाहाकृतं सर्व्वमासीत् तद्रङ्गण्ड ।
अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् ।। ५-२०-७८ ।।

कृष्णोऽपि वसुदवस्य पादौ जग्राह सत्वरः ।
देवक्याश्व महाबाहुर्बलभद्रसहायवान् ।। ५-२०-७९ ।।

उत्थाप्य वसुदेवस्ते देवकी च जनार्द्दनम् ।
स्मृततजन्मोक्तवचनौ तावेव प्रणतौ स्थितौ ।। ५-२०-८० ।।

प्रसीद सीदतां नाथ!देवाना वरदः प्रभो!
तथावयोः प्रसादेन कृतोद्धारश्व केशव ।। ५-२०-८१ ।।

आराधितो यध्भगवानवतौर्णो गृहे मम ।
दुर्व्वृत्तनिधनार्थाय तेन नः पावितं कुलम् ।। ५-२०-८२ ।।

त्वमन्तः सर्व्वभूतानां सर्व्वभूतेष्ववस्थितः ।
प्रवर्त्तेते समस्तात्मन्!त्वत्तो भूतभविष्यता ।। ५-२०-८३ ।।

यज्ञैस्त्वामज्यस नित्य सर्व्वदवमयाच्यूत!
त्वमेव यज्ञो यष्टा च यज्ञाना परमेश्वरः ।। ५-२०-८४ ।।

सापह्नवं मम मनो यदेतत् त्वयि जायते ।
देवक्याश्वात्मजप्रात्या तदत्यन्तविडम्बना ।। ५-२०-८५ ।।

क्क कर्त्ता सर्व्वभूतानामनादिनिधनो भवान् ।
क्व मे मनुष्यकस्येषा जिह्वा पुत्रेति वक्ष्यति ।। ५-२०-८६ ।।

जगदेतज्जगन्नाथ!सम्भूतमखिलं यतः ।
कया युक्तया विना मायां सोऽस्मत्तः सम्भविष्यति ।। ५-२०-८७ ।।

यस्मिन प्रतिष्ठितं सर्व्व जगत् स्थावरजङ्गमम् ।
म कोष्ठोतूसह्घशयनो मानुषाज्जायते कथम् ।। ५-२०-८८ ।।

स त्व प्रसाद परमश्वर ! पाहि विश्व-मशावतारकरणर्न ममासि पुत्रः ।
आब्रह्मपादपमय जगदेतदीश! त्व नो विमाहयसि किं परमेश्वरात्मन् ।। ५-२०-८९ ।।

मायाविमाहितदृशा तनया ममात कसाद्भय कृतमपास्तभयातितीव्रम् ।
नीतोऽसि गोकुलमितोऽतिभयाकुलस्य वृद्धि गतोऽसि मम नास्ति ममत्वमीश ।। ५-२०-९० ।।

कर्म्माणि रुद्र-मरुदश्वि-शतक्रतूनां साध्यानि यानि न भवन्ति निरीक्षितानि ।
त्वं विष्णुरीश! जगतामुपकारहेतोः प्राप्तोऽसि नः परिगतो विगतो हि मोहः ।। ५-२०-९१ ।।