सामग्री पर जाएँ

विष्णुपुराणम्/पञ्चमांशः/अध्यायः २९

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

द्वारवत्यां स्थिते कृष्णे शक्रस्त्रिभुवनेश्वरः ।
आजगामाथ मैत्रेय मत्तैरावतपृष्ठगः ॥ ५,२९.१ ॥
प्रविश्य द्वारकां सोऽथ समेत्य हरिणा ततः ।
कथयामास दैत्यस्य नरकस्य विचोष्टितम् ॥ ५,२९.२ ॥
त्वयानाथेन देवानां मनष्यत्वेपि तिष्ठता ।
प्रशमं सर्वदुःखानि नीतानि मधुसूदन ॥ ५,२९.३ ॥
तपस्विव्यमनार्थाय सोरिष्टो धेनुकस्तथा ।
प्रवृत्तो यस्तथा केशीते सर्वे निहतास्त्वया ॥ ५,२९.४ ॥
कंसः कुवलयापीडः पूतना बालघातिनी ।
नाशं नीतास्त्वया सर्वे येऽन्ये जगदुपद्रवाः ॥ ५,२९.५ ॥
युष्मद्दोर्दडसंभूतिपरित्राते जगत्त्रये ।
यज्वयज्ञांशसंप्राप्त्या तृप्तिं यान्ति दिवौकसः ॥ ५,२९.६ ॥
सोऽहं सांप्रतमायातो यन्निमित्तं जनार्दन ।
तच्छुत्वा तत्प्रतीकारप्रयत्नं कर्तुमर्हसि ॥ ५,२९.७ ॥
भौमोऽयं नरको नाम प्राग्ज्योतिषपुरेश्वरः ।
करोति सर्वभूतानामुपघातमरिन्दम ॥ ५,२९.८ ॥
देवसिद्दसुरादीनां नृपाणां च नजार्दन ।
हृत्वा तु सोऽसुरः कन्या रुरुधे निजमन्दिरे ॥ ५,२९.९ ॥
छत्रं यत्सलिलस्रावि तज्जहार प्रचेतसः ।
मदंरस्य तथा शृङ्गं हृतवान्मणिपर्वतम् ॥ ५,२९.१० ॥
अमृतस्त्राविणी दिव्ये मन्मातुः कृष्णकुञ्जले ।
जहार सोऽसुरो दित्या वाञ्छत्यैरावतं गजम् ॥ ५,२९.११ ॥
दुर्नीतमेतद्गोविन्दमया तस्य निवेदितम् ।
यदत्र प्रतिकर्तव्यं तत्स्वयं परिमृश्यताम् ॥ ५,२९.१२ ॥
श्रीपराशस उवाच
इतिश्रुत्वा स्मितं कृत्वा भगवान्देवकीसुतः ।
गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ॥ ५,२९.१३ ॥
संचिन्त्यागतमारुह्य गरुडं गगनेचरम् ।
सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ॥ ५,२९.१४ ॥
आरुह्यौरावतं नागं शक्रोऽपि त्रिदिवं ययौ ।
ततौ जगाम कृष्णश्च पश्यतां द्वारकौकसाम् ॥ ५,२९.१५ ॥
प्राग्ज्योतिषपुरस्यापि समन्ताच्छतयोजनम् ।
आचिता मौरवैः पाशैः क्षुरान्तैर्भूर्द्विजोत्तम ॥ ५,२९.१६ ॥
ताञ्चिच्छेद हरिः पाशान्क्षिप्त्वा चक्रं सुदर्शनम् ।
ततो मुरःसमुत्तस्थौ तं जघान च केशवः ॥ ५,२९.१७ ॥
मुरस्य तनयान्सप्त सहस्रांस्तांस्ततो हरिः ।
चक्रधाराग्निनिर्दग्धांश्चकार शलभानिव ॥ ५,२९.१८ ॥
हत्वासुरं हयग्रीवं तथा पञ्चजनं द्विज ।
प्राग्ज्योतिषपुरं धीमांस्त्वारावान्समुपाद्रवत् ॥ ५,२९.१९ ॥
नरकेणास्य तत्राभून्महासैन्येन संयुगम् ।
कृष्णस्य यत्र गोविन्दो यत्र गोविन्दो जघ्ने दैत्यान्सहस्रशः ॥ ५,२९.२० ॥
शस्त्रास्त्रवर्षं मुञ्चन्तं तं भौमं नरकं बली ।
क्षिप्त्वा चक्रं द्विधा चक्रे चक्री दैतेयचक्रहा ॥ ५,२९.२१ ॥
हते तु नरके भूमिर्गृहीत्वादितिकुण्डले ।
उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत् ॥ ५,२९.२२ ॥
पृथ्व्युवाच
यदाहमुद्धृता नाथ त्वया सूकरमूर्तिना ।
त्वत्स्पर्शसंभवः पुत्रस्तदायं मय्यजायत ॥ ५,२९.२३ ॥
सोऽयं त्वयैव दत्तो मे त्वयैब विनिपातितः ।
गृहाम कुण्डले चेमे पालयास्य च संततिम् ॥ ५,२९.२४ ॥
भारावतरणार्थाय ममैव भगवानिमम् ।
अंशेन लोकमायातः प्रसादसुमुखः प्रभो ॥ ५,२९.२५ ॥
त्वं कर्ता च विकर्ता च संहर्ता प्रभवोऽप्ययः ।
जगतान्त्वं जगद्रूपःस्तूयतेऽच्युत किं तव ॥ ५,२९.२६ ॥
व्याप्तिव्याप्यं क्रियाकर्ता कार्यं च भगवान्यथा ।
सर्वभूतात्मभूतस्य स्तूयते तव किं तथा ॥ ५,२९.२७ ॥
परमात्मा च भूतात्मा त्वमात्मा चाप्ययो भवान् ।
यथातथा स्तुतिर्नाथ किमर्थं ते प्रवर्तते ॥ ५,२९.२८ ॥
प्रसीद सर्वभूतात्मन्नरकेण तु यत्कृतम् ।
तत्क्षम्यतामदोषाय त्वत्सुतस्त्वन्निपातितः ॥ ५,२९.२९ ॥
श्रीपराशर उवाच
तथेति चोक्त्वा धरणीं भगवान् भूतभावनः ।
रत्नानि नरकावासाज्जग्राह मुनिसत्तम ॥ ५,२९.३० ॥
कन्यापुरे स कन्यानां षोडःशातुलविक्रमः ।
शताधिकानि ददृशे सहस्राणि महामुने ॥ ५,२९.३१ ॥
चतुर्दंष्ट्रान्गजांश्चाग्र्यान् षट्सहस्रांश्च दृष्टवान् ।
कांभोजानां तथाश्वानां नियुतान्येकविंशतिम् ॥ ५,२९.३२ ॥
ताः कन्यास्तांस्तथा नागांस्तानश्वान् द्वारकां पुरीम् ।
प्रापयामास गोविन्दः सद्यो नरककिङ्करैः ॥ ५,२९.३३ ॥
ददृशे वारुणं च्छत्रं तथैव मणिपर्वतम् ।
आरोपयामास हरिर्गरुडेपतगेश्वरे ॥ ५,२९.३४ ॥
आरुह्य च स्वयं कृष्णः सत्यभामासहायवान् ।
अदित्याः कुण्डले दानुं जगाम त्रिदशालयम् ॥ ५,२९.३५ ॥
इति श्रीविष्णुमहापुराणे पञ्चमांश एकोनत्रिंशोध्यायः (२९)

द्रारवत्यां ततः शौरिं शक्रस्त्रिभुवनश्वरः ।
आजगामाथ मैत्रेय!मत्तैरावतपृष्ठगः ।। ५-२९-१ ।।

प्रिवश्य द्रारकां सोऽथ समेत्य हरिणा ततः ।
कथयामास दैत्यस्य नरकस्य विचेष्टितम् ।। ५-२९-२ ।।

त्वया नाथेन देवानां मनुष्यत्वेऽपि तिष्ठता ।
प्रशमं सर्व्वदुःखानि नीतानि मधुसूदन ।। ५-२९-३ ।।

तपस्वि-जननाशाय सोऽरिष्टो धेनुकस्तथा ।
चाणूरो मुष्टिकः केशी ते सर्व्वे निहतास्त्वया ।। ५-२९-४ ।।

कंसः कुवलयापीड़ः पूतना बालघातिनी ।
नाशं नीतास्त्वया सर्व्वे येऽन्ये जगदुपद्रवाः ।। ५-२९-५ ।।

युष्मद्दोर्दण्ड-सदूबुद्धि परित्राते जगत्त्रये ।
यज्वियज्ञांशसम्प्राप्त्या तृप्तिं यान्ति दिवौवसः ।। ५-२९-६ ।।

सोऽहं साम्प्रतमायातो यन्निमित्तं जनार्द्दन!
तच्छु त्वा तत्प्रतीकारप्रयत्नं कर्त्तुमर्हसि ।। ५-२९-७ ।।

भोमोऽयं नरको नाम्रा प्रागूज्योतिषपुरेश्वरः ।
करोति सर्व्वभूतानामुपघातमरिन्दम ।। ५-२९-८ ।।

देवसिद्धासुरादीनां नृपाणाञ्च जनार्द्दन!
ह्टत्वा हि सोऽसुरः कन्या रुरोध निजमन्दिरे ।। ५-२९-९ ।।

छत्रं यत् सलिलस्त्रावि तज्जहार प्रचेतसः ।
मन्दरस्य तथा श्वृङ्ग ह्टतवान् मणिपर्व्वतम् ।। ५-२९-१० ।।

अमृतस्त्राविणी दिव्ये मन्मातुः कृष्ण!कुणडले ।
जहार सोऽसुरोऽदित्या वाञ्छत्यैरावतं गजम् ।। ५-२९-११ ।।

दुर्णीतमेतदू गोविन्द!मया तस्य तवोदितम् ।
यदत्र प्रतिपव्यं तत् खयं प्रविमृष्यताम् ।। ५-२९-१२ ।।

इति श्वुत्वा स्मितं कृत्वा भगवान् देवकीसुतः ।
गृहीत्वा वासवं हस्ते समुत्तस्थौ वरासनात् ।। ५-२९-१३ ।।

सञ्चिन्तितमुपारुह्य गरुड़ गगनेचरम् ।
सत्यभामां समारोप्य ययौ प्राग्ज्योतिषं पुरम् ।। ५-२९-१४ ।।

चिन्तयामास च विभुर्मनसा पन्नगाशनम् ।
ततो जगाम मैत्रेय!पश्यतां द्वारकौकसाम् ।। ५-२९-१५ ।।

प्राग्ज्योतिषपुरस्यासीत् समन्ताच्छतयोजनम् ।
आचिता मौरवैः पाशैः क्षुरान्तैर्भूर्द्विजोत्तम ।। ५-२९-१६ ।

तांश्विच्छेद हरिः पाशान् क्षिप्त्वा चक्रं सुदर्शनम् ।
ततो मुरुः समुत्तस्थौ तं जघान च केशवः ।। ५-२९-१७ ।।

मुरोश्व तनयान् सप्त सहस्रांस्तांस्ततो हरिः ।
चक्रधाराग्निनिर्दग्धांश्चकार शलभानिव ।। ५-२९-१८ ।।

हत्वा मुरुं हयग्रीवं तथा पञ्चजनं द्विज!
प्राग्ज्योतिषपुरं धीमांस्त्वरावान् समुपागतः ।। ५-२९-१९ ।।

नरकेणास्य तत्राभून्महासैन्येन संयुगः ।
कृष्णस्य यत्र गोविन्दो जघ्ने दैत्यान् सहस्त्रशः ।। ५-२९-२० ।।

शस्त्रास्त्रवर्ष मुञ्चन्तं भौमं तं नरकं बली ।
क्षिप्त्वा चक्र द्रिधा चक्र चक्रीदैतेयचक्रहा ।। ५-२९-२१ ।।

हते तु नरके भूमिर्गृहीत्वादितिकुणडले ।
उपतस्थे जगन्नाथं वाक्यं चेदमथाब्रवीत् ।। ५-२९-२२ ।।

यदाहमुद्धृता नाथ !त्वया शूकरमूर्त्तिना ।
त्वत्स्पर्शसम्भवः पुत्रस्तदायं मय्यजायत ।। ५-२९-२३ ।।

सोऽयं त्वयैव दत्तो मे त्वयैव विनिपातितः ।
गृहाण कुण्डले चेमे पालयास्य च सन्ततिम् ।। ५-२९-२४ ।।

भारावतारणार्थाय ममैव भगवानिमम् ।
अंशेन लोकमायातः प्रसादसुमुखः प्रभो ।। ५-२९-२५ ।।

त्वं कर्त्ता त्वं विकर्त्ता च संहर्त्ता प्रभवोऽप्ययः ।
जगतो त्वं जगद्रूपः स्तूयतेऽच्युत!किं तव ।। ५-२९-२६ ।।

व्यापी व्याप्यः क्रिया कर्त्ता कार्य्यञ्च भगवान् यथा ।
सर्व्वभूतात्मभूतस्य स्तूयते तव किं तदा ।। ५-२९-२७ ।।

परमात्मा च भूतात्मा महात्मा चाव्ययो भवानु ।
यदा तदा स्तुतिर्नाथ!किमर्थं ते प्रवर्त्तते ।। ५-२९-२८ ।।

प्रसीद सर्व्वभूतात्मन् !नरकेणा हि यत् कृतम् ।
तत् क्षम्यतामदोषाय त्वत्सुतः त्वन्निपातितः ।। ५-२९-२९ ।।

तथेति चोक्र्वा धरणीं भगवान् भूतभावनः ।
रत्रानि नरकावासाज्जग्राह मुनिसत्तम ।। ५-२९-३० ।।

कन्यापुरे स कन्यानां षोड़शातुलविक्रमः ।
शताधिकानि ददृशे सहस्त्राणि महामते ।। ५-२९-३१ ।।

चतुर्दन्तान् गजाश्वोग्रयान् षटूसहस्त्रान् स दृष्टवान् ।
काम्बोजानां तथाश्वानां नियुतान्येकविंशतिम् ।। ५-२९-३२ ।।

कन्यास्ताश्व तता नागांस्तानश्वान् द्रारकां पुरीम् ।
प्रषयामास गोनविन्दः सद्यो नरककिङ्करेः ।। ५-२९-३३ ।।

ददृशे वारुणं छत्रं तथैव मणिपर्व्वतम् ।
आरोपयामास हरिर्गरुड़ पन्नगाशने ।। ५-२९-३४ ।।

आरुह्य च स्वयं कृष्णाः सत्यभामा-सहायवान ।
अदित्याः कुण्डले दातु जगाम त्रिदिवालयम् ।। ५-२९-३५ ।।