विष्णुपुराणम्/पञ्चमांशः/अध्यायः २९

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

द्रारवत्यां ततः शौरिं शक्रस्त्रिभुवनश्वरः ।
आजगामाथ मैत्रेय!मत्तैरावतपृष्ठगः ।। ५-२९-१ ।।

प्रिवश्य द्रारकां सोऽथ समेत्य हरिणा ततः ।
कथयामास दैत्यस्य नरकस्य विचेष्टितम् ।। ५-२९-२ ।।

त्वया नाथेन देवानां मनुष्यत्वेऽपि तिष्ठता ।
प्रशमं सर्व्वदुःखानि नीतानि मधुसूदन ।। ५-२९-३ ।।

तपस्वि-जननाशाय सोऽरिष्टो धेनुकस्तथा ।
चाणूरो मुष्टिकः केशी ते सर्व्वे निहतास्त्वया ।। ५-२९-४ ।।

कंसः कुवलयापीड़ः पूतना बालघातिनी ।
नाशं नीतास्त्वया सर्व्वे येऽन्ये जगदुपद्रवाः ।। ५-२९-५ ।।

युष्मद्दोर्दण्ड-सदूबुद्धि परित्राते जगत्त्रये ।
यज्वियज्ञांशसम्प्राप्त्या तृप्तिं यान्ति दिवौवसः ।। ५-२९-६ ।।

सोऽहं साम्प्रतमायातो यन्निमित्तं जनार्द्दन!
तच्छु त्वा तत्प्रतीकारप्रयत्नं कर्त्तुमर्हसि ।। ५-२९-७ ।।

भोमोऽयं नरको नाम्रा प्रागूज्योतिषपुरेश्वरः ।
करोति सर्व्वभूतानामुपघातमरिन्दम ।। ५-२९-८ ।।

देवसिद्धासुरादीनां नृपाणाञ्च जनार्द्दन!
ह्टत्वा हि सोऽसुरः कन्या रुरोध निजमन्दिरे ।। ५-२९-९ ।।

छत्रं यत् सलिलस्त्रावि तज्जहार प्रचेतसः ।
मन्दरस्य तथा श्वृङ्ग ह्टतवान् मणिपर्व्वतम् ।। ५-२९-१० ।।

अमृतस्त्राविणी दिव्ये मन्मातुः कृष्ण!कुणडले ।
जहार सोऽसुरोऽदित्या वाञ्छत्यैरावतं गजम् ।। ५-२९-११ ।।

दुर्णीतमेतदू गोविन्द!मया तस्य तवोदितम् ।
यदत्र प्रतिपव्यं तत् खयं प्रविमृष्यताम् ।। ५-२९-१२ ।।

इति श्वुत्वा स्मितं कृत्वा भगवान् देवकीसुतः ।
गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ।। ५-२९-१३ ।।

सञ्चिन्तितमुपारुह्य गरुड़ गगनेचरम् ।
सत्यभामां समारोप्य यौ प्रागूज्योतिषं पुरम् ।। ५-२९-१४ ।।

चिन्तयामास च विभुर्मनसा पन्नगाशनम् ।
ततो जगाम मैत्रेय!पश्यतां द्रारकौकसाम् ।। ५-२९-१५ ।।

प्रागूज्योतिषपुरस्यासीत् समन्ताच्छतयोजनम् ।
आचिता मौरवैः पाशैः क्षुरान्तैर्भूर्द्रिजोत्तम ।। ५-२९-१६ ।।

तांश्विच्छेद हरिः पाशान् क्षिप्त्वा चक्रं सुदर्शनम् ।
ततो मुरुः समुत्तस्थौ तं जघान च केशवः ।। ५-२९-१७ ।।

मुरोश्व तनयान सप्त सहस्त्रां स्तां स्ततो हरिः ।
चक्रधाराग्रिनिर्दग्धांश्वकार शलभानिव ।। ५-२९-१८ ।।

हत्वा मुरु हयग्रीवं तथा पञ्चजनं द्रिज!
प्रागूज्योतिषपुरं धीमांस्त्वरावान् समुपागतः ।। ५-२९-१९ ।।

नरकेणास्य तत्राभून्महासैन्येन संयुगः ।
कृष्णस्य यत्र गोविन्दो जघ्ने दैत्यान् सहस्त्रशः ।। ५-२९-२० ।।

शस्त्रास्त्रवर्ष मुञ्चन्तं भौमं तं नरकं बली ।
क्षिप्त्वा चक्र द्रिधा चक्र चक्रीदैतेयचक्रहा ।। ५-२९-२१ ।।

हते तु नरके भूमिर्गृहीत्वादितिकुणडले ।
उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत् ।। ५-२९-२२ ।।

यदाहमुद्धृता नाथ !त्वया शूकरमूर्त्तिना ।
त्वत्स्पर्शसम्भवः पुत्रस्तदायं मय्यजायत ।। ५-२९-२३ ।।

सोऽयं त्वयैव दत्तो मे त्वयैव विनिपातितः ।
गृहाण कुण्डले चेमे पालयास्य च सन्ततिम् ।। ५-२९-२४ ।।

भारावतारणार्थाय ममैव भगवानिमम् ।
अंशेन लोकमायातः प्रसादसुमुखः प्रभो ।। ५-२९-२५ ।।

त्वं कर्त्ता त्वं विकर्त्ता च संहर्त्ता प्रभवोऽप्ययः ।
जगतो त्वं जगद्रूपः स्तूयतेऽच्युत!किं तव ।। ५-२९-२६ ।।

व्यापी व्याप्यः क्रिया कर्त्ता कार्य्यञ्च भगवान् यथा ।
सर्व्वभूतात्मभूतस्य स्तूयते तव किं तदा ।। ५-२९-२७ ।।

परमात्मा च भूतात्मा महात्मा चाव्ययो भवानु ।
यदा तदा स्तुतिर्नाथ!किमर्थं ते प्रवर्त्तते ।। ५-२९-२८ ।।

प्रसीद सर्व्वभूतात्मन् !नरकेणा हि यत् कृतम् ।
तत् क्षम्यतामदोषाय त्वत्सुतः त्वन्निपातितः ।। ५-२९-२९ ।।

तथेति चोक्र्वा धरणीं भगवान् भूतभावनः ।
रत्रानि नरकावासाज्जग्राह मुनिसत्तम ।। ५-२९-३० ।।

कन्यापुरे स कन्यानां षोड़शातुलविक्रमः ।
शताधिकानि ददृशे सहस्त्राणि महामते ।। ५-२९-३१ ।।

चतुर्दन्तान् गजाश्वोग्रयान् षटूसहस्त्रान् स दृष्टवान् ।
काम्बोजानां तथाश्वानां नियुतान्येकविंशतिम् ।। ५-२९-३२ ।।

कन्यास्ताश्व तता नागांस्तानश्वान् द्रारकां पुरीम् ।
प्रषयामास गोनविन्दः सद्यो नरककिङ्करेः ।। ५-२९-३३ ।।

ददृशे वारुणं छत्रं तथैव मणिपर्व्वतम् ।
आरोपयामास हरिर्गरुड़ पन्नगाशने ।। ५-२९-३४ ।।

आरुह्य च स्वयं कृष्णाः सत्यभामा-सहायवान ।
अदित्याः कुण्डले दातु जगाम त्रिदिवालयम् ।। ५-२९-३५ ।।