विष्णुपुराणम्/पञ्चमांशः/अध्यायः ३२

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

पराशार उवाच ।
प्रद्यु म्राद्या हरेः पुत्रा रुक्मिण्याः कथितास्तव ।
भानुं भैमरिकञ्चैव सत्यभामा व्यजायत ।। ५-३२-१ ।।

दीप्तिमान् ताम्रपक्षाद्या रोहिणयां तनया हरेः ।
बभूवुर्जाम्बवत्याञ्च शाम्बाद्या बलशालिनः ।। ५-३२-२ ।।

तनया भद्रविन्दाद्या नाग्रजित्यां महाबलाः ।
संग्रामजित्प्रधानास्तु शैव्यायान्त्वभवन् सुताः ।। ५-३२-३ ।।

वृकाद्याश्व सुता माद्रयां गात्रवत्प्रमुखान् सुतान् ।
अवाप लक्ष्मणा पुत्राः कालिन्द्याञ्च श्रुतादयः ।। ५-३२-४ ।।

अन्यासाञ्चैव भार्य्याणां समुतूपन्नानि चक्रिणः ।
अष्टायुतानि पुत्राणां सहस्त्रणां शतं तथा ।। ५-३२-५ ।।

प्रद्यु म्रः प्रथमस्तेषा सर्व्वेषां रुक्मिणीसुतः ।
प्रद्यु म्रादनिरुद्धोऽभूदू वजूस्तस्मादजायत ।। ५-३२-६ ।।

अनिरुद्धो रणो रुद्धो बलेः पौत्रीं महाबलः ।
वाणास्य तनयामूषामुपयेमे द्रिजोत्तम ।। ५-३२-७ ।।

यत्र युद्धमभूदू घोरं हरि-शङ्करयोर्महत् ।
छिन्न सहस्त्र बाहूनां यत्र वाणस्य चक्रिणा ।। ५-३२-८ ।।


मैत्रेय उवाच ।
कथं युद्धमभूदू ब्रह्मन्नुषार्थे हर-कृष्णयोः ।
कथं क्षयञ्च वाणस्य बाहूनां कृतवान् हरिः ।। ५-३२-९ ।।

एतत् सर्व्व महाभाग! समाख्यातु त्वमर्हसि ।
महत् कौतूहलं जातं कथां श्रोतुमिमां हरेः ।। ५-३२-१० ।।

पराशर उवाच ।
ऊषा वाणसुता विप्र! पार्व्वतीं सह शम्भुना ।
क्रीड़न्तीमुपलक्ष्योच्चैः स्पृहाञ्चक्र तदाश्रयाम् ।। ५-३२-११ ।।

ततः सकलाचित्तज्ञा गौरी तामाह भामिनीम् ।
अलमत्यर्थतापेन भर्त्रा त्वमपि रंस्यसे ।। ५-३२-१२ ।।

इत्युक्ते सा तदा चक्र कदेति मतिमात्मनः ।
को वा भर्त्ता ममेत्येतां पुनरप्याह पार्व्वती ।। ५-३२-१३ ।।

वैशाखशुक्लद्रादश्यां स्वप्ने योऽभिभवं तव ।
करिष्यति स ते भर्त्ता राजपुत्रि!भविष्यति ।। ५-३२-१४ ।।

तस्यां तिथौ पुमान् खप्ने यथा देव्या उदीरितम् ।
तथैवाभिभवं चक्र रागञ्चक्र तथैव सा ।। ५-३२-१५ ।।

ततः प्रबुद्धा पुरुषमपश्यन्ती तमुत्सुका ।
क्व गतोऽसीति निर्लज्जा मैत्रेयोक्तवती सखीम् ।। ५-३२-१६ ।।

वाणस्य मन्त्री कुम्भाणडश्वित्रलेशा तु तत्सुता ।
तस्याः सख्यभवत् सा च प्राह कोऽय त्वयोच्यते ।। ५-३२-१७ ।।

यदा लज्जाकुला नास्यै कथयामास सा सती ।
तदा विश्वासमानीय सर्व्वमेवाभ्यवादयत् ।। ५-३२-१८ ।।

विदितार्थान्तु तामाह पुनरूषा यथोदितम् ।
देव्या तथैव तत्प्राप्तौ योऽभ्युपायः कुरुष्व तम् । ५-३२-१९ ।।

ततः पटे सुरान् दैत्यान् गन्धर्व्वांश्व प्रधानतः ।
मनुष्यांश्वाबिलिख्यास्यै चित्रलेखा व्यदर्शयत् ।। ५-३२-२० ।।

अपास्य सा तु गन्धर्व्वांस्तथोरगसुरासुरान् ।
मनुष्येषु ददौ दृष्टिं तेष्वप्यन्धकवृष्णिषु ।। ५-३२-२१ ।।

कृष्ण-रामौ विलोक्यासौ सुभ्रु र्लज्जाजड़ेव सा ।
प्रद्यु म्रदर्शाने व्रीड़ा-दृष्टिं निन्येऽन्यतो द्रिज ।। ५-३२-२२ ।।

दृष्टमात्रे ततः कान्ते प्रद्यु म्रतनये द्रिज ।
दृष्ट्यात्यर्थविकाशिन्या लज्जा क्कापि निराकृता ।। ५-३२-२३ ।।

सोऽयं सोऽयमितीत्युक्त तया सा योगगामिनी ।
ययौ द्रारवतीमूषां समाश्वास्य ततः सखीम् ।। ५-३२-२४ ।।