सामग्री पर जाएँ

विष्णुपुराणम्/पञ्चमांशः/अध्यायः ७

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

श्रीपराशर उवाच
एकदा तु विना रामं कृष्णो वृंदावनं ययौ
विचचार वृतो गोपैर्वन्यपुष्पस्रगुज्ज्वलः १
स जगामाथ कालिंदीं लोलकल्लोलशालिनीम्
तीरसंलग्नफेनौघैर्हसंतीमिव सर्वतः २
तस्याश्चातिमहाभीमं विषाग्निश्रितवारिणम्
ह्रदं कालीयनागस्य ददर्शातिविभीषणम् ३
विषाग्निना प्रसरता दग्धतीरमहीरुहम्
वाताहतांबुविक्षेपस्पर्शदग्धविहंगमम् ४
तमतीव महारौद्रं मृत्युवक्त्रमिवापरम्
विलोक्य चिंतयामास भगवान्मधुसूदनः ५
अस्मिन्वसति दुष्टात्मा कालीयोऽसौ विषायुधः
यो मया निर्जितस्त्यक्त्वा दुष्टो गच्छेत्पयोनिधिम् ६
तेनेयं दूषिता सर्वा यमुना सागरंगमा
न नरैर्गोधनैश्चापि तृषार्त्तैरुपभुज्यते ७
तदस्य नागराजस्य कर्त्तव्यो निग्रहो मया
निस्त्रासास्तु सुखं येन चरेयुर्व्रजवासिनः ८
एतदर्थं तु लोकेस्मिन्नवतारः कृतो मया
यदेषामुत्पथस्थानां कार्या शांतिर्दुरात्मनाम् ९
तदेतं नातिदूरस्थं कदंबमुरुशाखिनम्
अधिरुह्य पतिष्यामि ह्रदेऽस्मिन्ननिलाशिनः १०
श्रीपराशर उवाच
इत्थं विचिंत्य बद्धा च गाढं परिकरं ततः
निपपात ह्रदे तत्र नागराजस्य वेगतः ११
तेनातिपतता तत्र क्षोभितस्स महाह्रदः
अत्यर्थं दूरजातांस्तु समसिंचन्महीरुहान् १२
ते हि दुष्टविषज्वालातप्तांबुपवनोक्षिताः
जज्वलुः पादपास्सद्यो ज्वालाव्याप्तदिगंतराः १३
आस्फोटयामास तदा कृष्णो नागह्रदे भुजम्
तच्छब्दश्रवणाच्चाशु नागराजोऽभ्युपागमत् १४
आताम्रनयनः कोपाद्विषज्वालाकुलैर्मुखैः
वृतो महाविषैश्चान्यैरुरगैरनिलाशनैः १५
नागपत्न्यश्च शतशो हारिहारोपशोभिताः
प्रकंपिततनुक्षेपचलत्कुंतलकांतयः १६
ततः प्रवेष्टितस्सर्पैस्स कृष्णे भोगबंधनैः
ददंशुस्तेऽपि तं कृष्णं विषज्वालाकुलैर्मुखैः १७
तं तत्र पतितं दृष्ट्वा सर्पभोगैर्निपीडितम्
गोपा व्रजमुपागम्य चुक्रुशुः शोकलालसाः १८
गोपा ऊचुः
एष मोहं गतः कृष्णो मग्नौ वै कालियह्रदे
भक्ष्यते नागराजेन तमागच्छत पश्यत १९
तच्छ्रुत्वा तत्र ते गोपा वज्रपा तोपमं वचः
गोप्यश्च त्वरिता जग्मुर्यशोदाप्रमुखा ह्रदम् २०
हाहा क्वासाविति जनो गोपीनामतिविह्वलः
यशोदया समं भ्रान्तो द्रु तप्रस्खलितं ययौ २१
नंदगोपश्च गोपाश्च रामश्चाद्भुतविक्रमः
त्वरितं यमुनां जग्मुः कृष्णदर्शनलालसाः २२
ददृशुश्चापि ते तत्र सर्पराजवशंगतम्
निष्प्रयत्नीकृतं कृष्णं सर्पभोगविवेष्टितम् २३
नंदगोपोपि निश्चेष्टो न्यस्य पुत्रमुखे दृशम्
यशोदा च महाभागा बभूव मुनिसत्तम २४
गोप्यस्त्वन्या रुदंत्यश्च ददृशुः शोककातराः
प्रोचुश्च केशवं प्रीत्या भयकातर्यगद्गदम् २५
गोप्य ऊचुः
सर्वा यशोदया सार्द्धं विशामोत्र महाह्रदम्
सर्पराजस्य नो गंतुमस्माभिर्युज्यते व्रजम् २६
दिवसः को विना सूर्यं विना चंद्रे ण का निशा
विना वृषेण का गावो विना कृष्णेन को व्रजः २७
विनाकृता न यास्यामः कृष्णेनानेन गोकुलम्
अरम्यं नातिसेव्यं च वारिहीनं यथा सरः २८
यत्र नेंदीवरश्यामकायकांतिरयं हरिः
तेनापि पातुर्वासेन रतिरस्तीति विस्मयः २९
उत्फुल्लपंकजदलस्पष्टकांतिविलोचनम्
अपश्यंतो हरिं दीनाः कथं गोष्ठे भविष्यथ ३०
अत्यंतमधुरालापहृताश्षोमनोरथम्
न विना पुंडरीकाक्षं यास्यामो नंदगोकुलम् ३१
भोगेनावेष्टितस्यापि सर्पराजस्य पश्यत
स्मितशोभिमुखं गोप्यः कृष्णस्यास्मद्विलोकने ३२
श्रीपराशर उवाच
इति गोपीवचः श्रुत्वा रौहिणेयो महाबलः
गोपांश्च त्रासविधुरान्विलोक्य स्तिमितेक्षणान् ३३
नंदं च दीनमत्यर्थं न्यस्तदृष्टिं सुतानने
मूर्च्छाकुलां यशोदां च कृष्णमाहात्मसंज्ञया ३४
किमिदं देवदेवेश भावोऽयं मानुषस्त्वया
व्यज्यतेत्यंतमात्मानं किमनंतं न वोत्सि यत् ३५
त्वमेव जगतो नाभिरराणामिव संश्रयः
कर्त्तापहर्त्ता पाता च त्रैलोक्यं त्वं त्रयीमयः ३६
सेंद्रै रुद्रा ग्निवसुभिरादित्यैर्मरुदश्विभिः
चिंत्यसे त्वमचिंत्यात्मन् समस्तैश्चैव योगिभिः ३७
जगत्यर्थं जगन्नाथ भारावतरणेच्छया
अवतीर्णोऽसि मर्त्येषु तवांशश्चाहमग्रजः ३८
मनुष्यलीलां भगवन् भजता भवता सुराः
विडम्बयन्तस्त्वल्लीलां सर्व एव सहासते ३९
अवतार्य भवान्पूर्वं गोकुले तु सुरांगनाः
क्रीडार्थमात्मनः पश्चादवर्तीर्णोऽसि शाश्वत ४०
अत्रावतीर्णयोः कृष्ण गोपा एव हि बांधवाः
गोप्यश्च सीदतः कस्मादेतान्बंधूनुपेक्षसे ४१
दर्शितो मानुषो भावो दर्शितं बालचापलम्
तदयं दम्यतां कृष्ण दुष्टात्मा दशनायुधः ४२
श्रीपराशर उवाच
इति संस्मारितः कृष्णः स्मितभिन्नोष्ठसंपुटः
आस्फोट्य मोचयामास स्वदेहं भोगिबंधनात् ४३
आनम्य चापि हस्ताभ्यामुभाभ्यां मध्यमं शिरः
आरुह्याभुग्नशिरसः प्रणनर्त्तोरुविक्रमः ४४
प्राणाः फणेऽभवंश्चास्य कृष्णस्यांघ्रिनिकुट्टनैः
यत्रोन्नतिं च कुरुते ननामास्य ततश्शिरः ४५
मूर्च्छामुपाययौ भ्रांत्या नागः कृष्णस्य रेचकैः
दंडपातनिपातेन ववाम रुधिरं बहु ४६
तं विभुग्नशिरोग्रीवमास्येभ्यस्स्रुतशोणितम्
विलोक्य करुणं जग्मुस्तत्पत्न्यो मधुसूदनम् ४७
नागपत्न्य ऊचुः
ज्ञातोऽसि देवदेवेश सर्वज्ञस्त्वमनुत्तमः
परं ज्योतिरचिंत्यं यत्तदंशः परमेश्वरः ४८
न समर्थाः सुरास्स्तोतुं यमनन्यभवं विभुम्
स्वरूपवर्णनं तस्य कथं योषित्करिष्यति ४९
यस्याऽखिलमहीर्व्योमजलाग्निपवनात्मकम्
ब्रह्मांडमल्पकाल्पांशः स्तोष्यामस्तं कथं वयम् ५०
यमतो न विदुर्नित्यं यत्स्वरूपं हि योगिनः
परमार्थमणोरल्पं स्थूलात्स्थूलं नताः स्म तम् ५१
न यस्य जन्मने धाता यस्य चांताय नांतकः
स्थितिकर्त्ता न चान्योस्ति यस्य तस्मै नमस्सदा ५२
कोपः स्वल्पोऽपि ते नास्ति स्थितिपालनमेव ते
कारणं कालियस्यास्य दमने श्रूयतां वचः ५३
स्त्रियोनुकंप्यास्साधूनां मूढा दीनाश्च जंतवः
यतस्ततोस्य दीनस्य क्षम्यतां क्षमतांवर ५४
समस्त जगदाधारो भवानल्पबलः फणी
त्वत्पादपीडितो जह्यान्मुहूर्त्तार्द्धेन जीवितम् ५५
पन्नगोल्पवीर्योऽयं क्व भवान्भुवनाश्रयः
प्रीतिद्वेषौ समोत्कृष्टगोचरौ भवतोऽव्यय ५६
ततः कुरु जगत्स्वामिन्प्रसादमवसीदतः
प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम् ५७
भुवनेश जगन्नाथ महापुरुषपूर्वज
प्राणांस्त्यजति नागोऽयं भर्तृभिक्षां प्रयच्छ नः ५८
वेदांतवेद्य देवेश दुष्टदैत्यनिबर्हण
प्राणांस्त्यजति नागोऽयं भर्तृभिक्षा प्रदीयताम् ५९
श्रीपराशर उवाच
इत्युक्ते ताभिराश्वस्य क्लांतदेहोपि पन्नगः
प्रसीद देवदेवेति प्राह वाक्यं शनैः शनैः ६०
कालिय उवाच
तवाष्टगुणमैश्वर्यं नाथ स्वाभाविकं परम्
निरस्तातिशयं यस्य तस्य स्तोष्यामि किन्न्वहम् ६१
त्वं परस्त्वं पस्याद्यः परं त्वत्तः परात्मक
परस्मात्परमो यस्त्वं तस्य स्तोष्यामि किन्न्वहम् ६२
यस्माद्ब्रह्मा च रुद्रश्च चंद्रेद्रं! मरुदश्विनः
वसवश्च सहादित्यैस्तस्य स्तोष्यामि किन्न्वहम् ६३
एकावयवसूक्ष्मांशो यस्यैतदखिलं जगत्
कल्पनावयवस्यांशस्तस्य स्तोष्यामि किन्न्वहम् ६४
सदसद्रू पिणो यस्य ब्रह्माद्यास्त्रिश्श्वोराः
परमार्थं न जानंति तस्य स्तोष्यामि किन्न्वहम् ६५
ब्रह्माद्यैरर्चिते यस्तु गंधपुष्पानुलेपनैः
नंदनादिसमुद्भूतैस्सोर्च्यते वा कथं मया ६६
यस्यावताररूपाणि देवराजस्सदार्च्चति
न वेत्ति परमं रूपं सोऽर्च्यते वा कथं मया ६७
विषयेभ्यस्समावृत्त्य सर्वाक्षाणि च योगिनः
यमर्चयंति ध्यानेन सोऽर्च्यते वा कथं मया ६८
[]हृदि संकल्प्य यद्रूपं ध्यानेनार्चंति योगिनः
भावपुष्पादिना नाथः सोर्च्यते वा कथं मया ६९
सोऽहं ते देवदेवेश नार्चनादौ स्तुतौ न च
सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे ७०
सर्पजातिरियं क्रुरा यस्यां जातोस्मि केशव
तत्स्वभावोऽयमत्रास्ति नापराधो ममाच्युत ७१
सृज्यते भवता सर्वं तथा संह्रीयते जगत्
जातिरूपस्वभावाश्च सृज्यंते सृजता त्वया ७२
यथाहं भवता सृष्टो जात्या रूपेण चेश्वर
स्वभावेन च साधुत्वं तथेदं चेष्टितं मया ७३
यद्यन्यथा प्रवर्त्तेयं देवदेव ततो मयि
न्याय्यो दण्डनिपातो वै तवैव वचनं यथा ७४
तथाप्यज्ञे जगत्स्वामिन्दंडं पातितवान्मयि
स श्लाघ्योयं दंडस्त्वत्तो मे नान्यतो वरः ७५
हतवीर्यो हतविषो दमितोऽहं त्वयाऽच्युत
जीवितं दीयतामेकमाज्ञापय करोमि किम् ७६
श्रीभगवानुवाच
नात्र स्थेयं त्वया सर्प कदाचिद्यमुनाजले
सपुत्रपरिवारस्त्वं समुद्र सलिलं व्रज ७७
मत्पदानि च ते सर्प दृष्ट्वा मूर्द्धनि सागरे
गरुडः पन्नगरिपुस्त्वयि न प्रहरिष्यति ७८
श्रीपराशर उवाच
इत्युक्त्वा सर्पराजं तं मुमोच भगवान्हरिः
प्रणम्य सोपि कुष्णाय जगाम पयसां निधिम् ७९
पश्यतां सर्वभूतानां सभृत्यसुतबांधवः
समस्तभार्यासहितः परित्यज्य स्वकं ह्रदम् ८०
गते सर्पे परिष्वज्य मृतं पुनरिवागतम्
गोपा मूर्द्धनि हार्देन सिषिचुर्नेत्रजैर्जलैः ८१
कृष्णमक्लिष्टकर्माणमन्ये विस्मितचेतसः
तुष्टुवुर्मुदिता गोपा दृष्ट्वा शिवजलां नदीम् ८२
गीयमानः स गोपीभिश्चारितैस्साधुचेष्टितैः
संस्तूयमानो गोपैश्च कृष्णो व्रजमुपागमत् ८३
इति श्रीविष्णुमहापुराणे पंचमांशो! सप्तमोऽध्यायः ७

  1. हृदीति ॥ भावपुष्पादिना मनोमयपुष्पधूपदीपाद्युपचारेण । यद्वा-भावेन अहिंसादिमयेन पुष्पादिना तदुक्तं-अहिंसा प्रथमं पुष्पं पुष्पमिंद्रियनिग्रहः । सर्वभूतदया पुष्पं क्षमा पुष्पं विशिष्यते ॥ शमः पुष्पं तपः पुष्पं ध्यानं पुष्पं तथैव च ॥ सत्यं चैवाष्टमं पुष्पमेतैस्तुष्यति केशवः इति ॥ - विष्णुचित्तीयव्याख्या