सामग्री पर जाएँ

विष्णुपुराणम्/पञ्चमांशः/अध्यायः ११

विकिस्रोतः तः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८


श्रीपराशर उवाच।
मखे प्रतिहते शक्रो मैत्रेयातिरुषान्वितः ।
संवर्त्तकं नाम गणं तोयदानामथाऽब्रवीत् १ ।
भोभो मेघा निशम्यैतद्वचनं गदतो मम ।
आज्ञानंतरमेवाशु क्रियतामविचारितम् २ ।
नंदगोपस्सुदुर्बुद्धिर्गोपैरन्यैस्सहायवान् ।
कृष्णाश्रयं बलाध्मातो मखभंगमचीकरत् ३ ।
आजीवो याः परस्तेषां गावस्तस्य च कारणम् ।
तागावो वृष्टिपातेन पीड्यन्तां वचनान्मम ४ ।
अहमप्यद्रि शृंगाभं तुंगमारुह्य वारणम् ।
साहाय्यं वः करिष्यामि वाय्वम्बूत्सर्गयोजितम् ५ ।
श्रीपराशर उवाच।
इत्याज्ञप्तास्ततस्तेन मुमुचुस्ते बलाहकाः ।
वातवर्षं महाभीममभावाय गवां द्विज ६ ।
ततः क्षणेन पृथिवी ककुभॐबरमेव च ।
एकं धारामहासारपूरेणनाभवन्मुने ७ ।
विद्युल्लताकषाघातत्रस्तैरिव घनैर्घनम् ।
नादापूरितदिक्चक्रैर्धारासारमपात्यत ८ ।
अंधकारीकृते लोके वर्षद्भिरनिशं घनैः ।
अधश्चोर्ध्वं च तिर्यक् च जगदाप्यमिवाभवत् ९ ।
गावस्तु तेन पतता वर्षवातेन वेगिना ।
धूताः प्राणाञ्जहुस्सन्नत्रिकसक्थिशिरोधराः १० ।
क्रोडेन वत्सानाक्रम्य तस्थुरन्या महामुने ।
गावो विवत्साश्च कृता वारिपूरेण चापराः ११ ।
वत्साश्च दीनवदना वातकंपितकंधराः ।
त्राहित्राहीत्यल्पशब्दाः कृष्णमूचुरिवातुराः १२ ।
ततस्तद्गोकुलं सर्वं गोगोपीगोपसंकुलम् ।
अतीवार्त्तं हरिर्दृष्ट्वा मैत्रेयाचिंतयत्तदा १३ ।
एतत्कृतं महेंद्रे ण मखभंगविरोधिना ।
तदेतदखिलं गोष्ठं त्रातव्यमधुना मया १४ ।
इममद्रि महं धैर्यादुत्पाट्योरुशिखाघनम् ।
धारयिष्यामि गोष्ठस्य पृथुच्छत्रमिवोपरि १५ ।
श्रीपराशर उवाच।
इति कृत्वामतिं कृष्णो गोवर्द्धनमहीधरम् ।
उत्पाट्यैककरेणैव धारयामास लीलया १६ ।
गोपांश्चाह हसञ्छौरिस्समुत्पाटितभूधरः ।
विशध्वमत्रत्वरिताः कृतं वर्षनिवारणम् १७ ।
सुनिवातेषु देश्षोउ! यथा जोषमिहास्यताम् ।
प्रविश्यतां न भेतव्यं गिरिपाताच्च निर्भयैः १८ ।
इत्युक्तास्तेन ते गोपा विविशुर्गोधनैस्सह ।
शकटारोपितैर्भांडैर्गोप्यश्चासारपीडिताः १९ ।
कृष्णोपि तं दधारैव शैलमत्यंतनिश्चलम् ।
व्रजौकवासिभिर्हर्षविस्मिताक्षैर्निरीक्षितः २० ।
गोपगोपीजनैर्हृष्टैः प्रीतिविस्तारितेक्षणैः ।
संस्तूयमानचरितः कृष्णश्शैलमधारयत् २१ ।
सप्तरात्रं महामेघा ववर्षुर्नंदगोकुले ।
इंद्रे ण चोदिता विप्र गोपानां नाशकारिणा २२ ।
ततो धृते महाशैले परित्राते च गोकुले ।
मिथ्याप्रतिज्ञो बलभिद्वारयामास तान्घनान् २३ ।
व्यभ्रे नभसि देवेंद्रे वितथात्मवचस्यथ ।
निष्क्रम्य गोकुलं हृष्टं स्वस्थानं पुनरागमत् २४ ।
मुमोच कृष्णोपि तदा गोवर्द्धनमहाचलम् ।
स्वस्थाने विस्मितमुखैर्दृष्टस्तैस्तु व्रजौकसैः २५ ।
इति श्रीविष्णुमहापुराणे पंचमांश एकादशोऽध्यायः ११।