"ऋग्वेदः सूक्तं ३.२०" इत्यस्य संस्करणे भेदः
Content deleted Content added
No edit summary |
No edit summary |
||
पङ्क्तिः १: | पङ्क्तिः १: | ||
{{header |
|||
{{Rig Veda2|[[ऋग्वेदः मण्डल ३]]}} |
|||
| title = [[ऋग्वेदः]] - [[ऋग्वेदः मण्डल ३|मण्डल ३]] |
|||
| author = गाथी कौशिकः |
|||
| translator = |
|||
| section = सूक्तं ३.२० |
|||
| previous = [[ऋग्वेद: सूक्तं ३.१९|सूक्तं ३.१९]] |
|||
| next = [[ऋग्वेद: सूक्तं ३.२१|सूक्तं ३.२१]] |
|||
| notes = दे. अग्निः, १, ५ विश्वे देवाः। त्रिष्टुप् |
|||
}} |
|||
<div class="verse"> |
<div class="verse"> |
२२:३१, १७ डिसेम्बर् २०१७ इत्यस्य संस्करणं
← सूक्तं ३.१९ | ऋग्वेदः - मण्डल ३ सूक्तं ३.२० गाथी कौशिकः |
सूक्तं ३.२१ → |
दे. अग्निः, १, ५ विश्वे देवाः। त्रिष्टुप् |
अग्निमुषसमश्विना दधिक्रां व्युष्टिषु हवते वह्निरुक्थैः । सुज्योतिषो नः शृण्वन्तु देवाः सजोषसो अध्वरं वावशानाः ॥१॥ अग्ने त्री ते वाजिना त्री षधस्था तिस्रस्ते जिह्वा ऋतजात पूर्वीः । तिस्र उ ते तन्वो देववातास्ताभिर्नः पाहि गिरो अप्रयुच्छन् ॥२॥ अग्ने भूरीणि तव जातवेदो देव स्वधावोऽमृतस्य नाम । याश्च माया मायिनां विश्वमिन्व त्वे पूर्वीः संदधुः पृष्टबन्धो ॥३॥ अग्निर्नेता भग इव क्षितीनां दैवीनां देव ऋतुपा ऋतावा । स वृत्रहा सनयो विश्ववेदाः पर्षद्विश्वाति दुरिता गृणन्तम् ॥४॥ दधिक्रामग्निमुषसं च देवीं बृहस्पतिं सवितारं च देवम् । अश्विना मित्रावरुणा भगं च वसून्रुद्राँ आदित्याँ इह हुवे ॥५॥
मण्डल ३ | |||
---|---|---|---|