विष्णुपुराणम्/पञ्चमांशः/अध्यायः ७

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

एकदा तु विना रामं कृष्णो वृन्दावनं ययौ ।
विचचार वृतो गोपैर्वन्यपुष्पस्त्रगुज्जवलः ।। ५-७-१ ।।

स जगामाथ कालिन्दीं लोलकल्लोलशालिनीम्
तीरसंलग्रफेनौर्घर्हसन्तीमिव सर्व्वतः ।। ५-७-२ ।।

तस्यां चातिमहाभीमं विषाग्रिश्वृतवारिणम् ।
ह्नदं कालियनागस्य ददृशेऽतीय भीषणाम् ।।५-७-३ ।।

विषाग्रिना विसरता दग्धतीरमहातरुम् ।
वाताहताम्बुविक्षेप-स्पर्शदग्धविहङ्गमम् ।। ५-७-४ ।।

तमतीव महारौद्र मृत्युवक्तूमिवापरम् ।
विलोक्य चिन्तयामास भगवान् मधुसूदनः ।। ५-७-५ ।।

अस्मिन् वसति दुष्टात्मा कालियोऽसौ विषायुधः ।
यो मया निर्ज्जितस्त्यक्त्वा दुष्टो नष्टः पयोनिधिम् ।। ५-७-६ ।।

तेनेयं दूषिता सर्व्वा यमुना सागर गता ।
न गोपैर्गोधनैर्वपि तृष्णार्त्तैरुपयुज्यते ।। ५-७-७ ।।

तदस्य नागराजस्य कर्त्तव्यो निग्रहो मया ।
निस्त्रासास्तु सुखं येन चरेयुर्व्र जवासिनः ।। ५-७-८ ।।

एतदर्थं नृलोकेऽस्मिन्नवतारो मया कृतः ।
यदेषामुत्पथस्थानां कार्य्या शास्तिदु रात्मनाम् ।। ५-७-९ ।।

तदेनं नातिदूरस्थ कदम्बमुरुशाखिनम् ।
अधिरुह्योतूपतिष्यामि ह्नदेऽस्मिन्ननिलाशिनः ।। ५-७-१० ।।

इत्थं विचिन्त्य बद्ध्वा च गाढ़ परिकरं ततः ।
निपपात ह्नदे तत्र सर्पराजस्य वेगितः ।। ५-७-११ ।।

तेनापि पतता यत्र क्षोभितः स महाह्नदः ।
अत्यर्थं दूरजातांस्तु समसिञ्चन्महीरुहान् ।। ५-७-१२ ।।

ते हि दुष्टविषज्वालातप्ताम्बुपवनोक्षिताः ।
जज्वलुः पादपाः सद्यो ज्वालाव्याप्तदिगन्तराः ।। ५-७-१३ ।।

आस्फोटयामास तदा कृष्णो नागह्नदे भुजम् ।
तच्छब्दश्रवणाज्वाशु नागाराजोऽप्युपागमत् ।। ५-७-१४ ।।

आताम्रनयनो दुष्ट-विषज्वालकुलैर्मुखैः ।
वृतो महाविषैश्वान्यैरुरगैरनिलाशिभिः ।। ५-७-१५ ।।

नागपत्नयश्व शतशो हारिहारोपशोभिताः ।
प्रकम्पिततनुक्षेपचलत्कुण्डलकान्तयः ।। ५-७-१६ ।।

ततः प्रवेष्टितःऋ सर्पैः स कृष्णो भोगबन्धनैः ।
ददंशुश्वापि ते कृष्णां विषज्वालाविलैर्म्मुखैः ।। ५-७-१७ ।।

तं तत्र पतितं दृष्ट्वा सर्पभोगनिपीड़ितम् ।
गोपा व्रजमुपागम्य चुक्रुशुः शोकलालसाः ।। ५-७-१८ ।।

एष मोहं गतः कुष्णो मग्रो वै कालियह्नदे ।
भक्ष्यते सर्पराजेन तदागच्छत पश्यत ।। ५-७-१९ ।।

तच्छुत्वा ते तदा गोपा वजूपातोपमं वचः ।
गोप्यश्व त्वरिता जग्मुर्यशोदाप्रमुखा ह्नदम् ।। ५-७-२० ।।

हा हा क्वासाविति जनो गोपीनामतिविह्वलः ।
यशोदया स सम्ब्रान्तो द्रु तं प्रस्खलितं ययौ ।। ५-७-२१ ।।

नन्दगोपश्व गोपाश्व रामश्वाद्भुतविक्रमः ।
त्वरितं यमुनां जग्मुः कृष्णदशनलालसाः ।। ५-७-२२ ।।

ददृशुश्वापि ते तत्र सर्पराजवशं गतम् ।
निष्प्रयत्रीकृतं कृष्णां सर्पभोगेन वेष्टितम् ।। ५-७-२३ ।।

नन्दगोपश्व निश्चेष्टो न्यस्य पुत्रमुखे दृशौ ।
यशोदा च महाभागा बभूव मुनिसत्तम ।। ५-७-२४ ।।

गोप्यस्त्वन्या रुदन्त्यश्व ददृशुः शोककातराः ।
प्रोचुश्व केशवं प्रीत्या भयकातर्य्यगदूगदम् ।। ५-७-२५ ।।

सर्व्वा यशोदया सार्द्ध विशामोऽत्र महाह्नदे ।
नागराजस्य नो गन्तुमस्माकं युज्यते ब्रजे ।। ५-७-२६ ।।

दिवसः को विना सूर्य्यं विना चन्द्रण का निशा
विना वृषेण का गावो विना कृष्णोन को ब्रजः ।। ५-७-२७ ।।

विनाकृता न यास्यामः कृष्णेनानेन गोकुलम् ।
अरण्यं नापि सेव्यञ्च वारिहीनं यथा सरः ।। ५-७-२८ ।।

यत्र नेन्दीवरदलप्रख्यकान्तिरयं हरिः ।
तेनापि मातुर्वासेन रतिरस्तीति विस्मयः ।। ५-७-२९ ।।

उत्फुल्ल-पङ्कज-दलस्पष्ट-कान्तिविलोचनम् ।
अपश्यन्तो हरिं दीनाः कथं गोष्ठे भविष्यथ ।। ५-७-३० ।।

अत्यन्तमधुरालापह्टताशेषमनोधनाः ।
न विना पुण्डरीकाक्षं यास्यामो नन्दगोकुलम् ।। ५-७-३१ ।

भोगेनावेष्टितस्यापि सर्पराजेन पश्यत ।
स्मितशोभि मुखं गोप्यः कृष्णस्यास्मदविलोकने ।। ५-७-३२ ।।

इति गोपीवचः श्रुत्वा रौहिणोयो महाबलः ।
गोपांश्व त्रासविधुरान् विलोक्य स्तिमितेक्षणः ।। ५-७-३३ ।।

नन्दञ्च दीनमत्यर्थं न्यस्तदृष्टिं सुतानने ।
मूर्च्छाकुलां यशोदाञ्च कृष्णमाहात्मसंज्ञया ।। ५-७-३४ ।।

किमिदं देवदेवेश!भावोऽयं मानुषस्त्वया ।
व्यज्यतेऽत्यन्तमात्मानं किमनन्तं न वेत्सि यत् ।। ५-७-३५ ।।

त्वमस्य जगतो नाभिरराणामिव संश्रयः ।
कर्त्तापहर्त्ता पाता च त्रैलोक्यं त्वं त्रयीमयः ।। ५-७-३६ ।।

सेन्द्र-रुद्रा-श्वि-वसुभिरादित्यैर्मरुदग्रिभिः ।
चिन्त्यसे त्वमचिन्त्यात्मन् !समस्तैश्चैव योगिभिः ।। ५-७-३७ ।।

जगत्यर्थ जगन्नाथ ! भारावतरणोच्छया ।
अवतीर्णोऽत्र मर्त्त्येषु तवांशश्वाहमग्रजः ।। ५-७-३८ ।।

मनुष्यलीलां भगवन् !भजता भवता सुराः ।
विड़म्बयन्तस्त्वल्लीलां सर्ब्व एव समासते ।। ५-७-३९ ।।

अवतार्य्य भवान् पूर्व्वं गोकुलेऽत्र सुराङ्गनाः ।
क्रीड़ार्थमात्मनः पश्वादवतीर्णोऽसि शाश्वतः ।। ५-७-४० ।।

अत्रावतीर्णा ये कृष्ण ! गोपा एव हि बान्धवाः ।
गोप्यश्व सीदतः कस्मात् त्वं बन्धून् समुपेक्षसे ।। ५-७-४१ ।।

दर्शितो मानुषो भावो दर्शितं बालचापलम् ।
तदयं दम्यतां कृष्णा!दुरात्मा दशनायुघः ।। ५-७-४२ ।।

इति संस्मारितः कृष्णः स्मितभिन्नोष्ठसम्पुटः ।
आस्फोठय मोचयामास स्वदेहं भोगबन्धनात् ।। ५-७-४३ ।।

आनम्य चापि हस्ताभ्यामुभाभ्यां मध्यमं फणम् ।
आरुह्याभुग्रशिरसः प्रननर्त्तोरुविक्रमः ।। ५-७-४४ ।।

व्रणाः फणेऽभवंस्तस्य कृष्णस्याङूघ्रिनिकुटृनैः ।
यत्रोन्नतिञ्च कुरुते न्नामास्य ततः शिरः ।। ५-७-४५ ।।

मूर्च्छामुपाययौ भ्रान्त्या नागः कृष्णस्य रेचकैः ।
दण्डपातनिपातेन ववाम रुधिरं बहु ।। ५-७-४६ ।।

तन्निर्भिन्नशिरोग्रीवमास्येभ्यः स्त्रु तशोणितम् ।
विलोक्य शरणां जग्मुस्ततूपत्नयो मधुसूदनम् ।। ५-७-४७ ।।

ज्ञातोऽसि देवदेवेश ! सर्व्वेशस्त्वमनुत्तम !
परं ज्योतिरचिन्तयंयस्तदंशः परमेश्वरः ।। ५-७-४८ ।।

न समर्थाः सुराः स्तोतु यमनन्यभवं प्रभुम् ।
खरूपवर्णनं तस्य कथं योषित् करिष्यति ।। ५-७-४९ ।।

यस्याशिलं मही-व्योम-जलाग्रि-पवनान्तकम् ।
ब्रह्माण्डमल्पकांशांशः स्तोष्यामस्तं कथं वयम् ।। ५-७-५० ।।

यतन्तो न विदुनिंत्यं यत्श्वरूपं हि योगिनः ।
परमार्थमणोरल्पं स्थूलात् स्थूलं नताः स्म तम् ।। ५-७-५१ ।।

न यस्य जन्मने धाता यस्य नान्ताय चान्तकः ।
स्थितिकर्त्ता न चान्योऽस्ति यस्य तस्मै नमः सदा ।। ५-७-५२ ।।

कोपः स्वल्पोऽपि ते नास्ति क्षितिपालनमेव ते ।
कारणां कालियस्यास्य दमने श्रूयतामतः ।। ५-७-५३ ।।

स्त्रियोऽनुकम्प्याः साधूनां मूढ़ा दीनाश्व जन्तवः ।
यतस्ततोऽस्य दीनस्य क्षम्यतां क्षमतां वर ।। ५-७-५४ ।।

समस्त-जगदाधारो भवानल्पबलः फणी ।
त्वया च पीड़ितो जह्यान्महूर्त्तार्द्धेन जीवितम् ।। ५-७-५५ ।।

क्व पन्नगोऽल्पवीर्य्योऽयं क्व भवान् भुवनाश्वयः ।
प्रीति-दूषौ समोत्कृष्ट-गोचरौ च यतोऽध्यय ।। ५-७-५६ ।।

ततः कुरु जगत्शामिन्! प्रसादमवसीदतः ।
प्राणांस्त्यजति नागोऽयं भर्त्तृ भिक्षा प्रदीयताम् । ५-७-५७ ।।

इत्युक्ते ताभिराश्वस्य क्लान्तदेहोऽपि पन्नगः ।
प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ।। ५-७-५८ ।।

तवाष्टगुणमैश्वर्य्यं नाथ! स्वाभाविकं बलम् ।
निरस्तातिशय यस्य तस्य स्तोष्यामि किन्न्वहम् ।। ५-७-५९ ।।

त्वं परस्त्व परस्याद्यः परं त्वत्तः परात्मक!
परस्मात् परमो यस्त्वं ततः स्तोष्यामि किं न्वहम् ।। ५-७-६० ।।

यस्माद् ब्रह्मा च रुद्रश्व चन्द्र न्द्रमरुतोऽश्विनौ ।
वसवश्व सहादित्यैस्तस्य स्तोष्यामि किं न्वहम् ।। ५-७-६१ ।।

एकावयवसूक्ष्मांशो यस्यैतदखिलं जगत् ।
कल्पनावयवस्त्वेष तं स्तोष्यामि कथं न्वहम् ।। ५-७-६२ ।।

सदसद्रूपिणो यस्य ब्रह्माद्यास्त्रिदशोत्तमाः ।
परमार्थ न जानन्ति तस्य स्तोष्यामि किं न्बहम ।। ५-७-६३ ।।

ब्रह्माद्य रर्ज्ज्यते दिव्यैर्यश्व पुष्पानुलेपनैः ।
नन्दनादिसमुद्भूतैः सोऽर्ज्ज्यते वा कथं मया ।। ५-७-६४ ।।

यस्यावताररूपाणि देवराजः सदाच्चति ।
न वेत्ति परमं रूपं सोऽर्च्च्यते वा कथं मया ।। ५-७-६५ ।।

विषयेभ्यः समाह्टत्य सर्व्वाक्षाणि च योगिनः ।
समर्च्च्यति ध्यानेन सोऽर्च्च्यते वा कथं मया ।। ५-७-६६ ।।

ह्टदि सङ्कल्प्य यद्रूपं धानेनार्च्चन्ति योगिनः ।
भावपुष्पादिना नाथ!सोऽर्च्च्यते वा कथं मया ।। ५-७-६७ ।।

सोऽहं ते देवदेवेश!नार्च्च्नायां स्तुतौ न च ।
सामर्थ्यवान् कृपामात्र-मनोवृत्तिः प्रसीद मे ।। ५-७-६८ ।।

सर्पजातिरियं क्रूरा यस्यां जातोऽस्मि केशव !
तत्स्वभावोऽयमत्रास्ति नापराधो ममाच्युत ।। ५-७-६९ ।।

सृज्यते भवता सर्व्वं तथा संह्नियते जगत् ।
जाति-रूपृ-स्वभावाश्व सृज्यन्ते जनगातां त्वया ।। ५-७-७० ।।

यथाहं भवता सृष्टो जात्या रूपेण चेश्वर!
स्वभावेन च संयुक्तस्तथेदं चिष्टितं मम ।। ५-७-७१ ।।

यदन्यथा प्रवर्त्तेयं देवदेव ! ततो मयि ।
न्याय्यो दण्डनिपातो वै तवैव वचनं यथा ।। ५-७-७२ ।।

तथापि यज्जगत्स्वामी दणडं पातितवान् मयि ।
स सोढ़ोऽयं वरं दण्डस्त्वत्तो नान्यत्र मे वरः ।। ५-७-७३ ।।

हतवीर्य्यो हतविषो दमितोऽहं त्वयाच्युत !
जीवितं दीयतामेकमाज्ञापय करोमि किम् ।। ५-७-७४ ।।

नात्र स्थेयं त्वया सपे!कदाचिद् यमुनाजले ।
सभृत्यपरिवारस्त्वं समुद्रसलिलं व्रज ।। ५-७-७५ ।।

मत्पदानि च ते सर्प! दृष्ट्वा मूर्द्धनि सागरे ।
गरुड़ः पन्नगरिपूस्त्वयि न प्रहरिष्यति ।। ५-७-७६ ।।

इत्युक्त्वा सर्पराजानं मुमोच भगवान् हरिः ।
प्रणम्य सोऽपि कृष्णाय जगाम पयसां निधिम् ।। ५-७-७७ ।।

पश्यतां सर्व्वभूतानां सभृत्यापत्यबान्धवः ।
समस्तभार्य्यासहितः परित्यज्य स्वकं ह्नदम् ।। ५-७-७८ ।।

ततः सर्व्वे परिष्वज्य मृतं पुनरिवागतम् ।
गोपा मूर्द्धनि गोविन्दं सिषिचुर्नेत्रजैर्जलैः ।। ५-७-७९ ।।

कृष्णमक्लिष्टकर्म्माणमन्ये विस्मितचेतसः ।
तुष्टुवुर्मुदिता गोपा दृष्ट्वा शिवजलां नदीम् ।। ५-७-८० ।।

गीयमानः स गोपीभिश्वरितैश्वारुचेष्टितैः ।
संस्तूयमानो गोपैस्तु कृष्णो व्रजमुपागमत् ।। ५-७-८१ ।।