प्रश्नसंहिता/अध्यायः ३४

विकिस्रोतः तः
← अध्यायः ३३ प्रश्नसंहिता
अध्यायः ३४
[[लेखकः :|]]
अध्यायः ३५ →
प्रश्नसंहितायाः अध्यायाः

।। चतुस्त्रिंशोऽध्यायः ।।
ततो भागवताचार्यो यागं कर्तुं समुद्यतः।
यागमण्डपमासाद्य सर्वालंकारसंयुतान्।। 34.1 ।।
कुम्भान् संस्थाप्य विधिवद् द्वारादीनर्चयेत्ततः।
गर्भमन्दिरमासाद्य उत्सवार्चां समर्च्य च।। 34.2 ।।
यानमारोप्य (1)तद्देवं यागमण्डपमानयेत्।
वेदिकायां निवेश्याथ ह्यग्नुमुत्पादयेद्रमे।। 34.3 ।।
(1.ग्र. तद्बिंबं)
चतुष्कुम्डविधाने तु वृत्तकुण्जाद् गुरूत्तमः।
अग्निमुत्पाद्य निनयेदन्यकुण्डेषु पावकम्।। 34.4 ।।
एककुण्डविधाने तु चतुरश्रेऽग्निमर्चयेत्।
चतुर्दिक्षु चतुर्वेदान् घोषयेयु(2)र्द्विजोत्तमाः।। 34.5 ।।
(2.ग्र. द्विजातयः।)
कुण्डमध्ये योगपीठं संकल्प्य विधिवत्ततः।
(3)चक्रशङ्खगदापद्मवनमालाविराजितम्।। 34.6 ।।
(3.ग्र. शङ्खचक्र)
वासुदेवं समभ्यर्च्य प्रार्थयेद् गाथयानया।
त्वत्प्रीतये जगन्नाथ समारब्धो महोत्सवः।। 34.7 ।।
क्रियते हि मया तस्मिन् चतुःस्थानार्चनं हरे।
तत्र यागमहं कर्तुं त्वन्मुखाज्जातवेदसम्।। 34.8 ।।
संप्रार्थयामि देवेश तदनुज्ञातुमर्हसि।
तन्मुखादुत्थितं ध्यायेत् जटामकुटमण्डितम्।। 34.9 ।।
(4)त्रिनेत्रं पञ्चवक्त्राढ्यं सप्तजिह्वासमन्वितम्।
[त्रिमेखलं त्रिपादं च सप्तजिह्वासमन्वितम्।। 34.10 ।।]
(4.ग्र. त्रिनेत्रं पञ्चवक्त्राढ्यं रक्तवर्णं चतुर्भुजम्।)
बद्धाञ्जलिपुटं वह्निं शङ्खचक्रधरं विभुम्।
अग्ने त्वं गार्हपत्यादिकुण्डे स्थित्वा हरेः प्रियम्।। 34.11 ।।
उत्सवावभृथं यावत् तावत् पूजां गृहाण भो।
इति संप्रार्थ्य वै वह्निं देवमुद्वासयेत् ततः।। 34.12 ।।
अग्निं संतर्प्य विधिवत् पीठं कुम्भेषु कल्पयेत्।
महाकुम्भे वासुदेवं मूलादावाह्य पूजयेत्।। 34.13 ।।
आग्नेयादिषु कोणेषु पुरुषादीन् यजेद्रमे।
प्राक् कुम्भे वासुदेवं च याम्ये संकर्षणं तथा।। 34.14 ।।
प्रद्युम्नं पश्चिमे कुम्भे त्वनिरुद्धं तथोत्तरे।
आग्नेये पुरुषं कुम्भे नैर्ऋते सत्यसंज्ञितम्।। 34.15 ।।
अच्युतं वायवीये (5)च घटे शार्वे ह्यनन्तकम्।
आवाह्य पूजयेद्देवान् प्राच्यादिषु यथाक्रमम्।। 34.16 ।।
(5.ग्र. तु.)
तण्डुलैर्निर्मिते पीठे चक्राब्जं विलिखेत् पुरा।
कर्णिकायां वासुदेवं दलेषु द्वादशस्वपि।। 34.17 ।।
केशवादीन् समावाह्य पूजयेत् देशिकोत्तमः।
संपूज्य बिम्बं विधिवत् पीठमग्निषु कल्पयेत्।। 34.18 ।।
चतुरश्रे वासुदेवं चापे संकर्षणं तथा।
वृत्ते प्रद्युम्नानामानं कमले त्वनिरुद्धकम्।। 34.19 ।।
आवसथ्ये मूलमूर्तिं (6)गार्हपत्येऽथवार्चयेत्।
(7)सांनिध्ययाचनं तेषां गार्हपत्यादिषु क्रमात्।। 34.20 ।।
(6.पा. इष्‌ट्वा तीर्थावसानिकम्।)
(7.पा. सन्निधिं प्रार्थ्य कुण्डेषु जुहुयात्सर्पिरादिभिः।)
उत्सवावभृथं यावत् कालयोश्चापि पूजयेत्।
वह्निस्थान् वासुदेवादीन् सपर्यासनमादितः।। 34.21 ।।
भोज्यासनान्तमाज्येन स्वाहान्तैर्जुहुया(8)त्ततः।
चतुर्विधान्नं नैवेद्यं स्थितानां च चतुःस्थले।। 34.22 ।।
(8.ग्र. गुरुः।)
निवेद्य च ततः पूर्णामाहुतिं जुहुयाद्धविः।
पौरुषेण च मन्त्रेण संपाताज्येन वै रमे।। 34.23 ।।
कुम्भं बिम्बं मण्डलं च न्यसेद्राष्ट्रहिताय वै।
कुमुदादिबलिं दत्वा स्वगृहं प्रविशेद् गुरुः।। 34.24 ।।
ततः सायाह्नसमये नित्यपूजां विधाय च।
देवस्य पुरतो भूमौ धान्यपीठं प्रकल्पयेत्।। 34.25 ।।
(9)कालचक्रं तत्र लिख्य न्यसेद्दीपान् समन्ततः।
मड्डुकं ब्रह्मणः स्थाने पार्श्वयोस्तस्य वै रमे।। 34.26 ।।
(9.पा. कल्पयित्वा कालचक्रं तस्य मध्ये निवेशयेत्।)
शङ्खं कोणं च विन्यस्य ततादीन् परितो न्यसेत्।
ऐन्द्रे वीणादि याम्ये तु सुषिरादीनि पद्मजे।। 34.27 ।।
वारुण्यां चर्मवाद्यानि सौम्ये कांस्यं तु विन्यसेत्।
पिधाय नववस्त्रेण प्रोक्ष्य पुण्याहवारिणा।। 34.28 ।।
गन्धपुष्पाणि संकीर्य तेषु देवान् समर्चयेत्।
संकर्षणं मड्डुके च शङ्खे विष्णुं च कोणके।। 34.29 ।।
वायोरधिपमावाह्य फलादीनि निवेदयेत्।
सुषिरेऽप्यनिरुद्धं च वीणादिषु मधुद्विषम्।। 34.30 ।।
नरोत्तमं चर्मजेषु कांस्यजेषु ह्यधोक्षजम्।
एवमावाह्य चाभ्यर्चय नीराजनमथाचरेत्।। 34.31 ।।
गुरुर्मड्डुकमादाय त्रिर्मगातामुच्चरन् रमे।
वेदाः सर्वे विवर्धन्तां देवाः सर्वे सवेधसः।। 34.32 ।।
वर्धन्तां वैष्णवाः सर्वे वर्धन्तां ब्राह्मणोत्तमाः।
एवं त्रिवारमुच्चार्य मड्डुकं ताडयेद् गुरुः।। 34.33 ।।
भुजवीर्यजितारातिवनम्द्यमानपदद्वयः।
वर्धतां भूपतिर्नित्यं सामात्यः सपुरोहितः।। 34.34 ।।
इमं श्लोकं त्रिरुच्चार्य मड्डुकं ताडयेत्ततः।
वाणिज्येन च संप्राप्तमहाधनविवर्धनाः।। 34.35 ।।
वर्धन्तामूरुजाः सर्वे धान्यरत्नसमधिताः।
इत्येवं त्रिःपठन् धीमांस्तडयेन्मड्डुकं गुरुः।। 34.36 ।।
लक्ष्मीशोत्सवसेवार्थमागता मुखबाहुजाः।
ऊरुपादसमुद्भूता अनुलोमाश्च धार्मिकाः।। 34.37 ।।
स्वकर्मनिरताः सर्वे दातारः सत्यवादिनः।
इतरे मानवाः सर्वे पुत्रपौत्रधनादिभिः।। 34.38 ।।
शतायुषश्च वर्धन्तां नीरोगा निरुप्रद्रवाः।
वर्णानां क्षेममुद्दिश्य मड्डुकं ताडयेत् पुनः।। 34.39 ।।
आचार्य इत्थं संताड्य स्नातं पारशवं शुचिम्।
कृतोर्ध्वपुण्ड्रमाहूय करे दत्वा च मड्डुकम्।। 34.40 ।।
देववस्त्रादिपुष्पैश्च संमान्य च यथाक्रमम्।
तं ताडयेत् तदितरान् वाद्यान्यपि च वादयेत्।। 34.41 ।।
गुरोरनुज्ञया ते च दास्यो वाद्यानि वादकाः।
गायेयुर्नृत्तयेयुश्च देवस्य पुरतो भुवि।। 34.42 ।।
ततो वैकुण्ठनिलयान् विष्वक्सेनपुरःसरान्।
आयुधान् मूर्तिरूपांश्च तथा द्वाराधिपान् रमे।। 34.43 ।।
चण्डादिद्वारपालांश्च गुरुः प्रथममाह्वयेत्।
आदित्या वसवो रुद्रा मरुतश्च महर्षयः।। 34.44 ।।
गङ्गाद्याः सरितश्चैव विधयो नव वै रमे।
नवग्रहाणि चैतांश्च ब्राह्मणादीन् समाह्वयेत्।। 34.45 ।।
उच्चार्य नामान्येतेषां तद्गणोच्चारणान्तिमे।
मड्डुकं ताडयेद्धीमान् पारशव्येन वै गुरुः।। 34.46 ।।
चक्रिन् (10)मुसलिन् खड्गिन् शङ्खिन् कौमोदकीभरिन्।
शार्ङ्गिन् पद्मिन् तथा वज्रिन् यूयं वैकुण्ठवासिनः।। 34.47 ।।
(10.ग्र. मुसलवन्)
लक्ष्मीशोत्सवसेवार्थमागच्छन्त्वायुधेश्वराः।
अनिरुद्धपदोद्भूतास्तार्क्ष्यचण्डप्रचण्डकाः।। 34.48 ।।
धातर्विधातर्विजय जय भद्र सुभद्रक।
कृतान्तसुरविध्वं स कुबेराक्ष कुबेरक।। 34.49 ।।
भो दुर्जय प्रबल हे विश्वभावन् पुष्कर।
संभव प्रभव स्वामिन् सुशोभन सुभद्र भो।। 34.50 ।।
तत्तत्कैंकर्यनिरताश्छत्रचामरपाणयः।
द्वारपालगणाः सर्वे परिचारगणैः सह।। 34.51 ।।
लक्ष्मीशोत्सवसेवार्थमागच्छन्तु हरेः प्रियाः।
भो धर ध्रुव हे सोम आप हे अनिलानल।। 34.52 ।।
प्रत्यूषप्रभवावष्टौ वसवो देवता गणाः।
लक्ष्मीशोत्सवसेवार्थं यूयमागच्छतामराः।। 34.53 ।।
मृगव्याध महाशर्व निर्ऋते त्वज एकपात्।
अहरिबुध्न्य पिनाकिन् हे स्थाणो भव कपालिक।। 34.54 ।।
त्रिनेत्रा रुद्रसदृशा जटामण्डलदारिणः।
रुद्रा एकादशा यूयमागच्छत महोत्सवम्।। 34.55 ।।
धात्रर्यमौ विधातर्हे मित्र भो वरुणाह्वय।
सवितर्भग विवस्वन् हे त्वष्टरिन्द्र रवे विभो।। 34.56 ।।
पूषन् द्वादश आदित्या आगच्छत महोत्सवम्।
बृहस्पते देवगुरो लोहिताङ्ग शनैश्चर।। 34.57 ।।
राहो गृहपते सूर्य सोम हे बुध केतवः।
यूयं नवग्रहाः (11)सर्व आगच्छत महोत्सवम्।। 34.58 ।।
(11.ग्र. विष्णोः)
महापद्मनिधे पद्मशङ्खकच्छपनामक।
निधे मकरकुन्दाख्यनीलवारमुकुन्दक।। 34.59 ।।
यूयं लक्ष्मीपतेः प्रीत्यै समाहूता महोत्सवे।
आगच्छत हरेः प्रीतिं कुरुध्वं निधयो नव।। 34.60 ।।
हे मरीचे भरद्वाज मार्कण्डेय कहोलक।
वसिष्ठ काश्यप भृगो विश्वामित्र महामुने।। 34.61 ।।
वेदव्यासमुने वत्स गौतमागस्त्य मुद्गल।
जामदग्न्यमुने गार्ग्य याज्ञवल्क्य तपोधन।। 34.62 ।।
कौण्डिन्य मुनिशार्दूल दुर्वासा रोमशाङ्गिराः।
लक्ष्मीशोत्सवसेवार्थ(12)मायान्तु मुनिपुंगवाः।। 34.63 ।।
(12.ग्र. आगच्छ मुनिसत्तमाः।)
परब्रह्ममुखोद्भूताः पञ्चकालपरायणाः।
वेदवेदाङ्गनिपुणाः पञ्चरात्रविशारदाः।। 34.64 ।।
इतिहासपुराणज्ञाः धर्मशास्त्रार्थकोविदाः।
लक्ष्मीशोत्सवसेवार्थमायान्तु ब्राह्मणोत्तमाः।। 34.65 ।।
विराड्बाहुसमुद्भूता भुजवीर्यार्जितश्रियः।
युद्धोद्धतकृतोत्साहाः क्षत्रिया लोकविश्रुताः।। 34.66 ।।
यूयं मन्त्र्यादिभिः सार्धं समायात महोत्सवम्।
विष्णोरूरुसमुद्भूता दानधर्मपरायणाः।। 34.67 ।।
वाणिज्यवृत्तयो नित्यं शमादिगुणसंयुताः।
लक्ष्मीशोत्सवसेवार्थमागच्छन्तु वणिक्‌प्रियाः।। 34.68 ।।
विराट्‌चरणसंभूता वर्णानां दास्य(13)वृत्तनिः।
विष्णुकैंकर्यनिरता आगच्छन्तु महोत्सवम्।। 34.69 ।।
(13.ग्र. वर्तिनः।)
आहूयैवं भक्तजनान् परिवारानथो रमे।
स्वयंव्यक्तादिबिम्बानामुत्सवे समुपस्थिते।। 34.70 ।।
आह्वानं देवपुरतो वीथीषु च बलिं क्षिपेत्।
मानुषादिप्रतिष्ठानां बिम्बानामुत्सवे रमे।। 34.71 ।।
आह्वानं बलिदानं च वीथ्यामेव तु कल्पयेत्।
रक्तवस्त्रं गजारूढं श्वेतवर्णं चतुर्भुजम्।। 34.72 ।।
त्रिनेत्रममराधीशं वज्रचक्रधरं तथा।
मुख्याभ्यामपि हस्ताभ्यां प्राञ्जलिं विबुधैर्युतम्।। 34.73 ।।
ऐशवासवयोर्मध्ये कुमुदं गणनायकम्।
ध्यात्वैवं पायसान्नेन बलिं दद्याद् गुरूत्तमः।। 34.74 ।।
गजारूढ चतुर्बाहो सर्वदेवगणाधिप।
लक्ष्मीशोत्सवसेवार्थमागच्छ कुमुद प्रभो।। 34.75 ।।
आहूयैवं बलिं दत्वा तद्रागाद्यैश्च तोषयेत्।
स्वरः षड्जः समं तालं रागो गान्धार ईरितः।। 34.76 ।।
नृत्तं विलासमेतैस्तं कुमुदं मोदयेद् रमे।
महिषस्थं काञ्जनाभं चतुर्बाहुं त्रिलोचनम्।। 34.77 ।।
दानवानामधिपतिं खड्गमुद्गरदारिणम्।
मुख्यहस्ताञ्जलियुतं शोणवस्त्रैरलंकृतम्।। 34.78 ।।
ऐन्द्रज्वलनयोर्मध्ये कुमुदाक्षं गणाधिपम्।
ध्यात्वा तस्मै बलिं दद्यात् माषान्नेन गुरूत्तमः।। 34.79 ।।
कुमुदाक्षा(14)सुराधीश दैत्यदानवसेवित।
लक्ष्मीशोत्सवसेवार्थमायाहि त्वं महाबल।। 34.80 ।।
(14.ग्र.गणाधीश)
कुमुदाक्षप्रियो रागः कौलवो वृषभः स्वरः।
तालं तु मध्यमो नृत्तं विष्णुक्रान्तमिहोच्यते।। 34.81 ।।
अश्वारूढं रक्तवर्णं नीलवस्त्रं चतुर्भुजम्।
त्रिणेत्रं चक्रमुसलं हस्ताभ्यामपि धारिणम्।। 34.82 ।।
पूर्वाभ्यामञ्जलियुतं पितॄणां गणनायकम्।
अग्न्यन्तकदिशोर्मध्ये पुण्डरीकाभिधं रमे।। 34.83 ।।
तं ध्यात्वा तु तिलान्नेन बलिं दद्याद् गुरूत्तमः।
(15)तालो भृङ्गिणिसंज्ञं स्यात् स्वरो गान्धारनामकः।। 34.84 ।।
(15.ग्र. तालं )
मध्यमावतिरागस्तु नृत्तं केतकमुच्यते।
अश्वारूढ महाबाहो पुण्डरीक महाबल।। 34.85 ।।
लक्षमीशोत्सवसेवार्थमागच्छ पितृ(16)वल्लभ।
रथारूढं चतुर्बाहुं त्रिनेत्रं पाण्डरप्रभम्।। 34.86 ।।
(16.ग्र. नायक)
वज्रशूलधरं नीलवासोभिः समलंकृतम्।
साञ्जलिं वामनं दैवं राक्षसानां गणाधिपम्।। 34.87 ।।
यमयातुदिशोर्मध्ये तिन्त्रिण्यन्नं बलिं क्षिपेत्।
चतुर्भुज रथारूढ यातुधानगणेश्वर।। 34.88 ।।
लक्ष्मीशोत्सवसेवार्थं त्वं समागच्छ वामन।
स्वरश्च पञ्चमस्तालो मल्लः श्रीराग ईरितः।। 34.89 ।।
नृत्तं तु भद्रमाली च वामनस्य प्रियं भवेत्।
व्याघ्रारूढं शङ्कुकर्णं पाशाङ्कुशधरं विभुम्।। 34.90 ।।
चतुर्भुजं पीतवर्णं श्वेतवस्त्रैर्विराजितम्।
बद्धाञ्जलिपुटं भीमं पन्नगानां गणाधिपम्।। 34.91 ।।
यातुवारुणयोर्मंध्ये क्षीरान्नेन बलिं क्षिपेत्।
व्याघ्रारूढ महाबाहो शङ्कुकर्ण चतुर्भुज।। 34.92 ।।
लक्ष्मीशोत्सवसेवार्थमागच्छोरगसेवित।
स्वरो (17)धैवतनामा स्यान्मङ्गलं तालमीरितम्।। 34.93 ।।
(17.ग्र. दैवत)
भूपालो राग इत्युक्तो नृत्तं कान्तारकुट्टिमम्।
एतै रागादिभिर्भद्र शङ्कुकर्णं तु तोषयेत्।। 34.94 ।।
मृगारूढं धूम्रवर्णं त्रिनेत्रं श्वेतवाससम्।
दधानं पाशपरशुं पद्धाञ्जलिपुटं विभुम्।। 34.95 ।।
चतुर्भुजं सर्वनेत्रं गन्धर्वगणनायकम्।
पाशिवायुदिशोर्मध्ये ध्यात्वैवं लक्षणान्वितम्।। 34.96 ।।
चणकान्नबलिं दद्यात् तत्प्रियं मन्त्रमुच्चरन्।
सर्वनेत्र मृगारूढ गन्धर्वगणनायक।। 34.97 ।।
लक्ष्मीशोत्सवसेवार्थमागच्छ त्वं महामते।
जयतालो धैवतः स्यात् स्वरः केदार(18)संज्ञितः।। 34.98 ।।
(18.ग्र. संज्ञिकः।)
वृत्तकुट्टिमनृत्‌तं च सर्वनेत्रप्रियंकरम्।
सिंहारूढं धूम्रनिभं पीतवस्त्रं चतुर्भुजम्।। 34.99 ।।
त्रिनेत्रं प्राञ्जलिं सौम्यं चक्रशक्तिधरं विभुम्।
सुमुखं यक्षकोटीनां नायकं भगवत्प्रियम्।। 34.100 ।।
वायुसोमान्तरे ध्यात्वा मुद्गन्नेन बलिं क्षिपेत्।
सिंहारूढ महाबाहो चक्रशक्तिधनुर्धर।। 34.101 ।।
लक्ष्मीशोत्सवसेवार्थमागच्छ त्वं महाबल।
स्वरो निषादस्तालं तु (19)भद्रो हंसध्वनिस्तु सः।। 34.102 ।।
(19.ग्र. भद्रं)
रागो नृत्तं पारिभद्रं सुमुखस्य प्रियं भवेत्।
नागारूढं हेमवर्णं त्रिनेत्रं पीतवाससम्।। 34.103 ।।
खड्गं चक्रधरं देवं बद्धाञ्जलिसमन्वितम्।
पिशाचानामधिपरिं सुप्रतिष्ठं महाबलम्।। 34.104 ।।
सोमेशानदिशोर्मध्ये ध्यात्वा देशिकसत्तमः।
गुडान्नेन बलिं दद्यात् सुप्रतिष्ठाय वै रमे।। 34.105 ।।
नागारूढ महाबाहो पिशाचानां गणाधिप।
लक्ष्मीशोत्सवसेवार्थं सुप्रतिष्ठैहि सेनप।। 34.106 ।।
तालस्तु ककरी प्रोक्तः स्वरो गान्धार(20)नामकः।
पूर्णचन्द्रस्तु रागः स्यान्नृत्तं तु कटिबन्धनम्।। 34.107 ।।
(20.ग्र. संज्ञिकः)
एतैस्तु सुप्रतिष्ठस्य प्रियमुत्पादयेद् गुरुः।
हंसारूढं पृश्निगर्भं धनुर्बाणधरं विभुम्।। 34.108 ।।
द्विनेत्रं शुक्लवसनं प्राञ्जलिं सिद्धनायकम्।
एवं सिद्धपदे ध्यात्वा मरीच्यन्नं बलिं क्षिपेत्।। 34.109 ।।
(21)पृश्निगर्भ सुराधीश सिद्धादिगणसेवित।
लक्ष्मीशोत्सवसेवार्थमायाहि व्योमवल्लभ।। 34.110 ।।
(21.ग्र. प्रश्नि)
तालस्तु झिङ्गिणी (22)प्रोक्तो निषादस्वर उच्यते।
रागो मेघाभिधो (23)भद्रे नृत्तं मण्डलमीरितम्।। 34.111 ।।
(22.ग्र. प्रोक्तं)
(23.ग्र. प्रोक्तो)
अनन्तं कमठारूढं पाण्डराभं चतुर्भुजम्।
साञ्जलिं नीलवसनं हलतोमरधारिणम्।। 34.112 ।।
द्विनेत्रं पन्नगाधीशं किरीटफणमण्डितम्।
अनन्तमेवमाराध्य शर्करान्नं बलिं क्षिपेत्।। 34.113 ।।
कूर्मस्थ नागभूपाल सहस्रफणमण्डित।
लक्ष्मीशोत्सवसेवार्थमागच्छ त्वं सहानुगैः।। 34.114 ।।
अनन्ततालो गान्धारस्वरो रागो वरालिका।
नृत्तं केतकमित्युक्तमनन्तप्रीतिदं भवेत्।। 34.115 ।।
ब्रह्मणं राजहंसस्थमष्टनेत्रं चतुर्मुखम्।
अक्षसूत्रं च करकं दधानं प्राञ्जलिं विभुम्।। 34.116 ।।
ध्वजस्तम्भेन्द्रककुभोर्ध्यात्वा ब्रह्मणमब्जजम्।
गोधूमान्नं बलिं दद्यात् ब्रह्मणः प्रीतिमभ्जजे।। 34.117 ।।
विष्णोर्नाभिसमुत्पन्न जगत्स्रष्टः पितामह।
लक्ष्मीशोत्सवसेवार्थमायाहि कमलासन।। 34.118 ।।
घण्टा रागो निषादश्च स्वरस्तालस्तु वै ध्रुवः।
नृत्तं कमलमित्याहुर्ब्रह्मणः प्रीतिकारकम्।। 34.119 ।।
ऐरावतगजारूढं पीतकौशेयवाससम्।
(24)चतुर्भुजं सहस्राक्षं शचीदेवीसमन्वितम्।। 34.120 ।।
(24.ग्र. चतुर्बाहुं)
वज्राङ्कुशधरं सौम्यं प्राञ्जलिं नीरदप्रभम्।
ध्यात्वैवं वासवं प्राच्यां गुडान्नेन बलिं क्षिपेत्।। 34.121 ।।
शचीपते जिताराते वज्रपाणे पुरंदर।
लक्ष्मीशोत्सवसेवार्थमागच्छामरवल्लभ।। 34.122 ।।
समतालो नाटरागः स्वरः पञ्चमनामकः।
नृत्तं विलासमित्युक्तं पुरंदरमनःप्रियम्।। 34.123 ।।
मेषारूढं हव्यवाहं त्रिनेत्रं स्वर्णवाससम्।
स्वाहास्वधाभ्यां सहितं चतुर्हस्तं महाप्रभम्।। 34.124 ।।
प्राञ्जलिं चापराभ्यां च हस्ताभ्यां स्रुक्‌स्रुवंधरम्।
ध्यात्वेत्थं वह्निकोणस्थं घृतान्नं बलिमुत्क्षिपेत्।। 34.125 ।।
स्वाहास्वधापते वह्ने गार्हपत्यादिनामक।
लक्षअमीशोत्सवसेवार्थमागच्छ मखपूजित।। 34.126 ।।
अटतालो गौलिरागः स्वरो वृषभसंज्ञिकः।
नृत्तं तु सर्वतोभद्रं जातवेदप्रियं भवेत्।। 34.127 ।।
कृतान्तं महिषारूढं दण्डपाशधरं विभुम्।
बद्धाञ्जलिपुटं कृष्णं चतुर्बाहुं त्रिलोचनम्।। 34.128 ।।
श्वेतवस्त्रधरं देवं पितॄणां गणनायकम्।
एवं ध्यात्वा यमदिशि तिलान्नेन बलिं क्षिपेत्।। 34.129 ।।
लुलायवाहनारूढ कालसंहरिणीपते।
लक्ष्मीशोत्सवसेवार्थमायाहि पितृभिः सह।। 34.130 ।।
तालस्तु मङ्गलःप्रोक्तः स्वरो गान्धार ईरितः।
रागस्तु दैशिकी नृत्तं सर्वतोभद्र(25)नामकम्।। 34.131 ।।
(25.ग्र. संज्ञिकम्)
पिशाचस्थं क्रूरमूर्तिं निर्ऋतिं श्वेतवाससम्।
द्विनेत्रं पिङ्गलनिभं खड्ग(26)खेटं विराजितम्।। 34.132 ।।
(26.ग्र. खेटेन शोभितम्।)
चतुर्भुजं (27)प्राञ्जलिं च ध्यात्वैवं निर्ऋतेर्दिशि।
माषान्नेन बलिं दद्यान्निर्ऋतेः प्रीतिकृत्तमम्।। 34.133 ।।
(27.ग्र. प्राञ्जलिकं)
कृष्णाङ्गनापुराधीश राक्षसानां गणेश्वर।
लक्ष्मीशोत्सवसेवार्थं निर्ऋते त्वत्र याहि भो।। 34.134 ।।
जयतालः स्वरः षड्जो रागो देशाक्षिनामकः।
नृत्तं कमलवद्‌वृत्तं निर्ऋतेः प्रियदं भवेत्।। 34.135 ।।
मकरं यानमारूढं श्वेतवर्णं चतुर्भुजम्।
पाशाङ्कुशधरं देवं वरुणं सन्नताञ्जलिम्।। 34.136 ।।
द्विनेत्रं शीतलानाथं यादोभिः परिवेष्टितम्।
ध्यात्वैवं पश्चिमदिशि दध्यन्नेन बलिं क्षिपेत्।। 34.137 ।।
श्रद्धावतिपुरीनाथ पश्चिमाशापते विभो।
लक्ष्मीशोत्सवसेवार्थमागच्छ जलजेश्वर।। 34.138 ।।
भद्रतालो नाटरागः स्वरो धैवतमुच्यते।
नृत्तं कमलमित्युक्तं वरुणस्य प्रियं भवेत्।। 34.139 ।।
आरूढहरिणीनाथं द्विनेत्रं विशदाम्बरम्।
सदागत्या च नायक्या समेतं धूम्रवर्णकम्।। 34.140 ।।
वैश्वानरसखं देवं चतुर्बाहुसमन्वितम्।
बद्धाञ्जलिपुटं धीरं ध्वजतोमरधारिणम्।। 34.141 ।।
एवं वायोर्दिशि ध्यात्वा कुलुत्थान्नं बलिं क्षिपेत्।
श्रीगन्धपत्तनाधीश सदागत्या समन्वित।। 34.142 ।।
लक्ष्मीशोत्सवसेवार्थमायाहि त्वं सदागते।
ढम्पतालः समाख्यातो रागः श्रीरागसंज्ञिकः।। 34.143 ।।
स्वरः षड्जो नृत्तमुक्तं पृष्ठकुट्टिमसंज्ञितम्(28)।
नरारूढं पाण्डराभं धनदं (29)दिशांबरम्।
(28.ग्र. कम्)
(29.ग्र. गौरवस्त्रिणम्)
बद्धाञ्जलिपुटं सौम्यं संपद्देवीसमन्वितम्।। 34.144 ।।
शङ्खपद्मनिधेरीशं चतुर्बाहुं (30)दिशांबरम्।
बद्धाञ्जलिपुटं सौम्यं संपद्देवीसमन्वितम्।। 34.145 ।।
(30.ग्र. हरप्रियम्)
एवं सोमदिशि ध्यात्वा पायसान्नं बलिं क्षिपेत्।
नरवाहन यक्षेश संपद्देवीसमन्वित।। 34.146 ।।
शङ्खादिनिधिप स्वामिन्नलकापुरनायक।
लक्ष्मीशोत्सवसेवार्थमायाहि धनदेश्वर।। 34.147 ।।
अनन्ततालो रागस्तु मोहनं वृषभः स्वरः।
नृत्तं मण्डलनृत्तं स्यात् कुबेरं तैश्च तोषयेत्।। 34.148 ।।
वृषारूढं पाण्डुराभं त्रिनेत्रं गजचर्मिणम्।
मृत्युंजयं चतुर्बाहुं बद्धाञ्जलिपुटं हरम्।। 34.149 ।।
कपालशूलहस्तं च शैलराजसुताधिपम्।
ध्यात्वैवमीशकोणे तु मरीच्यन्नं बलिं क्षिपेत्।। 34.150 ।।
कैलासाधिप देवेश जटाचन्द्रविभूषित।
श्रीकण्ठमृत्युजिद्देव पिनाकिन् भूतनायक।। 34.151 ।।
लक्ष्मीशोत्सवसेवार्थमागच्छ त्वं स्मरान्तक।
इति देवान् समाहूय नृत्ताद्यैस्तोषयेद् गुरुः।। 34.152 ।।
देवताह्वानवेलायां भेरीं शृण्वन्ति ये जनाः।
यावद्धरेरुत्सवान्तं ग्रामं नगरमेव वा।। 34.153 ।।
न गच्छेयुर्भद्रकामस्तिष्ठेयुस्तावदेव हि।
अनादृत्योत्सवं मोहाद् दूरं यायाज्जनो यदि।। 34.154 ।।
स याति निरयं स्थानं प्रेत्य दुःखमिहापि च।
तस्मादवभृथं यावद्वसेत्तत्रैव नो व्रजेत्।। 34.155 ।।
ततो गर्भगृहं गत्वा मूलबेरं समर्चयेत्।
महाहविर्निवेद्याथ नीराजनमतश्चरेत्।। 34.156 ।।

।। इति श्रीश्रीप्रश्नसंहितायां महोत्सवे (31)बलिप्रदानं नाम चतुस्त्रिंशोऽध्यायः ।।
(31.पञ्चत्रिंशोऽध्याय इति ग्र. पुस्तके।)