सामग्री पर जाएँ

प्रश्नसंहिता/अध्यायः ९

विकिस्रोतः तः
← अध्यायः ८ प्रश्नसंहिता
अध्यायः ९
[[लेखकः :|]]
अध्यायः १० →
प्रश्नसंहितायाः अध्यायाः

।। नवमोऽध्यायः ।।

श्रीः-
भगवन् पुण्डरीकाक्ष सर्वशास्त्रार्थवित्तम।
प्रासादभेदमधुना मह्यं त्वं वक्तुमर्हसि।। 9.1 ।।
भगवान्-
प्रभेदमधुना वक्ष्ये विमानानां सलक्षणम्।
(1)भेदान् वक्तुमशक्यत्वात् किंचिदेवोपपाद्यते।। 9.2 ।।
(1.पा. आनन्त्यात् तच्च भेदानां किञ्चिदेव प्रदर्श्यते।)
(2)तलाधिष्ठानभेदेन विमाना बहुधा रमे।
चतुरश्रा वर्तुलाश्च तथाष्टाश्रषडश्रकाः।। 9.3 ।।
(2.पा. विमानानि च भिद्यन्ते तलाधिष्ठानभेदतः।)
चतुरश्रायताश्चैव वृत्तायतविभेदतः।
मस्तकग्रीवयोर्वृत्तं वैजयन्तं प्रचक्षते।। 9.4 ।।
मूले मूले यदि स्थूलमग्रेऽग्रे (3)सूक्ष्मकं भवेत्।।
पुरोभागे महाघोणं त्रिदिक्षु स्वल्पनासिकम्।। 9.5 ।।
(3.पा. सूक्ष्ममद्भुतम्।)
स्तूपीचतुष्कं नासायां विमाने चोभयोरपि।
वृत्तायतविमानं (4)तद्रथधामाभिपूजितम्।। 9.6 ।।
(4.पा. तद्‌दृढधामाभिपूजितम्।)
(5)सकर्णकूटशृङ्गाग्रं मध्ये भद्रं तथाविधम्।
श्रीविशालमिति (6)प्रोक्तमष्टाश्रं स्वस्तिबन्धनम्।। 9.7 ।।
(5.पा. सकर्णकूटं श्रीभोगं)
(6.पा. प्रोक्तं वस्वश्रं)
श्रीकरं चतुरश्रं तु (7)षोडशाश्रं तु पुष्पकम्।
भद्रेण सहितं मध्ये मस्तके कर्ण(8)बन्धनम्।। 9.8 ।।
(7.पा. षोडशाश्रयुतं पुनः।)
(8.पा. कन्धरम्।)
कोष्ठकं भद्रनास्यङ्गं सुवृत्तं गलमस्तकम्।
विमानं केसरं नाम सर्वालंकारशोभितम्।। 9.9 ।।
मुखे मुखे समावृत्तं शिरस्तु द्वित्रिनेत्रकम्।
सौमुख्यं कर्करीभूतं वृत्तगर्भगृहान्वितम्।। 9.10 ।।
मुखे तस्य महाघोणं विमानं चोभयोरपि।
स्तूपीयुग्ममयुग्मं वा नासिकाल्पं त्रिदिक्षु च।। 9.11 ।।
वृत्तायतं सुवृत्तं वा नाम्नैतत् स्यात्सुदर्शनम्।
चतुरश्रमधिष्ठानं (9)तद्वत्कर्णं च मस्तकम्।। 9.12 ।।
(9.पा. तद्वत्कण्ठं)
(10)चतुष्कूटेन संयुक्तं चतुष्कोष्ठसमन्वितम्।
शिखरं च महद्दिक्षु महानासाभिरन्वितम्।। 9.13 ।।
(10.पा. चतुष्कूटसमायुक्तं)
तोरणैर्वेदिभद्रैश्च नानाचित्रैर्विचित्रितम्।
नाम्नैतत् स्वस्तिकं प्रोक्तं (11)विमानेषूत्तमं स्मृतम्।। 9.14 ।।
(11.पा. विमानेषु सुपूजितम्।)
तदेव सौष्ठिकं निम्नमुन्नतं कोष्ठकं यदि।
अन्तः प्रस्तरसंयुक्तमेतद्विपुलसुन्दरम्।। 9.15 ।।
अंशमंशद्वयं सत्रिपादांशं साङ्घ्रिभागकम्।
भागद्वयं विभक्ताङ्घ्रिं प्रस्तरग्रीवमस्तकम्।। 9.16 ।।
पादोदये नवांशे तु द्वितलादिविमानके।
अन्तरप्रस्तरोपेतं कूटशालाभिरन्वितम्।। 9.17 ।।
नानालंकारसंयुक्तं नानापादैरलंकृतम्।
[विमानं पर्वतं प्रोक्तं विमानेषु सुपूजितम्।। 9.18 ।।
तदेव वर्तुलं वेदिकंदरं शिखरं घटम्।
अष्टकूटं चतुःशालायुक्तं सप्ताष्टनासिकम्।। 9.19 ।।]
[कोष्ठकं निर्मलं मध्ये द्वित्रिदण्डेन सोष्टकम्।
समग्रीवशिरोपेतं कूटकोष्ठसमन्वितम्।। 9.20 ।।
नानाधिष्ठानसंयुक्तं नानापादैरलंकृतम्।]
चतुरश्रं सुवृत्तं वा (12)(13)नाभिभिर्बहुभिर्युतम्।। 9.21 ।।
(12.ग्र. नासाभिः)
(13.पा. नाभिभिः)
नाम्नैतन्मन्दरं प्रोक्तं विमानं (14)कमलालये।
तदेव शिखरे सार्ध(15)कोणकं तु चतुष्टयम्।। 9.22 ।।
(14.पा. कमलासन)
(15.पा. कोष्ठकम्)
चतुरश्रशिरोयुक्तं चतुष्कूटसमन्वितम्।
(16)अनेकतलसंयुक्तं नानाधिष्ठानमद्भुतम्।। 9.23 ।।
(16.पा. नानाधिष्ठानसंयुक्तमनेकतलसंयुतम्।)
(17)सहस्रनासीसहितं तदर्धं पादमेव वा।
नाम्नैतत्स्वस्तिबन्धं (18)स्यादनेकाङ्गोपशोभितम्।। 9.24 ।।
(17.पा. नासीभिश्च सहस्रैस्तु)
(18.पा. स्यान्नानावयवशोभितम्।)
तदेव (19)पौष्टिकं कोष्ठमन्तराप्रस्तरैर्युतम्।
हाराल्पं (20)बन्धुरं निम्नं (21)नवाल्पैरल्पनासिकम्।। 9.25 ।।
(19.पा. सौष्ठिकं)
(20.पा. कन्धरं)
(21.नवाष्टैवल्पिनासिकम्।)
(22)नानाचित्रसमाकीर्णमेतत् (23)कल्याणकं स्मृतम्।
चतुरश्रमधिष्ठानं वृत्तगर्भगृहान्वितम्।। 9.26 ।।
(22.पा. नानालङ्कारसंयुक्तम्)
(23.पा. कल्याणमिष्यते।
      अत्र कल्याणानन्तरं पाञ्चालं विष्णुकान्तं, सुमङ्गलं, कान्तारं, पुष्करम् इति पञ्च विमानानि पाद्मे अधिकतया वर्णितानि।)
सर्वालंकारसंयुक्तमेतत् (24)कौबेरकान्तकम्।
तदेव चतुरश्रं स्याद् गर्भगेहमसूरकम्।। 9.27 ।।
(24.ग्र. नाम्ना मनोहरम्।)
वर्तुलं जन्मतस्तूपिकान्तं चेद्‌वृत्तहर्म्यकम्।
आयताश्रमधिष्ठानं षडश्रं कंधरं शिरः।। 9.28 ।।
नानालंकारसंयुक्तमेतत् (25)नाम्ना मनोहरम्।
नानाधिष्ठानसंयुक्तं नानापादैरलंकृतम्।। 9.29 ।।
(25.ग्र.कौबेरकान्तकम्।)
पादोपरिसमासीनस्वस्तिकाबन्धशोभितम्।
अनेकतलसंयुक्तं नानालंकारसंयुतम्।। 9.30 ।।
(26)बहुनासीसमायुक्तं स्तूषिभिर्बहुभिर्युतम्।
भद्रकोष्ठमिदं नाम्ना चायतं चतुरश्रकम्।। 9.31 ।।
(26.पा. नासीभिर्बहुमिर्युक्तं।)
तदेव वर्तुलं (27)कर्णकूटं कर्णशिरस्तथा।
चतुर्नासीसमायुक्तं वृत्तकूटमिदं भवेत्।। 9.32 ।।
(27.ग्र कण्ठ)
तदेवाष्टांशमाधिक्यमायतं (28)चतुरश्रवत्।
कर्णकूटं तथा कर्णमायतं वृत्तमस्तकम्।। 9.33 ।।
(28.पा. चतुरश्रकम्।)
शेषं पूर्ववदुद्दिष्टं नाम्ना श्रीभोगसंज्ञितम्।
वृत्ते वृत्तायते चैव नासीभिर्बहुभिर्युतम्।। 9.34 ।।
अनेकतलसंयुक्तं (29)नानाचित्रविराजितम्।
विमानादारकैर्युक्तमेतत्पुष्करमिष्यते।। 9.35 ।।
(29.पा. नानालङ्कारसंयुतम्।)
जलस्थलं विहायोर्ध्वे आयतं चतुरश्रकम्।
कर्णं च शिखरं तद्वत् चतुर्नासीसमायुतम्।। 9.36 ।।
(30)नानाशोभान्वितं तत्स्याल्लम्बपञ्जरमीरितम्।
नाना मसूरकस्तम्भवेदिकाद्यैरधिष्ठितम्।। 9.37 ।।
(31)
(30.पा. नानालङ्कारसंयुक्तं।)
(31.ग्र. जालतोरणम्।)
(32)विचित्रपादसंयुक्तम् (33)जयाख्यं परिचक्षते।
[तदेवान्यैरलंकारैर्वेदाश्रं कंधरं शिरः।। 9.38 ।।
(32.पा. नानानाटकसंयुक्तं।)
(33.ग्र. एतन्नाम्ना जयावहम्)
नानामसूरकस्तम्भवेदिकाद्यै(34)रधिष्ठितम्।(35)]
एवमादिविमानानि कारयित्वा च शिल्पिभिः।। 9.39 ।।
(34.पा. रलंकृतम्।)
(35.इदं वेदिकाख्यविमानवर्णनम्; अत्र नामनिर्देशपरौ श्लोकार्धौ लुप्तौ भातः। ततः परं पद्मे पञ्चविंशतिः विमानान्तराणि अधिकतया वर्णितानि।)
ततो मूर्धेष्टकाधानं कुर्याद्देशिकसत्तमः।
मूर्धेष्टकाविधिश्चापि मूलेष्टकसमो भवेत्।। 9.40 ।।
कुम्भादिपूजनं कृत्वा यजमानेन देशिकः।
तत्रैव रात्रिं निनयेज्जागरेण हरिं स्मरन्।। 9.41 ।।
प्रातर्नित्याह्निकं कृत्वा ध्यायन्नारायणं हरिम्।
शङ्खतूर्यनिनादेन वेदघोषेण संयुतः।। 9.42 ।।
शिला आदाय चर्त्विग्भिः प्रादक्षिण्येन मन्दिरम्।
(36)आरोपयेच्च ताः सर्वा विमानस्योपरिस्थले।। 9.43 ।।
(36.पा. आरोपयेयुः।)
विमानाग्रमथारुह्य प्राङ्मुखः पुण्यवारिणा।
प्रोक्ष्य नारायणं ध्यात्वा स्थापयेत्तच्छिला रमे।। 9.44 ।।
स्तूप्याधारं ततः कुर्युः शिल्पिनोऽण्डसमं दृढम्।
बह्व्यीश्चेत्‌स्तूपिकाः कुर्युर्नीलोत्पलदलाकृतीः।। 9.45 ।।
दीर्घपीठामनश्रं वा षोडशाश्रमथापि वा।
चतुरश्रं वर्तुलं वाप्यष्टाश्रं वा प्रकल्प्य च।। 9.46 ।।
कुम्भाधारस्य देशे तु दलान् पद्मस्य कल्पयेत्।
संस्थापयेत् तदुपरि स्तूपिकास्तु यथेच्छया।। 9.47 ।।
एका वा द्वे च तिस्रो वा चतस्रो वा वरानने।
अष्टौ वा द्वादशा वापि षोडशा वापि विंशतिः।। 9.48 ।।
विमानकण्ठतुलितं लोहजं दारुजं तु वा।
संस्थाप्या स्तूपिका कीलमेकं वा बहु वा रमे।। 9.49 ।।
वृत्तायते विमाने तु चतुरश्रायतेऽपि वा।
युग्मं स्यात् स्तूपिकाकीलमपुनर्भवकाङ्क्षिणाम्।। 9.50 ।।
इतरेषामयुग्मं स्यात् स्तूपिका किल कल्पनम्।
युग्मं विंशतिसंख्याकमयुग्मं त्वेकहीनकम्।। 9.51 ।।
चतुरश्रे षडश्रे चाप्यष्टाश्रे (37)त्वेककीलकम्।
स्तूपिका कीलमेकं स्यात् सर्वकामफलप्रदम्।। 9.52 ।।
(37.ग्र. समवृत्तके)
कीलान्तमित्थं निर्माय विमानस्य च सर्वतः।
मूर्तीः संस्थाप्येद्विद्वान् शिल्पशास्त्रविचक्षणैः।। 9.53 ।।
इन्द्रमैन्द्र्यां (38)विमानस्य कुमारं वापि पोत्रिणम्।
वासुदेवं श्रीधरं वा दक्षिणस्यामुमापतिम्।। 9.54 ।।
(38.पा. कुमारं वा दक्षिणस्यामुमापतिम्।)
दक्षिणामूर्तिमथवा (39)संकर्षणमथापि वा।।
सत्यं वापि वराहं वा प्रतीच्यामच्युतं तु वा।। 9.55 ।।
(39.पा. प्रतीच्यां नृहरिं हरिम्।)
प्रद्युम्नं वा नृसिंहं वा तथोदीच्यां धनाधिपम्।
ब्रह्माणं वानिरुद्धं वाप्यनन्तं वा प्रकल्पयेत्।। 9.56 ।।
तलाधिके तु पूर्वोक्तान् क्रमेण परिकल्पयेत्।
ध्रुवबेरसमा एते भवेयुः शयनादिषु।। 9.57 ।।
इन्द्रादयस्तु दिग्देवा आसीना एव सर्वदा।
चतुरश्रे च वै धाम्नि चतुरश्रायतेऽपि वा।। 9.58 ।।
वृत्ते वृत्तायते वापि भवेयुः सद्मधारिणः।
वीरसेनः सुषेणश्च वीरनाथः सुभद्रकः।। 9.59 ।।
पूर्णश्च पुष्कराक्षश्च आनन्दो नन्दनस्तथा।
विष्णुपारिषदाः स्थाप्याः करालवदनान्विताः।। 9.60 ।।
तले तले विमानस्य सुरा विद्याधरास्तथा।
नृत्यन्तो बहुधा वेणुवीणापणवधारिणः।। 9.61 ।।
ममावताराः सर्वत्र कल्प्यास्तच्चेष्टितानि च।
भूतमालास्तथा कल्प्या नृत्यन्तो विकृताननाः।। 9.62 ।।
गरुडः शङ्खचक्रादिलाच्छनीयास्तले तले।
एवं मूर्तीः पुराकल्प्य वर्णलेपं प्रकल्पयेत्।। 9.63 ।।
(40)अवश्यं वर्णलेपः स्यादिति शास्त्रविदो विदुः।
श्वेतं पीतं तथा रक्तं हरितं कृष्णमेव च।। 9.64 ।।
(40.पा. वर्णलेपं ततः कुर्याच्छिल्पि(पी)शास्त्रविचक्षणः।)
(41)पञ्चवर्णाः पृथिव्याद्याः वर्णानामधिदेवताः।
मूर्तीनां युगभेदेन वर्णभेदा (42)भवेद्रमे।। 9.65 ।।
(41.पा. पञ्चवर्णं पृथिव्यादि)
(42.पा. विधीयते।)
कृते वलर्क्षस्त्रेतायामरुणो द्वापरे पुनः।
पीतः कलौ (43)वासुदेवो घनश्यामः परःपुमान्।। 9.66 ।।
(43.पा. धनश्यामो वासुदेवः)
रक्तः संकर्षणो देवः प्रद्युम्नः कनकप्रभः।
श्यामोऽनिरुद्धः संप्रोक्तः केशवः कनकप्रभः।। 9.67 ।।
(44)नारायणः श्वेतवर्णो माधवः श्यामवर्णकः।
गोविन्दः स्फटिकाभः स्याद्विष्णुः किञ्जल्कसंनिभः।। 9.68 ।।
(44.पा. नारायणः श्यामवर्णः माधवः स्फटिकप्रभः।)
मधुहन्ता रक्तवर्णः शिखिवर्णस्त्रिविक्रमः।
वामनो बालसूर्याभः श्रीधरः श्वेतपद्म(45)भाः।। 9.69 ।।
(45.ग्र. भः)
हृषीकेशस्तटिद्वर्णः पद्मनाभस्तु नील(46)भाः।
बन्धूककुसुमस्येव वर्णो दामोदरः स्मृतः।। 9.70 ।।
(46.ग्र. भः)
पुरुषोत्तमः स्फटिकवर्णः श्यामवर्णस्त्वधोक्षजः।
नृसिंहो हेमवर्णः स्यादच्युतः पीतवर्णकः।। 9.71 ।।
जनार्दनस्तु रक्तः स्यादुपेन्द्रः श्यामलः स्मृतः।
हरिःस्यात्पीतवर्णस्तु कृष्णः कृष्णघनप्रभः।। 9.72 ।।
श्रीः सुवर्मसमा भूमिर्धरा श्यामार्जुनाथवा।
सरस्वती श्वेतवर्णा प्रीतिः स्या(47)च्छ्वेतरक्तिमा।। 9.73 ।।
(47.ग्र. श्यामरक्षिका)
कीर्तिः रक्ता(48)स्फटिकवर्णा शान्तिस्तुष्टिस्तु पीतका।
पुष्टिः श्यामा त्वष्टवर्णास्त्वष्टानां कारयेद्गुरुः।। 9.74 ।।
(48.स्फटिकाभा)
मत्स्यः स्फटिकसंकाशः कूर्मः काञ्चनवर्णभाक्।
वराहः श्यामलो वर्णो नृसिंहश्चन्द्रवर्णकः।। 9.75 ।।
जामदग्न्यः सुवर्णाभो (49)रामः श्यामलवर्णभाक्।
(50)भरतस्य तथा वर्णो लक्ष्मणः कनकप्रभः।। 9.76 ।।
(49.पा. राघवः श्यामलाकृतिः।)
(50.पा. भरतः श्यामलो वर्णः)
शत्रुघ्नो (51)रक्तवर्णः स्यात् सीता हेमनिभा भवेत्।
माण्डवी (52)रक्तवर्णा स्यादूर्मिला श्यामलाकृतिः।। 9.77 ।।
(51.पा. रक्तवर्णाभः सीता हेमनिभाकृतिः।)
(52.पा. रक्तवर्णाभा ऊर्मिला श्यामलप्रभा।)
श्रुतकीर्तिः सिताङ्गीं स्याद्धनूमान् काञ्चनप्रभः।
(53)अङ्गो रक्तवर्णः स्यात्सुग्रीवो हेमपिङ्गलः।
गुहो विभीषणश्चैव नीलो नीलसमप्रभः।
जाम्बवान् स्वर्णवर्णः स्याद्रामाश्रयगणस्त्वयम्।। 9.78 ।।
(53.अयं श्लोकः ग्र. पुस्तके नास्ति)
कृष्णदेहो नीलवर्णो रामः पाण्डुरवर्णभाक्।
कनकाभा रुक्मिणी स्यात्सत्या श्यामलवर्णिनी।। 9.79 ।।
रेवती रक्तवर्णा स्यात्सात्यकी नीलवर्णभाः(54)।
यशोदा स्वर्णवर्णा स्याद् देवकी कनकप्रभा।। 9.80 ।।
(54.ग्र. भाक्)
अर्जुनः श्वेतवर्णः स्यात् कृष्णसेवापरा इमे।
(55)कल्की च श्वेतवर्णः स्याद् (56)(57)ब्रह्मा च कनकाकृतिः।। 9.81 ।।
(55.पा. कल्की रक्तनिभः स्मृतः।)
(56.ग्र. स्यादनन्तः क्षीरसंनिभः)
(57.पा. कनकप्रख्यो ब्रह्मा)
(58)अनन्तो क्षीरवर्णः स्याद्ध (59)गरुडः काञ्चनप्रभः।
रुद्रः शोणितवर्णः स्याद्धयग्रीवो वलर्क्षभाः।। 9.82 ।।
(58.ग्र. गुरुडः काञ्चनाभः स्यात्।)
(59.ग्र. ब्रह्मा च कनकाकृतिः)
सेनानी श्यामलः प्रोक्तः श्वेतवर्णो विनायकः।
ब्राह्मी नीला रक्तवर्णा महेश्वर्यपरा तथा।। 9.83 ।।
कौमारी वैष्णवी श्यामा वाराही श्यामलप्रभा।
इन्द्राणी श्यामला प्रोक्ता चामुण्डा रक्तवर्णका।। 9.84 ।।
इन्द्रः श्यामोऽग्निररुणो यमः कालस्तथापरः।
निर्ऋतिर्नीलवर्णः स्याद् वरुणः श्यामलाकृतिः।। 9.85 ।।
वायुर्धूम्रः सितः सोमो रुद्रो रक्तोऽष्टदिग्गताः।
विजयः श्यामवर्णः स्यात् पद्मी पद्मनिभो भवेत्।। 9.86 ।।
गदाधरो हेमवर्णः कृष्णः खड्गी तथा परः।
शार्ङ्गी हेमनिभो (60)वज्री मुसली श्वेतवर्णकौ।। 9.87 ।।
(60.पा. श्वेतो वज्रधरो मतः। श्यामो मुसलधारी)
कनकः पाशधारी स्यादङ्कुशी कृष्णवर्णकः।
(61)चण्डो रक्तः प्रचण्डश्च श्वेतः पीतो जयस्तथा।। 9.88 ।।
(61.ग्र. इदमर्धं 85-श्लोकोत्तरार्धानन्तरं दृश्यते।)
रक्तपीतनिभो धाता विधाता श्वेतवर्णकः।
सुभद्रभद्रावरुणो कृतान्तः श्यामलप्रभः।। 9.89 ।।
असुरध्वंसनो रक्तः कुबेराक्षस्तु पीतकः।
कुबेरो रक्तवर्णः स्याद् दुर्जयः कृष्णवर्णकः।। 9.90 ।।
प्रबलः श्वेतवर्णस्तु रक्तः स्याद्विश्वभावनः।
पुष्करः श्वेतवर्णः स्यात् संभवः श्यामलाकृतिः।। 9.91 ।।
सुशोभनः श्यामवर्णः प्रभवो (62)रक्तवर्णभाक्।
सुभद्रः कुमुदः श्वेतः कुमुदाक्षोऽग्निकान्तिमान्।। 9.92 ।।
(62.ग्र. रक्तवर्णकः)
पुण्डरीकः सितः प्रोक्तो वामनः श्यामलाकृतिः।
(63)शङ्कुकर्णो रक्तवर्णः सर्वनेत्रोऽसितप्रभः।। 9.93 ।।
(63.पा. रक्तो भवेच्छङ्‌कुकर्णो)
सुमुखः श्यामलो (64)वर्णो रक्ताभः सुप्रतिष्ठितः।
एवं विमानमूर्तीनां द्वारपानां च पार्षदाम्।। 9.94 ।।
(64.पा. लः प्रोक्तः)
वर्णलेपं कारयित्वा मण्डपान् कारयेत्ततः।। 9.95 ।।

।। इति श्रीश्रीप्रश्नसंहितायां नवमोऽध्यायः ।।