वेतालपञ्चविंशति 12

विकिस्रोतः तः
Jump to navigation Jump to search
← वेतालपञ्चविंशति 11 वेतालपञ्चविंशति 12
सोमदेव
वेतालपञ्चविंशति 13 →

सः त्रिविक्रमसेनः अथ पुनः तम् शिंशपातरुम्।
गत्वा प्राप्य च वेतालम् राजा स्कन्धे चकार तम्॥१२.१९.१॥

प्रतस्थे च तम् आदाय तूष्णीम् एव सः पूर्ववत्।
ततः भूयः तम् आह स्म वेतालः सः अंसपृष्ठतः॥१२.१९.२॥

राजन् एवम् अनुद्विग्नः पर्याप्तम् असि मे प्रियः।
तत् एताम् शृणु अखेदाय हृद्याम् आख्यामि ते कथाम्॥१२.१९.३॥

अङ्गदेशे यशःकेतुः इति राजा अभवत् पुरा।
क्ष्माम् आश्रितः अङ्गगुप्ति- अर्थम् अदग्धः अन्यः इव स्मरः॥१२.१९.४॥

बाहुवीर्यजिताशेषवैरिवर्गस्य तस्य च।
दीर्घदर्शी इति अभूत् मन्त्री शक्रस्य इव बृहस्पतिः॥१२.१९.५॥

तस्मिन् मन्त्रिणि विन्यस्य राज्यम् सः हतकण्टकम्।
शनैः सुखएकसक्तः अभूत् वयःरूपमदात् नृपः॥१२.१९.६॥

तस्थौ अन्तःपुरे शश्वत् न आस्थाने प्रमदा- आस्पदे।
शुश्राव रक्तिमत् गीतम् वचनम् न हितएषिणाम्॥१२.१९.७॥

रज्यति स्म च निःचिन्तः जालवातायनेषु सः।
न पुनः राजकार्येषु बहुछिद्रेषु जातु अपि॥१२.१९.८॥

दीर्घदर्शी तु तत् राज्यचिन्ताभारम् समुद्वहन्।
अतिष्ठत् सः महामन्त्री दिवानिशम् अतन्द्रितः॥१२.१९.९॥

नाममात्रे कृतधृतिम् प्रक्षिप्य व्यसने नृपम्।
मन्त्री राज्ञः श्रियम् भुण्क्ते दीर्घदर्शी इह साम्प्रतम्॥१२.१९.१०॥

इति उत्पन्ने महति अत्र जनवादे अथ गेहिनीम्।
स्वैरम् मेधाविनीम् नाम दीर्घदर्शी जगाद सः॥१२.१९.११॥

प्रिये राज्ञि सुख- आसक्ते तत्भारम् वहतः अपि मे।
राज्यम् भक्षितम् एतेन इति उत्पन्नम् अयशः जने॥१२.१९.१२॥

लोकवादः च मिथ्या अपि महताम् इह दोषकृत्।
तत्याज किम् न रामः अपि जनवादेन जानकीम्॥१२.१९.१३॥

तत् अत्र किम् मया कार्यम् इति उक्ते तेन मन्त्रिणा।
भार्या मेधाविनी धीरा सा अन्वर्था तम् अभाषत॥१२.१९.१४॥

तीर्थयात्रा- अपदेशेन युक्त्या आपृच्छ्य महीपतिम्।
कम्चित् कालम् विदेशम् ते गन्तुम् युक्तम् महामते॥१२.१९.१५॥

एवम् ते निःस्पृहस्य एष जनवादः निवर्त्स्यति।
त्वयि अस्थिते ततः राज्यम् उद्वक्ष्यति नृपः स्वयम्॥१२.१९.१६॥

ततः च अस्य शनैः एतत् व्यसनम् हानिमेष्यति।
आगतस्य अत्र निःगर्हा भवित्री मन्त्रिता च ते॥१२.१९.१७॥

इति उक्तः भार्यया गत्वा दीर्घदर्शी तथा इति सः।
कथाप्रसङ्गे तम् भूपम् यशःकेतुम् व्यजिज्ञपत्॥१२.१९.१८॥

अनुजानीहि माम् राजन् दिवसान् कान्चित् अपि अहम्।
व्रजामि तीर्थयात्रायै धर्मः हि प्रेप्सितः सः मे॥१२.१९.१९॥

तत् श्रुत्वा सः अब्रवीत् राजा मा एवम् तीर्थैः विना परः।
दान- आदिः किम् न धर्मः अस्ति स्वर्ग्यः ते स्वगृहेषु अपि॥१२.१९.२०॥

अथ अवोचत् सः मन्त्री तम् अर्थशुद्धि- आदि मृग्यते।
दान- आदौ नित्यशुद्धानि तीर्थानि नृपते पुनः॥१२.१९.२१॥

यावत् च यौवनम् राजन् तावत् गम्यानि धीमता।
अविश्वास्ये शरीरे हि संगमः तैः कुतः अन्यदा॥१२.१९.२२॥

इति तस्मिन् वदति एव राज्ञि च एवम् निषेधति।
प्रविश्य अत्र प्रतीहारः राजानम् तम् व्यजिज्ञपत्॥१२.१९.२३॥

देव व्योमसरःमध्यम् अंशुमाली विगाहते।
तत् उत्तिष्ठत सा एषा वः स्नानवेला अतिवर्तते॥१२.१९.२४॥

श्रुत्वा एतत् सहसा स्नातुम् उदतिष्ठत् महीपतिः।
यात्रा उन्मुखः सः मन्त्री च तम् प्रणम्य गृहम् ययौ॥१२.१९.२५॥

तत्र अवस्थाप्य भार्याम् ताम् अनुयात्रानिवारिताम्।
सः प्रतस्थे ततः युक्त्या स्वभृत्यैः अपि अतर्कितः॥१२.१९.२६॥

एकाकी च भ्रमन् तान् तान् देशान् तीर्थानि च व्रजन्।
सः प्राप पुण्ड्रविषयम् दीर्घदर्शी सुनिःचयः॥१२.१९.२७॥

तत्र पत्तने एकस्मिन् अदूरे अप्धेः प्रविश्य सः।
एकम् देवकुलम् शैवम् तत्प्राङ्गणे उपाविशत्॥१२.१९.२८॥

तत्र अर्ककरसंतापक्लान्तम् दूराध्वधूसरम्।
ददर्श निधिदत्त- आख्यः वणिक् देवार्चन- आगतः॥१२.१९.२९॥

सः तम् तथाविधम् दृष्ट्वा सौपवीतम् सुलक्षणम्।
संभाव्य च उत्तमम् विप्रम् आतिथेयः अनयत् गृहम्॥१२.१९.३०॥

तत्र च अपूजयत् स्नानभोजन- आद्यैः तम् उत्तमैः।
कः कुतः त्वम् क्व यासि इति विश्रान्तम् च सः पृष्टवान्॥१२.१९.३१॥

दीर्घदर्शी इति विप्रः अहम् अङ्गदेशात् इह आगतः।
तीर्थयात्रा- अर्थम् इति एव गाम्भीर्यात् सः अपि उवाच तम्॥१२.१९.३२॥

ततः सः निधिदत्तः अपि तम् जगाद महावणिक्।
सुवर्णद्वीपगमनाय उद्यतः अहम् वणिज्यया॥१२.१९.३३॥

तत् त्वम् तिष्ठ इह मत्गेहे यावत् एष्यामि अहम् ततः।
तीर्थयात्रापरिश्रान्तः विश्रान्तः हि अथ यास्यसि॥१२.१९.३४॥

तत् श्रुत्वा सः अब्रवीत् दीर्घदर्शी तर्हि मम इह किम्।
त्वया एव सह यास्यामि सार्थवाह यथासुखम्॥१२.१९.३५॥

एवम् अस्तु इति तेन उक्ते साधुना सः अथ तत्गृहे।
चिरात् अवाप्तशयनः निशाम् मन्त्री निनाय ताम्॥१२.१९.३६॥

अन्येद्युः अथ तेन एव वणिजा सह वारिधिम्।
गत्वा आरुरोह तत्भाण्डपूर्णम् प्रवहणम् च सः॥१२.१९.३७॥

तेन गच्छन् प्रवहणेन अप्धिम् अद्भुतभीषणम्।
विलोकयन् सः संप्राप स्वर्णद्वीपम् क्रमेण तत्॥१२.१९.३८॥

क्व मन्त्रिमुख्यता च अस्य क्व वा अध्वौल्लङ्घिताम्बुधिः।
अयशःभीरवः किम् न कुर्वते बत साधवः॥१२.१९.३९॥

तत्र द्वीपे समम् तेन कम्चित् कालम् उवास सः।
वणिजा निधिदत्तेन कुर्वता क्रयविक्रयौ॥१२.१९.४०॥

आगच्छन् च ततः अकस्मात् तत्युक्तः वहनस्थितः।
कल्पवृक्षम् ददर्श अप्धौ ऊर्मेः पश्चात् समुत्थितम्॥१२.१९.४१॥

प्रवालशाखासुभगैः स्कन्धैः जाम्बूनदौज्ज्वलैः।
फलैः मणिमयैः कान्तैः कुसुमैः च उपशोभितम्॥१२.१९.४२॥

तस्य स्कन्धे च सद्रत्नपर्यङ्कौत्सङ्गवर्तिनीम्।
कन्याम् अत्यद्भुत- आकारकमनीयाम् अवैक्षत॥१२.१९.४३॥

अहो किम् एतत् इति एवम् यावत् ध्यायति सः क्षणम्।
तावत् सा वीणिनी कन्या गातुम् एवम् प्रचक्रमे॥१२.१९.४४॥

यत् कर्मबीजम् उप्तम् येन पुरा निःचितम् सः तत् भुङ्क्ते।
पूर्वकृतस्य हि शक्यः विधिना अपि न कर्तुम् अन्यथाभावः॥१२.१९.४५॥

इति उद्गाय क्षणात् तस्मिन् अम्भःधौ दिव्यकन्यका।
सकल्पद्रुमपर्यङ्कशय्या अत्र एव ममज्ज सा॥१२.१९.४६॥

किमपि अपूर्वम् अद्य इदम् मया दृष्टम् इह अद्भुतम्।
क्व अप्धिः क्व दृष्टनष्टः अत्र गायत्दिव्याङ्गनः तरुः॥१२.१९.४७॥

यदि वा वन्द्यः एषः अप्धिः आकरः शश्वत् ईदृशाम्।
लक्ष्मी- इन्दुपारिजात- आद्याः न अस्मात् ते ते किम् उद्गताः॥१२.१९.४८॥

इति तम् चिन्तयन्तम् च तत्क्षणम् दीर्घदर्शिनम्।
विलोक्य विस्मय- आविष्टम् कर्णधार- आदयः अब्रुवन्॥१२.१९.४९॥

एवम् एषा सदा एव इह दृश्यते वरकन्यका।
निमज्जति च तत्कालम् तव एतत् दर्शनम् नवम्॥१२.१९.५०॥

इति उक्तः तैः समम् तेन निधिदत्तेन सः क्रमात्।
मन्त्री चित्रीयमाणः अप्धेः तीरम् पोतगतः अभ्यगात्॥१२.१९.५१॥

तत्र उत्तारितभाण्डेन तेन एव वणिजा सह।
जगाम हृष्टभृत्येन सौत्सवम् सः अथ तत्गृहम्॥१२.१९.५२॥

स्थित्वा न अतिचिरम् तत्र निधिदत्तम् उवाच तम्।
सार्थवाह भवत्गेहे विश्रान्तः अहम् चिरम् सुखम्॥१२.१९.५३॥

इदानीम् गन्तुम् इच्छामि स्वदेशम् भद्रम् अस्तु ते।
इति उक्त्वा तम् अनिच्छन्तम् अपि आमन्त्र्य वणिक्पतिम्॥१२.१९.५४॥

दीर्घदर्शी सः सत्त्वएकसहायः प्रस्थितः ततः।
क्रमौल्लङ्घितदूराध्वा प्राप अङ्गविषयम् निजम्॥१२.१९.५५॥

तत्र तम् ददृशुः चाराः बहिः नगरम् आगतम्।
ये यशःकेतुना राज्ञा प्राङ्न्यस्ताः तत्गवेषणे॥१२.१९.५६॥

तैः च गत्वा सः विज्ञप्तः चारैः राजा तम् अभ्यगात्।
स्वयम् निःगत्य नगरात् तत्विश्लेषसुदुःखितः॥१२.१९.५७॥

उपेत्य च परिष्वङ्गपूर्वम् तम् अभिनन्द्य सः।
निनाय अभ्यन्तरम् भूपः चिराध्वक्षामधूसरम्॥१२.१९.५८॥

त्यक्त्वा अस्मान् किम् त्वया नीतम् न परम् बत मानसम्।
यावत् शरीरम् अपि एतत् निःस्नेहपरुषाम् दशाम्॥१२.१९.५९॥

किम् वा भगवतः वेत्ति भवितव्यस्य कः गतिम्।
यद् अकस्मात् तव एषा अभूत् तीर्थ- आदिगमने मतिः॥१२.१९.६०॥

तत् ब्रूहि के त्वया भ्रान्ता देशाः दृष्टम् च किम् नवम्।
इति तत्र च तम् राजा सः जगाद स्वमन्त्रिणम्॥१२.१९.६१॥

ततः सुवर्णद्वीपान्तम् सः अध्वानम् वर्णयन् क्रमात्।
अप्धौ उद्गमिनीम् तस्मै ताम् दृष्टाम् दिव्यकन्यकाम्॥१२.१९.६२॥

गायन्तीम् त्रिजगत्सारभूताम् कल्पतरुस्थिताम्।
यथावत् कथयामास दीर्घदर्शी महीभृते॥१२.१९.६३॥

सः ताम् श्रुत्वा एव च नृपः तथा स्मरवशः अभवत्।
यथा तया विना मेने निष्फले राज्यजीविते॥१२.१९.६४॥

जगाद च तम् एकान्ते नीत्वा स्वसचिवम् तदा।
द्रष्टव्या असौ मया अवश्यम् जीवितम् न अस्ति मे अन्यथा॥१२.१९.६५॥

यामि त्वतुक्तेन पथा प्रणम्य भवितव्यताम्।
निवारणीयः न अहम् ते न अनुगम्यः च सर्व्था॥१२.१९.६६॥

गुप्तम् एकः हि यास्यामि राज्यम् रक्ष्यम् तु मे त्वया।
मत्वचः मा अन्यथा कार्षीः शापितः असि मम असुभिः॥१२.१९.६७॥

इति उक्त्वा तत्प्रतिवचः निरस्य विससर्ज तम्।
मन्त्रिणम् स्वगृहम् राजा चिरौत्कम् स्वजनम् प्रति॥१२.१९.६८॥

तत्र अनल्पौत्सवे अपि आसीत् दीर्घदर्शी सुदुःमनाः।
स्वामिनि असाध्यव्यसने सुखम् सत्मन्त्रिणाम् कुतः॥१२.१९.६९॥

अन्येद्युः च सः तथस्तन्यस्तराज्यभरः नृपः।
यशःकेतुः ततः प्रायात् निशि तापसवेषभृत्॥१२.१९.७०॥

गच्छन् च कुशनाभ- आख्यम् मुनिम् मार्गे ददर्श सः।
सः अत्र तम् तापस- आकल्पम् प्रणतम् मुनिः आदिशत्॥१२.१९.७१॥

लक्ष्मीदत्तेन वणिजा सह पोतेन वारिधौ।
गत्वा प्रप्स्यसि ताम् इष्टाम् कन्याम् व्रज निःआकुलः॥१२.१९.७२॥

इति तत्वचसा प्रीताः तम् प्रणम्य सः पार्थिवः।
गच्छन् देशान् नदीः अद्रीन् क्रान्त्वा तम् प्रापत् अम्बुधिम्॥१२.१९.७३॥

सुतारशङ्खधवलैः वीचिभ्रूभिः विकस्वरैः।
वीक्षमाणम् इव आवर्तनेत्रैः आतिथ्यसंभ्रमात्॥१२.१९.७४॥

तत्तीरे वणिजा तेन मुनिप्रोक्तेन संगतिः।
लक्ष्मीदत्तेन जज्ञे अस्य स्वर्णद्वीपम् यियासुना॥१२.१९.७५॥

तेन एव सह चक्राङ्कपादमुद्रा- आदि दर्शनात्।
प्रह्वेण आरुह्य वहनम् प्रतस्थे सः अम्बुधौ नृपः॥१२.१९.७६॥

मध्यम् अप्धेः च संप्राप्ते वहने वारिमध्यतः।
उदगात् कल्पविटपिस्कन्धस्था सा अत्र कन्यका॥१२.१९.७७॥

यावत् पश्यति ताम् राजा चकोरः इव चन्द्रिकाम्।
तावत् सा गायति स्म एवम् वल्लकीवाद्यसुन्दरम्॥१२.१९.७८॥

यत् कर्मबीजम् उप्तम् येन पुरा निःचितम् सः तत् भुङ्क्ते।
पूर्वकृतस्य हि शक्यः विधिना अपि न कर्तुम् अन्यथाभावः॥१२.१९.७९॥

तस्मात् यत्र यथा यद् भवितव्यम् यस्य दैवयोगेन।
तत्र तथा तत्प्राप्त्यै विवशः असौ नीयते अत्र न भ्रान्तिः॥१२.१९.८०॥

इति सूचितभव्यार्थाम् गायन्तीम् ताम् विभावयन्।
निःस्पन्दः सः क्षणम् तस्थौ राजा स्मरशर- आहतः॥१२.१९.८१॥

रत्न- आकर नमः सत्यम् अगाधहृदयाय ते।
येन त्वया एताम् प्रच्छाद्य विप्रलब्धः हरिः श्रिया॥१२.१९.८२॥

तत् सुरैः अपि अलभ्यान्तम् सपक्षक्ष्माभृताश्रयम्।
शरणम् त्वाम् प्रपन्नः अहम् इष्टसिद्धिम् विधत्स्व मे॥१२.१९.८३॥

एवम् यावत् समुद्रम् तम् सः नतः स्तौति भूमिपः।
तावत् सा कन्यका तत्र निममज्ज सपादपा॥१२.१९.८४॥

तत् दृष्ट्वा एव अनुमार्गे अस्याः सः राजा आत्मानम् अक्षिपत्।
वारिधौ अत्र कामाग्निसंतापस्य इव शान्तये॥१२.१९.८५॥

तत् वीक्ष्य अशङ्कितम् मत्वा विनष्टम् तम् सः सत्जनः।
लक्ष्मीदत्तः वणिक् दुःखात् देहत्यागौद्यतः अभवत्॥१२.१९.८६॥

मा कार्षीः साहसम् न अस्ति मग्नस्य अस्य अम्भुधौ भयम्।
एषः राजा यशःकेतुः नाम्ना तापसवेषभृत्॥१२.१९.८७॥

एतत् कन्या- अर्थम् आयातः पूर्वभार्या इयम् अस्य च।
एताम् प्राप्य पुनः च असौ अङ्गराज्यम् समेष्यति॥१२.१९.८८॥

इति अथ आश्वासितः वाचा तत्कालम् गगनौत्थया।
सार्थवाहः यथाकामम् सः जगाम इष्टसिद्धये॥१२.१९.८९॥

सः राजा अपि यशःकेतुः निमग्नः अन्तः महा- उदधौ।
अकस्मात् नगरम् दिव्यम् अपश्यत् जातविस्मयः॥१२.१९.९०॥

भास्वत्मणिमयस्तम्भैः काञ्चनौज्ज्वलभित्तिभिः।
विराजमानम् प्रासादैः मुक्ताजालगवाक्षकैः॥१२.१९.९१॥

नानारत्नशिलापट्टबद्धसोपानवापिकैः।
कामदैः कल्पवृक्ष- आढ्यैः उद्यानैः उपशोभितम्॥१२.१९.९२॥

समृद्धे अपि पुरे तत्र निःजने अथ गृहम् गृहम्।
अनुप्रविश्य न यदा ताम् ददर्श प्रियाम् क्वचित्॥१२.१९.९३॥

तदा विचिन्वन् दृष्ट्वा एकम् उत्तुङ्गम् मणिमन्दिरम्।
आरुह्य द्वारम् उद्घाट्य प्रविवेश सः भूपतिः॥१२.१९.९४॥

प्रविश्य च अन्तः सत्रत्नपर्यङ्कस्थितम् एककम्।
वस्त्र- आच्छादितसर्वाङ्गम् शयानम् कम्चित् ऐक्षत॥१२.१९.९५॥

किम् स्यात् सा एव इति सौत्कण्ठम् उद्घाटयति तत्मुखम्।
यावत् तावत् अपश्यत् ताम् स्व- ईप्सिताम् एव सः अङ्गनाम्॥१२.१९.९६॥

स्रस्तनीलांशुकध्वान्तहसत्मुखशशिश्रियम्।
ज्योत्स्ना- अवदाताम् पातालगताम् इव दिवा निशाम्॥१२.१९.९७॥

तत्दर्शनेन च अस्य अभूत् अवस्था का- अपि सा तदा।
ग्रीष्मऋतौ मरुपान्थस्य सरित्संदर्शनेन या॥१२.१९.९८॥

सा अपि उन्मीलितचक्षुः तम् कल्याण- आकृतिलक्षणम्।
वीक्ष्य अकस्मात् तथाप्राप्तम् संभ्रमात् शयनम् जहौ॥१२.१९.९९॥

कृत- आतिथ्या नतमुखी पूजयन्ती इव पादयोः।
फुल्ल- ईक्षणौत्पलन्यासैः शनैः एतम् उवाच च॥१२.१९.१००॥

कः भवान् किम् अगम्यम् च प्रविष्ठः असि रसातलम्।
राजचिह्नाङ्किततनोः किम् च ते तापसव्रतम्॥१२.१९.१०१॥

इति आदिश महाभाग प्रसादः यदि ते मयि।
एवम् तस्याः वचः श्रुत्वा सः राजा प्रत्युवाच ताम्॥१२.१९.१०२॥

अङ्गराजः यशःकेतुः इति नाम्ना अस्मि सुन्दरि।
आप्तात् अन्वहदृश्याम् च त्वाम् अश्रौषम् इह अम्बुधौ॥१२.१९.१०३॥

ततः त्वतर्थम् कृत्वा इमम् वेषम् राज्यम् विमुच्य च।
आगत्य एष प्रविष्टः अहम् अनुमार्गेण ते अम्बुधिम्॥१२.१९.१०४॥

तत् मे कथय का असि त्वम् इति उक्ते तेन च अथ सा।
सलज्जा सानुरागा च स- आनन्दा च एवम् अभ्यधात्॥१२.१९.१०५॥

मृगाङ्कसेनः इति अस्ति श्रीमान् विद्याधराधिपः।
माम् मृगाङ्कवतीम् नाम्ना विद्धि तस्य सुताम् इमाम्॥१२.१९.१०६॥

सः माम् अस्मिन् स्वनगरे विमुच्य एकाकिनीम् पिता।
न जाने हेतुना केन गतः क्व अपि सपौरकः॥१२.१९.१०७॥

तेन अहम् शून्यवसतेः निर्विण्णा उन्मज्ज्य वारिधेः।
यन्त्रकल्पद्रुम- आरूढा गायामि भवितव्यताम्॥१२.१९.१०८॥

एवम् उक्तवती तेन स्मरता तत् मुनेः वचः।
तथा अरज्यत सा राज्ञा वचोभिः प्रेमपेशलैः॥१२.१९.१०९॥

यथा अनुरागविवशा भार्यात्वम् तस्य तत्क्षणम्।
अङ्गीचकार वीरस्य समयम् तु एकम् अभ्यधात्॥१२.१९.११०॥

शुक्लकृष्णचतुर्दश्याम् अष्टम्याम् च आर्यपुत्र ते।
प्रतिमासम् अनायत्ता चतुरः दिवसान् अहम्॥१२.१९.१११॥

यत्र क्वापि दिनेषु एषु गच्छन्ती च अस्मि न त्वया।
प्रष्टव्या न निषेद्धव्या कारणम् हि अत्र विद्यते॥१२.१९.११२॥

एवम् ताम् उक्तसमयाम् सः राजा दिव्यकन्यकाम्।
तथा इति उक्त्वा एव गान्धर्वविधिना परिणीतवान्॥१२.१९.११३॥

भेजे ततः च संभोगसुखम् तत्र तया सह।
यथा अभूत् अन्यः एव अस्याः मान्मथः मण्डनक्रमः॥१२.१९.११४॥

केशेषु स्रस्तमाल्येषु कचग्रहनख- आवली।
बिम्बाधरे अथ निष्पीतनीरागे दशनक्षतिः॥१२.१९.११५॥

कुचयोः करजश्रेणिः भिन्नमाणिक्यमालयोः।
लुप्ताङ्गरागेषु अङ्गेषु गाढ- आलिङ्गनरागिता॥१२.१९.११६॥

इति तत्दिव्यसंभोगसुखावस्थितम् अत्र तम्।
सा मृगाङ्कवती भार्या भूपम् प्राह इदम् एकदा॥१२.१९.११७॥

त्वम् इह एव प्रतीक्षेथाः कार्यार्थम् क्वापि यामि अहम्।
अद्य सा एषा हि संप्राप्ता मम कृष्णचतुर्दशी॥१२.१९.११८॥

इह स्थः तु आर्यपुत्र अमुम् मा स्म गाः स्फाटिकम् गृहम्।
मा अत्र वाप्याम् निपतितः भूलोकम् त्वम् गमिष्यसि॥१२.१९.११९॥

इति उक्त्वा सा तम् आमन्त्र्य ययौ तस्मात् पुरात् बहिः।
राजा अपि प्राप्तखड्गः ताम् छन्नः जिज्ञासुः अन्वगात्॥१२.१९.१२०॥

तत्र अपश्यत् तमःश्यामम् व्यात्तवक्रबिलम् च सः।
स- आकारम् इव पातालम् आयान्तम् राक्षसम् नृपः॥१२.१९.१२१॥

सः राक्षसः निपत्य एव मुक्तघोररवः तदा।
ताम् मृगाङ्कवतीम् वक्त्रे निक्षिप्य एव निगीर्णवान्॥१२.१९.१२२॥

तत् दृष्ट्वा एव अतिकोपेन सहसा सः ज्वलन् इव।
निःमोकमुक्तभुजगश्यामलेन महा- असिना॥१२.१९.१२३॥

कोष- आकृष्टेन धावित्वा राजसिंहः अभिधावतः।
चिच्छेद रक्षसः तस्य संदष्टओष्ठपुटम् शिरः॥१२.१९.१२४॥

रक्षःकबन्धवान्तेन राज्ञः तस्य अस्रवारिणा।
क्रोधजः अथ शशाम अग्निः न तु कान्तावियोगजः॥१२.१९.१२५॥

ततः मोहनिशा- अन्धे अस्मिन् विनष्टगतिके नृपे।
अकस्मात् मेघमलिनस्य अङ्गम् भित्त्वा इव रक्षसः॥१२.१९.१२६॥

तस्य उद्द्योतितदिक्चक्रा चन्द्रमूर्तिः इव अमला।
सा मृगाङ्कवती जीवन्ती अक्षताङ्गी विनिर्ययौ॥१२.१९.१२७॥

ताम् तथा संकटौत्तीर्णाम् दृष्ट्वा कान्ताम् ससंभ्रमम्।
एहि एहि इति वदन् राजा प्रधाव्य एव आलिलिङ्ग सः॥१२.१९.१२८॥

प्रिये किम् एतत् स्वप्नः अयम् उत माया इति तेन सा।
पृष्टा नृपेण संस्मृत्य विद्याधरी एवम् अब्रवीत्॥१२.१९.१२९॥

शृणु आर्यपुत्र न स्वप्नः न माया इयम् अयम् पुनः।
विध्याधरैन्द्रात् स्वपितुः शापः अभूत् ईदृशः मम॥१२.१९.१३०॥

बहुपुत्रः अपि सः हि मे पिता पूर्वम् वसन् इह।
मया विना अतिवात्सल्यात् न आहरम् अकरोत् सदा॥१२.१९.१३१॥

अहम् च सर्वदा शर्वपूजा- आसक्ता इह निःजने।
चतुर्दश्योः अथ अष्टम्योः आगच्छम् पक्षयोः द्वयोः॥१२.१९.१३२॥

एकदा च चतुर्दश्याम् इह आगत्य रसात् मम।
चिरम् गौरीम् समर्चन्त्या दैवात् अवसितम् दिनम्॥१२.१९.१३३॥

तत् अहर्मत्प्रतीक्षः सन् क्षुधितः अपि सः मत्पिता।
न अभुङ्क्त न अपिबत् किम्चित् आसीत् क्रुद्धः तु माम् प्रति॥१२.१९.१३४॥

ततः रात्रौ उपेताम् माम् सापराधाम् अधःमुखीम्।
भवितव्यबलग्रस्तमत्स्नेहः शपति स्म सः॥१२.१९.१३५॥

यथा त्वतवलेपेन ग्रस्तः अद्य अहम् अयम् क्षुधा।
मासि मासि तथा अष्टम्योः चतुर्दश्योः च केवलम्॥१२.१९.१३६॥

हरार्चनरसात् यन्तीम् अत्र एव त्वाम् बहिः पुरे।
नाम्ना कृतान्तसंत्रासः राक्षसः निगरिष्यति॥१२.१९.१३७॥

भित्त्वा भित्त्वा अस्य हृदयम् जीवन्ती च निरेष्यसि।
न स्मरिष्यसि शापम् च न ताम् निगरणव्यथाम्॥१२.१९.१३८॥

स्थास्यसि एकाकिनी च अत्र इति उक्तशापवचाः शनैः।
सः अनुनीतः मया ध्यात्वा शापान्तम् मे अब्रवीत् पिता॥१२.१९.१३९॥

भर्ता भूत्वा यशःकेतुनाम अङ्गनृपतिः यदा।
राक्षसेन निगीर्णाम् त्वाम् दृष्ट्वा तम् निहनिष्यति॥१२.१९.१४०॥

तदा त्वम् मोक्ष्यसे शापात् हृदयात् तस्य निःगता।
संस्मरिष्यसि शाप- आदि विद्याः सर्वाः तथा निजाः॥१२.१९.१४१॥

इति आदिश्य सः शापान्तम् त्यक्त्वा माम् एककाम् इह।
निषधाद्रिम् गतः तातः भूलोकम् सपरिच्छदः॥१२.१९.१४२॥

अहम् तथा चरन्ती च शापमोहात् इह अवसम्।
क्षीणः च एष सः शापः मे जाता सर्वत्र च स्मृतिः॥१२.१९.१४३॥

तत् तातपार्श्वम् अधुना निषधाद्रिम् व्रजामि अहम्।
शापान्ते स्वाम् गतिम् याम इति एष समयः हि नः॥१२.१९.१४४॥

त्वम् इह आस्स्व स्वराष्ट्रम् वा व्रज स्वातन्त्र्यम् अत्र ते।
एवम् तया उक्ते सः नृपः दुःखितः अर्थयते स्म ताम्॥१२.१९.१४५॥

सप्ताहानि न गन्तव्यम् प्रसीद सुमुखि त्वया।
क्षिपाव तावत् औत्सुक्यम् उद्याने क्रीडनैः इह॥१२.१९.१४६॥

त्वम् गच्छ अथ पितुः स्थानम् यास्यामि अहम् अपि स्वकम्।
एतत् तत्वचनम् मुग्धा तथा इति अङ्गीचकार सा॥१२.१९.१४७॥

ततः अत्र रेमे सः तया सह उद्यानेषु कान्तया।
सजलौत्पलनेत्रासु वापीषु षडहम् नृपः॥१२.१९.१४८॥

मा स्म यातम् विहाय अस्मान् इति पूत् कुर्वतीषु इव।
उत्क्षिप्तवीचिहस्तासु हंससारसनिःस्वनैः॥१२.१९.१४९॥

सप्तमे अह्नि सः युक्त्या ताम् प्रियाम् तत्र आनयत् गृहे।
भूलोकप्रापिणी यत्र सा यन्त्रद्वारवापिका॥१२.१९.१५०॥

तत्र कण्ठे गृहीत्वा ताम् तस्याम् वाप्याम् निपत्य सः।
उत्तस्थौ स्वपुरौद्यानवापीमध्यात् तया सह॥१२.१९.१५१॥

तत्र कान्तासखम् प्राप्तम् तम् दृष्ट्वा उद्यानपालकाः।
हृष्टाः तत् मन्त्रिणे गत्वा जगदुः दीर्घदर्शिने॥१२.१९.१५२॥

सः अपि एत्य पादपतितः तम् आनीत- ईप्सिताङ्गनम्।
दृष्ट्वा प्रावेशयत् मन्त्री सपौरः अभ्यन्तरम् नृपम्॥१२.१९.१५३॥

अहो सा एषा कथम् प्राप्ता राज्ञा दिव्याङ्गना अमुना।
व्योम्नि इव विद्युत् इव या क्षणदृश्या मया ईक्षिता॥१२.१९.१५४॥

यत् यस्य लिखितम् धात्रा ललाटाक्षरपङ्क्तिषु।
तत् अवश्यम् असंभाव्यम् अपि तस्य उपतिष्ठते॥१२.१९.१५५॥

इति अत्र मन्त्रिमुख्ये अस्मिन् ध्यायति अन्यजने अपि च।
दिव्यस्त्रीप्राप्तिसाश्चर्यम् राजागमनसौत्सवे॥१२.१९.१५६॥

सा मृगाङ्कवती दृष्ट्वा तम् स्वदेशगतम् नृपम्।
इयेष पूर्णसप्ताहा यातुम् वैद्याधरीम् गतिम्॥१२.१९.१५७॥

न आविरासीत् च विद्या अस्याः स्मृता अपि उत्पतनी तदा।
ततः सा मुषिता इव अत्र विषादम् अगमत् परम्॥१२.१९.१५८॥

किम् अकस्मात् विषण्णा इव दृश्यसे वद मे प्रिये।
इति उक्ता तेन राज्ञा सा विध्यादरी एवम् अब्रवीत्॥१२.१९.१५९॥

स्थिता अहम् शापमुक्ता अपि त्वत्स्नेहात् यत् इयत् चिरम्।
तेन विद्या मम भ्रष्टा नष्टा दिव्या च सा गतिः॥१२.१९.१६०॥

तत् श्रुत्वा हन्त सिद्धा इयम् मम विद्याधरी इति सः।
राजा ततः यशःकेतुः पूर्णम् चक्रे महा- उत्सवम्॥१२.१९.१६१॥

तत् दृष्ट्वा दीर्घदर्शी सः मन्त्री गत्वा गृहम् निशि।
शयनीयगतः अकस्मात् हृत्स्फोटेन व्यपद्यत॥१२.१९.१६२॥

ततः अनुभूय तत्शोकम् धृतराज्यभरः स्वयम्।
यशःकेतुः चिरम् तस्थौ सः मृगाङ्कवतीयुतः॥१२.१९.१६३॥

इति एताम् कथयित्वा मार्गे तस्मै कथाम् सः वेतालः।
अवदत् पुनः त्रिविक्रमसेनम् नृपतिम् तम् अंसगतः॥१२.१९.१६४॥

तत् ब्रूहि भूपते ते संपन्ने स्वामिनः तथा अभ्युदये।
हृदयम् सपदि स्फुटितम् तस्य महामन्त्रिणः किम् इति॥१२.१९.१६५॥

दिव्यस्त्री न मया किम् प्राप्ता इति शुचा अस्फुटत् हृदयम्।
किम् वा राज्यम् अभीप्सोः राज- आगमजेन दुःखेन॥१२.१९.१६६॥

एतत् च यदि न वक्ष्यसि मह्यम् जानन् अपि इह तत् राजन्।
धर्मः च तव विनङ्क्ष्यति यास्यति दलशः च झटिति शिरः॥१२.१९.१६७॥

श्रुत्वा इति तु त्रिविक्रमसेनः राजा जगाद वेतालम्।
न एतत् तस्मिन् द्वयम् अपि शुभचरिते युज्यते हि मन्त्रिवरे॥१२.१९.१६८॥

किम् तु स्त्रीमात्ररसात् उपेक्षितम् येन भूभुजा राज्यम्।
तस्य अधुना तु दिव्यस्त्रीरक्तस्य अत्र का वार्ता॥१२.१९.१६९॥

तत् मे कष्टे अपि कृते प्रत्युत दोषः बत अधिकीभूतः।
इति तस्य विभावयतः हृदयम् तत्मन्त्रिणः स्फुटितम्॥१२.१९.१७०॥

इति उक्ते नरपतिना पुनः सः मायी वेतालः निजपदम् एव तत् जगाम।
राजा अपि प्रसभम् अवाप्तुम् अन्वधावत् भूयः अपि द्रुतम् अथ तम् सः धीरचेताः॥१२.१९.१७१॥

तुलनीय - भविष्यपुराणे वेतालपञ्चविंशतिः

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_12&oldid=76863" इत्यस्माद् पुनः प्राप्तिः