सामग्री पर जाएँ

विष्णुपुराणम्/पञ्चमांशः/अध्यायः १२

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

श्रीपराशर उवाच।
धृते गोवर्द्धने शैले परित्राते च गोकुले ।
रोचयामास कृष्णस्य दर्शनं पाकशासनः १ ।
सोऽधिरुह्य महानागमैरावतममित्रजित् ।
गोवर्द्धनगिरौ कृष्णं ददर्श त्रिदश्श्वोरः २ ।
चारयंतं महावीर्यं गास्तु गोपवपुर्धरम् ।
कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः ३ ।
गरुडं च ददर्शोच्चैरंतर्द्धानगतं द्विज ।
कृतच्छायं हरेर्मूर्ध्नि पक्षाभ्यां पक्षिपुंगवम् ४ ।
अवरुह्य स नागेंद्रा देकांते मधुसूदनम् ।
शक्रस्सस्मितमाहेदं प्रीतिविस्तारितेक्षणः ५ ।
इंद्र उवाच।
कृष्णकृष्ण शृणुष्वेदं यदर्थ महामागतः ।
त्वत्समीपं महाबाहो नैतच्चिंत्यं त्वयाऽन्यथा ६ ।
भारावतारणार्थाय पृथिव्याः पृथिवीतले ।
अवतीर्णोऽखिलाधार त्वमेव परमेश्वर ७ ।
मखभंगविरोधेन मया गोकुलनाशकाः ।
समादिष्टा महामेघास्तैश्चेदं कदनं कृतम् ८ ।
त्रातास्ताश्च त्वया गावस्समुत्पाट्य महीधरम् ।
तेनाऽहं तोषितो वीरकर्मणाऽत्यद्भुतेन ते ९ ।
साधितं कृष्ण देवानामहं मन्ये प्रयोजनम् ।
त्वयायमद्रि प्रवरः करेणैकेन यद्धृतः १० ।
गोभिश्च चोदितः कृष्ण त्वत्सकाशमिहागतः ।
त्वया त्राताभिरत्यर्थं युष्मत्सत्कारकारणात् ११ ।
स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः ।
उपेंद्र त्वे गवामिंद्रो गोविंदस्त्वं भविष्यसि १२ ।
श्रीपराशर उवाच।
अथोपवाह्यादादाय घंटामैरावताद्गजात् ।
अभिषेकं तया चक्रे पवित्रजलपूर्णया १३ ।
क्रियमाणेऽभिषेके तु गावः कृष्णस्य तत्क्षणात् ।
प्रस्नवोद्भूतदुग्धाद्रा रं! सद्यश्चक्रुर्वसुन्धराम् १४ ।
अभिषिच्य गवां वाक्यादुपेंद्रं वै जनार्दनम् ।
प्रीत्या सप्रश्रयं वाक्यं पुनराह शचीपतिः १५ ।
गवामेतत्कृतं वाक्यं तथान्यदपि मे शृणु ।
यद्ब्रवीमि महाभाग भारावतरणेच्छया १६ ।
ममंशः पुरुषव्याघ्र पृथिव्यां पृथिवीधर ।
अवतीर्णोऽर्जुनोनाम संरक्ष्यो भवता सदा १७ ।
भारावतरणे साह्यं स ते वीरः करिष्यति ।
संरक्षणीयो भवता यथात्मा मधुसूदन १८ ।
श्रीभगवानुवाच।
जानामि भारते वंशो! जातं पार्थं तवांशतः ।
तमहं पालयिष्यामि यावत्स्थास्यामि भूतले १९ ।
यावन्महीतले शक्र स्थास्याम्यहमरिंदम ।
न तावदर्जुनं कश्चिद्देवेंद्र युधि जेष्यति २० ।
कंसो नाम महाबाहुर्दैत्योऽरिष्टस्तथाऽसुरः ।
केशी कुवलयापीडो नरकाद्यास्तथा परे २१ ।
हतेषु तेषु देवेंद्र भविष्यति महाहवः ।
तत्र विद्धि सहस्राक्ष भारावतरणं कृतम् २२ ।
स त्वं गच्छ न संतापं पुत्रार्थे कर्त्तुमर्हसि ।
नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति २३ ।
अर्जुनार्थे त्वहं सर्वान्युधिष्ठिरपुरोगमान् ।
निवृत्ते भारते युद्धे कुंत्यै दास्याम्यविक्षताम् २४ ।
श्रीपराशर उवाच।
इत्युक्तः संपरिष्वज्य देवाराजो जनार्दनम् ।
आरुह्यैरावतं नागं पुनरेव दिवं ययौ २५ ।
कृष्णो हि सहितो गोभिर्गोपालैश्च पुनर्व्रजम् ।
आजगामाऽथ गोपीनां दृष्टिपूतेन वर्त्मना २६ ।
इति श्रीविष्णुमहापुराणे पंचमांशो! द्वादशोऽध्यायः १२।