विष्णुपुराणम्/पञ्चमांशः/अध्यायः ३८

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

श्रीपराशर उवाच
अर्जुनोपि तदान्वीक्ष्य रामकृष्णकलेवरे
संस्कारं लंभयामास तथान्येषामनुक्रमात् १
अष्टौ महिष्यः कथिता रुक्मिणीप्रमुखास्तु याः
उपगुह्य हरेर्देहं विविशुस्ता हुताशनम् २
रेवती चापि रामस्य देहमाश्लिष्य सत्तमा
विवेश ज्वलितं वह्निं तत्संगाह्लादशीतलम् ३
उग्रसेनस्तु तच्छ्रुत्वा तथैवानकदुंदुभिः
देवकी रोहिणी चैव विविशुर्जातवेदसम् ४
ततोर्जुनः प्रेतकार्यं कृत्वा तेषां यथाविधि
निश्चक्राम जनं सर्वं गृहीत्वा वज्रमेव च ५
द्वारवत्या विनिष्क्रांताः कृष्णपत्न्यः सहस्रशः
वज्रं जनं च कौंतेयः पालयञ्छनकैर्ययौ ६
सभा सुधर्मा कृष्णेन मर्त्यलोके समुज्झिते
स्वर्गं जगाम मैत्रेय पारिजातश्च पादपः ७
यस्मिन्दिने हरिर्यातो दिवं संत्यज्य मेदिनीम्
तस्मिन्नेवावतीर्णोऽयं कालकायो बली कलिः ८
प्लावयामास तां शून्यां द्वारकां च महोदधिः
वासुदेवगृहं त्वेकं न प्लावयति सागरः ९
नातिक्रांतुमलं ब्रह्मंस्तदद्यापि महोदधिः
नित्यं सन्निहितस्तत्र भगवान्केशवो यतः १०
तदतीव महापुण्यं सर्वपातकनाशनम्
विष्णुश्रियान्वितं स्थानं दृष्ट्वा पामाद्विमुच्यते ११
पार्थः पंचनदे देशो! बहुधान्यधनान्विते
चकार वासं सर्वस्य जनस्य मुनिसत्तमः १२
ततो लोभस्समभवत्पार्थेनैकेन धन्विना
दृष्ट्वा स्त्रियो नीयमाना दस्यूनां निहतेश्वराः १३
ततस्ते पापकमाणो लोभोपहृतचेतसः
आभीरा मंत्रयामासुस्समेत्यात्यंतदुर्मदाः १४
अयमेकोऽर्जुनो धन्वी स्त्रीजनं निहतेश्वरम्
नयत्यस्मानतिक्रम्य धिगेतद्भवतां बलम् १५
हत्वा गर्वसमारूढो भीष्मद्रो णजयद्र थान्
कर्णादींश्च न जानाति बलं ग्रामनिवासिनाम् १६
यष्टिहस्तानवेक्ष्यास्मान्धनुष्पाणिस्स दुर्मतिः
सर्वानेवावजानाति किं वो बाहुभिरुन्नतैः १७
ततो यष्टिप्रहरणादस्यवो लोष्टधारिणः
सहस्रशोभ्यधावंत तं जनं निहतेश्वरम् १८
ततो निर्भर्त्स्य कौंतेयः प्राहाभीरान्हसन्निव
निवर्त्तध्वमधर्मज्ञा यदि न स्थ मुमूर्षवः १९
अवज्ञाय वचस्तस्य जगृहुस्ते तदा धनम्
स्त्रीधनं चैव मैत्रेय विष्वक्सेन परिग्रहम् २०
ततोर्जुनो धनुर्दिव्यं गांडीवमजरं युधि
आरोपयितुमारेभे न शशाक च वीर्यवान् २१
चकार सज्यं कृच्छ्राच्च तच्चाभूच्छिथिलं पुनः
न सस्मार ततोस्त्राणि चिंतयन्नपि पांडवः २२
शरान्मुमोच चैतेषु पार्थो वैरिष्वमर्षितः
त्वग्भेदं ते परं चक्रुरस्ता गांडीवधन्विना २३
वह्निना येऽक्षया दत्ताश्शरास्तेपि क्षयं ययुः
युद्ध्यतस्सह गोपालैरर्जुनस्य भवक्षये २४
अचिंतयच्च कौंतेयः कृष्णस्यैव हि तद्बलम्
यन्मया शरसंघातैस्सकला भूभृतो हताः २५
मिषतः पांडुपुत्रस्य ततस्ताः प्रमदोत्तमाः
आभीरैरपकृष्यंत कामं चान्याः प्रदुद्रु वुः २६
ततश्शरेषु क्षीणेषु धनुष्कोट्या धनंजयः
जघान दस्यूंस्ते चास्य प्रहाराञ्जहसुर्मुने २७
प्रेक्षतस्तस्य पार्थस्य वृष्ण्यंधकवरस्त्रियः
जग्मुरादाय ते म्लेच्छाः समस्ता मुनिसत्तम २८
ततस्सुदुःखितो जिष्णुः कष्टं कष्टमिति ब्रुवन्
अहो भगवतानेन मुष्टोस्मीति रुरोद वै २९
तद्धनुस्तानि शस्त्राणि स रथस्ते च वाजिनः
सर्वमेकपदे नष्टं दानमश्रोत्रिये यथा ३०
अहोतिबलबद्दैवं विना तेन महात्मना
यदसामर्थ्ययुक्तेपि निचवर्गे जयप्रदम् ३१
तौ बाहू स च मे मुष्टिः स्थानं तत्सोस्मि चार्जुनः
पुण्येनैव विना तेन गतं सर्वमसारताम् ३२
ममार्जुनत्वं भीमस्य भीमत्वं तत्कृते ध्रुवम्
विना तेन यदा भीरैर्जितोहं रथिनां वरः ३३
श्रीपराशर उवाच
इत्थं वदन्ययौ जिष्णुरिंद्र प्रस्थं पुरोत्तमम्
चकार तत्र राजानं वज्रं यादवनंदनम् ३४
स ददर्श ततो व्यासं फाल्गुनः काननाश्रयम्
तमुपेत्य महाभागं विनयेनाभ्यवादयत् ३५
तं वंदमानं चरणाववलोक्य मुनिश्चिरम्
उवाच वाक्यं विच्छायः कथमद्य त्वमीदृशः ३६
अवीरजोनुगमनं ब्रह्महत्या कृताथ वा
दृढाशाभंगदुःखीव भ्रष्टच्छायोऽसि सांप्रतम् ३७
सांतानिकादयो वाते याचमाना निराकृताः
अगम्यस्त्रीरतिर्वा त्वं येनासि विगतप्रभः ३८
भुङ्तेऽप्रदाय विप्रेभ्यो मृष्टमेकोथ वा भवान्
किं वा कृपणवित्तानि हृतानि भवताऽर्जुन ३९
कचिन्नु शूर्पवातस्य गोचरत्वं गतोऽर्जुन
दुष्टचक्षुर्हतो वासि निश्श्रीकः कथमन्यथा ४०
स्पृष्टो नखांभसा वाथ घटवचार्युक्षितोपि वा
केन त्वं वासि विच्छायो न्यूनैर्वा युधि निर्जितः ४१
श्रीपराशर उवाच
ततः पार्थो विनिश्वस्य श्रूयतां भगवन्निति
प्रोक्त्वा यथावदाचष्टे व्यासायात्मपराभवम् ४२
अर्जुन उवाच
यद्बलं यच्च मत्तेजो यद्वीर्यं यः पराक्रमः
या श्रीश्छाया च नः सोस्मान्परित्यज्य हरिर्गतः ४३
ईश्वरेणापि महता स्मितपूर्वाभिभाषिणा
हीना वयं मुने तेन जातास्तृणमया इव ४४
अस्त्राणां सायकानां च गांडीवस्य तथा मम
सारता याभवन्मूर्त्तिस्स गतः पुरुषोत्तमः ४५
यस्यावलोकनादस्माञ्छ्रीर्जयः संपदुन्नतिः
न तत्याज स गोविंदस्त्यक्त्वास्मान्भगवान्गतः ४६
भीष्मद्रो णांगराजाद्यास्तथा दुर्योधनादयः
यत्प्रावेन निर्दग्धास्स कृष्णस्त्यक्तवान्भुवम् ४७
निर्यौवना गतश्रीका नष्टच्छायेव मेदिनी
विभाति तात नैकोहं विरहे तस्य चक्रिणः ४८
यस्य प्रभावाद्भीष्माद्यैर्मय्यग्नौ शलभायतम्
विना तेनाद्य कृष्णेन गोपालैरस्मि निर्जितः ४९
गांडीवस्त्रिषु लोकेषु ख्यातिं यदनुभावतः
गतस्तेन विनाऽऽभीरलगुडैस्स तिरस्कृतः ५०
स्त्रीसहस्राण्यनेकानि मन्नाथानि महामुने
यततो मम नीतानि दस्युभिर्लगुडायुधैः ५१
आनीयमानमाभीरैः कृष्ण कृष्णावरोधनम्
हृतं यष्टिप्रहरणैः परिभूय बलं मम ५२
निश्श्रीकता न मे चित्रं यज्जीवामि तदद्भुतम्
नीचावमानपंकांकी निर्लज्जोस्मि पितामह ५३
व्यास उवाच
अलं ते व्रीडया पार्थ न त्वं शोचितुमर्हसि
अवेहि सर्वभूतेषु कालस्य गतिरीदृशी ५४
कालो भवाय भूतानामभवाय च पांडव
कालमूलमिदं ज्ञात्वा भव स्थैर्यपरोऽर्जुन ५५
नद्यः समुद्रा गिरयस्सकला च वसुंधरा
देवा मनुष्याः पशवस्तरवश्च सरीसृपाः ५६
सृष्टाः कालेन कालेन पुनर्यास्यंति संक्षयम्
कालात्मकमिदं सर्वं ज्ञात्वा शममवाप्नुहि ५७
कालस्वरूपी भगवान्कृष्णः कमललोचनः
यच्चात्थ कृष्णमाहात्म्यं तत्तथैव धनंजय ५८
भारावतारकार्यार्थमवतीर्णस्स मेदिनीम्
भाराक्रांता धरा याता देवानां समितिं पुरा ५९
तदर्थमवतीर्णोऽसौ कालरूपी जनार्दनः
तच्च निष्पादिनं कार्यमश्षोआ! भूभुजो हताः ६०
वृष्ण्यंधककुलं सर्वं तथा पार्थोपसंहृतम्
न किंचिदन्यत्कर्त्तव्यं तस्य भूमितले प्रभोः ६१
अतो गतस्स भगवान्कृतकृत्यो यथेच्छया
सृष्टिं सर्गे करोत्येष देवदेवः स्थितौ स्थितिम्
अंतेंताय समर्थोयं सांप्रतं वै यथा गतः ६२
तस्मात्यार्थ न संतापस्त्वया कार्यः पराभवे
भवंति भावाः कालेषु पुरुषाणां यतः स्तुतिः ६३
त्वयैकेन हता भीष्मद्रो णकर्णादयो रणे
तेषामर्जुन कालोत्थः किं न्यूनाभिभवो न सः ६४
विष्णोस्तस्य प्रभावेन यथा तेषां पराभवः
कृतस्तथैव भवतो दस्युभ्यस्स पराभवः ६५
स देवेशश्शरीराणि समाविश्य जगत्स्थितिम्
करोति सर्वभूतानां नाशमंते जगत्पतिः ६६
भगोदये ते कौंतेय सहायोऽभूज्जनार्दनः
तथांते तद्विपक्षास्ते केशवेन विनाशिताः ६७
कश्श्रद्दद्ध्यात्सगांगेयान्हन्यास्त्वं कौरवानिति
आभीरेभ्यश्च भवतः कः श्रद्दध्यात्पराभवम् ६८
पार्थैतत्सर्वभूतस्य हरेर्लीलाविचेष्टितम्
त्वया यत्कौरावा ध्वस्ता यदाभीरैर्भवाञ्जितः ६९
गृहीता दस्युभिर्याश्च भवाञ्छोचति तास्स्त्रियः
एतस्याह यथावृत्तं कथयामि तवार्जृन ७०
अष्टावकः पुरा विप्रो जलवासरतोऽभवत्
बहून्वर्षगणान्पार्थ गृणन्ब्रह्म सनातनम् ७१
जितेष्वसुरसंघेषु मेरुपृष्ठे महोत्सवः
बभूव तत्र गच्छंत्यो ददृशुस्तं सुरस्त्रियः ७२
रंभातिलोत्तमाद्यास्तु शतशोऽथ सहस्रशः
तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पांडव ७३
आकंठमग्नं सलिले जटाभारवहं मुनिम्
विनयावनताश्चैनं प्रणेमुस्तोत्रतत्पराः ७४
यथायथा प्रसन्नोऽसौ तुष्टुवुस्तं तथातथा
सर्वास्ताः कौरवश्रेष्ठ तं वरिष्ठं द्विजन्मनाम् ७५
अष्टावक्र उवाच
प्रसन्नोऽहं महाभागा भवतीनां यदिष्यते
मत्तस्तद्व्रियतां सर्वं प्रदास्याम्यतिदुर्लभम् ७६
रंभातिलोत्तमाद्यास्तं वैदिक्योप्सरसोब्रुवन्
प्रसन्ने त्वय्यपर्याप्तं किमस्माकमिति द्विज ७७
इतरास्त्वब्रुवन्विप्र प्रसन्नो भगवान्यदि
तदिच्छामः पतिं प्राप्तुं विप्रेंद्र पुरुषोत्तमम् ७८
व्यास उवाच
एवं भविष्यतीत्युक्त्वा ह्युत्ततार जलान्मुनिः
तमुत्तीर्णं च दृदृशुर्विरूपं वक्रमष्टधा ७९
तं दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत्
ताश्शशाप मुनिः कोपमवाप्य कुरुनंदन ८०
यस्माद्विकृतरूपं मां मत्वा हीसावमानना
भवतीभिः कृता तस्मादेतं शापं ददामि वः ८१
मत्प्रसादेन भर्त्तारं लब्ध्वा तु पुरुषोत्तमम्
मच्छापोपहतास्सर्वा दस्युहस्तं गमिष्यथ ८२
व्यास उवाच
इत्युदीरितमाकर्ण्य मुनिस्ताभिः प्रसादितः
पुनस्सुरेंद्र लोकं वै प्राह भूयो गमिष्यथ ८३
एवं तस्य मुनेश्शापादष्टावक्रस्य चक्रिणम्
भर्त्तारं प्राप्य ता याता दस्युहस्तं सुरांगनाः ८४
तत्त्वया नात्र कर्त्तव्यश्शोकोऽल्पोपि हि पांडव
तेनैवाखिलनाथेन सर्वं तदुपसंहृतम् ८५
भवतां चोपसंहार आसन्नस्तेन पांडव
बलं लेजस्तथा वीर्यं माहात्म्यं चोपसंहृतम् ८६
जातस्य नियतो मृत्युः पतनं च तथोन्नतेः
विप्रयोगावमानस्तु संयोगः संचये क्षयः ८७
विज्ञाय न बुधाश्शोकं न हर्षमुपयांति ये
तेषामेवेतरे चेष्टां शिक्षंतस्संति तादृशाः ८८
तस्मात्त्वया नरश्रेष्ठ ज्ञात्वैतद्भ्रातृभिस्सह
परित्यज्याऽखिलं तंत्रं गंतव्यं तपसे वनम् ८९
तद्गच्छ धर्मराजाय निवेद्यैतद्वचो मम
परश्वो भ्रातृडभिस्सार्द्धं यथा यासि तथा कुरु ९०
इत्युक्तोभ्येत्य पार्थाभ्यां यमाभ्यां च सहार्जुनः
दृष्टं चैवानुभूतं च सर्वमाख्यातवांस्तथा ९१
व्यासवाक्यं च ते सर्वे श्रुत्वार्जुनमुखेरितम्
राज्ये परीक्षितं कृत्वा ययुः पांडुसुता वनम् ९२
इत्येतत्तव मैत्रेय विस्तरेण मयोदितम्
जातस्य यद्यदोर्वंशो! वासुदेवस्य चेष्टितम् ९३
यश्चैतच्चरितं तस्य कृष्णस्य शृणुयात्सदा
सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ९४
इति श्रीविष्णुमहापुराणे पंचमांशो!ऽष्टात्रिंशोऽध्यायः ३८