प्रश्नसंहिता/अध्यायः ४९

विकिस्रोतः तः
← अध्यायः ४८ प्रश्नसंहिता
अध्यायः ४९
[[लेखकः :|]]
अध्यायः ५० →
प्रश्नसंहितायाः अध्यायाः

।। एकोनपञ्चाशोऽध्यायः ।।
(अथ प्रायश्चित्तविधिः)

श्रीः-
भगवन् सर्वलोकेश सर्वज्ञ वदतांवर।
पूर्वोक्तकर्षणाद्येषु ह्युत्सवान्तेषु कर्मसु।। 49.1 ।।
धाम्नः कदाचिद् बिम्बस्य वैकल्ये भेदनेऽपि वा।
पूजायाश्चापि लोपे वा स्पृष्टे वा पूजकेतरैः।। 49.2 ।।
आचार्यगुणहीनेन पूजिते वालयादिषु।
चण्डालादिप्रवेशे वा प्रतिष्ठादिषु कर्मसु।। 49.3 ।।
कर्तव्यं न कृतं चेद्वा ह्यन्यथा वा कृतं भवेत्।
प्रायश्चित्तं भवेत् किंचिदस्ति चेत्तद्वदस्व मे।। 49.4 ।।
श्रीभगवान्-
शास्त्रोक्तविधिना सर्वं कर्तव्यं कर्षणादिकम्।
न्यूनं वा विपरीतं वा शास्त्रीयस्य भवेद्यदि।। 49.5 ।।
तत्तत्कार्यानुरोधेन प्रायश्चित्तं भवेत् किल।
देवालयस्य निर्माणे प्रथमं वरयेद् गुरुम्।। 49.6 ।।
मदुक्तगोत्रसंभूतं पारंपर्येण दीक्षितम्।
तथाविधेन गुरुणा चक्राब्जेऽप्यभिषेचितम्।। 49.7 ।।
पाञ्चरात्रार्थतत्त्वज्ञं वृद्धं भक्तं हरेः प्रियम्।
यजमानः प्रार्थयीत स तु कृष्यादिकं चरेत्।। 49.8 ।।
तथाविधेन गुरुणा कृष्यादि न कृतं यदि।
अन्येन वा कृतमपि शिलासंग्रहणादिकम्।। 49.9 ।।
तथाधारशिलान्यासो मूर्धेष्ट(क)शिला अपि।
मन्त्रहीनेन विन्यासो (1)गर्भविन्यासमेव च।। 49.10 ।।
(1.ग्र. गर्भन्यसन)
प्रतिष्ठासमये पूर्वं मयोक्तं दीक्षितं गुरुम्।
वरयित्वा तु तेनैव तत्तत्कालोचितानि च।। 49.11 ।।
यथाक्रमं तु कृत्वैव प्रतिष्ठा(2)मारभेत् ततः।
कृष्यादिकार्याभावेऽपि मन्त्रैर्होमैश्च ताः क्रियाः।। 49.12 ।।
(2.ग्र. मारभेत हि।)
कृत्वोत्तरं प्रतिष्ठां वै प्रारभेत विचक्षणः।
अन्यथा यजमानस्य बिम्बस्य त्वालयस्य च।। 49.13 ।।
राज्ञो राष्ट्रस्य नाशः स्यात् तस्मात् कुर्याद्यथाविधि।
पिण्डिकायां मूलबिम्बं रत्नन्यासादिपूर्वकम्।। 49.14 ।।
स्थापयेन्मन्त्रसहितं यथाशक्ति यथाविधि।
अन्यथा देवसांनिध्यं न भवेत् कमलेक्षणे।। 49.15 ।।
कथंचिदपि विन्यस्य मूलमन्त्रायुतं जपेत्।
प्रतिष्ठादिषु कार्येषु प्रपा वा मण्डपं तु वा।। 49.16 ।।
प्रमाणादधिका(3) वेदिन्यूना वा तोरणानि च।
ध्वजा वा पालिकाद्याश्च घटाः करकमेव च।। 49.17 ।।
(3.ग्र. दधिकं)
कुण्डानि स्रुक्‌स्रुवौ वापि समिधश्च तथा रमे।
पूर्वोक्तानां दोषशान्त्यै शान्तिहोमं समाचरेत्।। 49.18 ।।
अष्टोत्तरसहस्रं च मनुमष्टाक्षरं जपेत्।
अन्यकार्यनियुक्तास्तु घटाद्या ये च मृन्मयाः।। 49.19 ।।
कुण्डानि स्रुक्‌स्रुवा चापि दर्भाः परिधयस्तथा।
देवचिह्नितवस्त्राणि ध्वजानि द्वारतोरणान्।। 49.20 ।।
द्रव्याणि हुतशेषाणि दारुपात्राणि वै रमे।
प्रतिष्ठादिषु कार्येषु नोपयुञ्ज्यात् कदाचन।। 49.21 ।।
यदि मोहेन गृह्णीयात् तत्कर्म पुनराचरेत्।
शान्तिहोमं च कुर्वीत ब्राह्मणानपि भोजयेत्।। 49.22 ।।
अङ्कुरानर्पयेत् पूर्वं मृत्संग्रहणपूर्वकम्।
अकृतं चेत् कृतं वापि भक्षितं मूषिकादिभिः।। 49.23 ।।
भवेद्वा रक्तवर्णं तु नोत्पद्येताथवा रमे।
व्यत्यासेन स्थापिता वा शरावघटपालिकाः।। 49.24 ।।
स्वस्थानात्पतिता वापि भिन्ना वा मन्त्रसंस्कृताः।
मन्त्रसंस्कारहीना वा होमाद्या न कृता यदि।। 49.25 ।।
[रक्तादिदोषसंयुक्ता मन्त्रहीनाश्च वै यदि।]
पात्राणि शोधयित्वा तु पुनरङ्कुरमर्पयेत्।। 49.26 ।।
स्थानाद् भ्रष्टानि पात्राणि परित्यज्य च तत्स्थले।
स्थापयित्वा पुनस्तानि तेषु बीजानि वापयेत्।। 49.27 ।।
अयुतं मूलमन्त्रं च कुर्याच्छान्तिं च देशिकः।
प्रतिष्ठादिषु कार्येषु स्तापितेषु घटेष्वपि।। 49.28 ।।
भिन्नो वा पतितो वापि छिद्रितो वापि भार्गवि।
स्पृष्टो वाऽस्पृश्यमनुजैर्देवं तस्मात्तु मण्डले।। 49.29 ।।
समावाह्य घटं त्वन्यं लक्षणेन समन्वितम्।
तस्मिंस्थाने तु संस्थाप्य मण्डलाद् देवतां रमे।। 49.30 ।।
आवाह्य पूर्ववत् पूजां कुर्याद् देशिकसत्तमः।
वम्रीभिर्दूषितो वापि स्पृष्टो वा पतितादिभिः।। 49.31 ।।
घटे देवं समावाह्य वेदिं संशोध्य शिल्पिभिः।
संस्तीर्य तण्डुलांस्तस्मिन्नानावर्णांस्तु शास्त्रवित्।। 49.32 ।।
चक्राब्जं विलिखेत् पूर्वं प्रोक्षयेत् पुण्यवारिणा।
कुम्भाद् देवं समावाह्य पूर्ववत् पूजयेद् गुरुः।। 49.33 ।।
द्वादशार्णायुतं जप्त्वा शान्तिहोमं च कारयेत्।
प्रपां वेदींश्च कुण्डानि तोरणानि ध्वजांस्तथा।। 49.34 ।।
कृत्वैवोपक्रमेत् कर्म ह्यङ्गान्येतानि देशिकः।
अकृत्वोपक्रमेत्कर्म तत्सर्वं निष्फलं भवेत्।। 49.35 ।।
तत्तत्कृत्वा पुनः कर्म प्रारभेत विचक्षणः।
कुम्भानामवकाशेषु विन्यसेदष्टमङ्गलान्।। 49.36 ।।
घटेषु प्रतिमाश्चैव निक्षिपेन्मन्त्रपूर्वकम्।
अकृत्वा यदि कुर्वीत पूर्वोक्तविधिनाचरेत्।। 49.37 ।।
अनिर्वाणस्य दीपस्य निर्वाणे दीपयेत् पुनः।
नेत्रमन्त्रायुतैर्हुत्वा शान्तिहोमं समाचरेत्।। 49.38 ।।
वह्नौ कुण्डे स्थले चुल्यां संस्कृतेऽनुगतिं गते।
अस्पृश्यैश्च तथा स्पृष्टे महिष्याज्यादिभिर्हुते।। 49.39 ।।
अग्निप्रतिष्ठां कर्मादौ मोहादविधिना कृते।
पुनरग्निं प्रतिष्ठाप्य शास्त्रदृष्टेन वर्त्मना।। 49.40 ।।
मूलमन्त्रसहस्रेण जुहुयात् सर्पिषाहुतीः।
शान्तिहोमं ततः कुर्यात् शतं ब्राह्मणभोजनम्।। 49.41 ।।
असमिद्धे हुतेऽग्नौ तु पुनर्होमं समाचरेत्।
नैमित्तिकेषु काम्येषु प्रायश्चित्तादिकर्मसु।। 49.42 ।।
तदङ्गहोममन्यस्मिन् कुण्डे वा स्थण्डिलेऽपि वा।
कुर्याद्वा लौकिकाग्नौ तु वास्त्वीशक्षेत्रपालयोः।। 49.43 ।।
मुख्याग्नौ यदि कुर्वीत पुनरग्निं प्रकल्पयेत्।
समित्परिधिदर्भाणां कूर्चानां हविषामपि।। 49.44 ।।
आज्यस्थाल्यादिपात्राणां तथा स्रुक्स्रुवयोरपि।
तिलाज्यादिपदार्थानामेकवस्तु विलोपने।। 49.45 ।।
हुतं निरर्थकं सर्वं तस्मात् तानि तु संभ्रियात्।
सर्वथा होमकार्येषु तिलमाज्यं न लोपयेत्।। 49.46 ।।
ताभ्यां वियुक्तहोमस्य प्रायश्चित्तं न विद्यते।
प्रतिष्ठादिषु कार्येषु वर्तमानेषु वै रमे।। 49.47 ।।
अकस्मात् पञ्चमो वापि पतितः पातकी तु वा।
कुष्ठी वाप्यङ्गहीनो वा प्रेताशौचविगर्हितः।। 49.48 ।।
रजस्वला वा प्रविशेच्छालां देशिकसत्तमः।
सर्ववस्तूनि संत्यज्य घटादीनि यथापुरम्।। 49.49 ।।
पर्यग्निकरणं कृत्वा गोमयेनानुलिप्य च।
पुण्याहवारिणा प्रोक्ष्य घटादीन् स्थापयेत् पुनः।। 49.50 ।।
यथाक्रमं पुनः कुर्यादादितः सर्वकर्मकम्।
शालामग्निर्यदि दहेत् पुनः कृत्वा तु मण्डपम्।। 49.51 ।।
शान्तिहोमं (4)च कुर्वीत कुर्यात् कर्म च पूर्ववत्।
सहस्रं ब्राह्मणान् देवि भोजयेत् प्रभुसत्तमः।। 49.52 ।।
(4.ग्र. ततः कृत्वा)
अयुतं द्वादशार्णेन नृसूक्तेन च षोडश।
अग्निप्रतिष्ठा पूर्वं स्यात् तेन शान्तिर्भविष्यति।। 49.53 ।।
वास्त्वीशस्य क्षेत्रपस्य पूजां होमं च कल्पयेत्।
न कुर्याद्यदि मोहेन तत्कर्म विफलं भवेत्।। 49.54 ।।
प्रतिष्ठाङ्गं जले वासो नयनोन्मीलनं तथा।
शयनं चाभिषेकं च मन्त्रन्यसनमेव च।। 49.55 ।।
तत्तवसंहारहोमं च (5)षडंगन्यासपूर्वकम्।
द्वारपूजा कुम्भपूजा ध्वजपूजा च नित्यशः।। 49.56 ।।
(5.ग्र. व्योमयानादिसंस्कृतिम्।)
चक्राब्जपूजनं चैव कालयोर्होम एव च।
बीजावापं कुम्भपूजा वेदपारायाणं तथा।। 49.57 ।।
एतेष्वन्यतमाभावे सर्वं कर्म निरर्थकम्।
तानि कर्माणि कृत्वैव पुनः स्थापनमाचरेत्।। 49.58 ।।
अदीक्षितैर्ब्राह्मणाद्यैः स्पृष्टश्च प्रतिलोमजैः।
आशोचवद्भिः पतितैः कुष्ठ्यपस्माररोगिभिः।। 49.59 ।।
श्वगर्दभादिभिः स्पष्टो नित्यकर्मपराङ्मुखैः।
तुलुष्कपञ्चमाद्यैश्च संलाप्योदक्यया सह।। 49.60 ।।
रुधिरार्द्रः स्विन्नगात्रस्तथा कोपसमन्वितः।
परदाररतश्चापि परद्रव्यापहारकः।। 49.61 ।।
मूको वा बधिरो वापि पङ्गुर्वा मन्त्रवर्जितः।
संध्यादिकर्महीनश्च परनिन्दापरः सदा।। 49.62 ।।
दुःखितो वार्चकः पूजामकरोद्यदि वै हरेः।
तद्दोषशान्तये देवं पञ्चविंशतिभिर्घटैः।। 49.63 ।।
अभिषिच्य तथा शान्तिमूर्लमन्त्रसहस्रकैः।
हुत्वा संपातमानीय देवस्य शिरसि न्यसेत्।। 49.64 ।।
ततः पूजां प्रकुर्वीत देशिकेन्द्रो यथाक्रमम्।
अवगाहस्नानपूर्वं पादशौचमथाचमम्।। 49.65 ।।
प्रोक्षणं पुण्यसलिलैर्मन्त्रन्यसनमेव च।
भूतशुद्धिं च हृद्यागं पीठकल्पनमेव च।। 49.66 ।।
निर्माल्यादिविसर्गं च स्थानशुद्धिं भृगोः सुते।
बिम्बशुद्धिं (6)ततो देवं पूजयेच्च यथाक्रमम्।। 49.67 ।।
(6.ग्र. च कृत्वैव)
एतेष्वन्यतमं वापि विना पूजा भवेद्यदि।
सा पूजा निष्फलं ज्ञेया कृत्वा तत्तद्यथाविधि।। 49.68 ।।
पुनः पुजां प्रकुर्वीत तद्दोषस्योपशान्तये।
द्वादशार्णजपं कुर्यादष्टोत्तरसहस्रकम्।। 49.69 ।।
अर्घ्यादीनां च पात्रेषु शास्त्रोक्तद्रव्यसंचयम्।
निक्षिप्यैव हरेः पूजा कर्तव्या तुलसीं तु वा।। 49.70 ।।
तदभावे तु सा पूजा निष्फला तत्प्रतिक्रिया।
मूलमन्त्रशतं जप्त्वा पुनर्द्रव्यान्वितैर्जलैः।। 49.71 ।।
पूजयेदर्घ्यदानाद्यैः क्षीरसागरसंभवे।
अकस्मात् दीपनिर्वाणे पूजामध्ये गुरूत्तमः।। 49.72 ।।
तद्दीपं पुनरुद्दीप्य नेत्रमन्त्रशतं जपेत्।
प्राण्यङ्गसंभवैस्तैलैरजोष्ट्रादिघृतैरपि।। 49.73 ।।
तथा मधूकहेरण्डपुंनागफलसंभवैः।
तैलेर्नरानुभूतैश्च वस्त्रखण्डैश्च वर्तिभिः।। 49.74 ।।
दीपयित्वा गुरुः पूजां करोति यदि वै रमे।
देवस्य संनिधिर्न स्यात् तद्दोषस्य प्रशान्तये।। 49.75 ।।
संशोध्य दीपपात्राणि गोघृतैर्दीपयेत् पुनः।
पञ्चविंशतिभिर्देवं कलशैः स्नापयेत् पुरा।। 49.76 ।।
शान्तिहोमं च कृत्वैव पुनः पूजां समारभेत्।
धूपादिषूपचारेष्वेकस्मिन्नकृते सति।। 49.77 ।।
तद्दोषशान्तये देवि नेत्रमष्टोत्तरं जपेत्।
पुनस्तत्कर्म कुर्वीत भगवत्प्रीतयेऽर्चकः।। 49.78 ।।
अन्तःपूजनकाले तु पिदध्याच्च कवाटकम्।
बाह्यमण्डपपूजायां महाजनसमीपतः।। 49.79 ।।
अनाच्छाद्यैव देवस्य पूजां कुर्याद् विचक्षणः।
अन्यत्राच्छादनं नित्यमन्नाद्यादिनिवेदने।। 49.80 ।।
वाहनादिष्वलंकारे नो चेद् दोषो महान् भवेत्।
देवालयान्तर्देवस्य ह्यभिषेको महान् भवेत्।। 49.81 ।।
आलयस्य बहि(:)स्थाने न कुर्यादभिषेचनम्।
व्यत्यासं यदि कुर्वीत जपेन्मूलायुतं गुरुः।। 49.82 ।।
धूपपात्रं दीपपात्रमर्घ्यादीनां च भाजनम्।
नीराजनार्थपात्रं च छत्रं घण्टा च चामरे।। 49.83 ।।
पताकादिश्च निपतेन्मूलमन्त्रशतं जपेत्।
एतेषु यस्य कस्यापि संभेदो जायते यदि।। 49.84 ।।
पुनः संधाय तत्तच्च पञ्चगव्येन शोधयेत्।
प्रतिष्ठाकालमारभ्य पूजाकाले तु यत्कृतम्।। 49.85 ।।
घण्टाघोषो वेदपाठस्तथा तौर्यत्रिकादिकम्।
पूजाकाले प्रतिदिनं कुर्यात् तत्तज्जलोद्भवे।। 49.86 ।।
यदि घण्टादिघोषेण हीनं चेत् पूजनं हरेः।
तद्दोषस्य प्रशान्त्यर्थं द्वादशार्णायुतं जपेत्।। 49.87 ।।
पुनस्तैः पूजनं कुर्याद् देवस्य प्रीतये गुरुः।
कलृप्तवस्त्वाद्यभावेन कालमेकं द्वयं तु वा।। 49.88 ।।
कालत्रितयमेव स्यात् पूजनं कमले यदि।
पूर्वोक्तकालद्रव्याद्यैस्तत्तत्कालादनन्तरम्।। 49.89 ।।
पूजयेद् दोषशान्त्यर्थं शान्तिहोमं समाचरेत्।
एवमेकाहहीने तु नवभिः कलशैर्हरिम्।। 49.90 ।।
संस्नाप्य शान्तिहोमं च कारयेत् तद्दिनोचितैः।
द्रव्यैर्द्विगुणितैर्देवं पूजयेद्धरिमव्ययम्।। 49.91 ।।
आरभ्य द्विदिनं यावत् पक्षान्तं न कृतं यदि।
एकाशीतिघटैर्देवं स्नापयेतच्छान्तिहोमवत्।। 49.92 ।।
कृत्वा द्विगुणतैर्द्रव्यैः (7)पूजयेच्च यथाक्रमम्।
(8)तावद्वासरसंख्यायाः ब्राह्मणानपि भोजयेत्।। 49.93 ।।
(7.ग्र. तावतो वासरस्य च।)
(8.ग्र. पूजयेन्मन्त्रवद्देवं)
मासैकस्मिन्नतिक्रान्ते पूजाहीनेन वै रमे।
अष्टोत्तरशतैर्देवं कलशैरभिषिच्य च।। 49.94 ।।
शान्तिहोमं द्विजातीनां सहस्रस्यापि भोजनम्।
कृत्वा द्विगुणितैर्द्रव्यैः पूजयेच्च यथाक्रमम्।। 49.95 ।।
पूजाहीने वत्सरे तु संप्रोक्षणमतश्चरेत्।
त्रिवर्षान्तं मानुषस्य पूजनं न कृतं यदि।। 49.96 ।।
प्रतिष्ठाप्य यथाशास्त्रं पूजयेद् देशिकोत्तमः।
स्वयंव्यक्तेषु दिव्येषु पूजालोपो न दूषणम्।। 49.97 ।।
यथा वैकुण्ठलोकेऽहं स्वयंव्यक्ते तथैव च।
अत्र मां पूजकः को नु नित्यं पूजयति प्रिये।। 49.98 ।।
तथैव तत्र सांनिध्यात् पूजालोपो न दोषकृत्।
दिव्येष्वपि च पूर्वं हि देवैरेव प्रतिष्ठितः।। 49.99 ।।
तदारभ्य च देवाश्च क्रमेणागत्य नित्यशः।
मानुषाणामदृश्यास्ते पूजयन्ति रमापतिम्।। 49.100 ।।
अतस्तेषां च बिम्बानां पूजालोपो न विद्यते।
तथापि मानुषे लोके स्वयंव्यक्तादिषु प्रिये।। 49.101 ।।
परस्परविरोधेन ह्यलक्ष्येण च कोपतः।
न कुर्याद्यदि पूजां तु पाञ्चरात्रार्थतत्तववित्।। 49.102 ।।
अज्ञानां मानवानां तु मनस्तोषणहेतवे।
सहस्राराधानं कुर्यादष्टोत्तरशतैर्घटैः।। 49.103 ।।
अभिषेकं पुरा कृत्वा ततः शान्तिं समाप्य च।
पीठार्चनं तु कृत्वैव देवमावाहयेद् रमे।। 49.104 ।।
अकृत्वा पीठयजनं देवमावाहयेद्यदि।
सा पूजा निष्फला ज्ञेया देवतासंनिधिर्न च।। 49.105 ।।
द्वादशार्णसहस्रं तु दोषस्यास्य प्रशान्तये।
जपित्वा च यथाशास्त्रं पीठपूजां च कल्पयेत्।। 49.106 ।।
अकृत्वावाहनं (9)पूजा कर्मार्चादिषु या पूजा(भवेत्)।
सा पूजा निष्फला ज्ञेया पुनरावाह्य पूजयेत्।। 49.107 ।।
(9.ग्र. पूजां कर्मार्चादिषु वै रमे।)
लयायागं भोगयागं क्रियाहीनमथापि वा।
मन्त्रमुद्राविहीनं च विपर्यासेन वा कृतम्।। 49.108 ।।
एषां दोषविनिर्मुक्त्यै जपेन्मूलसहस्रकम्।
पुनस्तानि प्रकुर्वीत यथाशास्त्रं विचक्षणः।। 49.109 ।।
द्वारस्थितानां देवानां तथावरणवासिनाम्।
पूजादीने पुरा तेषां तत्तन्मन्त्रशतं जपम्।। 49.110 ।।
कृत्वा तु मन्त्रवत्पूजां कुर्यादर्चकसत्तमः।
व्यत्यासात्पूजने वापि पूर्वोक्तं तु समाचरेत्।। 49.111 ।।
नीराजनान्तिमं पूर्वं मूलबिम्बं समर्चयेत्।
ततः कर्मादिबिम्बानां मन्त्रवत्क्रमशे भवेत्।। 49.112 ।।
अनर्च्य मूलबिम्बं वा समकालेन वा रमे।
व्यत्यासेन च वा कुर्यात् पूजनं गुरुसत्तमः।। 49.113 ।।
तद्दोषशान्तये देवि जपेन्मूलसहस्रकम्।
पुनः पूजां प्रकुर्वीत मूलार्चादेषु मन्त्रवत्।। 49.114 ।।
अलंकारासनान्ते तु कुर्यान्नीराजनं हरेः।
न कुर्याद्यदि मोहेन मूलमन्त्रशतं जपेत्।। 49.115 ।।
ततो यथावत्कुर्वीत नीराजनविधिं गुरुः।
अदीक्षितैरुदक्यादिदृष्टं वा प्रतिलोमजैः।। 49.116 ।।
पतितैः श्वसृगालाद्यैर्दृष्टं वा मूषिकादिभिः।
आघ्रातं मक्षिकाभिश्च सेवितं च पिपीलिकैः।। 49.117 ।।
क्रिमिकैशनखैः स्पृष्टं भिन्नभाण्डस्थितं तु वा।
अत्युष्णमतिशीतं वा व्यञ्जनैश्च विवर्जितम्।। 49.118 ।।
अमन्त्रसंस्कृतं वा स्यादन्यमुद्दिश्य वा कृतम्।
तुषपाषाणशकलैः संयुतं नावधारितम्।। 49.119 ।।
गुडान्नेन विहीनं न हरये विनिवेदयेत्।
पञ्चाशता त्वेकहीनैः कलशैः स्नापयेद्धरिम्।। 49.120 ।।
जुहुयान्मूलमन्त्रेण सहस्रेण गुरूत्तमः।
शान्तिहोमं च कृत्वैव पूनः पूजां समाचरेत्।। 49.121 ।।
[स्वयंव्यक्तादिमर्त्यान्तं समं पूजा प्रतिक्रिया।]
निवेदयेत् ततोऽन्नाद्यं शुद्धं व्यञ्जनसंयुतम्।। 49.122 ।।
कणैस्तु भवति व्याधिस्तुषैदरिद्र्यसंभवः।
कृमिभिः पुत्रनाशः स्यात् केशैर्दारविनाशनम्।। 49.123 ।।
पाषाणैर्मरणं सिद्धं भस्मना कलहो भवेत्।
अङ्गारैर्वह्निना बाधो भग्नैर्भङ्गस्तु विग्रहे।। 49.124 ।।
इत्थं दोषो भवेद्देवि यजमानानवेक्षणात्।
तस्मात् तद्दोषभीतः सन् यजमानो दिने दिने।। 49.125 ।।
प्रातरारभ्य रात्र्यन्तं पश्येत्कार्याण्यतन्द्रितः।
[निवेदनार्थमानीतं मध्येऽन्नं पतितं यदि।। 49.126 ।।
महानसस्थितान्नादीन् तटाकादिषु निक्षिपेत्।
ततो महानसं पुण्यसलिलैः प्रोक्ष्य वाचयेत्।। 49.127 ।।]
अन्यत्र पचनागाराद् दीक्षितेतरसंस्कृतम्।
अमन्त्रसंस्कृतं चापि संस्पृष्टं माक्षिकादिभिः।। 49.128 ।।
अयोग्यैरपि संस्पृष्टं प्रभूतान्नं भृगोः सुते।
अस्त्रमन्त्रेण संशोध्य शोषणादीनि कारयेत्।। 49.129 ।।
निवेदयेत् ततोऽन्नाद्यमल्पे त्वित्थं न चाचरेत्।
[भोगलक्ष्मीवीरलक्ष्म्योः पूजनं युगपद्यदि।। 49.130 ।।
भोगलक्ष्म्याः पुरा कुर्याद् वीरलक्ष्म्यास्ततः परम्।]
पूजान्ते सर्वबीजानि मात्रादानं गुलान्नवत्।। 49.131 ।।
निवेदयेच्च देवाय विशेषयजनैः सह।
मात्रादानविहीने तु शान्तिहोमं समाचरेत्।। 49.132 ।।
पुनस्तत्तत्समर्प्याथ नमस्कृत्वा क्षमापयेत्।
संकल्प्य पूजां होमान्तमुत्सवान्तमथापि वा।। 49.133 ।।
पूजकेन तु मध्याह्ने होतव्यं न कृतं यदि।
रात्रिहोमेन सहितं द्विगुणं जुहुयाद् गुरुः।। 49.134 ।।
पूर्णाहुतिं च द्विगुणैर्द्रव्यैरेव (10)क्रियाद् गुरुः।
एकाहान्मासपर्यन्तं होमस्तु न कृतो यदि।। 49.135 ।।
(10.ग्र. तु कारयेत्।)
पञ्चाशतैकहीनस्तु कलशैः स्नापयेद्धरिम्।
तत्कालद्विगुणैर्द्रव्यैर्जुहुयान्मन्त्रवित्तमः।। 49.136 ।।
मासादूर्ध्वं वत्सरान्तं होमो न क्रियते यदि।
एकाशीतिघटैर्देवमभिषिच्य च गोघृतैः।। 49.137 ।।
मूलमन्त्रसहस्रेण शान्तिं च (11)जुहुयात्ततः।
तत्कालद्विगुणैर्द्रव्यैः पूर्णाहुत्या च भामिनि।। 49.138 ।।
(11.ग्र. जुहुयाद गुरुः।)
इत्थं वर्षादपि भवेत् त्रिवर्षान्तं रमे यदि।
मनुष्यनिर्मितं बिम्बं संप्रोक्ष्यैव तु पूजयेत्।। 49.139 ।।
बलिहीने त्वित्थमेव विशेषः कथ्यतेऽधुना।
आवाहिते बलिद्रव्ये देवे च पतिते यदि।। 49.140 ।।
तद्‌द्रव्याद्‌धृदये देवमावाह्य तदनन्तरम्।
शुद्धमन्यत्समादाय द्रव्यं देशिकसत्तमः।। 49.141 ।।
तस्मिन्नावाह्य हृदयाद् देवं दिक्षु बलिं क्षिपेत्।
तद्दोषशान्तये देवं क्षीरेणैवाभिषेचयेत्।। 49.142 ।।
शान्तिहोमं च कुर्वीत मूलमन्त्रशतं जपेत्।
यानाद् बिम्बे निपतिते स्पृष्टे वा पतितादिभिः।। 49.143 ।।
बलिबेरं तु नवभिः कलशैरभिषिच्य च।
शान्तिहोमं च कुर्वीत जपेन्मूलसहस्रकम्।। 49.144 ।।
तालनर्तनगानानां विहीने दीपनाशने।
तत्तद्दोषस्य शान्त्यर्थं तत्तत्काले गुरूत्तमः।। 49.145 ।।
जपेन्मूलसहस्रं तु पुनस्तत्तत्प्रकल्पयेत्।
बलिदानात्परं (12)देवं मूलादुत्सवकौतुके।। 49.146 ।।
(12.मूलान्मध्याह्ने मखकौतुके।)
आवाह्य यानमारोप्य कारयेदुत्सवं गुरुः।
पूजामात्रं तु वा कुर्यात् कालयोरुभयोरपि।। 49.147 ।।
इत्थं तु न कृतं देवि तद्दोषस्य प्रशान्तये।
द्वादशार्णसहस्रं तु जप्त्वा शान्तिं समाचरेत्।। 49.148 ।।
[आतपैश्च महावातधूलिभिर्वर्षबिन्दुभिः।
स्पृशेच्चेद्भगवद्बिम्बं स्नापयेन्नवभिर्घटैः।। 49.149 ।।]
कृत्वोत्सवं वा सायाह्ने रात्रि(13)पूजां समाचरेत्।
द्विजातीनां तु मरणं ग्रामादौ संभवेद्यदि।। 49.150 ।।
(13.ग्र. पूजामुपक्रमेत्।)
यावद्ग्रामस्य मध्यस्थः शवस्तिष्ठति वल्लभे।
ग्रामादेस्तावदाशौचं तावत्पूजां न चाचरेत्।। 49.151 ।।
ग्रामाद्विनिर्गते प्रेते वास्तुशान्त्यादिकं चरेत्।
गुरुः पूजां प्रारभेत न ततः पूर्वमाचरेत्।। 49.152 ।।
पूजने तु समारब्धे मृतिश्चेत्तदनन्तरम्।
उपक्रान्तां तु तां पूजां संग्रहेण समापयेत्।। 49.153 ।।
प्रेते ग्रामाद्विनिर्याते ग्रामशुद्धिं विधाय च।
ततो यथावत् पूजां च कुर्याद् देशिकसत्तमः।। 49.154 ।।
स्त्रीशूद्राणां च बालानां मरणं संभवेद्यदि।
ग्रामादीनां न चाशौचं (14)स्यात् क्षीरोदसंभवे।। 49.155 ।।
(14.ग्र. तथा ब्रह्मचतुःशते।)
एकादशधनुर्भ्योऽन्तः शूद्रस्त्रीशवदूषिते।
बहिर्निष्कास्य तत्पश्चात् पूजनं प्राक्रमेद् गुरुः।। 49.156 ।।
[धनुःसंख्याकल्पनं तु द्वितीयद्वारमादितः।
ग्राममार्गेण कर्तव्यं न तु तिर्यक्प्रकल्पयेत्।। 49.157 ।।]
विद्यमाने शवे पूजां कुर्याच्चेत् कमलालये।
तत्कालसंस्कृतान्नानि हरये वा निवेदयेत्।। 49.158 ।।
एकाशीतिघटैर्देवं स्नापयेन्मन्त्रपूर्वकम्।
कृत्वा शान्तिं ततः पूजां यथावत् कारयेद् गुरुः।। 49.159 ।।
वैखानसऋषिर्देवि ब्रह्मणो नखनिःसृतः।
हिमवच्छिखरे रम्ये गङ्गाद्वारे तपस्यति।। 49.160 ।।
पाञ्चरात्रसमं शास्त्रं मत्पूजार्थं करिष्यति।
तच्छिष्या भृगुमुख्याद्या वैखानसमुनीरितम्।। 49.161 ।।
शास्त्रं वैखानसं नाम ह्यधीत्य मुनिपुंगवाः।
तच्छास्त्रोक्तविमानादिबिम्बानि ह्यालयानि च।। 49.162 ।।
तच्छास्त्रेण प्रतिष्ठाप्य पूजयिष्यन्ति वै रमे।
एवं शैवादिशास्त्राणि भविष्यन्ति च भूतले।। 49.163 ।।
तदाराधकमर्त्यैश्च तच्छास्त्रेण च दीक्षितैः।
एतच्छास्त्रान्यसिद्धान्तदीक्षितैरन्यगोत्रिभिः।। 49.164 ।।
नूतनैर्दीक्षितैर्वापि परदीक्षाविवर्जितैः।
मन्त्रसिद्धान्तबिम्बानि न (15)स्पृश्येत कदाचन।। 49.165 ।।
(15.ग्र. स्पृश्येरन्)
यदि स्पृशेयुर्देवेशं पञ्चविंशतिभिर्घटैः।
स्नापयित्वा (16)ततः शान्तिं होमं चैव समाचरेत्।। 49.166 ।।
(16.ग्र. तु विधिवत् शान्तिहोमं समाचरेत्।)
(17)[अदीक्षितो वार्चकोऽपि पूजकेतरवंशजः।]
दीक्षितोऽपि च सन्यासी क्षत्रियो वैश्य एव वा।। 49.167 ।।
(17.ग्र. पुस्तके अयमर्धश्लोकः कुण्डलितो दृश्यते।)
अदीक्षितो ब्राह्मणो वा कुष्ठी यक्ष्मा च मूककः।
काणो वाप्यङ्गहीनो वा प्रतिलोमज एव वा।। 49.168 ।।
स्त्री वाप्यनुपनीतो वा कुण्डो वा गोलकोऽपि वा।
स्पृशेद्यदि हरिं देवि नवभिः कलसैर्गुरुः।। 49.169 ।।
अभिषिच्य जपेन्मूलमन्त्रं जप्त्वा सहस्रकम्।
शांतिहोमं च कुर्वीत तद्दोषस्यापनुत्तये।। 49.170 ।।
चण्डालपुल्कसौ वापि परस्त्रीसक्त एव वा।
अज्ञातजातिर्दस्युर्वा पतितो जातिदूषितः।। 49.171 ।।
म्लेच्छो वा प्रविशेदन्तः स्पृशेद्वा बिम्बमब्जजे।
तद्गतानि च पात्राणि शुद्धिं कृत्वा यथाविधि।। 49.172 ।।
पाञ्चरात्रोक्तविधिना (18)वास्तुशान्तिं समाप्य च।
प्रविष्टमात्रे तद्देवमेकाशीतिघटैर्गुरुः।। 49.173 ।।
(18.ग्र. वास्तुशुद्धिं समाचरेत्।)
स्नापयेद्यदि पूर्वोक्ताः स्पृशन्ति स्म हरिं रमे।
संप्रोक्षणं ततः कुर्यात् शास्त्रदृष्टेन वर्त्मना।। 49.174 ।।
एतेषु यो वा को वापि गर्भान्तर्मृतिन्वभूत्।
(19)बिम्बस्य वा शवस्पर्शः संभवेद्दोषशान्तये।। 49.175 ।।
(19.ग्र. बिम्बस्य वा शवस्पर्शं भवेत्तदोषशान्तये।)
(20)प्रतिष्ठां शास्त्रसंसिद्धां नयनोन्मीलनं तथा।
जलाधिवासं च विना कुर्याद्देशिकसत्तमः।। 49.176 ।।
(20.ग्र. पुनः प्रतिष्ठां कुर्वीत जलाधिवसनं तथा।
         तत्त्वन्यासं च शयनं नयनोन्मीलनं विना।।)
[हीर्णोद्धारप्रतिष्ठायामेवं कुर्याद्विचक्षणः।]
ब्राह्मणक्षत्रियविशां स्पृष्टे वा दूषिते शवैः।। 49.177 ।।
अभिषिच्य घृतैर्देवं प्रोक्षणं च समाचरेत्।
शूद्रस्य वानुलोमानां शवैः स्पृष्टेऽथ दूषिते।। 49.178 ।।
पूर्वोक्तविधिमाचर्य सहस्राराधनं चरेत्।
मूलार्चा यदि वा वस्त्रैश्चित्रैर्वा मृण्मयैस्तु वा।। 49.179 ।।
कृता चेत्तां परित्यज्य तत्स्थानेऽन्यां निवेशयेत्।
प्रतिष्ठां च यथाशास्त्रं कुर्याद्देशिकसत्तमः।। 49.180 ।।
सर्वत्र बाह्मणानां च सहस्रं भोजयेत् प्रभुः।
[भट्टाचार्यः साधकाश्च तथैव परिचारकाः।। 49.181 ।।
आसनेष्वासिकां भुक्तिं शयने च यथातथम्।
कुर्युः कर्मण्यधिकृता दोषो नैव तदा भवेत्।। 49.182 ।।
अन्ये चेत् कुर्युरवनिं लेपयेद् गोमयाम्बुभिः।
पुण्याहसलिलैर्देवमन्दिरं प्रोक्षयेद् गुरुः।। 49.183 ।।]
एतेषु पञ्चमाद्येषु यो वा को वापि मानवः।
प्रविष्टो वा मृतो वापि पाकशालां पुरा रमे।। 49.184 ।।
तत्रस्थाग्निं परित्यज्य कुण्डचुल्लिस्थमप्यथ।
सर्वत्र गोमया(21)लेपं प्रोक्षणं पञ्चगव्यतः।। 49.185 ।।
(21.ग्र. लेपः)
पुण्याहसलिलैश्चापि वास्तुहोमादिपूर्वकम्।
प्रतिष्ठाप्य च तच्छालां ततोऽग्निं च यथाविधि।। 49.186 ।।
कल्पयित्वा ततो होमं पचनं चापि कारयेत्।
प्रथमावरणाद् देवि ध्वजस्तम्भावसानकम्।। 49.187 ।।
चण्डालादिषु यातेषु नवभिः कलशैर्हरिम्।
मृतश्चेत् तत्र यः कश्चिद् देवमष्टोत्तरैः शतैः।। 49.188 ।।
स्नापयित्वा तु कलशैः शान्तिहोमं समाचरेत्।
ध्वजस्तम्भादुपक्रम्य रथ्यावरणमन्ततः।। 49.189 ।।
प्रथमावरणादौ तु शकृन्मूत्रादिदूषिते।
[पूर्वोक्तेषु प्रविष्टेषु पुण्याहैः प्रोक्षयेत् (22)जलैः]।। 49.190 ।।
(22.ग्र. स्थलम्।)
तत्क्षणात् तद्बहिर्नीत्वा मार्जनाल्लेपनादिभिः।
शोधयित्वा भुवं पश्चात् प्रोक्षयेत् पुण्यवारिभिः।। 49.191 ।।
गर्भगेहे तु देवेशं स्नापयेन्नवभिर्घटैः।
प्रथमावरणाद्येषु (23)प्राकारे यत्र कुत्रचित्।। 49.192 ।।
(23.ग्र. प्राकारेष्वपि पञ्चसु।)
अद्वारेण बहिर्नीत्वा मृतं जन्तुं (24)गुरूत्तमः।
ततः पूर्वोक्तविधिना प्रायश्चित्तं समाचरेत्।। 49.193 ।।
(24.ग्र. नरं तथा)
गर्दभश्वसृगालाद्यैर्वानरेण च पोत्रिणा।
काको वा कुक्कुटो वापि गृध्रो वा श्येन एव वा।। 49.194 ।।
गोधा वा सरटो वापि राजमूषक एव वा।
[मार्जालसर्पमण्डूकगौलीभिः सरटादिभिः।। 49.195 ।।]
स्पृशेच्च पञ्चविंशद्भिः कलशैः स्नापयेद्धरिम्।
[पिपीलिकाद्यैर्बिम्बस्य स्पर्शदोषो न विद्यते।। 49.196 ।।]
एतेषां गर्भगेहान्तर्मृतिर्वा स्पर्शनं तु वा।
अष्टोत्तरशतैर्देवं कलशैरभिषिच्य च।। 49.197 ।।
शान्तिहोमं ततः कुर्यात् सहस्राराधनं चरेत्।
प्रथमावरणाद्येषु प्राकारेष्वपि सप्तसु।। 49.198 ।।
वर्णानां प्रसवे देवि पञ्चमादिस्त्रियस्तु वा।
प्रसूताश्चेत् तदा(25) तत्र मृताविव विधिर्भवेत्।। 49.199 ।।
(25.ग्र. देवि)
मृगाणां पक्षिणां वापि प्रसवे मृतिवद्भवेत्।
सर्वत्र गोमयालेपो ब्राह्मणानां तु भोजनम्।। 49.200 ।।
प्रोक्षणं पुण्यसलिलैः पञ्चगव्यैस्तथैव च।
आराधनं भगवतो हरेः कुर्याद् विचक्षणः।। 49.201 ।।
मानुषस्थापितानां तु बिम्बानामित्थमीरितम्।
स्वयंव्यक्तादिबिम्बेषु मृन्मयादिषु वै रमे।। 49.202 ।।
संप्राप्तेष्वपि दोषेषु प्रोक्षयित्वा यथाविधि।
सहस्राराधनं कृत्वा नित्यपूजां (26)समाचरेत्।। 49.203 ।।
(26.उपक्रमेत्)
एवं दोषान् गुणान् वीक्ष्य तत्तत्कालोचितान् गुरुः।
प्रायश्चित्तं पुरा कृत्वा नित्यपूजां समाचरेत्।। 49.204 ।।
रात्रौ पूजां बलेर्दानमुत्सवं च यथाविधि।
यामार्धपूजनं चापि कृत्वा मूलात् ततो रमे।। 49.205 ।।
आवाह्य शयनार्चायां पूजयित्वा ततो गुरुः।
क्षीरान्नादि निवेद्याथ शाययेच्छयने शुभे।। 49.206 ।।
[तत्तत्कर्मार्थबिम्बे तु तत्र संनिहिते सति।
तत्तत्कर्मविशेषाणां व्यत्ययं न समाचरेत्।। 49.207 ।।
तत्तत्कर्मसु बिम्बं तु हीनं चेत् पूजनादिषु।
समस्तपूजनं कुर्यात् कर्मार्चायां गुरूत्तमः।। 49.208 ।।]
कुर्यात् प्रतिदिनं भद्रे गीतनाट्यसमन्वितम्।
एषोत्सवस्त्ववश्यं हि राजराष्ट्राभिवृद्धये।। 49.209 ।।
न कुर्याद्यदि मोहेन श्रीः प्रभोर्विमुखी भवेत्।
मधुक्षीरघृतैर्देवं प्रातः संस्नाप्य देशिकः।। 49.210 ।।
क्षीरान्नादीनि सर्वाणि द्विगुणानि निवेदयेत्।
[सूतकं वा मृताशौचं पूजारम्भे श्रुतं यदि।। 49.211 ।।
आशौचमाचरेद् विद्वान् पूजान्ते विधिवद्रमे।]
नित्ये नैमित्तिके काम्ये ह्युत्सवे स्नपने तथा।। 49.212 ।।
प्रायश्चित्ते प्रतिष्ठायां प्रोक्षणे देशिकोत्तमः।
वपनस्नानपूर्वं हि रक्षाबन्धं तथर्त्विजः।। 49.213 ।।
(27)कृत्वैव कार्यजातानि कुर्युर्देवि यथाक्रमम्।
अबध्वा यदि मोहेन (28)कुर्याच्चेदुत्सवादिकम्।। 49.214 ।।
(27.ग्र. बद्‌ध्वैव)
(28.ग्र. कुर्युश्चे)
शान्तिहोमं (29)ततः कृत्वा मूलमष्टोत्तरं जपेत्।
ततः शास्त्रोक्तविधिना बध्वा प्रतिसरं रमे।। 49.215 ।।
(29.ग्र. पुरा)
आदितस्तत्क्रियां कुर्यादन्यथा त्वकृतं कृतम्।
मूलादीनां च बिम्बानामित्थमेव विधिर्भवेत्।। 49.216 ।।
[महोत्सवाद्युत्सवेषु करस्ते देशिकस्य च।
देवदेवस्य नष्टे तु छिह्ने (छिन्ने) वा कौतुके गुरुः।। 49.217 ।।
सूत्रान्तरं पुनर्बघ्वा शान्तिहोमं समाचरेत्।]
प्रतिष्ठादिषु कार्येषु बद्धप्रतिसरो गुरुः।। 49.218 ।।
व्याधितश्चेत् तस्य पुत्रः शिष्यो वा दीक्षितः स्वयम्।
अनुज्ञया गुरोस्तस्य स्नात्वा वपनपूर्वकम्।। 49.219 ।।
बध्वा सूत्रं तदारभ्य क्रियाशेषं (30)समापयेत्।
मध्ये मृतो यदि गुरुस्तच्छिष्यस्त्वन्यगोत्रियः।। 49.220 ।।
(30.समाचरेत्।)
रक्षां कृत्वा ततो देवं पञ्चविंशतिभिर्घटैः।
स्नापयित्वा शान्तिहोमं कृत्वा कर्म समाचरेत्।। 49.221 ।।
रक्षामङ्गलसूत्रं यो बध्नन् वर्तेत देशिकः।
शावाशौचं सूतकं च तस्य नास्ति जलोद्भवे।। 49.222 ।।
स्नानमात्रं भवत्येव किंचिद्भेदस्त्वथर्त्विजाम्।
कर्ममध्येऽपि चाशौचं मृते त्वात्मान्विते भवेत्।। 49.223 ।।
पिता माता ज्येष्ठपुत्रो भार्या चात्मान्विताः स्मृताः।
तत्कार्ये देशिकस्त्वन्यं दीक्षयित्वा नियोजयेत्।। 49.224 ।।
प्रतिष्ठादिषु कार्येषु दीक्षितो गुरुसत्तमः।
एकपुत्रस्तस्य पिता प्राप्नुयात् पञ्चतां यदि।। 49.225 ।।
बद्धप्रतिसरो गत्वा श्मशानं पादुकां धरन्।
अस्थिसंचयनान्तं च कर्म कृत्वा यथाविधि।। 97.226 ।।
स्नात्वा चालयमागत्य घटैः षोडशभिस्ततः।
अभिषिक्तो मन्त्रविद्भिर्देवकार्यं ततश्चरेत्।। 49.227 ।।
उत्सवान्ते देवकार्यं समाप्य च यथाविधि।
आशौचं कर्मकाण्डोक्तं दशरात्रं समाचरेत्।। 49.228 ।।
तर्पणं पिण्डदानं च श्राद्धं चापि सपिण्डनम्।
पाञ्चरात्रोक्तमथवा कुर्याद् देशिकसत्तमः।। 49.229 ।।
देवं तमुत्सवान्ते च शतेनाष्टोत्तरैर्घटैः।
स्नापयेच्छान्तिहोमं च कुर्यादाचार्यसत्तमः।। 49.230 ।।
दीक्षितो मृतसंघान्नं शूद्रान्नं तैलसेवनम्।
मिथुनीभवनं चैव वर्जयेत् कलहं तथा।। 49.231 ।।
यदि कुर्वीत मोहेन पञ्चविंशतिभिर्घटैः।
देवं संस्नापयेत्पूर्वं सहस्राराधनं चरेत्।। 49.232 ।।
महानदीस्नानपूर्वं दीक्षितः पञ्चगव्यकम्।
द्वादशार्णसहस्रस्य जपमेकाह(31) मब्जजे।। 49.233 ।।
(31.ग्र. भोजनम्)
(32)उपवासं च कुर्वीत ततो देवं स्पृशेत् गुरुः।
एकस्मिन्नालये देवि दीक्षितो बद्दकंकणः।। 49.234 ।।
(32.ग्र. कुर्वीत च ततो देवं स्पृशेद्दीक्षितसत्तमः।)
आलयान्तरदीक्षायां न बध्नीयाच्च कंकणम्।
[एकं कर्म समुद्दिश्य रक्षाबन्धं कृतं यदि।। 49.235 ।।
तेनैव सर्वकर्माणि कुर्याद् देशिकसत्तमः।]
यदि बध्नीत मोहेन तत्कर्म पुनराचरेत्।। 49.236 ।।
[मातापित्रोर्दीक्षितश्च विधुरो मलिनीपतिः।]
श्राद्धकर्ता च पत्न्यां तु गर्भिण्यामपि दीक्षितः।। 49.237 ।।
कंकणं तु न बध्नीयात् तथाचारविगर्हितः।
[एककुण्डविधानं चेदुत्सवादिषु पद्मजे।। 49.238 ।।
आचार्यामात्रं बध्नीयात् कौतुकं ऋत्विजां विना।
रक्षासूत्रं विना कुर्यादेकघस्रोत्सवादिकम्।। 49.239 ।।
भक्तबिम्बाद्युत्सवं च सद्यः संप्रोक्षणं तथा।
एकोद्दिष्टे स्थितं त्वब्दं निमित्ते त्वष्टमासिकम्।। 49.240 ।।
पितृवर्णेऽपि षण्मासं वैश्वदेवे त्रिमासिकम्।
द्विमासं विष्षुवर्णे तु त्यजेत् कौतुककर्मणि।। 49.241 ।।]
सपिण्डीकरणं भुक्त्वा पूजको दीक्षितोऽपि सन्।
दशाहात्परतो देवि महातीर्थावगाहनम्।। 49.242 ।।
त्रिसहस्रं द्वादशार्णजपं कुर्याद् विशुद्धये।
[अकृत्वा यदि मोहेन भगवन्तं स्पृशेद्यदि।। 49.243 ।।
त्रिंशद्भिः कलशैर्देवं स्नापयेद् दोषशान्तये।]
(33)सहस्राराधनं कुर्यात् तद्दोषस्य (34)प्रशान्तये।। 49.244 ।।
(33.ग्र. पुस्तकेऽयमर्धश्लोकः कुण्डलितो दृश्यते।)
(34.ग्र. उपशान्तये।)
[श्राद्धभोक्ता तु देवेशं तद्दिने पूजयेद्यदि।
गर्भगेहप्रवेशे च स्नापयेन्नवभिर्घटैः।। 49.245 ।।
सूतकं वा मृताशौचं विष्णोर्वा सगृहादिके।
श्रुतं यदि बहिस्तूर्णं जवेनागत्य मन्दिरात्।। 49.246 ।।
आशौचमाचरेन्मर्त्यस्तथा स्त्री तु रजस्वला।
(35)पञ्चविंशतिभिः कुम्भैः स्नापयेदन्यथा यदि।।] 49.247 ।।
(35.ग्र. नवभिः कलशैर्यदि इति पाठान्तरं ग्र. पुस्तके दर्शितम्।)
शूद्रद्रव्ये गृहीते वा दोषान्नस्य च भक्षणात्।
काललोभादिना वापि नीचैर्मासं सहासनात्।। 49.248 ।।
दीक्षितस्य मनः किंचित् पश्चात्तापयुतं भवेत्।
शुद्धान् वेदविदो विप्रानष्टौ वा षडथापि वा।। 49.249 ।।
वृत्वाध्वर्यूनेकघटं व्रीहिभारे निवेश्य च।
वासुदेवं वेदमूर्तिमावाह्य च घटे पुरा।। 49.250 ।।
पूजयित्वा ततो वेदान् वेदौ वा वेदमेव वा।
ऋत्विङ्मुकादुपश्रुत्य तन्मन्त्रितजलेन च।। 49.251 ।।
अभिषिक्तो यदि भवेत् स मे प्रीततमो भवेत्।
तस्य पूजां प्रतीक्षेऽहं कदा वा तादृशो भवेत्।। 49.252 ।।
सकृन्नियुङ्क्तस्तम्भं वा वस्त्रं वा पक्षिलेखितम्।
नोपयुञ्ज्यात् पुनस्तं वै नियोजयति (36)चेद्यदि।। 49.253 ।।
(36.ग्र. मोहितः)
तत्परित्यज्य (37)देवेशं पञ्चविंशतिभिर्घटैः।
स्नापयीत्वा शान्तिहोमं शतमष्टक्षरं जपेत्।। 49.254 ।।
(37.ग्र. देवं यः)
[अष्टोत्तरशतैः कुम्भैः प्रतिमादाहनादिके।
वस्त्रादिदाहने तस्य प्रभापीठादिदाहने।। 49.255 ।।
सुदर्शनेऽग्निना दग्धे स्नापयेन्नवभिर्घटैः।
ध्वजे विताने छत्रे च दग्धे चास्तारणादिके।। 49.256 ।।
यथावत्पुनरुत्पाद्य शान्तिहोमादिकं चरेत्]।
ध्वजस्तम्भेऽग्निना दग्धे पटे वा तत्परित्यजेत्।। 49.257 ।।
तत्स्थानेऽन्यं प्रतिष्ठाप्य तद्दोषस्यापनुत्तये।
आदितस्तद्यथासास्त्रं कर्म कुर्याद् विचक्षणः।। 49.258 ।।
पक्षीशावाहिते कुम्भे भिन्ने वा पतितेऽपि वा।
अस्पृश्यैर्वा घटे स्पष्टे स्तम्भे वापि वरानने।। 49.259 ।।
पटेवा दूषिते (38)देवि पूर्वोक्तं विधिमाचरेत्।
दूषितं चेदेकमेव तद्गतं विष्णुमव्ययम्।। 49.260 ।।
(38.ग्र. वापि)
आवाह्य च तदन्यस्मिन् तस्मिन् शुद्धं निवेशयेत्।
पुनस्तस्मिन्(39) समावाह्याभ्यर्च्य गुरुसत्तमः।। 49.261 ।।
(39.ग्र. समावाह्य गन्धाद्यैरर्चयेद् गुरुः।)
विहगेन्द्रं प्रतिष्ठाप्य उत्सवावभृथावधि।
कालयोः पूजनं कुर्यान्न कुर्यात्कालमब्जजे।। 49.262 ।।
परस्मिन् दिवसे पूजां तद्‌द्रव्यैद्विर्गुणै(40) श्चरेत्।
नवस्वपि दिनेष्वेवं पूजनं च कृतं यदि।। 49.263 ।।
(40.ग्र. र्भवेत्।)
ध्वजारोहं पुनः कृत्वा ह्युत्सवं च समाचरेत्।
तद्दोषशान्तये देवि देवं पूर्वोक्तवर्त्मना।। 49.264 ।।
संस्नाप्य शान्तिहोमं च कुर्याद्‌देशिकसत्तमः।
पुरा भेर्यादि संपूज्य ततो देवान् समाह्वयेत्।। 49.265 ।।
भेर्यादिस्थापनं कार्यं यथाशास्त्रं विचक्षणः।
व्यत्यासेन स्थापनं वा पूजनं वा करोति चेत्।। 49.266 ।।
पुण्याहसलिलैर्वापि न कृतं प्रोक्षणं यदि।
मूलमन्त्रसहस्रं तु जपित्वा देशिकोत्तमः।। 49.267 ।।
यथावत् स्थाप्य तदनु प्रोक्षयेत् पुण्यवारिणा।
तेषु देवान् समावाह्य पूजयेच्चार्घ्यपूर्वकम्।। 49.268 ।।
संताडयित्वा तदनु देवान् सर्वान् समाह्वयेत्।
अकृत्वा ताडनं देवि देवानाह्वयते यदि।। 49.269 ।।
द्विरष्टभिर्घटैर्देवं हरिं संस्नाप्य शान्तिमत्।
ततश्च ताडयेद् भेरीं देवानपि समाह्वयेत्।। 49.270 ।।
चर्मभेदे कोणभेदे शान्तिहोमं समाचरेत्।
गारुत्मतं मन्त्रजपं गुरुराम्रेडयेच्छतम्।। 49.271 ।।
पुनरन्यत्समानीय यथावत्ताडयेद् गुरुः।
वीथीषु तत्तत्काष्ठासु तत्तद्वाहनसंयुतान्।। 49.272 ।।
सानुगान् पार्षदान् देवान् गाथाभिश्च समाह्वयेत्।
तथा द्वारादिरथ्यान्तं बलिदानेषु सर्वतः।। 49.273 ।।
कालयोर्बलिदानं च तौर्यत्रिकसमन्वितम्।
दद्याद् प्रतिदिनं देवि बलिद्रव्यसमन्वितम्।। 49.274 ।।
विस्मृते त्वेकदेवे तु तन्नामशतकं जपेत्।
तस्मै दद्याद् बलिं देवि विस्मृताय तु सोदकम्।। 49.275 ।।
एककालं बलेर्दानं न कृतं यदि वल्लभे।
शान्तिहोमं पुरा कृत्वा देवनाम यथाक्रमम्।। 49.276 ।।
प्रत्येकं शतवारं तु जपित्वा देशिकोत्तमः।
अन्यस्मिन् समये तेषामाह्वानं द्विगुणं बलिम्।। 49.277 ।।
महावृष्ट्यादिभिश्चैव दस्युभिर्वापि केवलम्।
विघ्नितेऽप्युत्सवे देवे सोदकं बलिमुत्सृजेत्।। 49.278 ।।
विघ्निते बलिदानेऽपि परेद्यवि पुरा रमे।
षोडशैः कलशैर्देवमभिषिच्य च शान्तिमत्।। 49.279 ।।
बलिदानं तूत्सवं च कुर्यात् पूर्वेण वै सह।
चतुःपञ्च दिने देवि विघ्निते ह्युत्सवे तथा।। 49.280 ।।
बलिदानेऽपि देवेशमेकाशीतिघटैर्हरिम्।
स्नापयित्वा शान्तिहोममदत्तं च बलिं तथा।। 49.281 ।।
अतिक्रान्तोत्सवं चापि कृत्वा तद्दिनि उत्सवम्।
कुर्यात्ततोऽपि देवस्य कल्याणे विघ्निते सति।। 49.282 ।।
अष्टोत्तरशतैर्देवं कलशैरभिषिच्य च।
शान्तिहोमं पुरा कृत्वा दिनानां तावतां बलिम्।। 49.283 ।।
उत्सवं च यथासंख्यं कृत्वा तद्दिन उत्सवम्।
बलिदानं च कुर्वीत तेन दोषः प्रशाम्यति।। 49.284 ।।
आरम्भोद्वासदिनयोर्लुप्यते यदि वै बलिः।
प्रभूतान्नं च हरये न निवेदयते रमे।। 49.285 ।।
तद्दोषशान्तये देवमष्टोत्तरशतैर्घटैः।
अभिषिच्य ततः शान्तिं कृत्वा देशिकसत्तमः।। 49.286 ।।
यथाक्रमं बलेर्दानं निवेद्य च महाहविः।
तथोत्सवं प्राक्रमेत न ततः पूर्वमाचरेत्।। 49.287 ।।
[अभक्त्या वा सुभक्त्या वा येन केनापि वा रमे।
देवस्यांगे तथा याने पुष्पादीन्विकिरेद्यदि।। 49.288 ।।
किरीटभूषाशस्त्रादिपतने चलनेऽपि वा।
नवभिः कलशैर्देवं स्नापयेद् विधिपूर्वकम्।। 49.289 ।।]
यानाधिष्ठितदेवस्य बिम्बस्य पतनेन वा।
आनीय चालयं देवि ह्यष्टोत्तरशतैर्घटैः।। 49.290 ।।
अभिषिच्य यथाशास्त्रं शान्तिहोमं समाप्य च।
संप्रोक्षणं च कृत्वैव शेषमुत्सवमाचरेत्।। 49.291 ।।
पतितस्य च बिम्बस्य क्षतिर्यदि भवेद्रमे।
मूले शक्तिं समावाह्य समाधाय (41)हरेस्तनुम्।। 49.292 ।।
(41.ग्र. गुरूत्तमः)
ततः प्रतिष्ठां कृत्वैव ध्वजारोहणपूर्वकम्।
यथाक्रमं चोत्सवं च कुर्याद् (42)देशिकसत्तमः।। 49.293 ।।
(42.राष्ट्राभिवृद्धये।)
[पादुका देवदेव्योश्च स्पृशेच्चेत् पूजकेतरैः।
पादुका पञ्चभिः कुम्भैः स्नापयेत् पतितेऽपि च।। 49.294 ।।]
देवस्योत्सवकाले तु ग्रामे मरणसंभवे।
निर्गमय्य शवं पश्चाद् वास्तुशान्तिं (43)समाप्य च।। 49.295 ।।
(43.समाचरेत्)
बलिदानं चोत्सवं च ततः कुर्याद् (44)विचक्षणः।
[वीथिभ्रमणकाले तु वीथ्यां मरणसंभवे।। 49.296 ।।
(44.गुरूत्तमः।)
प्रेतस्थानं बहिस्त्यक्त्वा वीथिभ्रमणमाचरेत्।
अन्यथा चोत्सवे क्लृप्ते त्वधमाधममार्गतः।। 49.297 ।।
दंव संस्नाप्य विधिवत् शान्तिहोमं समाचरेत्।
रथोत्सवस्य काले तु वीथ्यां मरणसंभवे।। 49.298 ।।
निष्कास्य तच्छवं पश्चाद्यात्रोत्सवमथाचरेत्।]
दग्धे च वह्निना ग्रामे महावात्याभिपीडिते।। 49.299 ।।
पञ्चगव्यादिभिः प्रोक्ष्य शान्तिहोमं समाचरेत्।
नवभिः कलशैर्देवं संस्नाप्योत्सवमाचरेत्।। 49.300 ।।
नवाहाद्युत्सवे क्लृप्ते न्यूनं वाप्यधिकं तु वा।
करोति यदि मोहेन तस्य दोषस्य शान्तये।। 49.301 ।।
त्रिंशद्भिः कलशैर्देवमभिषिच्य च शान्तिमत्।
पूर्ववच्चोत्सवं कुर्यात् ध्वजारोहणपूर्वकम्।। 49.302 ।।
[उत्सवादिषु सर्वेषु एवमेव समाचरेत्।]
विना ग्रामं पत्तनं वा यत्र कुत्रापि चालयम्।। 49.303 ।।
तत्र स्थितस्य देवस्य बलिदानोत्सवौ रमे।
अन्तरावरणे कुर्यान्न बहिस्तौ समाचरेत्।। 49.304 ।।
(45)कुर्याद्यदि बहिस्तौ तु त्रिंशद्भिः कलशैर्हरिम्।
स्नापयित्वा यथावच्च प्राकारान्तं समाचरेत्।। 49.305 ।।
(45.ग्र. यदि कुर्वीत मोहेन)
ग्रामादिवीथिषु रमे तुलुष्कपतितादयः।
तिष्ठन्ति चेत्तदा देवि प्राकारेषु बलिं क्षिपेत्।। 49.306 ।।
दैवमानुषदोषेण ध्वजारोहे तु विघ्निते।
अनावृष्ट्या दस्युभिर्वा परचक्रप्रवेशनात्।। 49.307 ।।
एकद्वित्रिदिनं भद्रे विघ्निते तु महोत्सवे।
एकाशीतिघटैर्देवमभिषिच्य यथाविधि।। 49.308 ।।
पूर्वाङ्कुरं परित्यज्य पुनः कृत्वाङ्कुरार्पणम्।
ध्वजारोहादिकं सर्वं कुर्याद् देशिकसत्तमः।। 49.309 ।।
एवं तीर्थदिनान्तं च ह्युत्सवे विघ्निते रमे।
अष्टोत्तरशतैर्देवं कलशैरभिषिच्य च।। 49.310 ।।
शान्तिहोमं ब्राह्मणानां सहस्रस्य च भोजनम्।
कृत्वा पुनस्तीर्थदिने अङ्कुरार्पणपूर्वकम्।। 49.311 ।।
[मासे यथोक्तेऽतिक्रान्ते नक्षत्रे च तथा तिथौ।
उत्सवानन्तरे मासि यद्यर्वाग्वत्सराद्भवेत्।। 49.312 ।।
न कृतो वत्सरादर्वागष्टोत्तरशतैर्घटैः।
संस्नाप्य देवदेवेशं लुप्तोत्सवमथाचरेत्।। 49.313 ।।
वसन्ताद्युत्सवे लुप्ते स्नपनं त्वधमोत्तमम्।
कृत्वा लुप्तोत्सवं कुर्यात्तदनन्तरमासि वा।। 49.314 ।।]
ध्वजारोहाद्युत्सवं च कुर्यात्(46) शास्त्रार्थतत्त्ववित्।
रथोत्सवे प्रवृत्ते तु चक्रच्छेदेऽक्षभञ्जने।। 49.315 ।।
(46.ग्र. देशिकसत्तमः)
रज्जुच्छेदे शिखाकुम्भे पतिते सारथौ तु वा।
कृत्वैव पूर्ववद् देवि पुण्याहैः प्रोक्ष्य वै रथम्।। 49.316 ।।
यात्रान्ते शान्तिहोमं च कुर्याद् ब्राह्मणभोजनम्।
आरोहणे त्वयोग्यानां रथस्योपरि वै रमे।। 49.317 ।।
निष्कास्य तान् पञ्चगव्यैः पुण्याहैः प्रोक्ष्य वै रथम्।
यात्रान्ते नवसंख्याभिः कलशैरभिषेचयेत्।। 49.318 ।।
दग्धे रथस्यैकदेशे तस्य शान्तिं वदामि ते।
तत्काले पञ्चगव्यैश्च (47)पुण्यैश्च सलिलैरपि।। 49.319 ।।
(47.ग्र. पुण्याह)
यात्रान्तेऽष्टोत्तरैर्देवं कलशैरबिषिच्य च।
शान्तिहोमं मूलमन्त्रजपं चायुतमेव च।। 49.320 ।।
ब्राह्मणानां सहस्रं च भोजयेच्च गुरूत्तमः।
रथस्य तु महद्दाहे त्ववतार्य रथाद्धरिम्।। 49.321 ।।
खगेशे देवमारोप्य नयेदालयमब्जजे।
रथवेगेन देवेशः पतेद्वा सरथस्तु वा।। 49.322 ।।
आनाय्य देवतां धाम प्रोक्षयेच्छान्तिपूर्वकम्।
रथभ्रमणवेलायां चक्रेण मरणं यदि।। 49.323 ।।
मृगाणां वा मनुष्याणां शवं निष्कासयेत् पुरा।
खात्वा भूमिं शवस्पृष्टां निक्षिपेदन्यमृत्तिकाम्।। 49.324 ।।
पुण्याहैः पञ्चगव्यैश्च सलिलैः प्रोक्षयेद् भुवम्।
रथस्य भ्रमणं चापि कारयित्वा गुरूत्तमः।। 49.325 ।।
यात्रान्ते देवदेवेशमष्टोत्तरशतैर्घटैः।
(48)अभिषिच्य ततः कुर्यात् प्रोक्षणं शास्त्रचोदितम्।। 49.326 ।।
(48.ग्र. अभिषिच्य ततः शान्तिं ब्राह्मणानां सहस्रकम्।)
[कुर्याच्च भोजयेद्देपि जपेन्मूलायुतं गुरुः।]
एकद्वित्रिदिने तावत् स्वस्थानान्न चलेद्यदि।। 49.327 ।।
विघ्निते वा रथारोहे (49)दिनानि कतिचिद्यदि।
कथंचिद् भ्रामयेद्देवि रथं दोषापनुत्तये।। 49.328 ।।
(49.ग्र. एकद्वित्रिदिनं गुरुः।)
[महारथं मासमेकं वीथीषु भ्रामयेद्यदि।]
यात्रान्ते वासुदेवस्य ह्येकाशीतिघटै(50)र्हरेः।। 49.329 ।।
(50.ग्र. हरिम्।)
अभिषेकं शान्तिहोमं कुर्यान्मूलसहस्रकम्।
जपं च ब्राह्मणानां च सहस्रमपि भोजयेत्।। 49.330 ।।
कृत्वोत्सवं वा प्रत्यब्दमेकस्मिन् हायने यदि।
न कृतश्चेद्रथारोहस्तदानीं मन्त्रविद् गुरुः।। 49.331 ।।
स्थस्थितान् देववरान् प्रत्येकं पूजयेत् ततः।
तिलैराज्यैश्च चरुभिः शतमष्टोत्तराहुतीः।। 49.332 ।।
शान्तिहोमं च कृत्वा तु (51)रथं संप्रोक्ष्य देशिकः।
ततो यथावद्देवेशं रथमारोपयेद् गुरुः।। 49.333 ।।
(51.ग्र. रथमारोहयेत्ततः।)
[महोत्सवाङ्गभूतानां चूर्णाद्युत्सवकर्मणाम्।]
लोपे तत्तत्प्रशान्त्यर्थं देवं द्वादशभिर्घटैः।। 49.334 ।।
स्नापयित्वा शान्तिहोमं कृत्वा चोत्सवमाचरेत्।
दिवोत्सवं दिवा कुर्यादान्तं रात्रेस्तदुत्सवम्।। 49.335 ।।
व्यत्यासेनोत्सवं कुर्यात् शान्तिहोमं समाचरेत्।
स्वयंव्यक्तादिदेवानां तीर्थावभृथमुत्सवम्।। 49.336 ।।
रात्रावपि च कुर्वीत मानुषस्य न कारयेत्।
यदि रात्रौ प्रकुर्वीत तद्देवं नवभिर्घटैः।। 49.337 ।।
संस्नाप्य शान्तिहोमं च कुर्याद् देशिकसत्तमः।
तीर्थयात्राविघ्नितश्चेदवरोप्य खगध्वजम्।। 49.338 ।।
उत्सवं तु पुनः कुर्यात् ध्वजारोहणपूर्वकम्।
कुम्भप्रोक्षणहीने तु त्रिंशद्भिः कलशैर्हरिम्।। 49.339 ।।
संस्नाप्य शान्तिहोमं च प्रोक्षणं च पुनश्चरेत्।
(52)यावद्दिनानि देवेशो वीथ्यां तिष्ठति वै रथे।। 49.340 ।।
(52.`यावद्दिनानि' इत्यारभ्य `नवदिनोत्सवम्' इत्यन्तं ग्र. पुस्तके नास्ति।)
तावत्संकल्पयेद्देवि होमादौ नवदिनोत्सवम्।
पुष्पयागं (53)ततः कुर्यात् पुष्ट्यर्थं मध्यमे दिने।। 49.341 ।।
(53.ग्र. पुरा)
आप्यायनार्थी पूर्वाह्णे धर्मार्थी मध्यमे निशि।
रिपुक्षयार्थी मध्याह्ने संध्यायां सर्वशान्तिमत्।। 49.342 ।।
सद्यो विकसितैः पुष्पैः पञ्चवर्णैः सुगन्धिभिः।
तदुत्सवं प्रकुर्वीत न तु पर्युषितादिभिः।। 49.343 ।।
यदि कुर्वीत मोहेन नवभिः कलशैर्हरिम्।
संस्नाप्य देवदेवशं पुष्पयागं पुनश्चरेत्।। 49.344 ।।
पुष्पयागस्य रात्र्यां तु अवरोप्य खगध्वजम्।
वीथ्यादिवास्तुनिष्ठानां बलिं दत्वा विसर्जयेत्।। 49.345 ।।
ध्वजे नष्टे तदानीं तु पुनरारोपयेद् ध्वजम्।
पक्षीशपूजां होमं च तन्नाम्ना तु सहस्रकम्।। 49.346 ।।
कृत्वा पुनर्वैनतेयमवरोप्य यथाविधि।
बलिदानादि कृत्वैव देवमन्तः प्रवेशयेत्।। 49.347 ।।
महोत्सवान्ते स्नपनमेकाशीतिघटैर्भवेत्।
न कुर्याद्यदि मोहेन ततः परदिनेऽपि वा।। 49.348 ।।
पूर्वोक्तकलशैः स्नानं कुर्याच्छान्तिं यथाविधि।
[उपरागोत्सवे स्नानविष्टरे यानगेऽपि वा।। 49.349 ।।
हविर्विना क्षुद्रापूजां कृत्वा शर्करयान्वितम्।
तिलचूर्णँ मुद्गदलं पृथुकं वा निवेदयेत्।।] 49.350 ।।
महोत्सवे वर्तमाने ग्रहणाद्युत्सवं (54) चरेत्।
(55)न कुर्याद्यदि मोहेन तद्दोषस्य प्रशान्तये।। 49.351 ।।
(54.ग्र. त्यजेत्।)
(55.ग्र. आचरेद्यदि)
द्वादशैः कलशैः स्नानं कुर्यादस्त्रायुतं जपम्।
[परस्ताच्च पुरस्ताच्च ग्रहणे सोमसूर्ययोः।। 49.352 ।।
द्विनाडिकां परित्यज्य नित्यपूजां समाचरेत्।
महोत्सवाद्युत्सवेषु द्विमुहूर्तं परित्यजेत्।। 49.353 ।।]
इत्थं दोषास्तु बहवः संभवेयुर्महोत्सवे।
देशकालानुरोधेन कार्यस्य गुरुलाघवम्।। 49.354 ।।
प्रायश्चित्तं प्रकुर्वीव होमं चोत्सववह्निषु।
पञ्चपर्वोत्सवं नित्यं कुर्याच्च प्रतिमासिकम्।। 49.355 ।।
न कुर्याद्यदि मोहेन तद्दोषस्य प्रशान्तेय।
नवभिः कलशैर्देवं (56)तद्दोषस्य प्रशान्तये।। 49.356 ।।
(56.ग्र. अभिषिच्य तदुत्सवम्।)
कृत्वापरेद्यवि हरेर्महान्नं च निवेदयेत्।
[महोत्सवाद्युत्सवेषु तथा देव्युत्सवादिषु।। 49.357 ।।
पञ्चपर्वाद्युत्सवं तु नाचरेद् गुरुसत्तमः।
पञ्चपर्वाद्युत्सवेषु प्राप्ते काव्यदिनोत्सवे।। 49.358 ।।
तदा काव्यदिनं त्यक्त्वा पञ्चपर्वादिकं चरेत्।
कृष्णोत्सवाद्युत्सवेषु विघ्नितेषु यदि प्रिये।। 49.359 ।।
अनन्तरस्य मासस्य तन्नक्षत्रेऽथवा तिथौ।
त्रिंशद्भिः कलशैर्देवमभषिच्य च शान्तिमत्।। 49.360 ।।
कृत्वा मूलसहस्रस्य जपमुत्सवमाचरेत्।
कृत्तिकाद्युत्सवश्चापि प्रतिषिद्धो भवेद्यदि।। 49.361 ।।
कृष्णोत्सवोक्तरीत्या तमुत्सवं कारयेद् बुधः।
पवित्रोत्सवकालस्तु ह्यतिक्रान्तो यदा भवेत्।। 49.362 ।।
अष्टोत्तरशतैर्देवमभिषिच्य च शान्तिमत्।
तदुत्सवं प्रकुर्वीत मन्त्रज्ञो देशिकोत्तमः।। 49.363 ।।
पवित्रं यदि पद्माक्षि न्यूनं वाप्यधिकं भवेत्।
संख्यया वापि दीर्घेण हास्त्रमन्त्रायुतं जपेत्।। 49.364 ।।
प्रतिलोमादिभिः स्पृष्टे भक्षिते मूषिकादिभिः।
अमन्त्रसंस्कृते वापि व्यत्यासेन च भूषिते।। 49.365 ।।
एवं दुष्टपवित्रैस्तु भूषिते पीतवाससि।
तत्परित्यज्य देवेशमष्टोत्तरशतैर्घटैः।। 49.366 ।।
संस्नाप्य शान्तिहोमं च कुर्याच्च तदनन्तरम्।
शुद्धं पवित्रमुत्पाद्य भूषयेद्धरिमव्ययम्।। 49.367 ।।
पवित्रारोपणे पूजा या संख्या तु दिने दिने।
चतुःस्थानार्चने वापि या संख्या शास्त्रचोदिता।। 49.368 ।।
एकापि संख्या लुप्ता चेत् पूजा सर्वा विनिष्फला।
तस्मात् सर्वप्रयत्नेन संख्यालोपं वना हरेः।। 49.369 ।।
पूजयेद्यदि लोपः स्यात् पुनरुत्सवमाचरेत्।
पावित्रिकी तीर्थयात्रा न कृता यदि शोभने।। 49.370 ।।
अष्टोत्तरशतैर्देवं कलशैरभिषिच्य च।
उत्सवं च पुनः कृत्वा तीर्थयात्रां समाचरेत्।। 49.371 ।।
[देवस्योत्सवशालायां कृतं चेत्पूजकेतरैः।
आसनेष्वासनं चैव शयनं भोजनादिकम्।। 49.372 ।।]
तत्स्थानं पञ्चगव्येन प्रोक्ष्य शान्तिं समाचरेत्।
चातुर्मास्ये तु देवस्य कुर्वीत शयनोत्सवम्।। 49.373 ।।
चतुःस्थानार्चनं चापि कुर्यात् प्रतिदिनं तदा।
तल्लोपे व्यत्यये वापि मूलायुतजपं तथा।। 49.374 ।।
शान्तिहोमं च कुर्वीत तद्दोषस्य प्रशान्तये।
प्रातयश्चित्तादिकार्यार्थं (57)घटस्नानं पुरा रमे।। 49.375 ।।
(57.सनानादिकं रमे।)
हरेर्यदि भवेत् तत्स्यात् (58)अङ्कुरार्पणपूर्वकम्।
अकृत्वाङ्कुरकार्याणि कौतुकं च न बन्धयेत्।। 49.376 ।।
(58.प्रसूनाङ्कुर)
प्रायश्चित्तं भवेत् तस्य ह्ययुतं द्वादशाक्षरम्।
मनुं जप्त्वा शान्तिहोममङ्कुरार्पणपूर्वकम्।। 49.377 ।।
बध्वा प्रतिसरं चापि स्नापयेद्देवमच्युतम्।
संकल्प्य स्नपनादीनि न कुर्याद्यदि वल्लभे।। 49.378 ।।
शान्तिहोमं पुरा कत्वा जपेदष्टाक्षरायुतम्।
[कौतुकाङ्कुरपूर्वं तु स्नापयेद्धरिमव्ययम्।। 49.379 ।।]
चतुःस्थानविहीने तु नाचरेदङ्कुरार्पणम्।
रक्षासूत्रं चावभृथं बिम्बमात्रोत्सवं चरेत्।। 49.380 ।।
मन्त्रवत्स्थापितान् कुम्भान् स्पृशेयुः पञ्चमादयः।
भवेयुर्वा संनिकृष्टास्तान् घटान् परिवर्जयेत्।। 49.381 ।।
तत्स्थानं पञ्चगव्याद्यैः शोधयित्वा च मन्त्रवत्।
पुनर्लक्षणसंयुक्तान् प्रमाणसहितान् रमे।। 49.382 ।।
कलशानभिसंस्थाप्य तेषु देवांस्तु पूजयेत्।
अष्टोत्तरशतं वापि ह्यष्टाविंशतिमेव वा।। 49.383 ।।
अष्टौ वापि जपेन्मन्त्री तेषां नामानि पद्मजे।
[समुद्‌धृतेनाक्रमेण घटेन स्नापयेद्यदि।। 49.384 ।।
द्विषट्‌काक्षरमन्त्रेण शतवारं हुनेद् गुरुः।
प्रथमावरणाद्यन्तश्चण्डालादि प्रवेशने।। 49.385 ।।
पूजालोपादिके स्नानं कर्मबिम्बे समाचरेत्।
चण्डालसूतकोदक्याः प्रथमावरणाद् बहिः।। 49.386 ।।
प्रवेशे स्नानबिम्बस्य स्नपनं विहितं रमे।
श्रीः-
भगवन् कथ्यतां मह्यं सद्यः संप्रोक्षणक्रमम्।। 49.387 ।।
श्रीभगवान्-
(59)सद्यः संप्रोक्षणविधिं शृणु त्वमनपायिनि।
गोमयेन समालिप्ते मण्डपे धान्यविष्टरे।। 49.388 ।।
(59.`जलसंप्रोक्षणविधिम्' इति पाठान्तरम् इति ग्र. पुस्तके दृश्यते।)
स्थापयित्वा महाकुम्भं करकं च मनोहरम्।
प्रोक्षयेत् पुण्यतोयेन ततः पुष्पाङ्कुरं चरेत्।। 49.389 ।।
नोपकुम्भार्चनं द्वारयजनं तद्धटार्चनम्।
पूर्वोक्तवर्त्मना कुम्भे परमात्मानमर्चयेत्।। 49.390 ।।
करके चक्रराजं च प्राक् कुण्‍डे स्थण्डिलेऽपि वा।
दिव्यानलं प्रतिष्ठाप्य तस्मिन् देवं समर्चयेत्।। 49.391 ।।
मूलनाष्टोत्तरशतं जुहुयात् समिदादिभिः।
प्रत्येकं शान्तिहोमं च हुत्वा पूर्णाहुतिं चरेत्।। 49.392 ।।
विधिवत् कौतुकं बध्वा वेदघोषादिभिः सह।
स्थापितं कुम्भमादाय प्रादक्षिण्येन मन्दिरम्।। 49.393 ।।
नीत्वा देवस्य पुरतो धान्यपीठे निवेश्य च।
पूर्ववत् प्रोक्षणं कृत्वा गुडान्नादि निवेदयेत्।। 49.394 ।।
तस्मात् सर्वप्रयत्नेन क्षिप्रं शान्तिं समाचरेत्।]
अजाविमहिषाज्यैश्च पश्वन्तरसमुद्भवैः।। 49.395 ।।
दधिक्षीरैस्तथा देवि मासातीतघृतैरपि।
क्षीरयुक्तैश्च दधिभिरशुद्धैर्मधुभिस्तथा।। 49.396 ।।
अगालितैश्च सलिलैस्तथा पर्युषितैरपि।
चण्डालादिस्पृष्ठकूपसलिलैः पल्वलोदकैः।। 49.397 ।।
दुर्गन्धैः शवसंस्पृष्टैरल्पैर्वा महदम्बुभिः।
संस्नापिते तु देवेशे पुनरप्यभिषेचयेत्।। 49.398 ।।
शान्तिहोमं च कुर्वीत द्वादशार्णायुतं जपेत्।
[मोक्ष्यमाणः सदा कुर्याद् धर्मार्थी दिनमध्यमे।। 49.399 ।।
रिपुक्षयार्थी पूर्वाह्णे राजकार्येऽपराह्णके।
दिनान्ते सर्वभोगार्थी प्रायश्चित्ताय सर्वदा।। 49.400 ।।]
महानदीजलानां च तथा सेतुजलस्य च।
सालग्रावाभिषिक्तस्य पयसः पुष्करस्य च।। 49.401 ।।
मन्त्रवत्कलशस्थानामदिवासैस्तथार्चनैः।
न पुर्यषितदोषोऽस्ति तत्र देवाधिवासनात्।। 49.402 ।।
[आवर्तमित्यनावर्तं पुनरावर्तमेव हि।
प्रोक्षणं त्रिविधं प्रोक्तं तत्तत्कालानुसारतः।। 49.403 ।।
आदौ बालगृहाद्देवं मूलबेरे प्रतिष्ठिते।
तदावर्तमिति ज्ञेयं चण्डालैः पुल्कसादिभिः।। 49.404 ।।
स्पृशेत् पूजा वत्सरान्तं हीना चेत् तत्र कल्पितम्।
अनावर्तभिति प्रोक्तं जीर्णोद्धारक्रियादिषु।। 49.405 ।।
मूलाद् बाले हरिं ध्यात्वा सन्धानानन्तरं विभुम्।
पुनर्मूले स्थापनं तु पुनरावर्तमुच्यते।। 49.406 ।।
तत्तत्कालानुसारेण प्रोक्षणं विधिवच्चरेत्।]
कालान्तरवशात् तेषां बिम्बानामालयस्य च।। 49.407 ।।
वैकल्यं यदि जायेत तत्समाधानमुच्यते।
पूर्वोक्तानां तु बिम्बानां मुख्यामुख्यविभेदतः।। 49.408 ।।
अङ्गानि द्विविधानीह भवन्ति कमलेक्षणे।
चक्षुःशिरःकर्णनासावाग्घनुर्दन्तपङ्क्तयः।। 49.409 ।।
हृदयं च तथा मेढ्रस्थानमङ्गुलयस्तथा।
एतान्यङ्गानि मुख्यानि ह्यमुख्यानीतराणि च।। 49.410 ।।
हिरण्मयानि बिम्बानि राजतानि च तत्र च।
ताम्रादिलोहजातानि तथा शैलमयानि च।। 49.411 ।।
(60)वास्त्राणि वस्त्रमृच्चित्रप्रभवाणि भवन्ति हि।
स्वयंव्यक्तेषु (61)बिम्बेषु सिद्धार्षेषु हरेस्तनौ।। 49.412 ।।
(60.ग्र. वार्क्षाणि)
(61.ग्र. दिव्येषु)
मुख्याङ्गे वा ह्युपाङ्गे वा वैकल्यं यदि जायते।
अवश्यमेव संधानं वस्त्रादिष्वपि कल्पयेत्।। 49.413 ।।
सर्वधातुपरित्यागं स्वयंव्यक्तादि नार्हति।
स्वर्णादिलोहजातेषु मुख्याङ्गमपि भेदितम्।। 49.414 ।।
तत्तद्‌द्रव्यैस्तु संधाय प्रोक्षणं च समाचरेत्।
शिलामयी वृक्षजाता ह्यर्चा तु विकला भवेत्।। 49.415 ।।
स्वर्णादिपट्टकैरङ्गं समादध्यात् कथंचन।
चित्रमृन्मयवास्त्राणां तत्तद्‌द्रव्यैस्तु योजयेत्।। 49.416 ।।
स्वयंव्यक्तादिबिम्बानां पूजयन्नेव देशिकः।
बालालयमकृत्वैव समादध्याच्च शिल्पिभिः।। 49.417 ।।
समाधातुं न शक्यं चेत् स्वयंव्यक्तादिकेष्वपि।
बालबिम्बं प्रतिष्ठाप्य तस्मिन्नावाह्य केशवम्।। 49.418 ।।
तत्तल्लोहैस्तदाकारैस्तत्तल्लक्षणसंयुतैः।
कुर्वीत बिम्बं न त्वन्यदाकारं वापि लक्षणम्।। 49.419 ।।
तुरुष्को वापि चण्डालः प्रतिलोमज एव वा।
स्पृशेयुर्यदि बिम्बानि मण्डपादीनि वै रमे।। 49.420 ।।
बालगेहे तु तच्छक्तिमावाह्यार्चां तु पूर्ववत्।
कारयित्वा प्रतिष्ठाप्य पूजयेच्च यथाक्रमम्।। 49.421 ।।
चोरैरपहृतानां वा नदीभिः सिन्धुनापि वा।
अर्चानां बालबिम्बं तु न कुर्याच्छास्त्रवित्तमः।। 49.422 ।।
आवाहितं शक्त्यभावात् कारयेत् प्रतिमां गुरुः।
सर्वदोषविनिर्मुक्ते कृत्वालयमनुत्तमम्।। 49.423 ।।
यथाशास्त्रं प्रतिष्ठाप्य पूजयेत् तत्र देशिकः।
कर्मादिष्वङ्गभङ्गे तु तच्छक्तिं मूलकौतुके।। 49.424 ।।
आवाह्य प्रोक्षयेत्तत्तत्समाधाय गुरूत्तमः।
प्रतिमा चैव तत्पीठं प्रासादो गर्भमन्दिरम्।। 49.425 ।।
विग्रहो देवदेवस्य चतुष्टयमिदं समम्।
समा भवेत्तेषु शान्तिः समाधिश्च समो भवेत्।। 49.426 ।।
स्वर्णादिलोहजं वापि मानुष्यं दारुशैलजम्।
मृन्मयं वा वस्त्रजातं चित्रं वापि वरानने।। 49.427 ।।
स्वर्णादिलोहसंभूतं कथंचिद्योजयेद्रमे।
सर्वथा तु समाधातुं न शक्यं चेत्ततो गुरुः।। 49.428 ।।
तानि बिम्बानि संचिन्त्य नूतनानि च कल्पयेत्।
परित्यक्तं लोहजातं नूतने तु नियोजयेत्।। 49.429 ।।
जीर्णं वा नूतनं वापि मासान्तः कल्पयेद्यदि।
घटे शक्तिं समावाह्य पूजयेत् देशिकोत्तमः।। 49.430 ।।
मासात्परं वत्सरं वा ततो वाप्यधिकं भवेत्।
बालबिम्बं प्रतिष्ठाप्य तस्मिन् संप्रार्थयेद्धरिम्।। 49.431 ।।
[नित्यं नैमित्तिकं काम्यं पवित्राद्युत्सवादिकम्।
बालबिम्बे प्रकुर्वीत न तु कर्मादिषु क्वचित्।। 49.432 ।।]
अतीतश्चेत् प्रार्थनायाः कालः कमलसंभवे।
पुनः संप्रार्थयेत् तस्मिन् बिम्बे बाले गुरूत्तमः।। 49.433 ।।
शिलामयादिबिम्बानां समाधिश्चेन्न शक्यते।
अल्पं वापि बृहद्बिम्बं मानुष्यं वरवर्णिनि।। 49.434 ।।
अगाधे सलिले वापि भूमौ खात्वा विनिक्षिपेत्।
हरेर्बिम्बे कल्प्यमाने देवीभिः सह कल्पिताः।। 49.435 ।।
न कृताश्चेत् पुरा देव्यो निर्माणे गरुडध्वजे।
पुनः प्रतिष्ठाकाले तु सृष्ट्वा संप्रोक्षयेच्च ताः।। 49.436 ।।
प्राक्‌स्थितं त्वेकबेरं वा बहुबेरमथापि वा।
जीर्णोद्धारे तथैव स्युर्न तु भेदं समाचरेत्।। 49.437 ।।
शयनादिविभेदोऽपि पुनः सृष्टौ तथा भवेत्।
स्वयंव्यक्तादिबिम्बानां पीठभङ्गो भवेद्यदि।। 49.438 ।।
भग्नं पीठं परित्यज्य पुनरन्यं प्रकल्पयेत्।
यत्किंचित् पीठभङ्गे तु बन्धयेल्लोहपट्टकैः।। 49.439 ।।
बिम्बे वज्रस्य पतने दग्धे वा वह्निना रमे।
न चेद्बिम्बस्य वैकल्यं प्रतिष्ठामेव कारयेत्।। 49.440 ।।
भिन्नाङ्गं चेत्समाधाय प्रतिष्ठामारभेत वै।
इत्थं यदि भवेद् देवि स्वयंव्यक्तादिकेष्वपि।। 49.441 ।।
अङ्गभङ्गं समाधाय प्रोक्षयित्वा तु पूजयेत्।
मानुषे वा स्वयंव्यक्ते संधानं विग्रहे यदि।। 49.442 ।।
संधाय प्रोक्षणं कार्यं न च त्वन्यो विधिर्भवेत्।
नूतनं चेत् प्रतिष्ठैव सर्वबिम्बस्य कारयेत्।। 49.443 ।।
प्रासादमण्डपादीनां जीर्णोद्धार इहोच्यते।
मनुष्यनिर्मिते तत्र प्रासादे त्वकदेशतः।। 49.444 ।।
भग्ने कुम्भस्य पतने विमानस्थाश्च देवताः।
मूलबिम्बस्य पीठे तु समावाह्य ततो गुरुः।। 49.445 ।।
मूलार्चां पूजयन्नेव संदध्याद् गर्भमन्दिरम्।
कृते विमानसंधाने सविमानं रमापतिम्।। 49.446 ।।
संप्रोक्षयेद् यथाशास्त्रं नयनोन्मीलनं विना।
विमाने सर्वतो भग्ने बालस्थानं प्रकल्पयेत्।। 49.447 ।।
तस्मिन् मूलं समावाह्य तत्पीठे सर्वदेवताः।
विमानस्थाः समावाह्य पूजयेद् देशिकोत्तमः।। 49.448 ।।
(62)विमानं शास्त्रवत्कृत्वा पूर्ववद्वा तथान्यवत्।
बिम्बे भग्ने बालगेहं कल्पयित्वा तु पूर्ववत्।। 49.449 ।।
(62.ग्र. प्रासादं)
बिम्बमात्रं समाधाय प्रतिष्ठां तत्र कारयेत्।
एवं मण्डपसालानां पाकस्थानस्य वै रमे।। 49.450 ।।
देंवानन्यत्र चावाह्य समाधानं प्रशस्यते।
वार्क्षं वा मृन्मयं वापि प्रासादं पूर्वकल्पितम्।। 49.451 ।।
जीर्णोद्धारे त्विष्टकया शिलया वापि कारयेत्।
मानुषस्य विमानादेर्जीर्णोद्धारस्त्वयं क्रमः।। 49.452 ।।
स्वयंव्यक्तादिके धाम्नि जीर्णोद्धारस्त्वयं क्रमः।
प्रासादस्यैकदेशे तु भग्ने संधानमाचरेत्।। 49.453 ।।
नावाहयेच्च तत्रस्था देवता मूलकौतुके।
विमाने सर्वतो भग्ने मूलबिम्बस्य पीठके।। 49.454 ।।
समावाह्यार्चयन्नेव प्राक्तनैरिष्टकादिभिः।
नूतनैश्चापि संदध्यान्मेलयित्वा शिलादिभिः।। 49.455 ।।
पूर्वं विमानं यद्‌द्रव्यं शिलाद्यन्यतरं भवेत्।
सलक्षणं वा तद्भिन्नं तादृगेव प्रकल्पयेत्।। 49.456 ।।
एवं बिम्बे विमाने च पाकस्थाने च मण्डपे।
गोपुरे वापि साले वा तथा जीर्णे तु कल्पयेत्।। 49.457 ।।
[देवस्य प्रोक्षणान्ते च प्रासादस्य च पद्मजे।
रजन्यामुत्सवं कुर्यात् परेद्युः स्नपनं तथा।। 49.458 ।।]
स्वयंव्यक्तस्य मूलस्य सप्रासादस्य पद्मजे।
कथंचिदपि देवस्य संधानं शक्यते न चेत्।। 49.459 ।।
कृत्वा बालगृहं तस्मिन्नावाह्यैव तु बन्धयेत्।
पुरातनं विमानं वा बिम्बं वापि समीकृतम्।। 49.460 ।।
अष्टोत्तरशतैर्देवं कलशैरभिषिच्य च।
संप्रोक्षयेद्यथाशास्त्रं नूतनं यदि वल्लभे।। 49.461 ।।
स्वयंव्यक्तं मानुषं वा तयोः सर्वं यथाविधि।
प्रतिष्ठाकर्म कुर्वीत तयोर्भेदस्तु न क्वचित्।। 49.462 ।।
एवं हि सर्वदेवानां सर्वव्यूहादिरूपिणाम्।
[विष्वक्सेनगणेशानां गरुडद्वाररक्षिणाम्।। 49.463 ।।
क्लृप्तानां गोपुराद्येषु विभवव्यूहरूपिणाम्।]
सांनिध्यातिशयात् तेषां पूजितानां दिनं प्रति।। 49.464 ।।
जीर्णोद्धारविधिः कार्यः प्रभावाहनजन्मनाम्।
[क्रियासंदेहविषये परस्परविरोधतः।। 49.465 ।।
संज्ञया वा चीटिकया दिष्ट्या वाचा महात्मनाम्।
स्वप्नेन वा निमित्तेन ज्ञात्वा देवस्य (63)पूजनम्।। 49.466 ।।
(63.`संमतम्' इति पाठभेदः ग्र. पुस्तके दर्शितः।)
ततः पूजादिकं कुर्यान्नापचारो भवेद्यथा।
आचार्यो मन्त्रसंपूर्णः क्रियापूर्णास्तु शिल्पिनः।। 49.467 ।।
दाता तु वित्तसंपूर्णो देवसांनिध्यकारणम्।
एते व्यत्यासयुक्ताश्चेत् त्रिकुलं नश्यति ध्रुवम्।। 49.468 ।।
संसारार्णवमग्नानां कर्मपाशानुपेयुषाम्।
हितार्थं सर्वलोकानां त्वया संप्रार्थितेन यत्।। 49.469 ।।
शास्त्रं तुभ्यं मया प्रोक्तं तद्दिव्यतममुच्यते।
जगन्मूलं वासुदेवं मुख्यतः प्रत्यपादयत्।। 49.470 ।।
तच्छास्त्रं मूलवेदाख्यमित्यपि प्रोच्यते बुधैः।
अध्येतृभेदमाश्रित्य शास्त्रमेतत् त्रिधा रमे।। 49.471 ।।
सात्त्वतं पौष्करं चैव जयाख्यं च भविष्यति।
अथैताः संहिता दिव्याः वदिष्यन्ति विपश्चितः।। 49.472 ।।
ततस्तु प्रभविष्यन्ति सात्त्विकाद्याश्च संहिताः।
तस्मात् सर्वप्रयत्नेन जीर्णोद्धारादिके रमे।। 49.473 ।।
न लक्षणान्तरं कुर्यान्न प्रमाणान्तरं तथा।
न तु द्रव्यान्तरं चैव भट्टाचार्यान्तरं तथा।। 49.474 ।।
तन्त्रान्तरं न कुर्वीत न च कुर्यात् क्रियान्तरम्।
शास्त्रमन्त्रक्रियादीनां मूर्तीनां भवनस्य च।। 49.475 ।।
देशिकस्याभिजातस्य यथापूर्वं परिग्रहः।
तथैव यावत् कालं स्यादर्चितव्यं न चान्यथा।। 49.476 ।।
विपरीते कृते चात्र राजा राष्ट्रं विनश्यति।
ततः समाचरेद्यत्नात् प्रतिष्ठां प्राक्प्रकारतः।। 49.477 ।।
तस्मात् सिद्धान्तसांकर्यं नार्चितव्यं कृतात्मभिः।
राष्ट्रक्षोभादिना वापि गुर्वलाभादिना रमे।। 49.478 ।।
पूजाहीने मानुषे च राक्षसे चासुरे तथा।
तदा ह्युत्कृष्टशास्त्रोक्तमार्गेणैव सुपूजयेत्।। 49.479 ।।
तामसेन तु मार्गेण यत्र पूजादि वर्तते।
तत्रापि राजसेनैव पूजाद्यं सिद्धिदं भवेत्।। 49.480 ।।
राजसेन तु पूजादि वर्तते यत्र नित्यशः।
तत्रापि सात्त्विकेनैव पूजादि शुभदं सदा।। 49.481 ।।
सात्त्विकेन तु पूजादि वर्तते यत्र नित्यशः।
तत्र दिव्येन पूजादि सर्वदा क्षेमदं नृणाम्।। 49.482 ।।
यत्र दिव्येन मार्गेण पूजाद्यं वर्तते विभोः।
तत्र दिव्यतमेनैव पूजाद्यं भुक्तिमुक्तिदम्।। 49.483 ।।
तस्मात् सर्वप्रयत्नेन विपरीतं तु नाचरेत्।
पूजा दिव्यतमेनैव स्वयंव्यक्तादिके चरेत्।। 49.484 ।।]
बिम्बादीनां च धामादेरङ्गभङ्गे ह्युपस्थिते।
आचार्यस्त्वनुतापार्तो वर्णचक्रं लिखेत् पुरा।। 49.485 ।।
तत्पूजयित्वा विधिवद्यावद्देवस्तु पूर्ववत्।
उत्पाद्यते तावदेव ब्रह्मचर्यव्रतं चरन्।। 49.486 ।।
तस्मात् स्वमन्त्रमुद्‌धृत्य नित्यं प्रातः समाहितः।
जपं कुर्यादयुतसंख्य द्विसहस्रं च होमयेत्।। 49.487 ।।
चतुःस्थानार्चनं कुर्यात् ब्राह्मणानपि भोजयेत्।
वेदान् वा देवमेकं च पठेयुर्नियमान्विताः।। 49.488 ।।

।। इति श्रीश्रीप्रश्नसंहितायां प्रायश्चित्तप्रपञ्चनं नाम (64)अष्टचत्वारिंशोऽध्यायः ।।
(64.`एकोनपञ्चाशोऽध्याय' इति भाव्यम्।
       प्रायश्चित्तनिरूपणं नाम पञ्चशोऽध्याय इति ग्र. पुस्तके वर्तते।)