विष्णुपुराणम्/पञ्चमांशः/अध्यायः २७

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८

शम्बरेण ह्टतो वीरः प्रद्यु म्रः स कथं मुने !
शम्बरश्व महावीर्य्यः प्रद्यु म्नेन कथं हतः ।। ५-२७-१ ।।

पराशर उवाच ।
षष्ठेऽह्नि जातमात्रन्तु प्रद्युम्र सूतिकागृहात् ।
ममैष हन्तेति मुने! ह्टतवान् कालशम्बरः ।। ५-२७-२ ।।

ह्टत्वा चिक्षेप चैवैनं ग्राहोग्र लवणार्णावे ।
कल्लोलजनितावर्त्ते सुघोरे मकरालये ।। ५-२७-३ ।।

पतितं तत्र चैवैको मत्स्यो जग्राह बालकम् ।
न ममार च तस्यापि जठरेऽनलदीपितः ।। ५-२७-४ ।।

मतूस्यबन्धश्व मत्स्योऽसौ मत्स्यैरन्यैः सह द्रिज !
घातितोऽसुरवर्य्याय शम्बराय निवेदितः ।। ५-२७-५ ।।

तस्य मायावती नाम पत्री सर्व्वगृहेश्वरी ।
कारयामास सूदानामाधिपत्यमनिन्दिता ।। ५-२७-६ ।।

दारिते मत्स्यजठरे सा ददर्शातिशोभनम् ।
कुमारं मन्मथतरोर्दग्धस्य प्रथमाङ्कुरम् ।। ५-२७-७ ।।

कोऽयं कथमयं मत्स्यजठरं समुपागतः ।
इत्येवं कौतुकाविष्टां तां तन्वीं प्राह नारादः ।। ५-२७-८ ।।

अयं समस्तजगतः सूतिसंहारकारिणा ।
शम्बरेण ह्टतः कृष्णृ-तनयः सूतिकागृहात् ।। ५-२७-९ ।।

क्षिप्तः समुद्र मत्स्येन निगीर्णास्ते वशं गतः ।
नररत्रमिदं सुभ्रू विस्त्रब्धा परिपालय ।। ५-२७-१० ।।

नारदेनैवमुक्ता सा पालयामास तं शिशुम् ।
बाल्यादेवातिरागेण रूपातिशयमोहिता ।। ५-२७-११ ।।

स यदा यौवनाभोग-भूषितोऽभून्महामते!
साभिलाषा तदा साति बभूव गजगामिनी ।। ५-२७-१२ ।।

मायावती ददौ तस्म मायाः सर्व्वा महामुन !
प्रद्यु म्रायातिरागान्धा तन्नयस्तह्टदयेक्षणा ।। ५-२७-१३ ।।

प्रसज्जन्तीन्तु तामाह स कार्ष्णिः कमलेक्षणाम् ।
मातृभावमपाहाय किमेवं वर्त्तसेऽन्यथा ।। ५-२७-१४ ।।

सा चास्मै कथयामास न पुत्रस्त्वं ममेति वै ।
तनयं त्वामयं विष्णोह्ट तवान् कालशम्बरः ।। ५-२७-१५ ।।

क्षिप्तः समुद्र मत्स्यस्य सम्प्राप्तो जठरान्मया ।
सा तु रोदिति ते माता कान्ताद्याप्यतिवत्सला ।। ५-२७-१६ ।।

इत्युक्तः शम्बरं युद्धे प्रद्यु म्रः स समाह्वयत् ।
क्रोधाकुलीकृतमना युयुधे च महाबलः ।। ५-२७-१७ ।।

हत्वा सैन्यमशेषन्तु तस्य दैत्यस्य माधविः ।
सप्त माया व्यतिक्रम्य मायां प्रयुयुजेऽशष्टमीम् ।। ५-२७-१८ ।।

तया जघान तं दैत्यं मायया कालशम्बरम् ।
उत्पत्य च तया सार्द्धमाजगाम पितुर्गृहम् ।। ५-२७-१९ ।।

अन्तः परे निपतितं मायावत्या समन्वितम् ।
तं दृष्ट्वा कृष्णसंकल्पा बभूवुः कृष्णयोषितः ।। ५-२७-२० ।।

रुक्मिणी चावदत् प्रेमूणा प्रम्णा साश्रुदृष्टिरनिन्दिता ।
धन्यायाः खल्वयं पुत्रो वर्त्तते नवयौवने ।। ५-२७-२१ ।।

अस्मिन् वयसि पुत्रो मे प्रद्यु म्रो यदि जीवति ।
सभाग्या जननी वतूस! त्वया कापि विभूषिता ।। ५-२७-२२ ।।

अथवा यादृशः स्नेहो मम यादृगू वपुस्तव ।
हरेरपत्यं सुव्यक्त भवान् वत्स!भविष्यति ।। ५-२७-२३ ।।

एतिस्मिन्नन्तरे प्राप्तः सह कृष्णेन नारदः ।
अन्तः पुरचरीं देवीं रुक्मिणीं प्राह हर्षयन् ।। ५-२७-२४ ।।

एश ते तनयः सुभ्रु! हत्वा शम्बरमागतः ।
ह्टतो येनाभवद् बालो भवत्याः सूतिकागृहात् ।। ५-२७-२५ ।।

इयं मायावती भार्य्या तनयस्यास्य ते सती ।
शम्बरस्य न भार्य्येयं श्रूयतामत्र कारणम् ।। ५-२७-२६ ।।
मन्मथे तु गते नाशं तदुद्भवपरायाणा ।
शम्बरं मोहयामास मायारूपेण रूपिणी ।। ५-२७-२७ ।।

व्यवायाद्यु पभोगेषु रूपं मायामयं शुभम् ।
दर्शयामास दैत्यस्य तस्येयं मदिरेक्षणा ।। ५-२७-२८ ।।

कामोऽवतीर्णः पुत्रस्ते तस्येयं दयिता रतिः ।
विशङ्का नात्र कर्त्तव्या स्नुषेयं तव शोभना ।। ५-२७-२९ ।।

ततो हर्षसमाविष्टा रुक्मिणी केशवस्तथा ।
नगरी च समस्ता सा साधु साध्वित्यभाषत ।। ५-२७-३० ।।

चिरं नष्टेन पुत्रेण संयुक्तां प्रेक्ष्य रुक्मिणीम् ।
अवाप विस्मयं सर्व्वो द्रारवत्यां जनस्तदा ।। ५-२७-३१ ।।