सामग्री पर जाएँ

प्रश्नसंहिता/अध्यायः १३

विकिस्रोतः तः
← अध्यायः १२ प्रश्नसंहिता
अध्यायः १३
[[लेखकः :|]]
अध्यायः १४ →
प्रश्नसंहितायाः अध्यायाः

।। त्रयोदशोऽध्यायः ।।

भगवान्-
मुख्यमूर्तिः शिलाभिर्वा लोहैर्वा दारुभिस्तु वा।
सुधाभिर्वा प्रयत्नेन मृदाभिर्वाभिकल्पयेत्।। 13.1 ।।
मुख्यमूर्तिमृत्तिकया कर्तुमिच्छति चेद्रमे।
आरभ्य वत्सरान्तेन कुर्यात्ताः शास्वतीः समाः।। 13.2 ।।
तिष्ठेयुर्नात्र संदेहो रचना तु तथाविधा।
यद्यत् क्रमेण कर्तव्यं मूर्तीनां वस्तुलेपनम्।। 13.3 ।।
तत्प्रकारं प्रवक्ष्यामि शृणुष्व कमलालये।
(1)प्रथमं दारुसंघातो द्वितीयं रज्जुवेष्टनम्।। 13.4 ।।
(1.पा. प्रथमः)
मृदालेपस्तृतीयस्तु (2)तुरीयो नाडिबन्धनम्।
पञ्चमो रज्जुवेष्टः स्यान्नारिकेलत्वचा पुनः।। 13.5 ।।
(2.पा. तुरीयं)
मिश्रिता मृत्तिका षष्ठी सप्तमं रज्जुवेष्टनम्।
अष्टमः शर्करालेपो नवमं मटयोजनम्।। 13.6 ।।
भूषणं दशमं विद्धि (3)शुक्लालेपमतः परम्।
द्वादशो वर्णलेपः स्यात्तत्तनमूर्त्यनुसारतः।। 13.7 ।।
(3.पा. एकादशमतः परम्। शुक्लालेपनमुद्दिष्टं)
वर्णलेपविधानं तु मूलमूर्तेर्विना भवेत्।
[चन्दनागरुतैलाद्यैर्मूलबिम्बानुलेपनम्।]
पुरोदितानां बिम्बानां मूलानां मानमुच्यते।। 13.8 ।।
ऋज्वीमेकां पुरा भूमौ मूर्तिं शिल्पी विलेखयेत्।
तत्र मानादिकं सर्वमादाय तदनन्तरम्।। 13.9 ।।
तरुणा शिलया वापि कल्पयेद् बिम्बमुत्तमम्।
अष्टाधिकशतांशो यः सोन्नतेरङ्गुलो भवेत्।। 13.10 ।।
द्वे अङ्गुले कला नेत्रं गोलकं भाव एव च।
अङ्गुलादष्टभागो यः स यवः परिकीर्तितः।। 13.11 ।।
षट्कलं च परिज्ञेयं तालं बिम्बादिकर्मणि।
मुखाङ्गनाभिमेढ्रक्ष्मास्तालमानास्तथोरुयुक्।। 13.12 ।।
द्वितालं च तथा जङ्घे गुल्फजानुगलं (4)च कम्।
त्र्यङ्गुलं त्र्यङ्गुलं ज्ञेयमित्युन्मानमुदाहृतम्।। 13.13 ।।
(4.ग्र. रमे।)
जटाधराणां बिम्बानां दीर्घह्रासवशेन तु।
चतुष्कलं च त्रिकलं मानं मानाद्बहिः क्षिपेत्।। 13.14 ।।
त्रिपञ्चसप्तशिखरो मौलिरष्टकलोन्नतः।
निर्जटानां ललाटोर्ध्वे मकुटं वा सुशोभनम्।। 13.15 ।।
कलेन ह्रासवृद्धिस्तु कार्ये त्वत्र ह्यवेक्षया।
यथोदितेषु भागेषु एकैकेनाङ्गुलेन तु।। 13.16 ।।
आस्यनासाललाटार्थं वदनांशं भजेत् त्रिधा।
ततोऽग्रतः कलामानं घ्राणं स्यात् तिलपुष्पवत्।। 13.17 ।।
कलार्धेन तु विस्तारः सोन्नतिस्तत्पुटद्वयम्।
नासाग्रग्राहनिर्मुक्तं गोजिमानं चतुर्यवम्।। 13.18 ।।
तच्चतुर्यवमानेन घ्राणाग्रेणान्तरीकृतम्।
अर्धाङ्गुलं चोत्तरोष्ठमधरोष्ठं तु साङ्गुलम्।। 13.19 ।।
गोलकं चुबुकं विद्धि सृक्विण्यौ चतुरङ्गुले।
आद्यस्य नासिकांशस्य मध्यभागसमाश्रिते।। 13.20 ।।
कुर्यान्नेत्रश्रुतिच्छिद्रे तत्र नेत्रे कलान्तरे।
कलायामसमं दैर्घ्यात् कलार्धेन तु विस्तृतम्।। 13.21 ।।
यदुत्पलदलाकारं द्वियवेनाधिकं तु तत्।
कुर्यात् पद्मदलाकारं नेत्रार्धं वृत्ततारकम्।। 13.22 ।।
तारदैघ्यं त्रिभागेन त्वाद्यस्यान्यस्य चाधिकम्।
यवेनैकेन वार्धेन ज्योतिस्तत्पञ्चभागकम्।। 13.23 ।।
त्रिभागेनापि विहितं तत्पद्मदललोचनम्।
द्विषड्यवं, नेत्रकोशं विस्तारेण यवाधिकम्।। 13.24 ।।
सार्धाङ्गुलद्वयं दैर्घ्यात् द्वे कले भ्रूलते स्मृते।
मध्यतो द्वियवे बालचन्द्रतुल्ये सुलक्षणे।। 13.25 ।।
तदन्तरं कलार्धं च तत्कोटिसमसूत्रके।
श्रोत्रे द्व्यङ्गुलविस्तीर्णे (5)आयामेन द्विगोलके।। 13.26 ।।
(5.ग्र. आयामे)
द्वियवः कण्ठपरिधिपर्वणी द्वे चतुर्यवे।
मध्यं ताभ्यां तथा विद्धि द्रोणी सार्धाङ्गुला तु वै।। 13.27 ।।
कलार्धेन तु तच्छिद्रं पाशमानं यथारुचि।
अङ्गुलाद्विकलान्तं तु वैषम्यमपि यत्र तत्।। 13.28 ।।
अन्तश्छिद्रैर्विनिर्मुक्तं तद्विज्ञेयं चतुर्यवम्।
सदलंकरणोपेतमेवं श्रोत्रद्वयं स्मृतम्।। 13.29 ।।
चतुष्कलं ललाटं तु शिखरे द्वे द्विगोलके।
उच्छ्रायात् त्र्यङ्गुले चैव ह्यग्रतोऽङ्गुलविस्तृते।। 13.30 ।।
केशभूमेः समुद्भूतं ललाटोपरि संस्थितम्।
कुर्यात् कलार्धमानं तु वक्त्रं चालकसंश्रयम्।। 13.31 ।।
कपोलपरिधिं कुर्यात् (6)कर्णात् कर्णगतं समम्।
तन्मध्ये वर्तुलौ भाण्डौ परिच्छिन्नौ पुरोदितैः।। 13.32 ।।
(6.ग्र. कष्ठात्कण्ठगतं समम्।)
शिरसः परिणाहं तु विद्धि षट्‌त्रिंशदङ्गुलम्।
श्रोत्रकोटिद्वयाच्चैव मस्तकस्य यदन्तरम्।। 13.33 ।।
सत्कम्बुसदृशी ग्रीवा मूलमध्याग्रतो हि सा।
परिधेर्द्वदश कला एकविंशाङ्गुलाग्रतः।। 13.34 ।।
अष्टादशाङ्गुला चैव स्वाङ्गात् त्र्यंशेन विस्तृता।
तन्मूलविस्तृतौ स्कन्धौ तुङ्गौ वृत्तायतौ समौ।। 13.35 ।।
षडङ्गुलं तद्बाहुल्यं बाहुमानमथोच्यते।
स्कन्धोत्तमाङ्गं त्रिकलं सन्ध्यन्तं षट्‌कलं स्मृतम्।। 13.36 ।।
संधेर्वै मणिबन्धान्तं मानं नवकलं स्मृतम्।
मणेर्मध्यमशङ्खान्तो हस्तः सप्ताङ्गुलो मतः।। 13.37 ।।
परिज्ञेयं कलाहीनं तन्मानं मध्यमाङ्गुले।
तच्चतुर्यवहीनां च सा वामा तु प्रदेशिनी।। 13.38 ।।
द्विकला च परिज्ञेया साङ्गुष्ठा तु कनीयसी।
द्विपर्वा च स्मृतोऽङ्गुष्ठः सर्वाश्चाङ्गुलिविस्तृताः।। 13.39 ।।
सर्वासां मूलपर्यन्ताद् ह्रासयेच्च यवं यवम्।
अग्रपर्वार्धमानेन कार्या लिङ्गोपमा नखाः।। 13.40 ।।
मानमङ्गुष्ठमूलस्य परिधेश्च यदङ्गुलम्।
तच्चतुर्यवहीनें च ज्ञेयं त्रिष्वङ्गुलीषु च।। 13.41 ।।
न्यूनाङ्गुले कला सार्धा प्राग्वद् ह्रासश्च वेष्टनात्।
अङ्गुष्ठमङ्गुलं चाग्रात् तिस्रो वा षड् यवा स्मृताः।। 13.42 ।।
अर्धाङ्गुलाग्रतो न्यूना विद्धि मध्यक्रमक्षतम्।
न च (7)लक्षा समं चाग्रात्साङ्गुलद्वितलं करः।। 13.43 ।।
(7.ग्र. लक्ष्मा)
ईषन्निम्नतलं चैव लक्ष्मरेखाविभूषितम्।
शाखामूलावधेः पाणिबाहुल्यं द्वे यवेऽङ्गुलम्।। 13.44 ।।
चतुर्यवाधिकं चैव मणिबन्धावदेर्भवेत्।
मध्ये कलार्धतुल्यं तु तद्बाहुल्यं भवेद् रमे।। 13.45 ।।
मणिबन्धावधेर्बाहुवेष्टनं षट्‌कलं स्मृतम्।
संधेः सप्तकलं विद्धि साङ्गुलं त्रियवं स्मृतम्।। 13.46 ।।
हीनमर्धाङ्गुलेनैव मूलाद्वै नवगोलकम्।
तथैव संधेरूर्ध्वं तु विस्तारः प्राग्वदत्र च।। 13.47 ।।
अत्रापि पूर्ववद् दृष्ट्वा कार्यान्तस्था क्षिति स्वयम्(?)।
तालं गलावधेस्त्यक्त्वा तन्मानेनान्तरीकृते।। 13.48 ।।
स्तनद्वयं समं कुर्यात् तद्धारा च समांसला।
निम्नं हृद्गोलकार्धेन ऊर्ध्वतो रत्नराड्युतम्।। 13.49 ।।
स्तनाभ्यां त्रिकलौ बाह्यौ त्रियवं स्तनमण्डलम्।
यवोन्नतं तथा चाग्राद् विस्तृतं तेन चूचुकम्।। 13.50 ।।
लोचनं त्रियवं सार्धं कक्षमानमुदाहृतम्।
स्कन्धमानविनिर्मुक्तं षष्ठमं (8)शालयेश्शमम्(?)।। 13.51 ।।
(8.ग्र. सावधेः)
द्रोणीनिकायसदृशमध्यराशेः समांसलम्।
कक्षान्तर्वेष्टनं विद्धि पञ्चतारं सलोचनम्।। 13.52 ।।
विनाङ्गुलद्वयेनैव द्वे ताले द्विगुणीकृते।
यवत्रयसमायुक्ते विद्धि तत्कुक्षिवेष्टनम्।। 13.53 ।।
त्रियवोना कलामानं विज्ञेयं नाभिमण्डलम्।
तन्मानं स्यात् (9)त्रियवोनं तु तं निम्नतं(10) विधीयते।। 13.54 ।।
(9.ग्र. त्र्यवोनं। `त्रियवोनं' इति पठनीमं, यद्यपि अक्षराधिकम्।)
(10.ग्र. त्वं. `तन्तिम्नत्वं' इति पठितव्यम्।)
परिधिर्नाभिमध्ये तु त्रितालः स त्रिलोचनम्।
षड्गोलकं च तन्मानं परिध्यर्धं कटेः स्मृतम्।। 13.55 ।।
करिकुम्भोपमौ पीनौ परितः पञ्चगोलकौ।
स्फिजौ कौपीनराजीव द्व्यङ्गुला मूलतः स्मृता।। 13.56 ।।
परितो द्व्यङ्गुलं मानं मेढ्रं तु त्रिकलं भवेत्।
चतुर्यवं च तत्कोशं वेष्टनं तु षडङ्गुलम्।। 13.57 ।।
द्व्यङ्गुलौ वृषणौ दैर्घ्यान्मूलान्तसमविस्तृतौ।
परितो द्व्यङ्गुलं विद्धि पायुरन्ध्रं सुवर्तुलम्।। 13.58 ।।
ऊरुमानं परिज्ञेयं मध्यभूमेर्नवाङ्गुलम्।
षट्कलं मूलदेशाच्च अग्रान्तं त्रिकलं स्मृतम्।। 13.59 ।।
हीनमेकाङ्गुलेनैव द्विकलं जानुमण्डलम्।
विस्तारेणोन्नतत्वेन चतुर्यवसमं तु तत्।। 13.60 ।।
जङ्घामूले परिज्ञेयं वेष्टनं नवगोलकम्।
द्विसप्ताङ्गुलकं मध्ये सार्धपञ्चकलं ततः।। 13.61 ।।
अत्रापि वेष्टनं विद्धि तृतीयांशेन विस्तृतम्।
मध्यमूलावसानेभ्यो विस्तारमानुगुण्यतः।। 13.62 ।।
भुजाभ्यां मध्यदेशस्य तथाङ्गुलिगणस्य च।
ऊरुयुग्मस्य जङ्घाभ्यामापाद्या द्विपहस्तता।। 13.63 ।।
सतालभङ्गमानं च दैर्घ्यं वै चरणं स्मृतम्।
पार्ष्णिद्विगोलकतते तन्मध्ये साङ्गुले कले।। 13.64 ।।
द्विकलं चाश्रितं चैव बाहुल्येन कला (11)समम्‌।
पदमङ्गुष्ठनिकटात् त्रियवोनं विदुर्बुधाः।। 13.65 ।।
(11.ग्र. समौ।)
बाहुलं च कलामानं गुल्फदेशाच्च साङ्गुलम्।
कनीयोऽङ्गुलिमूलाच्च गुल्फान्तं पिण्डिकाङ्गुलम्।। 13.66 ।।
जङ्घावसानदेशाच्च वेष्टनं सप्तलोचनम्।
कलाहीनं तथैवाग्रात् परिणाहो विधीयते।। 13.67 ।।
चरणं विधिना तेन कूर्मपृष्ठसमं भवेत्।
त्र्यङ्गुलेन च तद्दैर्घयमङ्गुष्ठस्य च दीर्घता।। 13.68 ।।
पञ्चाङ्गुलः परिज्ञेयः परिधिस्तत्र वै रमे।
यवद्वयाधिका कार्या तद्दैर्ध्यात्तु प्रदेशिनी।। 13.69 ।।
अङ्गुष्ठायामतुल्याथ कार्या वै पदमध्यगा।
मध्याङ्गुले द्विरष्टांशहीना तदनु या स्थिता।। 13.70 ।।
तद्वत्तदनुगा या च त्रिपर्वास्तास्तु पूर्ववत्।
संयुक्ता नखजालेन कूर्मपृष्ठोपमेन च।। 13.71 ।।
द्विकलं तु यवार्धेनं पादतर्जनिवेष्टनम्।
चतुश्चतुर्यवोनं च तच्छेषाणां प्रकीर्तितम्।। 13.72 ।।
सर्वे समांसलाः सौम्याः समास्त्ववयवाः शुभाः।
दशनं वलिबाह्यस्थे दंष्ट्रो सप्त यवोन्नते।। 13.73 ।।
यवद्वयोन्नतं मानं मध्यदन्तचतुष्टयम्।
तत्पक्षगानां सर्वेषां मानं विद्धि चतुर्यवम्।। 13.74 ।।
द्वियवं द्विजविस्तारमग्रान्मूलाद्यवद्वयम्।
तत्सार्धं मध्यदेशाच्च सर्वे दन्ता निरन्तराः।। 13.75 ।।
लोमप्रदक्षिणावर्तमयुग्जन्मोत्थितं शभम्।
सुनिश्चितं हितं चैतन्मानमव्यभिचारि यत्।। 13.76 ।।
मनोहारित्वमेकत्र रूपलावण्यभूषितम्।
सर्वदा चानयोर्विद्धि अन्योन्यत्वेन संस्थितम्।। 13.77 ।।
सुसौन्दार्यं तु मानस्य क्वचिदाक्रम्य वर्तते।
लावण्यस्य क्वचिन्मानं समाच्छाद्यावतिष्ठते।। 13.78 ।।
यथाभिरूपवान् लोके दरिद्रोऽभ्येति मान्यताम्।
विरूपोऽप्यतिवित्ताढ्यो नारूपो नैव निर्धनः।। 13.79 ।।
एवं द्वयोऽन्वितं(12) बिम्बमनादेयत्वमेति च।
आदेयमेकयुक्तं च नित्यं यस्मान्महामते।। 13.80 ।।
(12.मातृकायां ग्र. पुस्तके चैवमेव। `द्व्यनन्वितं' इति भवितव्यम्।)
सम्यङ्माने च सौन्दर्ये भक्तानुग्रहकाम्यया।
मन्त्रसंनिधिशक्तिर्वै सफला ह्यवतिष्ठते।। 13.81 ।।
सा सम्यक्प्रतिपन्नस्य बिम्बे दृग्गोचरस्थिते।
अमूर्ता ह्लादयत्याशु ज्ञात्वैवं यत्समाचरेत्।। 13.82 ।।
मानोन्मानप्रमाणानामथ सौन्दर्यसिद्धये।
ऋजोः सुसमपादस्य त्र्यङ्गुलं चरणान्तरम्।। 13.83 ।।
तद्वै विषमपादस्य अग्रात्तालसमं स्मृतम्।
तत्पार्ष्णिद्वयमद्यात्तु परिज्ञेयं द्विगोलकम्।। 13.84 ।।
स्थित्यर्थं ब्रह्मनाड्या वै तथा मार्गद्वयस्य च।
सूत्रेण सुसमे कुर्याद् देहोत्थे दक्षिणोत्तरे।। 13.85 ।।
समपादस्य बिम्बस्य ललाटान्मेढ्रमस्तकम्।
प्रसार्य सूत्रमाच्छाद्य तेन नाभिहृदन्तरम्।। 13.86 ।।
घ्राणाग्रमलकानां च सिद्धिर्यस्तिलकोर्ध्वगः।
एवं विषमपादस्य दक्षाङ्गुष्ठाग्रगां नयेत्।। 13.87 ।।
गात्रसाम्यं समापाद्यं क्षेत्रात् क्षेत्रगतेन वै।
सूत्रेण सर्वबिम्बानां वैषम्यं व्यपवर्तते।। 13.88 ।।
चतुस्त्रिद्व्यश्रपरितः परिशुद्धायतिः शुभा।
अशुभापरिशुद्धा तु व्यत्यया बिम्बनिर्मिता।। 13.89 ।।
ललाटमश्ववक्त्रस्य विस्तारं द्वादशाङ्गुलम्।
अष्टलोचनमायामादग्रतश्चतुरङ्गुलम्।। 13.90 ।।
कलाग्रसुषिरे घ्राणरन्ध्रे भागान्तरीकृते।
अष्टाङ्गुले तु हनुके सृग्विण्यौ द्वेऽथ तत्समे।। 13.91 ।।
मध्यतः श्रोत्रशुक्ती द्वे द्व्यङ्गुले द्विकलोन्नते।
द्व्यङ्गुलं घ्राणवंशं तु तदूर्ध्वं द्विकलं स्मृतम्।। 13.92 ।।
विद्धि वक्त्रविकासं च द्वियवं चाग्रतः क्रमात्।
तमेव हि यवांशेन हन्वन्तं तनुतां नयेत्।। 13.93 ।।
घ्राणवंशस्य पक्षौ द्वौ मध्यनिम्नौ च संहतौ।
यवद्वयेन सार्धेन दृग्घ्राणाभ्यां तु चान्तरे।। 13.94 ।।
अधोदलं तु दृग्द्रोणेः यव(मा?)नेन कुञ्चितम्।
ललाटं सालकं प्राग्वद् दृङ्मध्यं साङ्गुला कला।। 13.95 ।।
नृसिंहस्य मुखं विद्धि परितश्चाष्टलोचनम्।
तदोष्ठखण्डदेशाच्च कुर्यात्कर्णद्वयोत्थितम्।। 13.96 ।।
तत्कर्णद्वयमानेन ललाटान्तं नयेत् पुनः।
प्रमाणात् प्राक् प्रणीताच्च संरंभाद् घ्राणलक्षणम्।। 13.97 ।।
प्रप्लुतं विकसच्छिद्रं घ्राणवंशान्वितं भवेत्।
तच्छिद्रे पूर्वमानाच्च स्वस्य वै त्रियवाधिकम्।। 13.98 ।।
सगोलमुत्तरङ्गेषु सकलांशं च लोचनम्।
अधरोष्ठं परिज्ञेयं सचतुर्यवमङ्गुलम्।। 13.99 ।।
सार्धं चतुष्कलं वक्त्रं शेषायामो हनोः स्मृतः।
तद्विकासः परिज्ञेयो नेत्रमानं यवाधिकम्।। 13.100 ।।
अग्रतो ह्रासमायाति सृक्विण्यन्तं हि चाङ्गुलम्।
सर्ववृत्तं तदर्धेन नेत्रयुग्मं सविस्मयम्।। 13.101 ।।
पूर्ववद्विस्तृतं श्रोत्रं कलार्धेन तदुन्नतेः।
तुल्यां चन्द्रकलायुग्मयोगस्य भ्रूस्त्रिगोलकम्।। 13.102 ।।
तन्मानं तु कलामानं शङ्खावर्तोपमं महत्।
भागमानं समावृत्तं कार्यं तच्छिरसि स्फुटम्।। 13.103 ।।
वराहस्याननं दैर्घ्यं सार्धतालं विधीयते।
विस्तारेण ललाटाच्च तन्मानं द्व्यङ्गुलान्वितम्।। 13.104 ।।
सौम्यरूपस्य च विभोः प्रोद्यतस्य कलान्वितम्।
तच्चतुर्थांशमानेन पोत्रदेशस्य विस्तृतिः।। 13.105 ।।
तस्योपरिष्टाद् बाहुल्यं तत्समं त्वङ्गुलं त्वधः।
हनुद्वयस्य वै मानं सार्धसप्ताङ्गुलं स्मृतम्।। 13.106 ।।
शेषामानं सरन्ध्रं तु सृग्विणीभ्यां यदन्तरम्।
तद्विकासश्च सार्धेन कलार्धेनाग्रदेशतः।। 13.107 ।।
स एवाङ्गुलमानेन विज्ञेयः सृग्विणीद्वयात्।
घ्राणरन्ध्रश्च वक्त्रोक्ते दंष्ट्रे त्वर्धकलोन्नते।। 13.108 ।।
नासावंशं यथापूर्वं कदलीवाटिपृष्ठवत्।
श्रोत्रे वाजिमुखोक्ते तु कोटेः सप्तकलान्तरे।। 13.109 ।।
तत्तुल्ये लोचने किंतु प्रान्ततीक्ष्णे यवोन्वि(न्न?)ते।
एतेषां विहिता ग्रीवा ह्यङ्गुलद्वितयेन तु।। 13.110 ।।
प्रत्येकदेशात् संयुक्ता सौम्यमूर्त्युदिता च या।
विनोच्छ्रायेण(नृहरे)र्यस्य गात्रस्य या प्रभा।। 13.111 ।।
सा प्रभा वेष्टनाद्भासात् कलार्धेनाधिका भवेत्।
वक्षःकट्युदरं संस्फिक् कलामानाधिकं तु तत्।। 13.112 ।।
तथैव नखपत्राणि देहश्चास्य समांसलः।
संपूर्णे दक्षिणावर्तैर्लोमभिश्चातिकुञ्चितैः।। 13.113 ।।
त्रिचतुःपञ्चवक्त्रस्य विनैवोर्ध्वमुखेन तु।
दक्षिणोत्तरवक्त्राभ्यां ह्रासं कुर्याद् द्विगोलकम्।। 13.114 ।।
विकासः सिंहवक्त्रोक्त उदग्वक्त्रस्य तत्र च।
समो दृक्संनिवेशस्तु चतुर्णां मोक्षसिद्धये।। 13.115 ।।
आरोग्यभोगकैवल्यप्राप्तयेऽर्धाङ्गुलेन तु।
कुर्यात् सव्यापसव्याभ्यामथो दृक्संनिवेशनम्।। 13.116 ।।
सह पूर्वाननेनैव साम्यं प्रत्यङ्मुखस्य च।
निष्क्रासायामविस्तारघ्राणदृग्भ्रूश्रुतिष्वथ।। 13.117 ।।
ईषत्तिर्यक्‌क्षितिन्यस्तदृङ्मुखं दक्षिणं शुभम्।
तद्वच्च श्रोत्रदृग्वक्त्रमुत्तरं सर्वसिद्धिदम्।। 13.118 ।।
स्वकार्यसूचनान्नूनं तन्मन्त्रस्य च संनिधिः।
अतोऽन्यथा समाश्रित्य शान्तिमास्ते च मन्त्रराट्।। 13.119 ।।
नित्यं तत्संनिधानाच्च भूतवेतालराक्षसाः।
आदर्शनात् पलायन्ते लीयन्ते दर्शनाद्रमे।। 13.120 ।।
आदाय शिरसा मन्त्री समाज्ञां संप्रयान्ति ते।
अतः समाचरेद्यत्नात् येन स्याद् बिम्बसंनिधिः।। 13.121 ।।
न हि तत्संनिधानाद्वै कश्चिदारभते शुभम्।
वराहदंष्ट्रं सिंहाक्षं तथा चिपिटनासिकम्।। 13.122 ।।
विधेयं पश्चिमं वक्त्रं पञ्चवक्त्रस्य वै विभोः।
अस्याधरोत्तरा(भ्या)मप्योष्ठाभ्यां समता भवेत्।। 13.123 ।।
विभिन्नताङ्गुलार्धेन ताभ्यां तन्मध्यगा स्फुटा।
कार्या दशनपाली वै मूलमध्याग्रतः समा।। 13.124 ।।
कलार्धेनोल्बणं वृत्तं तद्गण्डद्वितयं ततः।
द्विकलं चाग्रतः श्मश्रुः कला चार्धकला क्रमात्।। 13.125 ।।
संबन्धवेणीः पूर्वोक्त(13)मानने सर्वतो भवेत्।
सिंहसूकरवन्मुख्यवक्त्राणां सौम्यतां नयेत्।। 13.126 ।।
(13.ग्र. मानेनैव भवेद्रमे।)
प्रमाणं दृग्गताल्लक्ष्याद्व्यवहारमयात्तु वै।
विकासश्चाश्ववक्त्रोक्तेः सौम्यरूपस्य भूभृतः।। 13.127 ।।
तदाद्योक्तेस्तु नृहरेः प्रागुक्तो यः समाचरेत्।
तथा वक्त्राङ्गभावित्वे(14) विभोः शक्तीश्वरस्य च।। 13.128 ।।
(14.ग्र. क्ये)
हारनूपुरवस्त्रस्रक्‌कटकाङ्गदभूषिता।
माल्योपवीतकेयूरमकुटाद्युपशोभिता।। 13.129 ।।
प्रतिमा मन्त्रमूर्तीनां कृता भवति सिद्धिदा।
यत् पुरा पञ्चधा प्रोक्तं वाहनं प्राणदैवतम्।। 13.130 ।।
तस्य बिम्बसमुत्थेन तालेन मुखमण्डलम्।
(15)द्व्यङ्गुलं तु ललाटोक्तं जटाबन्धो द्विलोचनः।। 13.131 ।।
(15.ग्र. व्यङ्गुलं)
द्व्यङ्गुलेनोन्नतः कर्णमुरः पञ्चकलं स्मृतम्।
अष्टाङ्गुलं तदुदरं कटिः पञ्चाङ्गुलोन्नता।। 13.132 ।।
नवाङ्गुलोन्नतावूरू जानुनी द्व्यङ्गुले स्मृते।
अष्टाङ्गुलोच्छ्रिते जङ्घे द्व्यङ्गुले (16)पदपिण्डके।। 13.133 ।।
(16.ग्र. पिण्ड(के)स्मृते)
(17)शममेककलाहीनं तद्ग्रीवायां च वेष्टनम्।
बिम्बतुल्या परिज्ञेयो सर्वदा साङ्गविस्तृतिः।। 13.134 ।।
(17.ग्र. शममेकं)
तद्विभागाधिकं विद्धि वेष्टनं ह्युदरस्य च।
परिधिः कटिदेशस्य चतुर्नेत्राधिकस्तु वै।। 13.135 ।।
(18)बिम्बोकसदृशं विद्धि तदूर्वोर्मूलवेष्टनम्।
(19)तदेवं जङ्घामध्यस्य जङ्घान्तस्य तदेव हि।। 13.136 ।।
(18.ग्र. बिम्बेन)
(19.तदेव)
पादं पञ्चकलायामं चतुरङ्गुलविस्तृतम्।
त्र्यङ्गुलं पार्ष्णिदेशाच्च द्विकलाङ्गुष्ठयोः समा।। 13.137 ।।
विज्ञेयाश्चाङ्घ्रिदेशाच्च यवोनाङ्गुलयः (20)क्रमाः।
नाभिरन्ध्रं सुविस्तीर्णं द्व्यर्धलोचनविस्तृतम्।। 13.138 ।।
(20.ग्र. क्रमात्)
मध्यमाङ्गुलिपर्यन्तं मणिबन्धान्नवाङ्गुलम्।
त्रिकलः परिविस्तारस्तन्नखा निशितोन्नताः।। 13.139 ।।
तद्बाहुर्द्विकलं विद्धि उच्छ्रायेण द्विलोचनम्।
भुजोपभुजयुक्तं यत्तद् द्वितालसमं विदुः।। 13.140 ।।
कलार्धेनाधिकं बिम्बबाह्वोस्तद्बाहुवेष्टनम्।
[बिम्बोष्ठांसाद्विधिर्ह्येव(21)मीरितं पद्मसंभवे।। 13.141 ।।]
(21.मा. एतानि पदानि न सन्ति)
वृत्तवैपुल्यमानेन लोचने पद्मपत्रवत्।
भ्रूयुग्मं नरसिंहोक्तं घ्राणाग्रं शुकचञ्चुवत्।। 13.142 ।।
कलार्धमानं दीर्घं च तद्वंशं गजपृष्ठवत्।
स्वायामदीर्घं तत्पक्षयुगलं कुक्षिदेशतः।। 13.143 ।।
तथैव दैर्घ्यादर्धेन विस्तृतं हंसपक्षवत्।
स्वपक्षमानाद् द्विगुणं तत्पुच्छं शतशाखिकम्।। 13.144 ।।
सपक्षमिममायामं सत्यं त्ववयवान्वितम्।
सर्वेषां विद्धि सामान्यं विशेषाख्यमथो शृणु।। 13.145 ।।
ऊरुद्वयान्नयेद्‌ह्रासमङ्गुलानां त्रयं तथा।
जङ्घाकाण्डोच्छ्रिते कुर्याज्जङ्घाभ्यां चात्र वेष्टनम्।। 13.146 ।।
बिम्बाख्यमणिबन्धस्य सममूलात् सरोद्भवे।
जालदेशात् तदर्धेन सह चार्धाङ्गुलेन तु।। 13.147 ।।
पादे जालं परिज्ञेयं विस्तारेण षडङ्गुलम्।
शेषं सत्योदितं सर्वं सर्वेषां विद्धि सर्वदा।। 13.148 ।।
किं तु पादान्वितौ पक्षौ दैर्घ्यात्तद्दलविस्तृतौ।
एषा चोड्‌डीयमानानां स्वायामा पक्षविस्तृतिः।। 13.149 ।।
पञ्चानां च परिज्ञेयं स्थितानामर्धलक्षणम्।
एतदादाय मानं तु (22)पञ्चभ्रूपक्षवर्जितम्।। 13.150 ।।
(22.ग्र. पक्षभ्रूपक्ष)
विद्धि वामनरूपस्य लक्षणं जलजोद्भवे।
ललाटनासावक्त्रेभ्यः समादायाङ्गुलत्रयम्।। 13.151 ।।
मस्तकस्योपरिष्टात्तु जटाबन्धं प्रकल्पयेत्।
जटाबन्धनमायामं यथा स्यात् पञ्चतालकम्।। 13.152 ।।
एतावन्मूलबिम्बानां प्रमाणमिदमीरितम्।

।। इति श्रीश्रीप्रश्नसंहितायां त्रयोदशोऽध्यायः(23) ।।
(23.`द्वादशोध्यायः' इति मातृकायाम्)