प्रश्नसंहिता/अध्यायः २१

विकिस्रोतः तः
← अध्यायः २० प्रश्नसंहिता
अध्यायः २१
[[लेखकः :|]]
अध्यायः २२ →
प्रश्नसंहितायाः अध्यायाः

।। एकविंशोऽध्यायः ।।

प्रतिष्ठारम्भदिवसात् तृतीये दिवसेऽपि वा।
पूर्वस्मिन् दिवसे वापि प्रतिष्ठाङ्कुरमारभेत्।। 21.1 ।।
तस्मिन् दिने देशिकेन्द्रश्चतुरो ऋत्विजस्तथा।
प्रासादस्य प्रतिष्ठार्थं वृणुयादात्मसंमतम्।। 21.2 ।।
आचार्यं सोऽपि चतुरो ऋत्विजः प्रार्थयेद्रमे।
यूयं श्रीपाञ्चरात्रस्य तत्त्वज्ञा ब्रह्मवादिनः।। 21.3 ।।
अतो हरेः प्रतिष्ठार्थं प्रासादस्य मया सह।
कुरुध्वं कर्म विधिवन्नापचारो भवेद् यथा।। 21.4 ।।
इति संप्रार्थ्य तैः साकं स्नायाद्वपनपूर्वकम्।
शुक्लाम्बरधराः सर्वे कृतपञ्चाङ्गभूषणाः।। 21.5 ।।
कृतोर्ध्वपुण्ड्राः शुद्धाश्च शुद्धयज्ञोपवीतिनः।
भट्टाचार्यो देवदेवं स्वगृहे पूजयेत्पुरा।। 21.6 ।।
स्वर्णताम्बूलवस्त्राणि ब्राह्मणेभ्योऽददत्पुरा।
तेभ्योऽनुज्ञामनुप्राप्य यजमानेन संमितः।। 21.7 ।।
ऋत्विग्भिर्ब्राह्मणैश्चैव सर्ववादित्रनिः स्वनैः।
परिचारवरैश्चापि छत्रचामरपाणिभिः।। 21.8 ।।
ताम्बूलपूगपूष्पाणि फलानि स्वर्णपात्रके।
ग्राहयित्वा वेदघोषैः कार्तान्तिकवरैः सह।। 21.9 ।।
इत्थं सर्वोपकरणैः पश्यन् शकुनमुत्तमम्।
सुमुहूर्ते देशिकेन्द्रः पूर्णकुम्भं करे वहन्।। 21.10 ।।
गृहाद्गच्छेदुदीचीं वा प्राचीं वा मनसा हरिम्।
ध्यायन् वै शाकुनं सूक्तमन्यैर्देशिकसत्तमैः।। 21.11 ।।
भद्रं कर्णं पठन् देवि रहेर्धाम प्रदक्षिणम्।
कृत्वा मण्डपमाचार्यः प्रविशेद्दीक्षितैः सह।। 21.12 ।।
ऋत्विक्ततो दर्भपुञ्जैर्दीर्घीभूतैः सपावकैः।
आकर्षयेद्देवधाम्नि सर्वस्मिन् मण्डपे तथा।। 21.13 ।।
प्राकारेषु च सर्वत्र शुचीव इति मन्त्रतः।
पर्यग्निकरणं कुर्यात् तेन शुद्धिर्ध्रुवा भवेत्।। 21.14 ।।
प्रक्षाल्य च ततः पादावाचम्य च यथाविधि।
नित्यकर्मणि दर्भाभ्यां पवित्रं धारयेत्कृतम्।। 21.15 ।।
त्रिभिस्तु पितृकार्येषु चतुर्भिश्चाभिचारके।
पञ्चभिः (1)पौष्टिके षड्भिः शान्तिकार्येषु भोजने।। 21.16 ।।
(1.ग्र. दैविके)
पवित्रं वलयं द्वाभ्यां सप्तभिः सर्वकर्मसु।
द्व्यङ्गुलं वलयं प्रोक्तं ग्रन्थिरेकाङ्गुली भवेत्।। 21.17 ।।
चतुरङ्गुलमायामः पञ्चमुष्टिमिताः कुशाः।
[पवित्रं वलयं प्रोक्तं हेमरत्नविनिर्मितम्]।। 21.18 ।।
करशुद्धिं ततः कृत्वा पवित्रं धारयेत् करे।
प्राणायामत्रयं कृत्वा विष्टरासनमास्थितः।। 21.19 ।।
चरणं पवित्रमुच्चार्य महीं प्रक्षालयेत् पुरा।
विष्णोरराटमन्त्रेण दर्भैः संमार्जयेदनु।। 21.20 ।।
गन्धद्वारेति मन्त्रेण गोमयेनानुलेपयेत्।
आप उन्दन्तु मन्त्रेण सुधाचूर्णैरलंक्रियात्।। 21.21 ।।
देवस्य त्वेति मन्त्रेण विकिरेदक्षतान् क्षितौ।
ग्रीष्मो हेमन्तमन्त्रेण धान्यपीठं प्रकल्पयेत्।। 21.22 ।।
शं नो देवीति मन्त्रेण शतपत्रं लिखेत् सुधीः।
धन्वनागेति मन्त्रेण दर्भैरूर्ध्वं परिस्तरेत्।। 21.23 ।।
तस्मिन् लक्षणसंयुक्तं कनकादिविनिर्मितम्।
रत्नं स्वर्णं नालिकेर(2)कूर्चमश्वत्थपल्लवम्।। 21.24 ।।
(2.ग्र. माम्राश्वत्थदलं तथा।)
(3)विनिक्षिप्य च तोयेन गन्धेना(4)पूरयेत् घटम्।
चन्दनाक्षतमालाभिर्भूषणैश्चाप्यलंक्रियात्।। 21.25 ।।
(3.ग्र. कूर्चं निक्षिप्य)
(4.ग्र. पूरितं)
तस्य कुम्भस्य परितः एकायनविदो न्यसेत्।
सूर्यमण्डलमध्यस्थहरेर्दक्षिणहस्ततः।। 21.26 ।।
सहस्रारं समावाह्य कुम्भे नारायणं स्मरन्।
संपूज्य गन्धपुष्पाद्यैः फलादीनि निवेदयेत्।। 21.27 ।।
दर्भैः स्पृष्टघटैः सार्धं पुण्याहं वाचयेद् गुरुः।
ओंकाराद्यं पवित्रान्तं मन्त्राणां प्राक्‌चतुष्टयम्।। 21.28 ।।
तत आत्मानुवादं च ह्यात्मव्यूहमतः परम्।
शुद्धयेऽस्तु परो देवो वासुदेवोऽस्तु शुद्धये।। 21.29 ।।
संकर्षणः शुद्धयेऽस्तु प्रद्युम्नश्चास्तु शुद्धये।
अनिरुद्धः केशवश्च श्रीमान्नारायणस्तथा।। 21.30 ।।
माधवः शुद्धये चास्तु गोविन्दः शुद्धये तथा।
शुद्धये विष्णुरस्त्वाद्यः शुद्धये मधुसूदनः।। 21.31 ।।
त्रिविक्रमो वामनश्च श्रीधरश्चास्तु शुद्धये।
हृषीकेशः पद्मनाभः शुद्धयेऽस्तु जगत्पतिः।। 21.32 ।।
दामोदरः शुद्धयेऽस्तु पद्मनाभोऽस्तु शुद्धये।
ध्रुवोऽनन्तस्तु शक्त्यात्मा शुद्धये मधुसूदनः।। 21.33 ।।
विद्याधिदेवः कपिलो विश्वरूपोऽस्तु शुद्धये।
विहङ्गमस्तु क्रोडात्मा शुद्धये बडबाननः।। 21.34 ।।
धर्मो वागीश्वरो देव एकार्णवशयस्तथा।
शुद्धयेऽस्तु सदा देवः कूर्मः पातालधारकः।। 21.35 ।।
वराहः शुद्धये चास्तु नारसिंहोऽस्तु शुद्धये।
अमृताहरणश्चापि श्रीपतिश्चास्तु शुद्धये।। 21.36 ।।
कान्तात्मा राहुजिच्चास्तु कालनेमिस्तु शुद्धये।
पारिजातहरश्चास्तु लोकनाथस्तु शुद्धये।। 21.37 ।।
दत्तात्रेयस्तु भगवान् न्यग्रोधशयनस्तथा।
एकशृंगतनुश्चास्तु वामनश्चास्तु शुद्धये।। 21.38 ।।
त्रिविक्रमो नरश्चैव नारायणहरिस्तथा।
ज्वलत्परशुभृ(5)द्रामः कृष्णश्चास्तु विशुद्धये।। 21.39 ।।
(5.ग्र. द्रामं)
रामो धनुर्धरश्चास्तु वेदविच्चास्तु शुद्धये।
शुद्धयेऽस्तु सदा कल्की सर्वदोषक्षयंकरः।। 21.40 ।।
शुद्धयेऽस्तु सदा देवः पातालशयनः प्रभुः।
शुद्धये सन्तु सर्वेषां सर्वे सर्वत्र सर्वदा।। 21.41 ।।
ऋद्धये पुष्टये सन्तु शान्तये सिद्धये सदा।
शिवाय मुक्तिवृद्धिभ्यामविघ्नाय च कर्मणाम्।। 21.42 ।।
मन्त्राणां देशिकेन्द्राणां दासीदासगवामपि।
वेदशास्त्रागमादीनां (6)व्रतानामिष्टसंपदाम्।। 21.43 ।।
(6.ग्र. धनधान्यादि)
(7)आयुष्यारोग्यमेधानां धनधान्यादिसंपदाम्।
राज्ञो जनपदस्यापि यजमानस्य मन्त्रिणाम्।
पञ्चकालविशुद्धानां वैष्णवानां तपस्विनाम्।। 21.44 ।।
(7.ग्र. एषः अर्धश्लोको नास्ति।)
स्वस्त्यस्तु च शिवं चास्तु शिवं चास्तु पुनः पुनः।
अविघ्नमनिशं चास्तु दीर्घमायुष्यमस्तु नः।। 21.45 ।।
समाहितमनश्चास्तु पुण्याहं सर्वशुद्धिकृत्।
शङ्खचक्रगदापद्मयुक्तः सर्वेश्वरेश्वरः।। 21.46 ।।
प्रीयतां वासुदेवोऽयं श्रीपतिः सर्वसिद्धिदः।
प्रीयतां प्रीयतामद्य पूर्वोक्ताः सर्वदेवताः।। 21.47 ।।
इत्थमेकायनप्रोक्तपुण्याहं दीक्षितोत्तमैः।
वाचयित्वा तदद्भिः स्वमात्मानं प्रोक्षयेत् पुरा।। 21.48 ।।
ततः शिष्यान् साधकांश्च ऋत्विजः परिचारकान्।
पदार्थानि च सर्वाणि यागमण्डपमेव च।। 21.49 ।।
सदनं देवदेवस्य प्रोक्षयेत् प्रथमं गुरुः।
कपिलाजरयोर्ग्राह्यं पञ्चगव्यं प्रशस्यते।। 21.50 ।।
पञ्चगव्यं तु गृह्णीयात् मृत्पात्रे नूतने शुभे।
आर्ता जरागर्भिणीभ्याम् अवत्सेभ्यो दशाहतः।। 21.51 ।।
पूर्वं तु न तु गृह्नीयात् गृहीतं न तु शुद्धिकृत्।
गोमूत्रं गोमयं क्षीरं दधिसर्पिश्च पञ्चकम्।। 21.52 ।।
विसृज्यमाने संग्राह्यं मूत्रं भूमिष्ठमेव च।
सोष्णं क्रिम्यादिरहितं गोमयं पीडयेत्ततः।। 21.53 ।।
रसं सद्यस्तनघृतमहोरात्रोषितं दधि।
क्षीरं ग्राह्यमतप्तं च शुद्धान्येतानि सर्वदा।। 21.54 ।।
गोमूत्रं विष्णुगायत्र्या गन्धद्वारेति गोमयम्।
आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि।। 21.55 ।।
घृतं शुक्रमसीत्येवं द्रव्याणि सह योजयेत्।
विष्णुगायत्रिया यद्वा पञ्चोपनिषदापि वा।। 21.56 ।।
एकमानं घृतं युग्मं दधि स्यात् त्रिगुणं पयः।
षड्गुणं मूत्रमेतस्मात् शकृद्धारिचतुर्गुणम्।। 21.57 ।।
स्नपने कथितं मानं प्रोक्षणे पञ्चकं समम्।
गोमयेन समं मूत्रं दधि स्याद् द्विगुणं ततः।। 21.58 ।।
घृतं चतुर्गुणं प्रोक्तं ततश्चाष्टगुणं पयः।
प्राशने पञ्चगव्यानां प्रमाणमिदमीरितम्।। 21.59 ।।
एतेन पञ्चगव्येन धाम्नः सर्वस्थलान्यपि।
यागशालामण्डपादि प्रोक्षयेत् सर्वतो गुरुः।। 21.60 ।।
धूपयेत् सर्वतो धूपानक्षतान् कुसुमैः सह।
सिद्धार्थांश्चापि विकिरेत् सेचयेत् गन्धवारिभिः।। 21.61 ।।
रङ्गवल्ल्यादिभिर्धाम शोभयेत् सर्वतो दिशि।
अनिर्वाणान् बहून् दीपान् गोघृतैर्दीपयेद्रमे।। 21.62 ।।
[अकृत्वा यदि पुण्याहं कुर्यात् कर्म निरर्थकम्।]

।। इति श्रीश्रीप्रश्न संहितायां प्रतिष्ठाकर्मणि (8)एकविंशोऽध्यायः ।।
(8.`विंशोऽध्यायः' इति मातृकायाम्।)