ऋग्वेदः सूक्तं ३.११
← सूक्तं ३.१० | ऋग्वेदः - मण्डल ३ सूक्तं ३.११ गाथिनो विश्वामित्रः |
सूक्तं ३.१२ → |
दे. अग्निः। गायत्री |
अग्निर्होता पुरोहितोऽध्वरस्य विचर्षणिः ।
स वेद यज्ञमानुषक् ॥१॥
स हव्यवाळमर्त्य उशिग्दूतश्चनोहितः ।
अग्निर्धिया समृण्वति ॥२॥
अग्निर्धिया स चेतति केतुर्यज्ञस्य पूर्व्यः ।
अर्थं ह्यस्य तरणि ॥३॥
अग्निं सूनुं सनश्रुतं सहसो जातवेदसम् ।
वह्निं देवा अकृण्वत ॥४॥
अदाभ्यः पुरएता विशामग्निर्मानुषीणाम् ।
तूर्णी रथः सदा नवः ॥५॥
साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।
अग्निस्तुविश्रवस्तमः ॥६॥
अभि प्रयांसि वाहसा दाश्वाँ अश्नोति मर्त्यः ।
क्षयं पावकशोचिषः ॥७॥
परि विश्वानि सुधिताग्नेरश्याम मन्मभिः ।
विप्रासो जातवेदसः ॥८॥
अग्ने विश्वानि वार्या वाजेषु सनिषामहे ।
त्वे देवास एरिरे ॥९॥
सायणभाष्यम्
अग्निर्होतेति नवर्चमेकादशं सूक्तं वैश्वामित्रं गायत्रमाग्नेयं । अग्निर्होता गायत्रमित्यनुक्रांतत्वात् ॥ प्रातरनुवाकाश्विनशस्त्रयोर्गायत्रे छंदसीदं सूक्तं । सूत्रितं हि । अग्निर्होताग्न इळेति चतस्रः । आ° ४.१३.। इति ॥ आधाने प्रथमायां पवमानेष्टौ स्विष्टकृतो याज्याग्निर्होतेत्येषा स हव्यवाळमर्त्य इति पुरोनुवाक्या । द्वितीयपवमानेष्टौ स्विष्टकृतोऽनुवाक्या साह्वानिति । सूत्रितं च । साह्वान्विश्वा अभियुजोऽग्निमीळे पुरोहितमिति संयाज्ये । आ°२.१.। इति ॥ आभिप्लविकेषूक्थ्येषु तृतीयसवने मैत्रावरुणशस्त्रेऽभि प्रयांसीति वैकल्पिकोऽनुरूपस्तृचः । अत्र सूत्रं । प्र वो वाजा अभिद्यवोऽभि प्रयांसि वाहसा । आ° ७. ८.। इति ॥
अ॒ग्निर्होता॑ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः ।
स वे॑द य॒ज्ञमा॑नु॒षक् ॥१
अ॒ग्निः । होता॑ । पु॒रःऽहि॑तः । अ॒ध्व॒रस्य॑ । विऽच॑र्षणिः ।
सः । वे॒द॒ । य॒ज्ञम् । आ॒नु॒षक् ॥१
अग्निः। होता। पुरःऽहितः। अध्वरस्य। विऽचर्षणिः ।
सः। वेद । यज्ञं। आनुषक् ॥१॥
विश्वामित्रः स्तौति । होता देवानामाह्वाता पुरोहितः पुरत एवाभिमतफलसंपादकत्वेन हितकारी। यद्वा पुरः पूर्वभाग आहवनीयरूपेण हितो निहित इति पुरोहितः । अध्वरस्य यज्ञस्य विचर्षणिर्विशेषेण द्रष्टा विचर्षणिर्विश्वचर्षणिरिति तन्नामसु पाठात् । स तथाविधोऽग्निरानुषगानुपूर्व्येण सक्तं यज्ञमग्निष्टोमादिकं वेद । जानाति ॥ वेद । विद ज्ञाने। विदो लटो वेति तिपो णलादेशः । लघूपधगुणः । निघातः । आनुषक् । आ समंतादनुषजतीत्यानुषक् । षन्ज संगे। धातुषकारस्य सकारः। क्विप् चेति क्विप् । अनिदितामित्युपधालोपः । उपसर्गात्सुनोतीति षत्वं ॥
स ह॑व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो॑हितः ।
अ॒ग्निर्धि॒या समृ॑ण्वति ॥२
सः । ह॒व्य॒ऽवाट् । अम॑र्त्यः । उ॒शिक् । दू॒तः । चनः॑ऽहितः ।
अ॒ग्निः । धि॒या । सम् । ऋ॒ण्व॒ति॒ ॥२
सः । हव्यवाट् । अमर्त्यः । उशिक् । दूतः । चनःऽहितः ।
अग्निः । धिया। सं । ऋण्वति ॥२॥
स हव्यवाट् हविषो वोढामर्त्यो मरणधर्मरहित उशिक् हविः कामयमानो दूतो देवानां दूतश्चनसे हविर्लक्षणायान्नाय हितो निहितः । यद्वा चनोहितः । चनोऽन्नं हविर्लक्षणं हितमस्येति चनोहितः । स तथाविधोऽग्निर्धिया प्रज्ञया समृण्वति। संगच्छते । कर्मविषयप्रज्ञान्वितोऽग्निरस्मानपि तादृक्प्रज्ञान्वितान्करोत्वित्याशास्ते ॥ हव्यवाट्। वह प्रापणे । वहश्चेति ण्विः । ढत्वजश्त्वचर्त्वानि । कृदुत्तरपदप्रकृतिस्वरत्वं । उशिक् । वश कांतौ । इजिरित्यनुवृत्तौ वशेः किच्चेतीजिप्रत्ययः । तस्य कित्वात् गृहिज्येति संप्रसारणं । प्रत्ययस्वरः। चनोहितः । चनःशब्दश्चायतेरन्ने ह्रस्वश्चेत्यसुनंतः । चकारान्नुडागमः । तस्मिन्यलोपः । नित्त्वादाद्युदात्तः ।। पुनश्चनसोश्छंदसि गतिसंज्ञा वक्तव्या । पा॰ १. ४. ६०. २.। इति गतिसंज्ञायां गतिरनंतर इति प्रकृतिस्वरत्वं ।। बहुव्रीही तु पूर्वपदप्रकृतिस्वरत्वं । धिया। सावेकाच इति विभक्तेरुदात्तत्वं । ऋण्वति । ऋणु गतौ । लेटि तनादित्वादुप्रत्ययः । लेटोऽडाटावित्यागमः ॥
अ॒ग्निर्धि॒या स चे॑तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः ।
अर्थं॒ ह्य॑स्य त॒रणि॑ ॥३
अ॒ग्निः । धि॒या । सः । चे॒त॒ति॒ । के॒तुः । य॒ज्ञस्य॑ । पू॒र्व्यः ।
अर्थ॑म् । हि । अ॒स्य॒ । त॒रणि॑ ॥३
अग्निः । धिया। सः । चेतति । केतुः । यज्ञस्य। पूर्व्यः ।
अर्थं। हि। अस्य । तरणि ॥३॥
यज्ञस्याग्निष्टोमादेः केतुः प्रज्ञापकः पूर्व्यः पूर्वे भवञ्चिरंतनः स तथाविधोऽग्निर्धिया प्रज्ञया चेतति । सर्वं जानीते । अस्यैतादृशस्याग्नेरर्थं गमनस्वभावं तेजोऽस्याकाशे दृश्यमानस्य तमसस्तरणि हि । तारकं खलु । निवर्तकमिति यावत् ॥ चेतति । चिती संज्ञाने। निघातः । अर्थं । ऋ गतौ । उषिकृषिगर्तिभ्यस्थन्निति थन् । गुणः । नित्वादाद्युदात्तः । तरणि । तॄ प्लवनतरणयोः । अर्तिसृभृधृधमीत्यादिनानिप्रत्ययः । गुणः । प्रत्ययस्वरः ॥
अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे॑दसम् ।
वह्निं॑ दे॒वा अ॑कृण्वत ॥४
अ॒ग्निम् । सू॒नुम् । सन॑ऽश्रुतम् । सह॑सः । जा॒तऽवे॑दसम् ।
वह्नि॑म् । दे॒वाः । अ॒कृ॒ण्व॒त॒ ॥४
अग्निं । सूनुं । सनऽश्रुतं । सहसः । जातऽवेदसं ।
वह्निं। देवाः । अकृण्वत ॥४॥
सहसः सूनुं बलस्य पुत्रं मथनरूपेण बलेन निष्पाद्यमानत्वात् सनश्रुतं सनातनत्वेन प्रसिद्धं जातवेदसं जातप्रज्ञं तमिममग्निं देवा हविर्भुजो देवा वह्निं हविषां वोढारमकृण्वत । अकुर्वत ॥ सनश्रुतं । श्रु श्रवणे । कर्मणि क्तः । तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वं । वह्निं । वह प्रापणे । निरित्यनुवृत्तौ वहिश्रीत्यादिना निप्रत्ययः । अकृण्वत । कृवि हिंसाकरणयोः । इदित्वान्नुम् । धिन्विकृण्व्योरच्चेत्युप्रत्ययः । अकारश्चांतादेशः ।। लङि व्यत्ययेनात्मनेपदं । निघातः ॥
अदा॑भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु॑षीणाम् ।
तूर्णी॒ रथ॒ः सदा॒ नवः॑ ॥५
अदा॑भ्यः । पु॒रः॒ऽए॒ता । वि॒शाम् । अ॒ग्निः । मानु॑षीणाम् ।
तूर्णिः॑ । रथः॑ । सदा॑ । नवः॑ ॥५
अदाभ्यः। पुरःऽएता। विशां। अग्निः । मानुषीणां ।
तूर्णिः । रथः। सदा। नवः ॥५॥
मानुषीणां मनोर्जातानां विशां प्रजानां पुरएता सन्मार्गप्रदर्शनेनाग्रतो गंतात एव तूर्णिस्ताः प्रजा वैदिककर्मप्रवर्तकत्वेनानुग्रहीतुं त्वरायुक्त आलस्यरहितो रथो हविषां वहनाद्रथसदृशः सदा सर्वदा तत्कर्मणि नवो नूतनः पुनर्मथनादभिनव एवंविधोऽग्निरदाभ्यः । अहिंस्यः । न केनापि तिरस्कार्य इत्यर्थः ॥ अदाभ्यः । दंभु दंभे । दभेश्चेति वक्तव्यमिति कर्मणि ण्यत् । उपधावृद्धिः । न दाभ्योऽदाभ्यः । नञ्समासे तत्पुरुषे तुल्यार्थेति पूर्वपदप्रकृतिस्वरत्वं । पुरएता । इण गतौ । ण्वुल्तृचाविति तृच् । गुणः । चित्त्वादंतोदात्तः । मानुषीणां । मनोर्जातावञ्यतौ षुक् चेत्यञ्। टिड्ढाणञिति ङीप्। ञित्वादाद्युदात्तः । तूर्णिः । ञित्वरा संभ्रम इति धातोर्निरित्यनुवृत्तौ वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो निदिति निप्रत्ययः । ज्वरत्वरेत्यादिना ऊद्। तस्य नित्त्वादाद्युदात्तः । संहितायां ढ्रलोपे पूर्वस्येति दीर्घः। रथः । हनिकुषिनीरमिकाशिभ्य इति क्थन्प्रत्ययः । कित्त्वादनुदात्तोपदेशेत्यादिनानुनासिकलोपः । नित्त्वादाद्युदात्तः । सदा । स्वरादिष्वाद्युदात्तत्वेन पठितत्वादाद्युदात्तः ॥ ॥ ९ ॥
सा॒ह्वान्विश्वा॑ अभि॒युज॒ः क्रतु॑र्दे॒वाना॒ममृ॑क्तः ।
अ॒ग्निस्तु॒विश्र॑वस्तमः ॥६
स॒ह्वान् । विश्वाः॑ । अ॒भि॒ऽयुजः॑ । क्रतुः॑ । दे॒वाना॑म् । अमृ॑क्तः ।
अ॒ग्निः । तु॒विश्र॑वःऽतमः ॥६
सह्वान्। विश्वाः।अभिऽयुजः। क्रतुः। देवानां। अमृक्तः ।
अग्निः। तुविश्रवःऽतमः॥६॥
अभियुजोऽभियोक्त्रीर्विश्वाः सर्वाः सेनाः साह्वान्सहमानः स्वबलेन तिरस्कुर्वाणोऽत एवामृक्तः शत्रुभिरहिंसितो देवानां क्रतुः कर्ता हविष्प्रदानेन पोषक एवंभूतोऽग्निस्तुविश्रवस्तमः । तुविशब्दो बहुवाची । तुवि पुरु इति तन्नामसु पाठात् । श्रवःशब्दोऽन्नवाची । श्रव इत्यन्ननाम श्रूयते । नि० १०.३.। इति निरुक्तेऽभिधानात् ।। अतिशयेन बहुविधान्नोपेतो वर्तते । यस्मादेवं तस्मादस्मानपि बहुविधान्नोपेतान्करोत्विति भावः ॥ साह्वान् । षह मर्षण इत्यस्य क्वसौ दाश्वान्साह्वान्मीढ्वांश्चेति निपातनाद्विर्वचनमिडागमश्च न भवति परस्मैपदं च भवति । क्वसुस्वरः । क्रतुः । कृञः कतुः । कित्त्वाद्गुणाभावः । प्रत्ययस्वरः । तुविश्रवस्तमः । तु वृत्तिहिंसापूर्तिषु । अस्मादीणादिकः किप्रत्ययः । कित्त्वाद्गुणाभावः । उवङादेशः । अंतोदात्तः । श्रवः । श्रु श्रवणे । श्रूयतेऽन्नमिति कर्मण्यसुन्प्रत्ययः । अतिशयेन तुविश्रवा इत्यतिशायने तमबिति तमप् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥
अ॒भि प्रयां॑सि॒ वाह॑सा दा॒श्वाँ अ॑श्नोति॒ मर्त्यः॑ ।
क्षयं॑ पाव॒कशो॑चिषः ॥७
अ॒भि । प्रयां॑सि । वाह॑सा । दा॒श्वान् । अ॒श्नो॒ति॒ । मर्त्यः॑ ।
क्षय॑म् । पा॒व॒कऽशो॑चिषः ॥७
अभि। प्रयांसि। वाहसा। दाश्वान्। अश्नोति। मर्त्यः।
क्षयं। पावकऽशोचिषः ॥७॥
दाश्वान हविषां दाता मर्त्यो मनुष्यो यजमानो वाहसा हविषां वाहकेनाग्निना प्रयांस्यन्नान्यभ्यश्नोति । अभितः सर्वतः प्राप्नोति । किंच पावकशोचिषः शोधकदीप्तेरग्नेः सकाशात् क्षयं गृहं चाभ्यश्नोति ॥ प्रयांसि ।। प्रीञ् तर्पणे । अस्माद्धातोरंतर्भावितण्यर्थादसुन्प्रत्ययः । प्रीणयंति भक्षमिति प्रयांस्यन्नानि । नित्त्वादाद्युदात्तः । वाहसा। णिदित्यनुवृत्तौ वहिहाधाभ्यश्छंदसीत्यसुन्। णित्वादुपधावृद्धिः । नित्स्वरः । दाश्वान् । दाशृ दान इत्यस्य क्वसौ दाश्वान्साह्वानिति निपातनादिडागमो द्विर्वचनं च न भवति । क्वसुन्प्रत्ययस्वरः। अश्नोति । अशू व्याप्तौ । व्यत्ययेन परस्मैपदं । निघातः ॥
परि॒ विश्वा॑नि॒ सुधि॑ता॒ग्नेर॑श्याम॒ मन्म॑भिः ।
विप्रा॑सो जा॒तवे॑दसः ॥८
परि॑ । विश्वा॑नि । सुऽधि॑ता । अ॒ग्नेः । अ॒श्या॒म॒ । मन्म॑ऽभिः ।
विप्रा॑सः । जा॒तऽवे॑दसः ॥८
परि।विश्वानि। सुऽधिता। अग्नेः। अश्याम। मन्म॑ऽभिः।
विप्रासः।जातऽवेदसः॥८॥
जातवेदसो जातप्रज्ञा विप्रासो मेधाविनो होत्रादयो वयमग्नेस्तव संबंधिभिर्मन्मभिर्मननीयैः स्तोमैर्विश्वानि सर्वाणि सुधिता सुहितानि सुष्ठु हितान्यभिलषितानि वसूनि पर्यश्याम । सर्वतः प्राप्नुयाम । जातवेदस इत्यग्नेर्वा विशेषणं । जातानि सर्वाणि वेत्तीति जातवेदाः सर्वज्ञ इत्यर्थः । एतादृशं जातवेदस्त्वमग्नेरेवोचितमिति तद्विशेषणत्वं युक्तं ॥ सुधिता। डुधाञ् धारणपोषणयोरित्यस्माद्धातोर्निष्ठायां छंदसीत्यनुवृत्तौ सुधितवसुधितेत्यादिना निपातितः । शेश्छंदसि बहुलमिति शेर्लुक् । गतिरनंतर इति गतेः प्रकृतिस्वरत्वं । अश्याम । अशू व्याप्तौ । बहुलं छंदसीति श्नुप्रत्ययस्य लुक् । व्यत्ययेन परस्मैपदं । यासुट् परस्मैपदेषूदात्त इति यासुट्। लिङः सलोप इति सलोपः । अदंतत्वाभावादियादेशो न भवति । मसः सकारस्य नित्यं ङित इति लोपः ।। निघातः । मन्मभिः । मनु अवबोधने । अन्येभ्योऽपि दृश्यंत इति मनिन् । नित्स्वरः ॥
अग्ने॒ विश्वा॑नि॒ वार्या॒ वाजे॑षु सनिषामहे ।
त्वे दे॒वास॒ एरि॑रे ॥९
अग्ने॑ । विश्वा॑नि । वार्या॑ । वाजे॑षु । स॒नि॒षा॒म॒हे॒ ।
त्वे इति॑ । दे॒वासः॑ । आ । ई॒रि॒रे॒ ॥९
अग्ने। विश्वानि। वार्या। वाजेषु । सनिषामहे ।
त्वे इति । देवासः । आ। ईरिरे ॥९॥
हे अग्ने वार्या वरणीयानि संभजनीयानि विश्वानि सर्वाणि धनानि वाजेषु युद्धेषु सनिषामहे । वयं संभजामहे । यतः कारणाद्देवासः पूर्वमस्माभिरिष्टा देवा अस्मदभिमतफलप्रदानाय त्वे त्वय्येरिरे । आ समंतादगमन् । त्वयि प्रविष्टा इत्यर्थः । सर्वथापि त्वत्सकाशात् फलं लभेमहीति भावः ॥ वार्या । वृङ संभक्तौ । ऋहलोर्ण्यदिति ण्यत् । शेश्छंदसि बहुलमिति शेर्लुक् । ईडवंदेत्यादिनाद्युदात्तः । वाजेषु । वृषादित्वादाद्युदात्तः । सनिषामहे । वन षण संभक्तौ । धात्वादेः षः सः । लेटि सिब्बहुलमिति सिप्। सिप आर्धधातुकत्वादिडागमः । लेटोऽडाटावित्यडागमः । व्यत्ययेनात्मनेपदं । निघातः । त्वे । युष्मच्छब्दस्य सप्तम्यां त्वादेशः । सुपां सुलुगिति शेआदेशः । शे । पा० १.१.१३.। इति प्रगृह्यसंज्ञा। ईरिरे। ईर गतावित्यस्मात्परस्य लिटो झस्य इरेजादेशः । इजादेश्च गुरुमत इत्याम्न भवति मंत्रत्वात् । निघातः ॥ ॥ १० ॥
मण्डल ३ | |||
---|---|---|---|