विष्णुपुराणम्/पञ्चमांशः/अध्यायः १२

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

धृते गोवर्द्धने शैले परित्राते च गोकुले ।
रोचयामास कृष्णस्य दशनं पाकशासनः ।। ५-१२-१ ।।

सोऽधिरुह्य महानागमैरावतममित्रजित् ।
गोवर्द्धनगिरौ कृष्णां ददर्श त्रिदशेश्वरः ।। ५-१२-२ ।।

चारयन्तं महवीर्य्यं गावो गोपवपुर्धरम् ।
कृष्णञ्च जगतो गोपं वृतं गोपकुमारकैः ।। ५-१२-३ ।।

गरुड़ञ्च ददर्शोच्चैरन्तर्द्धानगतं द्रिज !
कृतच्छायं हरेर्मूदूर्ध्रि पक्षाभ्यां पक्षिपुङ्गवम् ।। ५-१२-४ ।।

अवरुह्य स नागेन्द्रादेकान्ते मधुसूदनम् ।
शक्रः सस्मितमाहेदं प्रीतिविस्फारितेक्षणः ।। ५-१२-५ ।।

कृष्ण!कृष्ण!श्वृणुष्वेदं यदर्थमहमागतः ।
त्वत्समीपं महाभाग!नैतच्चिन्त्यं त्वयान्यथा
भारावतारणार्थाय पृथिव्याः पृथिवीतलम् ।
अवतीर्णोऽखिलाघारस्त्वमेव परमेश्वर ।। ५-१२-७ ।।

महभङ्कविरुद्धेन मया गोकुलनाशकाः ।
समादिष्टा महामेघास्तैश्चेदं कवनं कतम् ।। ५-१२-८ ।।

त्रातास्तात!त्वया गावः समुत्पाठय महागिरिम् ।
तेनाहं तोषितो वीर! कर्म्मणात्यद्भुतेन ते ।। ५-१२-९ ।।

साधितं कृष्ण देवानामहं मन्ये प्रयोजनम् ।
त्वयायामद्रिप्रवरः करेणैकेन यद्धृतः ।। ५-१२-१० ।।

गोभिश्व चोदितः कृष्ण! त्वतूसकाशमिहागतः ।
त्वया त्राताभिरत्यर्थं युष्मत्सत्कारकारणात् ।। ५-१२-११ ।।

स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः ।
उपेन्द्रत्वे गवामिन्द्रो गोविन्दस्त्वं भविष्यसि ।। ५-१२-१२ ।।

अथोपबाह्यादब्शय घण्टामैरावताद् गजात् ।
अभिषेकं तया चक्रे पवित्रजलपूर्णया ।। ५-१२-१३ ।।

क्रियमाणेऽभिषेके तु गावः कृष्णस्य तत्क्षणात् ।
प्रस्मवोद्भूतदुग्धार्द्रा सद्यश्वक्रु र्वसुन्धराम् ।। ५-१२-१४ ।।

अभिषिच्य गवां वाक्याद् देवेन्द्रो वै जनार्द्दना ।
प्रीत्या सप्रश्वयं कृष्णं पुनराह शचीपतिः ।। ५-१२-१५ ।।

गवोमेत्त कृतं वाक्यं तथान्यदपि मे श्वृणु ।
यदू ब्रवीमि महाभाग!भारावतरणेच्छया ।। ५-१२-१६ ।।

ममांशः पुरुषव्याघ्र पृथायां पृथिवीतले ।
अवतीर्णोऽर्ज्जुनो नाम स रक्ष्यो भवता सदा ।। ५-१२-१७ ।।

भरावतारणे साह्य स ते वीरः करिष्यति ।
स रक्षणीयो भवता यथात्मा मघूसूदन ।। ५-१२-१८ ।।

जानामि भारते वंशे जातं पार्थ तवात्मजम् ।
तमहं पालयिष्यामि यावदस्मि महीतले ।। ५-१२-१९ ।।

यावन्महीतले शक्र!स्थास्याम्महमरिन्दम!
न तावदर्ज्जुनं कश्विद् देवेन्द्र! युधि जेष्यति ।। ५-१२-२० ।।

कंसो नाम महाबाहुर्दैत्योऽरिष्टस्तथापरः ।
केशी कुवलयापीड़ो नरकाद्यास्तथापरे ।। ५-१२-२१ ।।

हतेष्वेतेषु देवेन्द्र! भविष्यति महाहवः ।
तत्र विद्धिसहस्त्राक्ष भारावतरणं कृतम् ।। ५-१२-२२ ।।

स त्वं गच्छ न पुत्रार्थे सन्तापं कर्त्तुमर्हसि ।
नार्ज्जुनस्य रिपुः कश्विन्ममाग्र प्रभविष्यति ।। ५-१२-२३ ।।

अर्ज्जुनार्थे त्वहं सर्व्वान् युधिष्ठिरपुरोगमान् ।
निवृत्ते भारते युद्धे कुन्त्या दास्याम्यविक्षतान् ।। ५-१२-२४ ।।

इत्युक्ताः सम्परिष्वज्य देवराजो जनार्द्दनम् ।
आरुह्यरावतं नागं पुनरेव दिवं ययौ ।। ५-१२-२५ ।।

कृष्णोऽपि सहितो गोभिर्गोपालैश्व पुनर्व्रजम् ।
आजगामाथ गोपीनां दृष्टिपूतेन वर्त्मना ।। ५-१२-२६ ।।