वेतालपञ्चविंशति 13

विकिस्रोतः तः
Jump to navigation Jump to search
← वेतालपञ्चविंशति 12 वेतालपञ्चविंशति 13
सोमदेव
वेतालपञ्चविंशति 14 →

अथ गत्वा पुनः प्राप्य शिंशपातः ततः नृपः।
सः त्रिविक्रमसेनः तम् स्कन्धे वेतालम् आददे॥१३.२०.१॥

आयान्तम् च सः वेतालः भूयः तम् नृपम् अब्रवीत्।
राजन् शृणु कथाम् एकाम् संक्षिप्ताम् वर्णयामि ते॥१३.२०.२॥

अस्ति वाराणसी नाम पुरी हरनिवासभूः।
देवस्वामी इति तत्र आसीन् मान्यः नरपतेः द्विजः॥१३.२०.३॥

महाधनस्य तस्य एकः हरिस्वामी इति अभूत् सुतः।
तस्य भार्या च लावण्यवती इति अत्युत्तमा अभवत्॥१३.२०.४॥

तिलोत्तमा- आदिनाकस्त्रीनिःमाणे प्राप्तकौशलः।
अनर्घरूपलावण्याम् मन्ये याम् निर्ममे विधिः॥१३.२०.५॥

तया सः कान्तया साकम् हरिस्वामी कदाचन।
रतिश्रान्तः ययौ निद्राम् हर्म्ये चन्द्रांशुशीतले॥१३.२०.६॥

तत् कालम् तेन मार्गेण कामचारी विहायसा।
आगात् मदनवेग- आख्यः विद्याधरकुमारकः॥१३.२०.७॥

सः तत्र लावण्यवतीम् पत्युः पार्श्वे ददर्श ताम्।
सुप्ताम् रतिक्लमस्रस्तवस्त्रव्यक्ताङ्गसौष्ठवाम्॥१३.२०.८॥

तत्रूपहृतचित्तः सन् मदनान्धः सः तत् क्षणम्।
सुप्ताम् एव निपत्य एताम् गृहीत्वा नभसा ययौ॥१३.२०.९॥

क्षणात् प्रबुद्धः अथ युवा हरिस्वामी सः तत्पतिः।
प्राण- ईश्वरीम् अपश्यन् ताम् उदतिष्ठत् ससंभ्रमः॥१३.२०.१०॥

अहो किम् एतत् क्व गता कुपिता सा नु किम् मयि।
छन्ना जिज्ञासितुम् किम् मे चित्तम् परिहसति उत॥१३.२०.११॥

इति अनेकविकल्पओघव्याकुलः ताम् इतः ततः।
हर्म्यप्रासादवलभीषु अन्विष्यन् सः अभ्रमत् निशि॥१३.२०.१२॥

अगृहौद्यानतः चिन्वन् यत् न प्राप कुतः अपि ताम्।
तत् सः शोकाग्निसंतप्तः विललाप अश्रुगद्गदम्॥१३.२०.१३॥

हा चन्द्रबिम्बवदने हा ज्योत्स्नागौरी हा प्रिये।
रात्र्या तुल्यगुणद्वेषात् किम् नु सोढा असि न अनया॥१३.२०.१४॥

त्वया कान्त्या जितः बिभ्यत् इव चन्दनशीतलैः।
करैः असुखयत् यः माम् सः अयम् इन्दुः त्वया विना॥१३.२०.१५॥

लब्धान्तरः इव इदानीम् तैः एव तुदति प्रिये।
प्रज्वलद्भिः इव अङ्गारैः विषदिग्धैः इव आशुगैः॥१३.२०.१६॥

इति आदि क्रन्दतः तस्य सा हरिस्वामिनः तदा।
कृच्छ्रात् व्यतीयाय निशा न पुनः विरहव्यथा॥१३.२०.१७॥

प्रातः बिभेद विश्वस्य करैः संतमसम् रविः।
भेत्तुम् न चक्षमे तस्य मोहान्धतमसम् पुनः॥१३.२०.१८॥

विलब्धः इव चक्र- आह्वैः तस्य तीर्णनिशैः तदा।
भेजे शतगुनीभावम् करुणाक्रन्दितध्वनिः॥१३.२०.१९॥

स्वजनैः सान्त्व्यमानः अपि वियोगानलदीपितः।
न च लेभे द्विजयुवा धृतिम् ताम् प्रेयसीम् विना॥१३.२०.२०॥

इह स्थितम् इह स्नातम् कृतम् अत्र प्रसाधनम्।
विहृतम् च तया अत्र इति ययौ तु इतः इतः रुदन्॥१३.२०.२१॥

मृता तावत् न सा तत् किम् आत्मा एवम् हन्यते त्वया।
अवश्यम् ताम् अवाप्तासि जीवन् जातु कुतःचन॥१३.२०.२२॥

तत् धैर्यम् अवलम्बस्व ताम् गवेषय च प्रियाम्।
अप्राप्यम् नाम न इह अस्ति धीरस्य व्यवसायिनः॥१३.२०.२३॥

इति बन्धुसुहृत्वाक्यैः बोधितः सः अथ कृच्छ्रतः।
दिनैः कैःचित् हरिस्वामी बबन्ध धृतिम् आस्थया॥१३.२०.२४॥

अचिन्तयत् च सर्वस्वम् कृत्वा ब्राह्मणसात् अहम्।
भ्रमामि तावत् तीर्थानि क्षपयामि अघसंचयम्॥१३.२०.२५॥

पापक्षयात् हि ताम् जातु प्रियाम् भ्राम्यन् अवाप्नुयाम्।
इति आलोच्य यथा- अवस्थम् स्नान- आदि उत्थाय सः अकरोत्॥१३.२०.२६॥

अन्येद्युः च विचित्रान्नपानम् सत्त्रे द्विजन्मनाम्।
चकार अवारितम् किम् च ददौ धनम् अशेषतः॥१३.२०.२७॥

ब्राह्मण्यमात्रवित्तस्य निःगत्य एव स्वदेशतः।
प्रियाप्राप्तीच्छया सः अथ तीर्थानि भ्रमितुम् ययौ॥१३.२०.२८॥

भ्राम्यतः च जगाम अस्य भीमः ग्रीष्मऋतुकेसरी।
प्रचण्ड- आदित्यवदनः दीप्ततत्रश्मिकेसरः॥१३.२०.२९॥

प्रियाविरहसंतप्तपान्थनिःश्वासमारुतैः।
न्यस्तौष्माणः इव अत्युष्णाः वान्ति स्म च समीरणाः॥१३.२०.३०॥

शुष्यत्विदीर्णपङ्काः च हृदयैः स्फुटितैः इव।
जल- आशया ददृशिरे घर्मलुप्ताम्बुसंपदः॥१३.२०.३१॥

चीरीचीत्कारमुखराः तापम्लानदलाधराः।
मधुश्रीविरहात् मार्गेषु अरुदन् इव पादपाः॥१३.२०.३२॥

तस्मिन् काले अर्कतापेन वियोगेन क्षुधा तृषा।
नित्याध्वना च सः क्लान्तः विरूक्षक्षामधूसरः॥१३.२०.३३॥

भोजनार्थि हरिस्वामी प्राप ग्रामम् क्वचित् भ्रमन्।
पद्मनाभाभिधानस्य गृहम् विप्रस्य सत्त्रिणः॥१३.२०.३४॥

तत्र दृष्ट्वा सः भुञ्जानान् विप्रान् अभ्यन्तरे बहून्।
द्वारशाखाम् समालम्ब्य तस्थौ निःशब्दनिःचलः॥१३.२०.३५॥

तथास्थितम् तम् आलोक्य सत्त्रिणः तस्य गेहिनी।
पद्मनाभस्य संजातदया साध्वी व्यचिन्तयत्॥१३.२०.३६॥

अहो क्षुत् नाम गुर्वी एषा न कुर्यात् कस्य लाघवम्।
यत् एवम् अयम् अन्नार्थी कः अपि आस्ते द्वारि अधःमुखः॥१३.२०.३७॥

दूराध्वाभ्यागतः स्नातः तावत् क्षीणैन्द्रियः क्षुधा।
तत् एषः च अन्नदानस्य पात्रम् इति अवधार्य सा॥१३.२०.३८॥

परमान्नभृतम् साध्वी तस्मै सघृतशर्करम्।
पात्रम् उत्क्षिप्य पाणिभ्याम् आनीय प्रश्रिता ददौ॥१३.२०.३९॥


जगाद च एतम् भुङ्क्ष्व एतत् गत्वा वापीतटे क्वचित्।
इदम् स्थानम् समुच्छिष्टम् भुञ्जानैः ब्राह्मनैः वृतम्॥१३.२०.४०॥

तथा इति सः अन्नपात्रम् तत् गृहीत्वा न अतिदूरतः।
गत्वा स्थापितवान् वाप्याः तटे वटतरोः अधः॥१३.२०.४१॥

प्रक्षाल्य पाणिपादम् च वाप्याम् आचम्य च अत्र सः।
यावत् भक्षयितुम् तुष्टः परमान्नम् उपैति तत्॥१३.२०.४२॥

तावत् गृहीत्वा कृष्णाहिम् चञ्च्वा पादयुगेन च।
श्येनः कुतःचित् आगत्य तरौ तस्मिन् उपाविशत्॥१३.२०.४३॥

तेन तस्य उह्यमानस्य सर्पस्य आक्रम्य पक्षिणा।
उत्क्रान्तजीवितस्य अस्यात् विषलाला विनिर्ययौ॥१३.२०.४४॥

सा तत्र अधःस्थिते तस्मिन् अन्नपात्रे अपतत् तदा।
तत् च अदृष्ट्वा हरिस्वामी सः एत्य अन्नम् अभुङ्क्त तत्॥१३.२०.४५॥

क्षुधा- अर्तस्य तदा तस्य मृष्टान्नम् तत् क्षणेन तत्।
कृत्स्नम् भुक्तवतः तीव्रा प्रोदभूत् विषवेदना॥१३.२०.४६॥

अहो विधौ विपर्यस्ते न विपर्यस्यति इह किम्।
यत् विषीभूतम् अन्नम् मे सक्षीरघृटशर्करम्॥१३.२०.४७॥

इति जल्पन् विषार्तः सः हरिस्वामी परिस्खलन्।
गत्वा ताम् सत्त्रिणः तस्य विप्रस्य उवाच गेहिनीम्॥१३.२०.४८॥

त्वत्दत्तात् विषम् अन्नात् मे जातम् तत् विषमन्त्रिणम्।
कम्चित् मम आनय क्षिप्रम् ब्रह्महत्या अन्यथा अस्ति ते॥१३.२०.४९॥

इति उक्त्वा एव सः ताम् साध्वीम् किम् एतत् इति विह्वलाम्।
हरिस्वामी परावृत्तनेत्रः प्राणैः व्ययुज्यत॥१३.२०.५०॥

ततः सा तेन निःदोषा अपि आतिथेयी अपि सत्त्रिणा।
भार्या निष्कासिता गेहात् मिथ्या- आतिथिवधक्रुधा॥१३.२०.५१॥

सा अपि उत्पन्नमृषावद्या सुशुभात् अपि कर्मणः।
जातावमाना तपसे साध्वी तीर्थम् अशिशृइयत्॥१३.२०.५२॥

कस्य विप्रवधः सः अस्तु सर्पश्येनान्नदेशु इति।
तत् अभूत् धर्मराजाग्रे वादः न आसीत् तु निःणयः॥१३.२०.५३॥

तत् त्रिविक्रमसेन त्वम् रजन् ब्रूहि मम अधुना।
कस्य सा ब्रह्महत्या इति पूर्वः शापः सः ते अन्यथा॥१३.२०.५४॥

इति वेतालतः राजा श्रुत्वा शापनियन्त्रितः।
सः त्रिविक्रमसेनः तम् मुक्तमौनः अब्रवीत् इदम्॥१३.२०.५५॥

तस्य तत् पातकम् तावत् सर्पस्य यदि वा अस्य कः।
विवशस्य अपराधः अस्ति भक्ष्यमाणस्य शत्रुणा॥१३.२०.५६॥

अथ स्येनस्य तेन अपि किम् दुष्टम् क्षुधित- आत्मना।
अकस्मात् प्राप्तम् आनीय भक्ष्यम् भक्षयता निजम्॥१३.२०.५७॥

दंपत्योः अन्नदात्रोः वा तयोः एकस्य वा कुतः।
अभाव्यदोषौ धर्मएकप्रवृत्तौ तौ उभौ यतः॥१३.२०.५८॥

तत् अहम् तस्य मन्ये सा ब्रह्महत्या जड- आत्मनः।
अविचार्य एव यः ब्रूयात् एषाम् एकतमस्य ताम्॥१३.२०.५९॥

इति उक्तवतः अस्य नृपस्य अंसात् भूयः अपि अगात् सः वेतालः।
निजपदम् एव नृपः अपि सः पुनः अपि धीरः तम् अन्वगात् एव॥१३.२०.६०॥

तुलनीय- भविष्यपुराणम् ३.२.१२

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_13&oldid=76868" इत्यस्माद् पुनः प्राप्तिः