प्रश्नसंहिता/अध्यायः ३३

विकिस्रोतः तः
← अध्यायः ३२ प्रश्नसंहिता
अध्यायः ३३
[[लेखकः :|]]
अध्यायः ३४ →
प्रश्नसंहितायाः अध्यायाः

।। त्रयस्त्रिंशोऽध्यायः ।।

ततः प्रभाते विमले साधकैः सह देशिकः।
स्नानादिनित्यकर्माणि कृत्वा धाम विशेद्रमे।। 33.1 ।।
चन्दनश्चागरुर्जातिः ककुभश्चम्पकः शमी।
खादिरः सारबिल्वश्च केसरः सप्तपर्णकः।। 33.2 ।।
वरुणस्तिलकश्चैव निम्बार्जुनशमीरुहः।
अन्तर्बहिश्च साराः स्युरेते वृक्षा जलोद्भवे।। 33.3 ।।
क्रमुको नालिकेरश्च तालहिन्तालकौ तथा।
वेणुश्चैते बहिःसारास्तादत्वे कल्पयेद् गुरुः।। 33.4 ।।
उक्तेषु चान्तःसारेषु स्फुटितादिविवर्जितम्।
एकं वृक्षं मन्त्रवच्च शाश्वतस्तम्भकल्पने।। 33.5 ।।
(1)गृह्णीयाच्छततालं स्यात् मुख्यं मध्यमकल्पने।
(2)अशीतितालमधमं षष्टितालं प्रकीर्तितम्।। 33.6 ।।
(1.[ई.अ.10] शततालं तु मुख्यं स्याद्विंशन्यूनमथापि वा।)
(2. " षष्टितालमितं वापि मानाङ्गुलवशेन तु।)
(3)सर्वं मानाङ्गुलेनापि मानान्तरवशेन वा।
(4)विमानोच्छ्रायमथवा तत्कण्ठोच्छ्रायमेव वा।। 33.7 ।।
(3.[ई.अ.10] मात्राङ्गुलवशेनापि प्रमाणं परिकल्पयेत्।)
(4. " प्रासादशिखराग्रोच्चं प्रासादोच्चमतापि वा।)
(5)गोपुरद्वारमानं वा यथाशक्ति प्रकल्पयेत्।
षोडशाश्रं ध्वजस्तम्भमष्टाश्रं चतुरश्रकम्।। 33.8 ।।
(5.[ई.अ.10] कर्णोच्चं गोपुरोच्चं वा यथाशक्ति प्रकल्पयेत्।)
वृत्ते वा कल्पयेद्धीमान् शास्त्रोक्तेनैव वर्त्मना।
चतुर्धा विभजेत् स्तम्भं (6)भागमाद्यं विसृज्य च।। 33.9 ।।
(6.पा. एकांशेनेव मस्तकम्।)
त्रिभागं पञ्चधा कृत्वा गृह्णीयादन्तिमं ततः।
तं चापि पञ्चधा भङ्क्त्वा तेष्वाद्यं कमलं भवेत्।। 33.10 ।।
अन्तिमं स्तूपिकां कुर्यान्मध्यमत्रितयेषु वै।
अन्त्यभागसमायामं सार्धतालं सुविस्तृतम्।। 33.11 ।।
ध्वजकीलसमोपेतं क्षुद्रघण्टाविराजितम्।
फलकत्रतयमेतेषु भागेषु प्रोथयेद्रमे।। 33.12 ।।
फलकानां मध्यभागे चान्त्यभागे च कीलकम्।
सीसेन कवचीकृत्य स्तम्भस्याद्यं वरानने।। 33.13 ।।
अवशिष्टत्रिभागं तु स्वर्णैर्वा रजतेन वा।
ताम्रैर्वा पैत्तलैर्वापि छादयेत् कवचैर्यथा।। 33.14 ।।
एवं कृत्वा ध्वजस्तम्भं बलिपीठस्य वै रमे।
पश्चाद्वा पुरतो वापि स्तम्भार्थं खातयेद् भुवम्।। 33.15 ।।
सप्त वा पञ्च वा हस्तानथवा त्रीन् सविस्तरम्।
इष्टकाभिः शिलाभिर्वा यावद्‌भूमेस्तु साम्यता।। 33.16 ।।
ध्वजावटं परित्यज्य परितो बन्धयेद्रमे।
ततस्तु परितो भूमेरुपपीठं प्रकल्पयेत्।। 33.17 ।।
तालमानं तु परितो हस्तमानसमुच्छ्रिताम्।
चतुरश्रां ततो वेदिं कल्पयेच्च ततः परम्।। 33.18 ।।
चतुर्हस्तां द्विहस्तां वा चित्रबिम्बादिभिर्युताम्।
वेदिमायामतोच्छ्रायामन्ते पद्मसमन्विताम्।। 33.19 ।।
अलंकृतामुपानाद्यैः सोपानैश्चापि शोभिताम्।
शिल्पिभिः कारयित्वेत्थं ध्वजस्तम्भस्य पीठिकाम्।। 33.20 ।।
पुण्याहसलिलैः प्रोक्ष्य पीठगर्तेषु वै पुरा।
रत्नादिसर्ववस्तूनि गायत्र्या विष्णुपूर्वया।। 33.21 ।।
निक्षिप्य साधकैः सार्धमृत्विग्भिर्वैष्णवैः सह।
समुच्चरंस्तार्क्ष्यमन्त्रमुच्चरद्भिश्च साधकैः।। 33.22 ।।
वेदघोषैर्वाद्यघोषैः स्तम्भमुन्नम्य देशिकः।
मूलार्चाभिमुखं स्तम्भं स्थापयित्वा च वालुकैः।। 33.23 ।।
पूरयित्वा शिल्पिवरैः सम्यक् कुर्यात्सुधादिभिः।
दर्भमालादिभिर्वस्त्रैः प्रादक्षिण्येन वेष्टयेत्।। 33.24 ।।
गर्भमन्दिरमासाद्य नित्यपूजां यथाविधि।
होमान्तं च ततः कृत्वा मूहूर्ते शोभने गुरुः।। 33.25 ।।
ताम्बूलफलपुष्पाद्यैर्हेमसूत्रसमन्वितम्।
स्वर्णादिपटलं गृह्य ऋत्विग्भिर्दीक्षितैः सह।। 33.26 ।।
धाम प्रदक्षिणीकृत्य वाद्यघोषादिभिः सह।
गर्भमन्दिरमासाद्य धान्यपीठे निधाय च।। 33.27 ।।
पूजाद्रव्याणि सर्वाणि प्रोक्षयेत् पुण्यवारिणा।
महाराजतसूत्राणि शोधयेच्छोषणादिभिः।। 33.28 ।।
रजनीचूर्णसंयुक्तकुङ्कुमस्य च कर्दमैः।
चन्दनस्य रसेनापि अनुलिम्पेत्तथा रमे।। 33.29 ।।
तन्तूत्थान्यपि सूत्राणि (7)तथाकृत्वा गुरूत्तमः।
(ग्र. तथाकृत्य)
स्वर्णादिपात्रे निक्षिप्य दक्षिणेन करेण वै।। 33.30 ।।
अपराजितमन्त्रेण रक्षासूत्राणि वै स्पृशन्।
सौदर्शिन्या च गायत्र्या सप्तवारं जपेत्सुधीः।। 33.31 ।।
सूत्रेषु तेषु शुद्धेषु श्रियं संप्रार्थयेद् गुरुः।
नित्यनिर्दोषनिःसीमकल्याणगुणशालिनि।। 33.32 ।।
भगवद्वासुदेवस्य भवत्याश्चोत्सवाय वै।
सूत्रेषु प्रार्थयामि त्वां संनिधत्स्व जगद्धिते।। 33.33 ।।
इति संप्रार्थ्य वै लक्ष्मीं ध्रुवबेरोरसि स्थितात्।
श्रीवत्साच्छ्रियमावाह्य रक्षासूत्रेषु पूजयेत्।। 33.34 ।।
ततः पुष्पाञ्जलिर्भूत्वा प्रार्थयेन्मूलकौतुकम्।
वासुदेव जगद्योने महोत्सवमनुत्तमम्।। 33.35 ।।
तवाज्ञया करोम्यद्य करे मङ्गलकौतुकम्।
(8)बन्धयामि मयि प्रीत्या गृहाण कमलापते।। 33.36 ।।
(8.ग्र. धारयामि)
कर्मोत्सवादिबिम्बानां सांनिध्यं कर्तुमर्हसि।
इति विज्ञाप्य मूलार्चां देवमर्घ्यादिना यजेत्।। 33.37 ।।
आवाहनक्रमं वक्ष्ये शृणु पङ्कजमालिनि।
ब्रह्मादिदेवताध्यक्षसर्गस्थित्यन्तकारक।। 33.38 ।।
सांनिध्यं कुरु बिम्बेऽस्मिन्नुत्सवावभृथावधि।
आवाह्यैवं कर्मबिम्बे सपर्यां परिकल्पयेत्।। 33.39 ।।
ततो बिम्बादुत्सवार्थे बिम्बे संप्रार्थयेद्धरिम्।
चतुःस्थानार्चनार्थाय बिम्बेऽस्मिन् संनिधिं कुरु।। 33.40 ।।
इति संप्रार्थ्य लक्ष्मीशमर्घ्यादीनि च कल्पयेत्।
पूर्णस्तिमितषाड्गुण्यपुण्डरीकनिभेक्षण।। 33.41 ।।
बल्यर्चायां संनिधत्स्व बलिकर्मप्रक्लृप्तये।
एवं बिम्बेषु चावाह्य क्रमात्पूजां च कल्पयेत्।। 33.42 ।।
निवेद्य पायसान्नानि भक्ष्याणि विविधानि च।
भगवन् पुण्डरीकाक्ष शरणागतवत्सल।। 33.43 ।।
रक्षासूत्रं गृहाण त्वं मखाराधनपूर्तये।
इति संप्रार्थ्य वै सूत्रं पात्रादादाय देशिकः।। 33.44 ।।
अङ्गुष्ठानामितकाभ्यां च गृहीत्वा हस्तयोद्वयोः।
विश्वेत्तातेति मन्त्रेण मूलबेरस्य दक्षिणे।। 33.45 ।।
हस्ते बद्‌ध्वा जपेन्मन्त्रमस्तं तु दश(9)संख्यया।
एवं कर्मादिबिम्बानां रक्षासूत्रं च बन्धयेत्।। 33.46 ।।
(9.ग्र. संख्यकम्।)
श्रियादीनां (च देवीनां) वामहस्ते तु बन्धयेत्।
कौतुकं हेमसूत्राद्यं दक्षिणे स्वस्य वै करे।। 33.47 ।।
बध्नीयान्मूलमन्त्रेण ऋत्विजामपि वै ततः।
आचार्यो मूर्तिपैः साकं विहगेन्द्रप्रतिष्ठितम्।। 33.48 ।।
अभ्येत्य मण्डपं देवि द्वारकुम्भादिपूजनम्।
गरुडं च महाकुम्भमुपकुम्भचतुष्टयम्।। 33.49 ।।
करकं चार्चयित्वाथ निवेद्यान्तं ततः परम्।
द्वारादिदेवताः सर्वा उद्वास्य च ततो गुरुः।। 33.50 ।।
पक्षीन्द्रं यानमारोप्य कुम्भानानाय्य साधकैः।
वाद्यघोषादिभिः सार्धं प्रादक्षिण्येन मन्दिरम्।। 33.51 ।।
ध्वजस्तम्भसमीपस्थपीठिकायां निवेशयेत्।
[ध्वजस्तम्भस्य परितो द्वारतोरणकुम्भगान्।। 33.52 ।।]
देवानभ्यर्च्य देवेशं त्रयो भागवता रमे।
भद्रपीठे समारोप्य श्रीपुष्टिसहितं विभुम्।। 33.53 ।।
चतुर्णामपि वेदानां वाद्यैश्च विविधैः स्वनैः।
शङ्खभेरीनिनादैश्च स्तोत्रैश्च विविधैरपि।। 33.54 ।।
चामरैर्व्यजनैः श्वेतच्छत्रैश्च ध्वज(10)पङक्तिभिः।
शनैः शनैर्देवदेवं ध्वजस्तम्भसमीपगे।। 33.55 ।।
(10.ग्र. संयुतैः)
मण्डपे भद्रपीठे तु भगवन्तं निवेशयेत्।
पूजयित्वा यथाशास्त्रं मुद्गान्नं मोदकं तथा।। 33.56 ।।
गुडान्नं भक्ष्यसहितं पानकादि निवेदयेत्।
अनिरुद्धं ध्वजस्तम्भे हृदयादवतार्य वै।। 33.57 ।।
आवाह्य पौरुषैः सूक्तैः पूजयेद् ध्वजरूपिणम्।
गुणे मायां समावाह्य नैवेद्यान्तं च पूजयेत्।। 33.58 ।।
वैराजेन च साम्ना वै ध्वजं संयोजयेद् गुणे।
ततः पटस्थं गरुडं कुम्भस्थान्विहगानपि।। 33.59 ।।
अभ्यर्च्य धूपदीपान्तं कुम्भाद्विहगसत्तमम्।
ध्यायेत्पटस्थे विहगे प्रविष्टं ब्रह्मरन्ध्रतः।। 33.60 ।।
प्रणवेन पिधायाथ गायत्र्या तार्क्ष्यपूर्वया।
महाकुम्भजलेनैव प्रोक्ष्य सत्यादिकान् गुरुः।। 33.61 ।।
महापटे समावाह्य प्रार्थयेद्विहगाधिपम्।
महाबल महाबाहो वैनतेय वयोऽधिप।। 33.62 ।।
(11)संनिधत्स्व पटे पक्षिन्नुत्सवावभृथान्तिमम्।
आहूतस्त्वं सर्वविघ्नान् जहि कर्मे प्रवर्तय।। 33.63 ।।
(11.पा. संनिधत्स्व पटे तुभ्यं नमः प्रणवमूर्तये।)
इति संप्रार्थ्य पक्षीन्द्रं मोदकादीन् निवेदयेत्।
ताम्बूलं तर्पणजलं पानीयं च निवेदयेत्।। 33.64 ।।
नीराजनं समर्प्याथ प्रार्थयेत् पक्षिपार्थिवम्।
वाहनाय महाविष्णोस्तार्क्ष्यायामिततेजसे।। 33.65 ।।
गरुडाय नमस्तुभ्यं सर्वसर्पेन्द्रमृत्यवे।
आहृतामृतकुम्भाय जननीदास्यमोचिने।। 33.66 ।।
सुरासुरेन्द्रजयिने नागेन्द्राभरणाय ते।
यदाधारमिदं सर्वं तदाधाराय वै नमः।। 33.67 ।।
गरुत्मन् ते त्रिवृत्साम शिरोगायत्रमक्षिणी।
स्तोम आत्मा तथा साम वामदेव्यं तनुःस्मतः।। 33.68 ।।
(12)पक्षौ बृहद्रथन्तरे स्यातां सामनी पुच्छमीरितम्।
यज्ञायज्ञियं साम छन्दांस्यङ्गानि धिष्णियाः।। 33.69 ।।
(12.पा. पक्षौ यस्य बृहत्साम रथन्तरमपि द्वयम्।)
शफनि ते यजूँषि छन्दोरूपाय ते नमः।
इति संस्तूय पक्षीन्द्रं गरुडप्रीतये ततः।। 33.70 ।।
तार्क्ष्यस्य तालं त्रिपुटं स्वरो मध्यम ईरितः।
गौडाख्यरागो नृत्तं च विष्णुक्रान्तमुदाहृतम्।। 33.71 ।।
एवं तालादिभिस्तोष्य सुमुहूर्ते गुरूत्तमः।
समन्ततस्तूर्यघोषैर्वेदघोषैश्च नादिते।। 33.72 ।।
शङ्खघण्टादिभिश्चैव पटमालयसंमुखम्।
सुपर्णोऽसीति मन्त्रेण ध्वजमारोपयेद्रमे।। 33.73 ।।
रज्जुं च बन्धयेत्स्तम्भे प्रादक्षिण्येन वै गुरुः।
पूर्वाह्णे वाथ मध्याह्ने ध्वजस्यारोहणं शुभम्।। 33.74 ।।
अपराह्णे तथा रात्रौ राजराष्ट्रविनाशनम्।
(13)प्रार्थयेत् संनिधिं चापि गरुडस्य ध्वजोदरे।। 33.75 ।।
(13.पा. प्रार्थयेत् स्थितिं तस्य गरुडस्य ध्वजोदरे।)
पक्षीन्द्र (14)जगदानन्द विनतानन्द सुन्दर।
अस्माद्दिनात्समारभ्य यावत्तीर्थावसानकम्।। 33.76 ।।
(14.पा. पक्षविक्षेपतरङ्गानिलसंपदा।)
संनिधत्स्व (15)ध्वजे देव राज्ञो जनपदस्य च।
ग्रामाणां यजमानस्य वैष्णवानां विशेषतः।। 33.77 ।।
(15.पा. पटे यावदुत्सवावन्तयावधि।)
तुष्टये पुष्टये चैव सर्वशत्रुजयाय च।
अपमृत्युजयार्थाय वैनतेय प्रसीद ओम्।। 33.78 ।।
इति संप्रार्थ्य पक्षीन्द्र विकिरेत् कुसुमाञ्जलिम्।
तन्मुद्रां च प्रदर्श्याथ कुर्यान्नीराजनं गुरुः।। 33.79 ।।
ततो देवसमीपं च गत्वा देशिकसत्तमः।
ध्वजं दर्शयितुं देवं प्रार्थयेद्धरिमव्ययम्।। 33.80 ।।
ज्ञानतोऽज्ञानतो वापि ध्वजारोहणकर्मणि।
शास्त्रोक्तं स्खलितं यद्यत्तत्सर्वं कृपया हरे।। 33.81 ।।
पूर्णमेव भवेद्देव क्षन्तुमर्हसि सुव्रत।
ओमच्युत जगन्नाथ मन्त्रमूर्ते जनार्दन।। 33.82 ।।
मया कृतो ध्वजारोह उत्सवाय तवेप्सितः।
तमीक्षस्व महाबाहो दोषानपनय प्रभो।। 33.83 ।।
इति विज्ञाप्य देवेशं यानमारोप्य देशिकः।
ध्वजस्तम्भसमीपं तु नीत्वा चादर्शयेद् ध्वजम्।। 33.84 ।।
आह्वानार्थमशेषाणां भक्तानां पतगेश्वरम्।
नियुङ्क्ष्व देवदेवेश भक्तरक्षणदीक्षित।। 33.85 ।।
एवं संप्रार्थ्य तदनु प्रादक्षिण्येन मन्दिरम्।
बहिर्मण्डपमानीय घटदीपं प्रदर्शयेत्।। 33.86 ।।
स्थापयेद् देवताह्वानमण्डपे सिंहविष्टरे।
निवेदितान्नभक्ष्यादीन् भक्तेभ्यो दापयेद् गुरुः।। 33.87 ।।

इति श्रीश्रीप्रश्नसंहितायां महोत्सवे (16)त्रयस्त्रिंशोऽध्यायः ।।
(87.चतुस्त्रिंशोऽध्यायः इति ग्र. पुस्तके।)