प्रश्नसंहिता/अध्यायः ३५
← अध्यायः ३४ | प्रश्नसंहिता अध्यायः ३५ [[लेखकः :|]] |
अध्यायः ३६ → |
।। पञ्चत्रिंशोऽध्यायः ।।
बलिबिम्बं समभ्यर्च्य बल्यन्नानि निवेदयेत्।
नीराजनं समर्प्याथ शिबिकायां नयेद् विभुम्।। 35.1 ।।
पात्रस्थं तद्बलिद्रव्यं घण्टां कुसुमभाजनम्।
तोयपूर्णं च करकं (1)धूपपात्रं सदीपकम्।। 35.2 ।।
(1.ग्र. सूपपात्रं)
प्रदीपांश्च गृहीत्वाथ वाद्यघोषपुरःसरम्।
मड्डुकं (2)च गृहीत्वाग्रे वेदघोषसमन्वितम्।। 35.3 ।।
(2.ग्र. ताडयन्नेव)
बलिबिम्बस्य पुरतो गच्छेयुः परिचारकाः।
ततो गुरूत्तमो वापि साधको वापि दीक्षितः।। 35.4 ।।
वक्ष्यमाणक्रमेणैव तत्तत्स्थानेषु मन्त्रवित्।
महोत्सवे मया दत्तं सोदकं वैष्णवं बलिम्।। 35.5 ।।
गृहीत्वा तृप्तिमासाद्य स्थानं रक्ष सुरोत्तम।
(3)इति मन्त्रं समुच्चार्य बीजाक्षरसमन्वितम्।। 35.6 ।।
(3.ग्र. इमं मन्त्रं)
नामधेयं चतुर्थ्यन्तमुच्चार्य तदनन्तरम्।
सोदकं च बलिं दद्यात् चण्डादीनां गुरूत्तमः।। 35.7 ।।
तद्विधानं प्रवक्ष्यामि कमले सास्त्रसंमतम्।
प्रथमावरणद्वारे बलिं चण्डप्रचण्डयोः।। 35.8 ।।
द्वितीयगोपुरद्वारे जयस्य विजयस्य च।
तृतीयद्वारि धातुश्च विधातुश्च बलिं क्षिपेत्।। 35.9 ।।
चतुर्थे दुर्जयस्यापि ब्रवलस्य तथैव च।
पञ्चमे द्वारि शङ्खस्य पद्मस्य च निधेर्बलिम्।। 35.10 ।।
ततश्चतुर्मुखस्यापि बलिं तद्याद् यथाविधि।
ततो वीथिषु निर्गत्य कुमुदादिबलिं क्षिपेत्।। 35.11 ।।
तत इन्द्रादिदेवेभ्यो दिक्पालेभ्यो यथाविधि।
(4)अथवा कुमुदायादाविन्द्राय तदनन्तरम्।। 35.12 ।।
(4.ग्र. अथवा कुमुदाय स्यात्।)
(5)कुमुदाक्षाय तदन्वग्नये वा बलिं क्षिपेत्।
अशून्यासु च वीथीषु प्रतिलोमैः स्थितासु च।। 35.13 ।।
(5.ग्र. कुमुदाक्षायाग्नये वा क्रमेणैव बलिं क्षिपेत्।)
न दद्याद् बलिदानं तु ह्यालयेष्वेव कारयेत्।
एवं वीथीषु सर्वत्र तत्तत्स्थानेषु देशिकः।। 35.14 ।।
क्षिप्त्वा बलिं देवगृहमासाद्य बलिपीठकम्।
दक्षिणादिद्वारपालान् पार्षदान् सायुधानपि।। 35.15 ।।
आवाह्य पीठं परितो बलिं तेभ्यः क्षिपेद् गुरुः।
बलिबिम्बं महापीठं प्रादक्षिण्येन वै नयेत्।। 35.16 ।।
ततो नीराजनं कृत्वा स्वस्थाने तं निवेशयेत्।
उत्सवे देवदेवस्य वाहनानि शृणुष्व मे।। 35.17 ।।
विमानो भास्करः शेषः सिंहो गरुड एव च।
गजो रथो हयश्चापि द्रुमः कल्पकसंज्ञिकः।। 35.18 ।।
हंसश्चन्द्रः सुमेरुश्च शिबिका भद्रपीठिका।
एवंविधानि दिव्यानि वाहनानि मनस्विनि।। 35.19 ।।
स्वर्णादिरत्नविकृतैर्दारुभिर्वापि शिल्पिभिः।
कारयित्वा तेषु तार्क्ष्यं प्रतिष्ठाप्य गुरूत्तमः।। 35.20 ।।
प्रथमाद्युत्सवदिने तेषु कस्मिंस्तु वाहने।
आरोप्य वीथीभ्रमणं कारयेद्देवसत्तमम्।। 35.21 ।।
देवस्य वीथीभ्रमणक्रमं वक्ष्यामि शोभने।
श्रीभूमीसहितं देवं देशिको मन्त्रवित्तमः।। 35.22 ।।
उत्तिष्ठ ब्रह्ममन्त्रेण देवमुत्थापयेद् रमे।
दीक्षिताभ्यामपि द्वाभ्यां भद्रं कर्णेति मन्त्रतः।। 35.23 ।।
यानमारोपयेद् देवं वस्त्रमाल्यविभूषणैः।
अलंकृत्य रमानाथं दर्पणं च प्रदर्शयेत्।। 35.24 ।।
अर्घ्यादिभिस्तमभ्यर्च्य ताम्बूलं च निवेदयेत्।
ततो नीराजनं कृत्वा वाद्यधोषपुरःसरम्।। 35.25 ।।
[देवमुत्थापयेद्देवि प्रदीपानां शतैः समम्।]
कैंकर्यनिरताः सर्वे वैष्णवा धवलाम्बराः।। 35.26 ।।
कञ्चुकोष्णीषवहनाः पुष्पभूषणभूषिताः।
वहेयुर्वैष्णवा यानं ध्यायन्तो विहगेश्वरम्।। 35.27 ।।
अथवा वैष्णवाः शूद्राः वहेयुर्भक्तिसंयुताः।
विष्णोर्यानस्य परितो भगवद्बिम्बरक्षकाः।। 35.28 ।।
शरचापधराः केचिच्छाक्तिका याष्टिकाः परे।
नैस्त्रिंशिकाश्च काण्डीरास्तथा फलकपाणयः।। 35.29 ।।
कौन्तिका द्रुघणाः केचित् कञ्चुकोष्णीषधारिणः।
पुरतो देवदेवस्य चतुरङ्गं बलं व्रजेत्।। 35.30 ।।
केचिद्रथे समासीना धनुर्बाणसमन्विताः।
औपवाह्यगजारूढा गरुडध्वजधारिणः।। 35.31 ।।
केचिन्नृत्यत्तुरङ्गस्थाः केतुदण्डधराः परे।
तालवृन्तधराः केचिद् धूपपात्रवहास्तथा।। 35.32 ।।
हेमानि चातपत्राणि रत्नवन्ति महान्ति च।
श्वेतातपत्रं देवार्हं हेमदण्डविभूषितम्।। 35.33 ।।
मायूराण्यातपत्राणि रत्नदण्डानि वै रमे।
मुक्ताफलैर्निर्मितानि राजतानि शुभानि।। 35.34 ।।
चित्राणि हेमदण्डानि रत्नदण्डानि चापरे।
तोरणानि विचित्राणि पुत्रिकाश्च सहस्रशः।। 35.35 ।।
ध्वजान् रक्तान् सितांस्ताम्रांश्चक्रादिलिखितानपि।
शङ्खभेरीमृदङ्गाद्यैर्झल्लरीकाहली तथा।। 35.36 ।।
वृहद्भेरी नागवाद्यं मल्लवाद्यं महास्वनम्।
तूर्याणि विविधानि स्युर्वीणावेणुसकांस्यकम्।। 35.37 ।।
एतान् पारशवा देवि वादयेयुः पुरो हरेः।
नवयौवनसंपन्ना रत्नभूषणभूषिताः।। 35.38 ।।
नर्तक्योऽभिनयन्त्यो वै शृङ्गारादिरसान् बहून्।
गायन्त्यः सुस्वराः सर्वा वाद्यैश्च(6)विविधैरपि।। 35.39 ।।
(6.ग्र. विविधैः समम्।)
वेदवेदाङ्गनिपुणा ब्राह्मणाः शुक्लवाससः।
ऊर्ध्वपुण्ड्रर्द्विषड्क्षिश्च शोभमानशरीरिणः।। 35.40 ।।
हारोपवीतकटककेयूराङ्गदभूषणाः।
हरिचन्दनलिप्ताङ्गा रत्नकुण्डलधारिणः।। 35.41 ।।
पाञ्चरात्रार्थतत्त्वज्ञाः सपवित्रकरास्तथा।
वैष्णवा भक्तिनिरतास्तुलसीदामभूषणाः।। 35.42 ।।
नानाभाषाविरचिता विष्णुपारम्यसूचकाः।
देवात्यन्तसमीपे तु आचार्यः साधकोऽपि वा।। 35.43 ।।
दीक्षितः पादुकायुक्तं रत्नपात्रं दधद् व्रजेत्।
हरेः पुरो बन्दिनस्तु गायेयुर्गानमुत्तमम्।। 35.44 ।।
देवस्य दक्षिणे पार्श्वे पञ्चरात्रपरायणाः।
वासुदेवस्य माहात्म्यं कथयन्तस्तथापरे।। 35.45 ।।
देवस्य पृष्ठभागे तु वैष्णवा वेदपाठकाः।
ऋगादिभिश्चतुर्वेदैस्तोषयेयुर्जनार्दनम्।। 35.46 ।।
वामभागे वेदविदो वेदान्तार्थप्रदर्शकाः।
इतिहासपुराणज्ञाः शाब्दिकास्तार्किकास्तथा।। 35.47 ।।
सांख्यका याज्ञिकाश्चैव मीमांसान्यायशोधकाः।
तत्तच्छास्त्रोक्तमार्गेण परस्परजिगीषवः।। 35.48 ।।
शास्त्रेषु नैपुणं सर्वं प्रदर्शयितुमुद्यताः।
भट्टाचार्यः साधकाश्च हरेर्वाहनदक्षिणे।। 35.49 ।।
[स्वर्णयज्ञोपवीतानि कटिसूत्राणि रत्नवत्।
कुण्डलानि विचित्राणि कङ्कणानि बहूनि च।। 35.50 ।।
अङ्गुलीयानि रत्नैश्च शोभितानि शुचीनि च।
उष्णीषाणि च वस्त्राणि रक्तचन्दनकर्दमम्।। 35.51 ।।
धारयन्तो वाहनस्य गच्छेयुर्देवदर्शकाः।
भट्टाचार्यः पीठभागे साधको वामपार्श्वगः।। 35.52 ।।]
आगतेभ्यश्च भक्तेभ्यो दद्याच्छिरसि पादुकाम्।
तन्मयत्वाद्देशिकेन्द्रो देवोऽहमिति भावयन्।। 35.53 ।।
कुर्यादनुग्रहं सर्वं देवस्यालोक्य चाननम्।
अभिप्रायं यथा राज्ञो ज्ञात्वा तेन प्रदर्शितम्।। 35.54 ।।
बुवन्ति तत्समीपस्था राज्ञां तत्तदनुग्रहम्।
एवं भक्ताननुग्राह्याननुगृह्णन् गुरूत्तमः।। 35.55 ।।
नयेद्वीथीषु देवेशं शनैश्चतसृषु क्रमात्।
महापीठस्य पुरतो मूलार्चाभिमुखं हरिम्।। 35.56 ।।
स्थापयित्वा दृष्टिदोषान् परिहर्तुं गुरूत्तमः।
दासीन्नियोजयेत् कुम्भदीपमानेतुमञ्जसा।। 35.57 ।।
सुस्नाता धौतवसना स्वच्छमृत्स्नोर्ध्वपुण्ड्रकाः।
तरुणी नम्रवदना सर्वाभरणभूषिताः।। 35.58 ।।
संप्राप्तपञ्चसंस्कारा (7)वैष्णवी भाविता स्वयम्।
नीराजनार्थं देवस्य तालोत्सेधं सलक्षणम्।। 35.59 ।।
(7.ग्र. व्राह्यणी)
हेमादिनिर्मितं कुम्भं शोधयेत् गानपूर्वकम्।
सिद्धार्थवारिणापूर्य स्वर्णाब्जेन पिधाय च।। 35.60 ।।
अश्वत्थपल्लवैः स्रग्भिश्चन्दनैरक्षतैरपि।
घटं तु समलंकृत्य पद्मगर्ते सुनिर्मलम्।। 35.61 ।।
आज्यावसिक्तवर्तिञ्च स्थापयेच्चतुरङ्गुलाम्।
पाकशालाग्निनादीप्य वाद्यघोषपुरःसरम्।। 35.62 ।।
देवस्य पुरतः पीठे स्थापयेद् घटदीपिकाम्।
दीपिकामस्त्रमन्त्रेण संप्रोक्ष्य गुरुसत्तमः।। 35.63 ।।
जले तु वरुणं देवं ज्वालायां जातवेदसम्।
आवाह्य गन्धपुष्पाद्यैरर्घ्याद्यैरभिपूजयेत्।। 35.64 ।।
अर्घ्यादिना देवदेवमभ्यर्च्य तदनन्तरम्।
दीपमुद्रां प्रदर्श्याथ दीपमादाय देशिकः।। 35.65 ।।
देवस्य दक्षिणं पादमारभ्येतरपश्चिमम्।
भ्रामयेत् सर्वतोऽङ्गानि द्विवारं वा त्रिवारकम्।। 35.66 ।।
नेत्रमन्त्रं जपन्नेव ततः पीठे निवेशयेत्।
सौवर्णादीनि पात्राणि विततानि यथारुचि।। 35.67 ।।
आज्यवर्तिसमेतानि पञ्चषट्सप्तवाष्ट वा।
दास्यो गृहीत्वा पुरतो घटदीपस्य वै रमे।। 35.68 ।।
एवं सर्वविधैर्वाद्यैस्त्रिर्देवं वाहने स्थितम्।
कृत्वा प्रदक्षिणं सर्वा बलिपीठपुरो भुवि।। 35.69 ।।
क्षिपेयुर्दीपिकाः सर्वा यद्वा नीराजनं चरेत्।
सशर्करं मुद्गदलं पृथुकं च निवेद्य च।। 35.70 ।।
ततो नीराजनं कृत्वा मण्डपे स्थापयेद्धरिम्।
वाहनाद् भद्रपीठे तमवतार्यगुरूत्तमः।। 35.71 ।।
यागमन्दिरमानाय्य वेदैस्तं परितोषयेत्।
चतुःस्थानं प्रदर्श्याथ पुनर्नीराजनं चरेत्।। 35.72 ।।
मूलार्चाभिमुखं नीत्वा तयोर्नीराजनं चरेत्।
बहिः प्रक्लृप्ते शय्याया गृहे पुष्पविभूषिते।। 35.73 ।।
वितानक्षौमसंवीते प्रदीपैः समलंकृते।
निवेश्य मण्डपे देवं श्रमशान्त्यर्थमच्युतम्।। 35.74 ।।
नवभिः कलशैर्देवि स्नापयेद्गन्धवारिभिः।
पुष्पादिभिरलंकृत्य वीणावेणुमृदङ्गकैः।। 35.75 ।।
तोषयित्वा गुलान्नाद्यैर्भक्ष्याणि विनिवेदयेत्।
हंसतूलैश्च पुष्पैश्च कृतायामधिमञ्चकम्।। 35.76 ।।
शय्यायां शाययेद्देवं तोषयेद्विविधैः स्तवैः।
उत्सवावभृथं यावत् कर्मबिम्बस्य वै रमे।। 35.77 ।।
शय्यां प्रतिदिनं कुर्याच्छ्रीभूमीसहितं तु वा।
दर्शयेच्च चतुःस्थानं मूलबिम्बं च कालयोः।। 35.78 ।।
तत्तत्कर्मावसाने तु चरेन्नीराजनं रमे।
इति श्रीश्रीप्रश्नसंहितायां(8) चतुस्त्रिंशोऽध्यायः ।।
(8.पञ्चत्रिंशोऽध्याय इति भाव्यम्।
`महोत्सवे षट्त्रिंशोऽध्याय' इति ग्र. पुस्तके दृश्यते।)