विष्णुपुराणम्/पञ्चमांशः/अध्यायः २०

विकिस्रोतः तः
Jump to navigation Jump to search
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

श्रीपराशर उवाच
राजमार्गे ततः कृष्णस्सानुलेपनभाजनाम्
ददर्श कुब्जामायांतीं नवयौवनगोचराम् १
तामाह ललितं कृष्णः कस्येदमनुलेपनम्
भवत्या नीयते सत्यं वदेंदीवरलोचने २
सकामेनेव सा प्रोक्ता सानुरागा हरिं प्रति
प्राह सा ललितं कुब्जा तद्दर्शनबलात्कृता ३
कांत कस्मान्न जानासि कंसेन विनियोजिताम्
नैकवक्रेति विख्यातामनुलेपनकर्मणि ४
नान्यपिष्टं हि कंसस्य प्रीतये ह्यनुलेपनम्
भवाम्यहमतीवास्य प्रसादधनभाजनम् ५
श्रीकृष्ण उवाच
सुगंधमेतद्रा जार्हं रुचिरं रुचिरानने
आवयोर्गात्र सदृशं दीयतामनुलेपनम् ६
श्रीपराशर उवाच
श्रुत्वैतदाह सा कुब्जा गृह्यतामिति सादरम्
अनुलेपनं च प्रददौ गात्रयोग्यमथोभयोः ७
भक्तिच्छेदानुलिप्तांगौ ततस्तौ पुरुषर्षभौ
सेंद्र चापौ व्यराजेतां सितकृष्णाविवांबुदौ ८
ततस्तां चुबुके शौरिरुल्लापन विधानवित्
उत्पाट्य तोलयामास द्व्यंगुलेनाग्रपाणिना ९
चकर्ष पद्भ्यां च तदा ऋजुत्वं केशवोऽनयत्
ततस्सा ऋजुतां प्राप्ता योषितामभवद्वरा १०
विलासललितं प्राह प्रेमगर्भभरालसम्
वस्त्रे प्रगृह्य गोविंदं मम गेहं व्रजेति वै ११
एवमुक्तस्तया शौरी रामस्यालोक्य चाननम्
प्रहस्य कुब्जां तामाह नैकवक्रामनिंदिताम् १२
आयास्ये भवतीगेहमिति तां प्रहसन्हरिः
विससर्ज जहासोच्चै रामस्यालोक्य चाननम् १३
भक्तिभेदानुलिप्तांगौ नीलपीतांबरौ तु तौ
धनुश्शालां ततो यातौ चित्रमाल्योपशोभितौ १४
आयागं तद्धनूरत्नं ताभ्यां पृष्टैस्तु रक्षिभिः
आख्याते सहसा कृष्णो गृहीत्वा पूरयद्धनुः १५
ततः पूरयता तेन भज्यमानं बलाद्धनुः
चकार सुमहच्छब्दं मथुरा येन पूरिता १६
अनुयुक्तौ ततस्तौ तु भग्ने धनुषि रक्षिभिः
रक्षिसैन्यं निहत्योभौ निष्क्रांतौ कार्मुकालयात् १७
अक्रूरागमवृत्तांतमुपलभ्य महद्धनुः
भग्नं श्रुत्वा च कंसोऽपि प्राह चाणूरमुष्टिकौ १८
कंस उवाच
गोपालदारकौ प्राप्तौ भवद्भ्यां तु ममाग्रतः
मल्लयुद्धेन हंतव्यौ मम प्राणहरौ हि तौ १९
नियुद्धे तद्विनाश्नो भवद्भ्यां तोषितो ह्यहम्
दास्याम्यभिमतान्कामान्नान्यथैतौ महाबलौ २०
न्यायतोन्यायतो वापि भवद्भ्यां तौ ममाहितौ
हंताव्यौ तद्वधाद्रा ज्यं सामान्यं वां भविष्यति २१
इत्यादिश्य स तौ मल्लौ ततश्चाहूय हस्तिपम्
प्रोवाचोच्चैस्त्वया मल्लसमाजद्वारि कुंजरः २२
स्थाप्यः कुवलयापीडस्तेन तौ गोपदारकौ
घातनीयौ नियुद्धाय रंगद्वारमुपागतौ २३
तमप्याज्ञाप्य दृष्ट्वा च सर्वान्मंचानुपाकृतान्
आसन्न मरणः कंसः सूर्योदयमुदैक्षत २४
ततः समस्तमंचेषु नागरस्स तदा जनः
राजमंचेषु चारूढास्सह भृत्यैर्नराधिपाः २५
मल्लप्राश्निकवर्गश्च रंगमध्यसमीपगः
कृतः कंसेन कंसोऽपि तुंगमंचे व्यवस्थितः २६
अंतःपुराणां मंचाश्च तथाऽन्ये परिकल्पिताः
अन्ये च वारमुख्यानामन्ये नागरयोषिताम् २७
नंदगोपादयो गोपा मंचेष्वन्येष्ववस्थिताः
अक्रूरवसुदेवौ च मंचप्रांते व्यवस्थितौ २८
नागरीयोषितां मध्ये देवकीपुत्रगर्द्धिनी
अंतकालेऽपि पुत्रस्य द्रक्ष्यामीति मुखं स्थिता २९
वाद्यमानेषु तूर्येषु चाणूरे चातिवल्गति
हाहाकारपरे लोके ह्यास्फोटयति मुष्टिके ३०
ईषद्धसंतौ तौ वीरौ बलभद्र जनार्दनौ
गोपवेषधरौ बालौ रंगद्वारमुपागतौ ३१
ततः कुवलयापीडो महामात्रप्रचोदितः
अभ्यधावत वेगेन हंतुं गोपकुमारकौ ३२
हाहाकारो महाञ्जज्ञे रंगमध्ये द्विजोत्तम
बलदेवोऽनुजं दृष्ट्वा वचनं चेदमब्रवीत् ३३
हंतव्यो हि महाभाग नागोऽयं शत्रुचोदितः ३४
इत्युक्तस्सोऽग्रजेनाथ बलदेवेन वै द्विज
सिंहनादं ततश्चक्रे माधवः परवीरहा ३५
करेण करमाकृष्य तस्य केशिनिषूदनः
भ्रामयामास तं शैरिरैरावतसमं बले ३६
ईशोपि सर्वजगतां बाललीलानुसारतः
क्रीडित्वा सुचिरं कृष्णः करिदंतपदांतरे ३७
उत्पाट्य वामदंतं तु दक्षिणेनैव पाणिना
ताडयामास यंतारं तस्यासीच्छतधा शिरः ३८
दक्षिणं दंतमुत्पाट्य बलभद्रो ऽपि तत्क्षणात्
स रोषस्तेन पार्श्वस्थान् गजपालानपोथयत् ३९
ततस्तूत्प्लुत्य वेगेन रौहिणेयो महाबलः
जघान वामपादेन मस्तके हस्तिनं रुषा ४०
स पपात हतस्तेन बलभद्रे ण लीलया
सहस्राक्षेण वज्रेण ताडितः पर्वतो यथा ४१
हत्वा कुवलयापीडं हस्त्यारोहप्रचोदितम्
मदासृगनुलिप्तांगौ हस्तिदंतवरायुधौ ४२
मृगमध्ये यथा सिंहौ गर्वलीलावलोकिनौ
प्रविष्टौ सुमहारंगं बलभद्र जनार्दनौ ४३
हाहाकारो महाञ्जज्ञे महारंगे त्वनंतरम्
कृष्णोऽयं बलभद्रो यमिति लोकस्य विस्मयः ४४
सोऽयं येन हता घोरा पूतना बालघातिनी
क्षिप्तं तु शकटं येन भग्नौ तु यमलार्जुनौ ४५
सोयं यः कालियं नागं ममर्दारुह्य वालकः
धृतो गोवर्द्धनो येन सप्तरात्रं महागिरिः ४६
अरिष्टो धेनुकः केशी लीलयैव महात्मना
निहता येन दुर्वृत्ता दृश्यतामेष सोऽच्युतः ४७
अयं चास्य महाबाहुर्बलभद्रो ऽग्रतोऽग्रजः
प्रयाति लीलया योषिन्मनोनयननंदनः ४८
अयं स कथ्यते प्राज्ञैः पुराणार्थविशारदैः
गोपालो यादवं वंशं मग्नमभ्यद्धरिष्यति ४९
अयं हि सर्वलोकस्य विष्णोरखिलजन्मनः
अवतीर्णो महीमंशो नूनं भारहरो भुवः ५०
इत्येवं वर्णिते पौरै रामे कृष्णे च तत्क्षणात्
उरस्तताप देवक्याः स्नेहस्नुतपयोधरम् ५१
महोत्सवमिवासाद्य पुत्राननविलोकनात्
युवेव वसुदेवोऽभूद्विहायाभ्यागतां जराम् ५२
विस्तारिताक्षियुगलो राजांतःपुरयोषिताम्
नागरस्त्रीसमूहश्च द्र ष्टुं न विरराम तम् ५३
सख्यः पश्यत कृष्णस्य मुखमत्यरुणेक्षणम्
गजयुद्धकृतायासस्वेदांबुकणिकाचितम् ५४
विकासिशरदंभोजमपश्यामजलोक्षितम्
परिभूयं स्थितं जन्म सफलं क्रियतां दृशः ५५
श्रीवत्सांकं महद्धाम बालस्यैतद्विलोक्यताम्
विपक्षक्षपणं वक्षो भुजयुग्मं च भामिनि ५६
किं न पश्यसि दुग्धेंदुमृणालधवलाकृतिम्
बलभद्र मिमं नीलपरिधानमुपागतम् ५७
वल्गतामुष्टिकेनैव चाणूरेण तथा सखि
क्रीडतो बलभद्र स्य हरेर्हास्यं विलोक्यताम् ५८
सख्यः पश्यत चाणूरं नियुद्धार्थमयं हरिः
समुपैति न संत्यत्र किं वृद्धा मुक्तकारिणः ५९
क्व यौवनोन्मुखीभूतसुकुमारतनुर्हरिः
क्व वज्रकठिनाभोगशरीरोऽयं महासुरः ६०
इमौ सुललितैरंगैर्वर्त्तेते नवयौवनौ
दैतेयमल्लाश्चाणूरप्रमुखास्त्वतिदारुणाः ६१
नियुद्धप्राश्निकानां तु महानेष व्यतिक्रमः
यद्बालबलिनोर्युद्धं मध्यस्थैस्समुपेक्ष्यते ६२
श्रीपराशर उवाच
इत्थं पुरस्त्रीलोकस्व वदतश्चालयन्भुवम्
ववल्ग बद्धकक्ष्यॐतर्जनस्य भगवान्हरिः ६३
बलभद्रो ऽपि चास्फोट्य ववल्गललितं तथा
पदेपदे तथा भूमिर्यन्न शीर्णा तदद्भुतम् ६४
चाणूरेण ततः कृष्णो ययुधेऽमितविक्रमः
नियुद्धकुशलो दैत्यो बलभद्रे ण मुष्टिकः ६५
सन्निपातावधूतैस्तु चाणूरेण समं हरिः
प्रक्षेपणैर्मुष्टिभिश्च कीलवज्रनिपातनैः ६६
पादोद्धूतैः प्रमृष्टैश्च तयोर्युद्धमभून्महत् ६७
अशस्त्रमतिघोरं तत्तयोर्युद्धं सुदारुणम्
बलप्राणविनिष्पाद्यं समाजोत्सवसन्निधौ ६८
यावद्यावच्च चाणूरो युयुधे हरिणा सह
प्राणहानिमवापाग्र्यां तावत्तावल्लवाल्लवम् ६९
कृष्णोपि युयुधे तेन लीलयैव जगन्मयः
खेदाच्चालयता कोपान्निजकेसरश्खोरम् ७०
बलक्षयं विवृद्धिं च दृष्ट्वा चाणूकृष्णयोः
वारयामास तूर्याणि कंसः कोपपरायणः ७१
मृदंगादिषु तूर्येषु प्रतिषिद्धेषु तत्क्षणात्
खे संगतान्यवाद्यंत देवतूर्याण्यनेकशः ७२
जय गोविंद चाणूरं जहि केशव दानवम्
अंतर्द्धानगता देवास्तमूचुरतिहर्षिताः ७३
चाणूरेण चिरं कालं पीडित्वा मधुसूदनः
उत्पाट्य भ्रामयामास तद्वधाय कृतोद्यमः ७४
भ्रामयित्वा शतगुणं दैत्यमल्लममित्रजित्
भूमावास्फोटयामास गगने गतजीवितम् ७५
भूमावास्फोटितस्तेन चाणूरः शतधाऽभवत्
रक्तस्रावमहापंकां चकार च तदा भुवम् ७६
बलदेवोऽपि तत्कालं मुष्टिकेन महाबलः
युयुधे दैत्यमल्लेन चाणूरेण यथा हरिः ७७
सोऽप्येनं मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना
पातयित्वा धरापृष्ठे निष्पिपेष गतायुषम् ७८
कृष्ण स्तोशलकं भूयो मल्लराजं महाबलम्
वाममुष्टिप्रहारेण पातयामास भूतले ७९
चाणूरे नहते मल्ले मुष्टेके विनिपातिते
नीते क्षयं तोशलके सर्वे मल्लाः प्रदुद्रु वुः ८०
ववल्गतुस्ततो रंगे कृष्णसंकर्षणावुभौ
समानवयसो गोपान्बलादाकृष्य हर्षितौ ८१
कंसोऽपि कोपरक्ताक्षः प्राहोच्चैर्व्यायतान्नरान्
गोपावेतौ समाजौघान्निष्क्राम्येतां बलादितः ८२
नंदोऽपि गृह्यतां पापो निर्गलैरायसैरिह
अवृद्धार्हेण दंडेन वसुदेवोऽपि बध्यताम् ८३
वल्गंति गोपाः कृष्णेन ये चेमे सहिताः पुरः
गावो निगृह्य तामेषां यच्चास्ति वसु किंचन ८४
एवमाज्ञापयानं तु प्रहस्य मधुसूदनः
उत्प्लुत्यारुह्य तं मंचं कंसं जग्राह वेगतः ८५
केश्ष्वोआ!कृष्य विगलत्किरीटमवनीतले
स कंसं पातयामास तस्योपरि पपात च ८६
अश्षोजगदाधारगुरुणा पततोपरि
कृष्णेन त्याजितः प्राणानुग्रसेनात्मजो नृपः ८७
नृतस्य केश्षोउ! तदा गृहीत्वा मधुसूदनः
चकर्ष देहं कंसस्य रंगमध्ये महाबलः ८८
गौरवेणातिपतता परिघातेन कृष्यता
कृता कंसस्य देहेन वेगेनेव महांभसः ८९
कंसे गृहीते कृष्णेन तद्भ्राताऽभ्यागतो रुषा
सुनामा बलभद्रे ण लीलयैव निपातितः ९०
ततो हाहाकृतं सर्वमासीत्तद्रं गमंडलम्
अवज्ञया हतं दृष्ट्वा कृष्णेन मथुरेश्वरम् ९१
कृष्णोऽपि वसुदेवस्य पादौ जग्राह सत्वरः
देवक्याश्च महाबाहुर्बलदेवसहायवान् ९२
उत्थाप्य वसुदेवस्तं देवकी च जनार्दनम्
स्मृतजन्मोक्तवचनौ तावेव प्रणतौ स्थितौ ९३
श्रीवसुदेव उवाच
प्रसीद सीदतां दत्तो देवानां यो वरः प्रभो
तथावयोः प्रसादेन कृतोद्धारस्स केशव ९४
आराधितो यद्भगवानवतीर्णो गृहे मम
दुर्वृत्तनिधनार्थाय तेन नः पावितं कुलम् ९५
त्वमंतः सर्वभूतानां सर्वभूतमयस्थितः
प्रवर्त्तेते समस्तात्मंस्त्वत्तो भूतभविष्यती ९६
यज्ञैस्त्वमिज्यसेऽचिंत्य सर्वदेवमयाच्युत
त्वमेव यज्ञो यष्टा च यज्वनां परमेश्वरः ९७
समुद्भवस्समस्तस्य जगतस्त्वं जनार्दन ९८
सापह्नवं मम मनो यदेतत्त्वयि जायते
देवक्याश्चात्मजप्रीत्या तदत्यंतविडंबना ९९
त्वं कर्त्ता सर्वभूतानामनादिनिधनो भवान्
त्वं मनुष्यस्य कस्यैषा जिह्वा पुत्रेति वक्ष्यति १००
जगदेतज्जगन्नाथ संभूतमखिलं यतः
कया युक्त्या विना मायां सोऽस्मत्तः संभविष्यति १०१
यस्मिन्प्रतिष्ठितं सर्वं जगत्स्थावरजंगमम्
स कोष्ठोत्संगशयनो मानुषो जाय ते कथम् १०२
स त्वं प्रसीद परमेश्वर पाहि विश्वमंशावतारकरणैर्न ममासि पुत्रः
आब्रह्यपादपमिदं जगदेतदीश त्वत्तो विमोहयसि किं पुरुषोत्तमास्मान् १०३
मायाविमोहितदृशा तनयो ममेति कंसाद्भयं कृतमपास्तभयोऽतितीव्रम्
नीतोऽसि गोकुलमरातिभया कुलेन वृद्धिं गतोऽसि मम नास्ति ममत्वमीश १०४
कर्माणि रुद्र मरुदश्विशतक्रतूनां साध्यानि यस्य न भवंति निरीक्षितानि
त्वं विष्णुरीश जगतामुपकारहेतोः प्राप्तोसि नः परिगतो विगतो हि मोहः १०५
इति श्रीविष्णुमहापुराणे पंचमांशो! विंशोध्यायः २०