सामग्री पर जाएँ

प्रश्नसंहिता/अध्यायः १८

विकिस्रोतः तः
← अध्यायः १७ प्रश्नसंहिता
अध्यायः १८
[[लेखकः :|]]
अध्यायः १९ →
प्रश्नसंहितायाः अध्यायाः

।। अष्टादशोऽध्यायः ।।

अथ प्रतिष्ठां वक्ष्यामि बिम्बरूपस्य मे विभोः।
मानुषाणामिष्टसिद्ध्यै भूयः सांनिध्यकारणात्।। 18.1 ।।
मन्त्रस्य गौरवाद्देवि तपसा देशिकस्य च।
तेन संप्रार्थितश्चाहमर्चायामिष्टसिद्धिदः।। 18.2 ।।
श्रीः-
भविष्यामि तदर्थीयां क्रियां वक्ष्यामि वै क्रमात्।
भूमावर्चां लोहजन्यां शैलीं दार्वादिनिर्मिताम्।। 18.3 ।।
लोहरत्नजसंभूतां सर्वलक्षणलक्षिताम्।
निर्माय चालये मर्त्यैर्गृहे वा द्रव्य(1)संचितैः।। 18.4 ।।
(1.ग्र. संचयैः)
कृत्वा प्रतिष्ठां पीजादिकर्म कुर्वन्ति साधवः।
फलं च तेषामतुलं भवतीति त्वयोदितम्।। 18.5 ।।
कदाचिदपि देवानामदृष्टिविषयं गतः।
यदि स्यात् पूजने तेषामर्चारूपस्य ते मतिः।। 18.6 ।।
लोहादिद्रव्यजातौ वा प्रत्यक्षेणाथवा भवान्।
तेषु लोकेषु बहुधा स्थास्यते किं जगन्मय।। 18.7 ।।
भगवान्-
परमेष्ठ्यादयो देवा भूमावालयनिर्मितम्।
मद्रूपं च समालोच्य(2) शास्त्रं सारतमं त्विदम्।। 18.8 ।।
(2.ग्र.क्य)
मर्त्यानां निधिवत्प्राप्तममर्त्यानां च दुर्लभम्।
चिन्तामभिसमाविष्टाः स्वयं प्राप्तुं दिवौकसः।। 18.9 ।।
निश्चित्य मनसा श्वेतं द्वीपमासाद्य निर्ममाः।
तप्स्यन्ति तप उग्रं ते सहस्रं मानुषं समाः।। 18.10 ।।
तेषां मनोरथं ज्ञात्वा प्राकारादिसमन्वितम्।
दर्शयिष्याम्यात्मरूपं विमानान्तर्गतं शुभम्।। 18.11 ।।
शङ्खचक्रादिसहितमर्चारूपिणमव्ययम्।
स्तोष्यन्ति विविधैः स्तौत्रैर्जितंताद्यादिभि रमे।। 18.12 ।।
तेषां स्तुत्या च नत्या च प्रसन्नो भवितास्म्यहम्।
वदिष्यामि ब्रुवन्त्वद्य करिष्यामि च वां वचः।। 18.13 ।।
इति मद्वचनं श्रुत्वा ब्रह्माद्याः देवतास्तदा।
यदि प्रीतिस्तव विभो त्वदीयेषु जनार्दन।। 18.14 ।।
युष्मद्दत्तेषु लोकेषु मदीयेषु जगद्गुरो।
एवमेव विमानेन बिम्बरूपेण नित्यशः।। 18.15 ।।
स्थातव्यं त्वां वयं नित्यं पूजनीयं विशेषतः।
शास्त्रं चाप्युपदेष्टव्यं येन पूजादिकर्मसु।। 18.16 ।।
सावधाना भविष्याम इति संप्रार्थयिष्यते।
ततो भक्तजनाकम्पी ब्रह्मादीन् बोधयाम्यहम्।। 18.17 ।।
युष्माकं प्रीतयेऽहं वै बिम्बरूपं समास्थितः।
तत्र तत्र वसिष्यामि पूजयिष्यन्तु नित्यशः।। 18.18 ।।
युष्माकमिष्टसिद्धिं च दास्याम्यत्र न संशयः।
एतच्छास्त्रं विस्तरेण उपदेक्ष्यामि वै विधेः।। 18.19 ।।
उपदेक्ष्यति युष्माकं शास्त्रमेतच्चतुर्मुखः।
इति तानुच्यमानोऽहमात्मानं सविमानकम्।। 18.20 ।।
दर्शयिष्यामि बहुधा तं नमस्कृत्य विस्मिताः।
यस्य यस्य विमानं यद्रोचते त्विष्टसिद्धिदम्।। 18.21 ।।
ब्रह्मादयो देववराः सर्ववादित्रनिःस्वनैः।
स्वं स्वं लोकं च नेष्यन्ति पूजयिष्यन्ति नित्यशः।। 18.22 ।।
एतच्छास्त्रं ब्रह्मणे च तदन्येभ्योऽपि वै रमे।
उपदेक्ष्यामि विस्तारात् संग्रेहण च सर्वतः।। 18.23 ।।
प्रसरिष्यन्ति सत्यादावेतच्छास्त्रोक्तवर्त्मना।
पूजयिष्यन्ति सत्यादावप्राकृतसमुद्भवम्।। 18.24 ।।
देवा मां तेषु लोकेषु स्वयंव्यक्तं (3)तथापरम्।
(4)दिव्यमित्यन्यलोकेषु सैद्धमार्षं तु मानुषम्।। 18.25 ।।
(3.ग्र. च दैविकम्।)
(4.ग्र. प्रवदन्त्य)
(5)अतस्तेषां प्रतिष्ठापि न कर्तव्या कदाचन।
भूमौ तु प्राकृतैर्द्रव्यैर्निर्मितस्य च शिल्पिभिः।। 18.26 ।।
(5.ग्र. अतस्तयोः)
द्रव्यशुद्ध्यै क्षेत्रशुद्ध्यै मत्सांनिध्याय वै गुरुः।
नियमेन प्रतिष्ठां वै (6)कर्तव्यां तां ब्रवीमि ते।। 18.27 ।।
(6.ग्र. कर्तव्यानां)
भूपरिग्रहकाले च दीक्षाध्याये च लक्षणम्।
भट्टाचार्यस्य यत्प्रोक्तं तल्लक्षणगुणैर्युतः।। 18.28 ।।
पूर्वोक्तदीक्षया युक्तः कर्षणादिषुन चेद् वृतः।
तमेव च प्रतिष्ठायामाचार्यं प्रार्थयेत् प्रभुः।। 18.29 ।।
विनाचार्यस्य वरणादालयं निर्मितं तु वा।
आदौ वृतोऽप्यशक्तो वा तत्पुत्रं तद्‌गुणैर्युतम्।। 18.30 ।।
सोऽपि मन्त्रादिहीनश्चेदन्यं सर्वगुणैर्युतम्।
मयोक्तगोत्रिणं शुद्धं दीक्षितं सर्वसंमतम्।। 18.31 ।।
पाञ्चरात्रार्थतत्त्वज्ञं मन्त्रतन्त्रविशारदम्।
यजमानः स्वयं गत्वा देशिकेन्द्रस्य वै गृहम्।। 18.32 ।।
नमस्कृत्य पुरा तस्यन नालिकेरफलं करे।
दत्वा संप्रार्थयेद् देवि वासुदेवस्य वै विभोः।। 18.33 ।।
सालयस्य प्रतिष्ठां वै गुरो त्वं कर्तुमर्हसि।
इत्थं संप्रार्थितो विद्वानाचार्यः कालवित्तमः।। 18.34 ।।
कार्तान्तिकेन सहितः कालं सम्यग्विशोधयेत्।
नभोमासं मार्गशीर्षं माघमासं च वर्जयेत्।। 18.35 ।।
मासेष्वन्येषु सुक्लस्य पक्षस्य प्रथमातिथौ।
द्वितीयायां तृतीयायां पञ्चम्यां सप्तमीतिथौ।। 18.36 ।।
एकादशीदशम्योश्च द्वादशी च त्रयोदशी।
पूर्णिमा चासु तिथिषु कृष्णपक्षस्य पञ्चमी।। 18.37 ।।
यावद्भवेत्तावदेव कर्तव्यं न ततः परम्।
वारेषु शुभदः प्रोक्तः सोमः सौम्यस्तथा गुरुः।। 18.38 ।।
शुक्रश्च वाराधिपतयो नक्षत्राणि शृणुष्व मे।
अश्वती रोहिणीपुष्य(7)पुनर्वस्वथ चोत्तरम्।। 18.39 ।।
(7.ग्र. पुनर्वसु तथोत्तरम्।)
उत्तरद्वितयं हस्तश्रवणं रेवती तथा।
एतेषु च व्यतीपातसंक्रान्तिग्रहणं तथा।। 18.40 ।।
मलमासं शुक्रमौढ्यं गुरोर्मोढ्यं तथैव च।
एतद्युक्तास्तिथीर्मुक्त्वा लग्ने तु वृषभे तथा।। 18.41 ।।
मिथुने सिंहलग्ने वा मीने धनुषि वा रमे।
तुलायां वा लग्ननाथो बलवानथवा गुरुः।। 18.42 ।।
शुक्रे वा वीक्षते ल्नमेकादशगतौ तु वा।
यल्लग्नं यजमानस्य धाम्नो देवस्य वृद्धिदम्।। 18.43 ।।
तस्मिन् प्रतिष्ठां निश्चित्य ततो दशदिनात्पुरा।
शुभे मुहूर्ते देवस्य धाम गत्वा गुरूत्तमः।। 18.44 ।।
अन्तर्वापि बहिर्वापि निर्बाधं यत्र वै स्थलम्।
(8)तत्रैतेनैव मानेन मण्डपादींश्च कल्पयेत्।। 18.45 ।।
(8.ग्र. तत्र तेनैव।)
मानं मानान्तरं मुष्टिर्मात्रा देहस्तथैव च।
एतेषां लक्षणमपि शृणुष्व कमलेक्षणे।। 18.46 ।।
वातायनपथं प्राप्य ये गच्छन्ति रवेः कराः।
तेषु सूक्ष्मतरा यान्ति रेणवः परमाणवः।। 18.47 ।।
तेऽष्टौ लेशाह्वयस्तेऽष्टावणुरित्यभिधीयते।
तेऽष्टौ महांस्तदष्टौ च यव इत्यभिधीयते।। 18.48 ।।
यवाष्टकैरङ्गुलं स्यात् सप्तभिः स तु मध्यमः।
यवषट्‌कैरङ्गुलं तु कनीयस्यङ्गुलं भवेत्।। 18.49 ।।
एतन्मानाङ्गुलं नाम शिल्पिभिः समुदाहृतम्।
तिर्यग्यवाष्टकैर्वापि ऋजुभिर्वा त्रिभिर्यवैः।। 18.50 ।।
विन्यसे(9)द्यत्र मानेन तन्मानान्तरमीरितम्।
एतेन वेदिकापीठरथादीनां च कल्पनम्।। 18.51 ।।
(9.ग्र. द्मुक्त)
मुष्ट्यङ्गुलं गुरोर्मुष्टिं चतुर्धा विभजेत् क्रमात्।
होमाङ्गानि स्रुवादीनि कुण्डं मुष्ट्यङ्गुलैर्भवेत्।। 18.52 ।।
गुरोर्दक्षिणहस्तस्य मध्यमाङ्गुलिपर्वसु।
(10)यन्मध्य(पर्व) तन्नाम मात्राङ्गुलमुदाहृतम्।। 18.53 ।।
(10.ग्र. यन्मद्यपर्व)
यागोपकरणानां च तैर्मात्राङ्गुलिभिर्भवेत्।
अर्चां विभज्य नवधा तेष्वेकं द्वादश क्रमात्।। 18.54 ।।
विभज्य द्वादशस्वेकं मानाङ्गुलमुदाहृतम्।
प्रासादं गोपुरं सर्वं बिम्बानि विविधा(11)न्यपि।। 18.55 ।।
(11.ग्र. नि च।)
कुर्यादेतेनाङ्गुलेन पूर्वोक्तानि च शिल्पवित्।
चतुर्विंशतिहस्तैर्वा दशभिश्चाष्टभिस्तु वा।। 18.56 ।।
करैः षोडशिभिर्वापि भवेद् द्वादशभिस्तु वा।
विस्तारायामसदृशं चतुर्द्वारसमन्वितम्।। 18.57 ।।
मेखलैका मण्डपस्य भूमेस्तालोच्छ्रिता मता।
वेदीनामपि कुण्डानां स्तम्भैर्बाधा न चेत्तथा।। 18.58 ।।
स्तम्भान् प्रकल्पयेत् तस्मिन् मण्डपे देशिकोत्तमः।
समभूमिं पुरा कृत्वा ततो वेदीः प्रकल्पयेत्।। 18.59 ।।
प्रतिष्ठाकर्म देवस्य विमानस्यैकदा यदि।
तदा वेदिद्वयं कार्यं घटस्थापनकर्मणि।। 18.60 ।।
उच्छ्रायमेकहस्तं स्याच्चतुरश्रं चतुर्भुजम्।
आदावन्ते मेखलैकं परितः कुण्डशोभितम्।। 18.61 ।।
शयनायोत्तरे तस्य दृङ्मोक्षणविधौ तथा।
ऐशान्ये पालिकायाश्च बालस्थापनकर्मणि।। 18.62 ।।
चक्राब्जमण्डलविधौ नयनोन्मीलनस्य च।
वेदीः प्रकल्पयेद्विद्वान् तत्तद्वेद्यास्तु पार्श्वयोः।। 18.63 ।।
प्रवेशनिर्गमार्थाय विसृजेद् वीथिकाः क्रमात्।
दीर्घह्रासं तु वेदीनां तत्तत्कर्मानुसारतः।। 18.64 ।।
मण्डपस्यानुरोधाद्वा द्रव्यस्य च तथा भवेत्।
वेदिसृष्टि(12)र्मया प्रोक्ता कुण्डकल्पनमुच्यते।। 18.65 ।।
(12.ग्र. र्मयोक्त हि)
कुण्डसंख्यां कार्यविधिं कुण्डभेदं च कल्पनम्।
ज्ञात्वावश्यं कल्पनीयं नो चेद्दोषाय कल्पते।। 18.66 ।।
त्रिकोणं च चतुष्कोणं पञ्चकोणं षडश्रकम्।
सप्ताष्टनवकोणं च दशैकादशकोणकम्।। 18.67 ।।
द्वादशाश्रं चापकोणं वृत्तं पद्मं च पद्मजे।
योनिकुण्डमिति प्रोक्तं चतुर्दश गुरूत्तमैः।। 18.68 ।।
प्रयोजनं तु वक्ष्यामि शृणुण्व कमलेक्षणे।
सर्वाभ्युदयकर्माणि चतुष्कोणे समाचरेत्।। 18.69 ।।
पौष्ठिकं पद्मकुण्डे तु शान्तिं वृत्ते सुखावहम्।
पञ्चकोणे यक्षकन्यावशं कर्म षडश्रके।। 18.70 ।।
स्तम्भनार्थाय सप्ताश्रे मोहनं कर्म कारयेत्।
अष्टाश्रे मारणं कर्म विद्वेषं नवकोणके।। 18.71 ।।
दशाश्रकुण्डे वस्वादि पितॄणां तोषणाय वै।
एकादशाश्रे ब्रह्मादिदेवतायत्तसाधने।। 18.72 ।।
द्वादशाश्रे हरिं द्रष्ठुं योनौ कन्याप्तिहेतवे।
त्रिकोणे मारणं कर्म चापे तूच्चाटनं भवेत्।। 18.73 ।।
निधिप्राप्तिस्त्रिकोणे वा चापे शत्रुजयं भवेत्।
एषां सृष्टिं प्रवक्ष्यामि प्रत्येकं कमलालये।। 18.74 ।।
मन्वग्न्यङ्गुलिसंख्येन कोणेषु चतुर्षु क्रमात्।
सूत्रेण लाञ्छयेन्मध्यात् कोणात्कोणं भुजैककम्।। 18.75 ।।
एवं चेच्चतुरश्रं स्यात् त्रिकोणस्य वदामि ते।
द्वात्रिंशदङ्गुलीसंख्या सूत्रं कोणेषु लाञ्छयेत्।। 18.76 ।।
पञ्चाश्रे नाभिदेशाच्च चतुर्यवसमन्वितम्।
षोडशाङ्गुलिसंख्याकं सूत्रं कोणेषु पातयेत्।। 18.77 ।।
कोणात्कोणं सप्तिसूर्यसूत्रविन्यासमाचरेत्।
षडश्रे मध्यशङ्कोश्च कोणात्कोणं च षोडश।। 18.78 ।।
नाभिशङ्कोश्च सप्ताश्रे षड्‌यवैः पक्षसंख्यकाः।
[कोणात्कोणं चाङ्गुलयोर्भवेयुर्मनुसंख्यकाः।। 18.79 ।।]
अष्टाश्रे षोडश प्रोक्ताश्चतुर्यवसमन्विताः।
(13)अङ्गुलैस्तु द्वादशभिरश्राश्रं परिकल्पयेत्।। 18.80 ।।
(13.ग्र. अङ्गुलीभिर्द्वा)
नवाश्रे नाभिशङ्कोश्च चतुर्भिर्यवभिर्युतान्।
पक्षसंख्याङ्गुलान् कोणे षड्यवैर्दश चाङ्गुलान्।। 18.81 ।।
कोणात्कोणं लाञ्छ(14)यीत दशाश्रं शृणु वल्लभे।
मध्यात्कोणेषु विन्यासश्चतुर्भिर्यवसंयुतैः।। 18.82 ।।
(14.ग्र. लाञ्छयित।)
पक्षेण च ततः कोणादन्यत् कोणं तु पञ्चकैः।
यवैः समेताङ्गुलिभिः नवभिः कल्पयेद् गुरुः।। 18.83 ।।
एकादशाश्रे मध्यात्तु चतुर्यवसमन्वितान्।
पक्षाङ्गुलीन् कोणदेशे विन्यसेद् षड्यवैर्युतान्।। 18.84 ।।
अष्टावङ्गुलयः कोणादन्यत्कोणस्य ईरिताः।
द्वादशाश्रे मध्यशङ्कोः कोणं पञ्चदशाङ्गुलम्।। 18.85 ।।
चतुर्यवेन संयुक्तं प्रत्यश्रं चाष्टसंख्यया।
अङ्गुल्या लाच्छयेद्विद्वान्योनिकुण्डे तु मध्यमम्।। 18.86 ।।
अष्टादशाङ्गुलं सूत्रं नाभिदेशाद् दशाङ्गुलम्।
वेष्टयेत् पार्श्वयोस्तस्य चत्वारिंशत्तताष्टकम्।। 18.87 ।।
विन्यसेद्ङ्गुलिं चक्रे कुण्डे मध्याच्चतुर्दश।
एकं च वेष्टयेत् सूत्रं तदेव स्यात्तु पद्मकम्।। 18.88 ।।
चापकुण्डे शङ्कुदेशात् पार्श्वयोरुभयोरपि।
अष्टादशाङ्गुलेर्न्यासः सैव ज्या तु धनू रमे।। 18.89 ।।
तत्स्थानाद् वेष्टिते सूत्रे दक्षिणादुत्तरावधि।
धनुष्कुण्डं भवेद्देवि शास्त्रज्ञैरुच्यते बुधैः।। 18.90 ।।
यस्य कार्यस्य यत्कुण्डं तस्मिन् कुर्याच्च तत्क्रियाम्।
तस्माच्छास्त्रं पुरालोच्य तत्तत्कुण्डं प्रकल्पयेत्।। 18.91 ।।
सामान्यमित्थं कुण्डानां कल्पनं तु मयोदितम्।
चतुष्कोणादिकुण्डानां चतुर्णां देवधामसु।। 18.92 ।।
निर्माणेषु प्रतिष्ठायामुत्सवे नित्यपूजने।
शान्तिहोमेषु सर्वत्र प्रायश्चित्तादिकर्मसु।। 18.93 ।।
कुण्डानि शास्त्रतः कृत्वा तेषु होमं समाचरेत्।
अकृत्वा हूयते यत्र वह्निस्तत्र न तृप्यति।। 18.94 ।।
अतृप्ते मयि वह्निस्थे स्वार्थसिद्धिः कथं भवेत्।
कुण्डान्यतो विधायैवं जुहुयादेषु कर्मसु।। 18.95 ।।
कुण्डानां परिधिं कुर्यात् षण्णवत्यङ्गुलायतम्।
परितो द्व्यङ्गुलं हित्वा कुण्डान्तर्विंशदङ्गुलम्।। 18.96 ।।
तदर्धं पादमथवा चतुरङ्गुलमेव वा।
खातयेत् परितस्तिस्रो मेखलाः परिकीर्तिताः।। 18.97 ।।
तालोन्नता स्यात् प्रथमा द्वितीयाष्टाङ्गुला भवेत्।
चतुरङ्गुला तृतीया स्यादेकैकायाश्च विस्तृतिः।। 18.98 ।।
चतुरङ्गुलसंयुक्ता तत्तत्कुण्डानुसारतः।
मेखलापि च कल्प्या स्यात्कुण्डान्तर्मध्यमे स्थले।। 18.99 ।।
द्वादशच्छदसंयुक्तं पद्मं कल्प्यं सकर्णिकम्।
पद्मकुण्डे न पद्मं स्यात् योनि(15)कुण्डे न योनिमत्।। 18.100 ।।
(15.ग्र. कुण्डं)
यत्र स्थित्वर्त्विजो होमं कुर्वन्ति कमलालये।
तत्र योनिं प्रकुर्वीत मेखलोपरि सर्पवत्।। 18.101 ।।
अधश्च द्व्यङ्गुलं नालं मध्ये तु चतुरङ्गुलम्।
ऊर्ध्वे षडङ्गुलं प्रोक्तं सर्पस्य फणवद्भवेत्।। 18.102 ।।
कुम्भवेद्यास्तु परितश्चतुस्तालाद् बही रमे।
प्राग्देशे चतुरश्रं स्यात् कुण्डं चापं तु दक्षिणे।। 18.103 ।।
प्रतीच्यां वृत्तकुण्डं तु कमलं वा त्रिकोणकम्।
कौबेर्यां कल्पयेद्विद्वान् चापस्य ज्यां तु पश्चिमे।। 18.104 ।।
स्रुक्‌स्रुवौ लोहमुख्येन यज्ञवृक्षेण वा गुरुः।
स्वबाहुमानदण्डेन साङ्गुलेन च वै (16)स्रुचः।। 18.105 ।।
(16.मातृका सृचः।)
घनं विस्तारसदृशं षडङ्गुलमुदीरितम्।
काष्ठमादाय तत्काष्ठमेकं भागं नवाङ्गुलम्।। 18.106 ।।
मुखं क्रोडस्य सदृशमेकार्धाङ्गुलमायतम्।
गलमेकं तदर्धं च नहनं वृत्तमायतम्।। 18.107 ।।
ततश्चा(17)न्यं गलं चापि मुखं च परिक्षयेत्।
षडङ्गुलं यज्ञपात्रं विस्तारायामयोः समम्।। 18.108 ।।
(17.ग्र. न्यत् गलं)
घनं च तस्य मध्ये तु त्र्यङ्गुलं सुषिरं भवेत्।
द्वादशच्छदसंयुक्तं पद्मं कल्प्यं सकर्णिकम्।। 18.109 ।।
उन्नतेषु ततः किंचित् षोडशारं सनेमिकम्।
नेमिरेकाङ्गुलं तस्य तून्नतौ त्वङ्गुलं भवेत्।। 18.110 ।।
चतुष्कोणं यदि भवेत् शङ्खान् कोणेषु (18)लाञ्छयेत्।
मेखलाः परितस्तिस्रः प्रत्येकं यवमानकाः।। 18.111 ।।
(18.ग्र. वै लिखेत्।)
पृष्ठदेशं कूर्मवद्वा पद्माकारस्तु वा भवेत्।
कुर्यादाज्यप्रणालं तु समन्यूनाङ्गुलं मुखे।। 18.112 ।।
ततो द्व्यंशो दीर्घदण्डः पद्मस्यास्याद्यथोद्भवः।
सार्धाच्च द्व्यङ्गुलघनादवशिष्टं तु तक्षयेत्।। 18.113 ।।
स दण्डश्चतुरश्रो वा वर्तुलो वा भवेद्रमे।
वलित्रयसमोपेतः अन्ते (19)पद्मं प्रकल्पयेत्।। 18.114 ।।
(19.ग्र. पद्माकृतिर्भवेत्।)
हस्तमात्रं दीर्घकाष्ठं द्व्यङ्गुलं घनविस्तृति।
तस्याग्रे द्व्यङ्गुलं कुर्यात् वर्तुलं तस्य मध्यतः ।। 18.115 ।।
निम्नमर्धाङ्गुलं युग्मं तयोर्मध्ये यवाकृति।
भित्तिः स्यात् परितो भद्रे ह्यर्धाङ्गुलसमन्विता।। 18.116 ।।
हरिणीखुरवत्तत्स्यादाज्यस्थानं सुमध्यमे।
विस्तारस्य त्रिभागेन ग्रीवाकल्पनमिष्यते।। 18.117 ।।
मूले चोभयतः कुर्यात् स्वस्तिकं द्व्यङ्गुलायतम्।
अवशिष्टं वर्तुलं स्यात् दण्डं चित्रविराजितम्।। 18.118 ।।

इति श्रीश्रीप्रश्नसंयहितायां (20)अष्टादशोऽध्यायः ।।
(20.सप्तदशोऽध्याय इति मातृकायाम्।)