वेतालपञ्चविंशति 21

विकिस्रोतः तः
Jump to navigation Jump to search
← वेतालपञ्चविंशति 20 वेतालपञ्चविंशति 21
सोमदेव
वेतालपञ्चविंशति 22 →

अथ गत्वा पुनः प्राप्य शिंशपातः ततः अग्रहीत्।
सः त्रिविक्रमसेनः अंसे वेतालम् तम् नराधिपः॥२१.२८.१॥

आगच्छन्तम् च तम् भूयः सः वेतालः अब्रवीत् नृपम्।
राजन् उद्गाढकन्दर्पाम् शृणु एकाम् वच्मि ते कथाम्॥२१.२८.२॥

अस्ति शक्रपुरी इव अन्या धात्रा सुकृतिनाम् कृते।
दिवः च्युतानाम् विहिता विशालाख्या पुरी भूवि॥२१.२८.३॥

तस्याम् बभूव नृपतिः पद्मनाभः इति श्रुतः।
सच्चक्रनन्दकः श्रीमान् आक्रान्तबलिराजकः॥२१.२८.४॥

तस्मिन् पृथ्वीपतौ तस्याम् नगर्याम् सुमहावणिक्।
अर्थदत्ताभिधानः अभूत् धनैः विजितवित्तपः॥२१.२८.५॥

तस्यैका च सुता अनङ्गमञ्जरीति उदपद्यत।
स्वःसुन्दरीप्रतिकृतिः भुवि धात्रेव दर्शिता॥२१.२८.६॥

दत्ता च तेन वणिजा वणिक्वरसुताय सा।
मणिवर्माभिधानाय ताम्रलिप्तीनिवासिने॥२१.२८.७॥

एकापत्यतया च अतिवत्सलः सः न ताम् वणिक्।
भर्तृयुक्ताम् सुताम् गेहात् तत्याज अनङ्गमञ्जरीम्॥२१.२८.८॥

तस्याः च अनङ्गमञ्जर्याः पतिः द्वेष्यः बभूव सः।
मणिवर्मा सरोगस्य कटुतिक्तम् इव औषधम्॥२१.२८.९॥

पत्युः तु सा अस्य सुमुखी जीवितात् अपि अभूत् प्रिया।
धनऋद्धिः कृपणस्य इव कृच्छ्रात् सुचिरसंचिता॥२१.२८.१०॥

एकदा च अन्तिकम् पित्रोः ताम्रलिप्तीम् निजम् गृहम्।
उत्कण्ठ- आदिनिमित्तेन मणिवर्मा जगाम सः॥२१.२८.११॥

ततः दिनेषु यातेषु तीक्ष्णसूर्यांशुसायकैः।
प्रोषितानाम् निरुद्धाध्वा घर्मकालः इह अभ्यगात्॥२१.२८.१२॥

वसन्तविरहात् उष्णाः निःश्वासाः ककुभाम् इव।
मल्लिकापाटला- आमोदमेदुराः मरुतः ववुः॥२१.२८.१३॥

उत्पेतुः पवनौद्धूताः गगने रेणुराजयः।
दूत्यः घन- आगमाय इव प्रहिताः तप्तया भुवा॥२१.२८.१४॥

आकाङ्क्षिततरुछायाः कठोर- आतपतापिताः।
पथिकाः इव यान्ति स्म चिरेण दिवसाः अपि॥२१.२८.१५॥

चन्द्रांशुपाण्डुरुचयः गाढ- आश्लेषसुखप्रदम्।
विना हेमन्तम् अगमन् अतिदुर्बलताम् निशाः॥२१.२८.१६॥

तत्कालम् चन्दन- आलेपधवला सा वणिक्सुता।
संवीततनुकौशेयशोभिता अनङ्गमञ्जरी॥२१.२८.१७॥

ददर्श स्वगृहौत्तुङ्गवातायनगता एकदा।
आप्तसख्या युता भव्यम् युवानम् विप्रपुत्रकम्॥२१.२८.१८॥

संचरन्तम् रतिप्राप्त्यै नवौत्पन्नम् इव स्मरम्।
कमलाकरनामानम् पुत्रम् राजपुरःधसः॥२१.२८.१९॥

सः अपि इन्दोः इव मूर्तिम् ताम् कान्ताम् दृष्ट्वा उपरि स्थिताम्।
कुमुद- आकरताम् भेजे स- आनन्दः कमलाकरः॥२१.२८.२०॥

तयोः अभूत् अमूल्यम् तत् मनःसंवननम् तदा।
स्मरगुरु- आज्ञया यूनोः अन्यःअन्यस्य अवलोकनम्॥२१.२८.२१॥

उन्मूलितह्रियौ तौ च दूरविक्षिप्तचेतसा।
रजःअभिभूतौ जह्राते मन्मथ- आवेगवात्यया॥२१.२८.२२॥

दृष्ट्वा च मदन- आविष्टः सख्या सः कमलाकरः।
सहस्थितेन नीतः अभूत् कथम्चित् भवनम् निजम्॥२१.२८.२३॥

सा अपि तम् नामतः अन्विष्य विवशा अनङ्गमञ्जरी।
तया स्वया समम् सख्या प्राविशत् वासकम् शनैः॥२१.२८.२४॥

तत्र संचिन्तयन्ती च कान्तम् कामज्वर- आतुरा।
न अपश्यत् न अशृणोत् किम्चित् लुठन्ती शयनीयके॥२१.२८.२५॥

गतेषु अहःसु द्वित्रेषु सत्रपा सभया च सा।
असहा विरहौन्मादम् विसोढुम् कृशपाण्डुरा॥२१.२८.२६॥

दुःप्रापप्रियसंयोगनिःआस्था नक्तम् एकदा।
गवाक्षप्रेरितकरेण आकृष्टा इव हिमांशुना॥२१.२८.२७॥

सुप्ते परिजने स्वैरम् निर्गत्य मरणौन्मुखी।
जगाम स्वगृहौद्यानवापीम् तरुलतावृताम्॥२१.२८.२८॥

तत्र पित्रा कृतौदारप्रतिष्ठाम् कुलदेवताम्।
उपेत्य चण्डिकाम् देवीम् नत्वा स्तुत्वा व्यजिज्ञपत्॥२१.२८.२९॥

अस्मिन् जन्मनि चेत् भर्ता न मया कमलाकरः।
प्राप्तः तत् देवि भूयात् मे सः अन्यस्मिन् अपि जन्मनि॥२१.२८.३०॥

इति उक्त्वा पुरतः तस्याः देव्याः सा अशोकपादपे।
पाशम् विरचयामास स्वौत्तरीयेण रागिणी॥२१.२८.३१॥

तावत् आप्ता सखी तस्याः सा प्रबुध्य अत्र वासके।
ताम् अदृष्ट्वा तत् उद्यानम् दैवात् आगात् विचिन्वती॥२१.२८.३२॥

तत्र दृष्ट्वा च ताम् पाशम् अर्पयन्तीम् तथा गले।
मा मा इति उक्त्वा प्रधाव्य एव पाशम् तस्याह् तम् अच्छिनत्॥२१.२८.३३॥

सा अपि ताम् वीक्ष्य संप्राप्ताम् कृत्तपाशाम् निजाम् सखीम्।
अनङ्गमञ्जरी भूमौ पपात अधिकदुःखिता॥२१.२८.३४॥

आश्वासिता स्वसख्या च तया पृष्टा च सा क्षणात्।
दुःखहेतुम् समाख्याय पुनः एनाम् अभाषत॥२१.२८.३५॥

सखि मालतिके तत् मे दुःलभे प्रियसंगमे।
गुरु- आदिपरतन्त्रायाः न सुखम् मरणात् परम्॥२१.२८.३६॥

इति ब्रुवाणा एव अनङ्गशराग्निज्वलिता भृशम्।
सा अनङ्गमञ्जरी मोहम् ययौ नैराश्यनिःसहा॥२१.२८.३७॥

कष्टम् स्मर- आज्ञा दुःलङ्घ्या यया नीता दशाम् इमाम्।
अन्याविनीतवनिताहासिनी इयम् सखी मम॥२१.२८.३८॥

इत्यादिविलपन्ती च ताम् सा मालतिका सखी।
शनैः आश्वासयामास शीताम्बुपवन- आदिभिः॥२१.२८.३९॥

तापौपशान्तये च अस्याः चकार नलिनीदलैः।
शय्याम् ददौ च हृदये हारम् तुहिनशीतलम्॥२१.२८.४०॥

ततः साश्रुः उवाच एताम् सखीम् सा अनङ्गमञ्जरी।
सखि हार- आदिभिः न अयम् दाहः अन्तः मम शाम्यति॥२१.२८.४१॥

येन प्रशाम्यति पुनः स्वबुद्ध्या एव विधत्स्व तत्।
माम् संयोजय कान्तेन जीवितम् मे यदि इच्छसि॥२१.२८.४२॥

एवम् उक्तवतीम् ताम् सा स्नेहात् मालतिका अब्रवीत्।
सखि भूयिष्टयाता अद्य रात्रिः प्रातः अहम् पुनः॥२१.२८.४३॥

इह एव कृतसंकेतम् आनेष्यामि प्रियम् तव।
तत् आलम्ब्य धृतिम् तावत् निजम् प्रविश मन्दिरम्॥२१.२८.४४॥

इतिउक्तवत्यै संतुष्य तस्यै सा अनङ्गमञ्जरी।
हारम् स्वकण्ठात् आकृष्य प्रददौ पारितोषिकम्॥२१.२८.४५॥

गच्छ अधुना एव स्वगृहम् प्रातः सिद्ध्यै ततः व्रज।
इति च एताम् सखीम् प्रेष्य सा विवेश स्ववासकम्॥२१.२८.४६॥

प्रातः च सा मालतिका केनापि अनुपलक्षिता।
तत्सखी तस्य कमलाकरस्य भवनम् ययौ॥२१.२८.४७॥

चिन्वती तत्र च उद्याने तरुमूले ददर्श तम्।
चन्दन- आर्द्राम्बुरुहिणीपत्त्रशय्याविवर्तिनम्॥२१.२८.४८॥

रहस्यधारिणा एकेन कदलीदलमारुतैः।
आश्वास्यमानम् सुहृदा दह्यमानम् स्मराग्निना॥२१.२८.४९॥

तस्याः विना इयम् अस्य स्यात् कामावस्था- ईदृशी इति सा।
विचिन्त्य तस्थौ प्रच्छन्ना ज्ञातुम् तत्र विनिश्चयम्॥२१.२८.५०॥

तावत् च सुहृदा तेन सः ऊचे कमलाकरः।
क्षणम् एकम् इह उद्याने दत्त्वा दृष्टिम् मनःरमे॥२१.२८.५१॥

विनोदय मनः मित्र मा अत्र विक्लवताम् अगाः।
तत् श्रुत्वा तम् स्वसुहृदम् विप्रपुत्रः जगाद सः॥२१.२८.५२॥

यत् मम अनङ्गमञ्जर्या वणिक्पुत्र्या तया हृतम्।
विनोदयामि तत् इदम् कुतः शून्य- आशयः मनः॥२१.२८.५३॥

स्मरेण शून्यहृदयः बाणतूणीकृतः हि अहम्।
तत् प्राप्स्यामि मनःचौरीम् ताम् यथा कुरु मे तथा॥२१.२८.५४॥

इति उक्ते विप्रपुत्रेण तेन आत्मानम् प्रदर्श्य सा।
हृष्टा मालतिका अभ्येत्य तम् उवाच अस्तसंशया॥२१.२८.५५॥

तव अस्मि अनङ्गमञ्जर्या सुभग प्रहिता अन्तिकम्।
संदेशम् च अहम् एव एषा विस्पष्टार्थम् ब्रवीमि ते॥२१.२८.५६॥

एषः कः शिष्टधर्मः यत् प्रविश्य हृदयम् हठात्।
मनः मुषित्वा मुग्धायाः गम्यते स्थगित- आत्मना॥२१.२८.५७॥

चित्रम् च यत् वामदृशा तुभ्यम् एव तया अधुना।
मनःहराय देहः अपि दातुम् प्राणैः सह ईष्यते॥२१.२८.५८॥

निःश्वासान् सा हि संतप्तान् विमुञ्चति दिवानिशम्।
ज्वलतः हृदि कन्दर्पवह्नेः धूमौद्गमान् इव॥२१.२८.५९॥

संपतन्ति मुहुः च अस्याः साञ्जनाः बाष्पबिन्दवः।
वदनाम्भःजसौगन्ध्यलुब्धाः मधुकराः इव॥२१.२८.६०॥

तत् यदि इच्छसि तत् वच्मि शिवम् वाम् उभयोः अहम्।
इति उक्तः मालतिकया सः अब्रवीत् कमलाकरः॥२१.२८.६१॥

भद्रे भयम् करोति एषा वाक् तव आश्वासयति अपि।
वदन्ती विधुरावस्थाम् बद्धभावाम् च मे प्रियाम्॥२१.२८.६२॥

तत् एका गतिः अत्र त्वम् यथा वेत्सि तथा कुरु।
इतिउक्तवाक्ये कमलाकरे मालतिका अब्रवीत्॥२१.२८.६३॥

अनङ्गमञ्जरीम् अद्य गुप्तम् ताम् प्रापयामि अहम्।
नक्तम् स्वभवनौद्यानम् त्वम् तिष्ठेः तत्र बाह्यतः॥२१.२८.६४॥

ततः प्रवेशयिष्यामि त्वाम् अत्र अन्तः स्वयुक्तितः।
एवम् यथा- इष्टः युवयोः भविष्यति समागमः॥२१.२८.६५॥

इति उक्त्वा आनन्द्य तम् विप्रपुत्रम् मालतिका ततः।
गत्वा कृतार्था सा अनङ्गमञ्जरीम् अपि अनन्दयत्॥२१.२८.६६॥

अथ अह्ना सह याते अर्के क्वापि संध्या- अनुरागिणि।
ऐन्द्र्या दिशा इन्दुतिलकेन आनने सुप्रसाधिते॥२१.२८.६७॥

त्यक्तपद्म- आकरा प्राप्ता श्रीः मया इति इव हर्षतः।
हसति उफुल्लवदने विशदे कुमुद- आकरे॥२१.२८.६८॥

कृतप्रसाधनः सौत्कः स्वैरम् सः कमलाकरः।
कामी कान्तागृहौद्यानद्वारबाह्यम् उपागमत्॥२१.२८.६९॥

तावत् च सा मालतिका ताम् युक्त्या अनङ्गमञ्जरीम्।
आनिनाय तत् उद्यानम् कृच्छ्रात् गमितवासराम्॥२१.२८.७०॥

उपवेश्य च ताम् मध्ये गुल्मके चूतशाखिनाम्।
प्रावेशयत् तम् निर्गत्य तत्र एव कमलाकरम्॥२१.२८.७१॥

सः च प्रविश्य पत्त्रओघघनपादपमध्यगाम्।
ताम् अध्वगः इव छायाम् ददर्श अनङ्गमञ्जरीम्॥२१.२८.७२॥

उपैति यावत् च सः ताम् तावत् दृष्ट्वा प्रधाव्य सा।
कामवेगहृतव्रीडा कण्ठे तम् सहसा अग्रहीत्॥२१.२८.७३॥

क्व यासि लब्धः असि मम इति आलपन्ती च तत् क्षणम्।
सा अतिहर्षभरस्तब्धनिःश्वासा पञ्चताम् अगात्॥२१.२८.७४॥

पपात च महीपृष्ठे वातरुग्णा लता इव सा।
विचित्रः बत कामस्य विपाकविषमः क्रमः॥२१.२८.७५॥

तत् दृष्ट्वा अशनिपातौग्रम् सद्यः सः कमलाकरः।
हा हा किम् एतत् इति उक्त्वा मूर्च्छितः न्यपतत् भुवि॥२१.२८.७६॥

लब्धसंज्ञः क्षणेन अथ ताम् अङ्क- आरोपिताम् प्रियाम्।
आलिङ्गन् परिचुम्बन् च तत् तत् च विलपन् बहु॥२१.२८.७७॥

तथा दुखातिभारेण सः प्रसह्य निपीडितः।
यथा तस्य टसत्कृत्य क्षणात् हृदयम् अस्फुटत्॥२१.२८.७८॥

अथ तौ मालतिकया शोच्यमानौ उभौ अपि ।
दृष्ट्वा प्राप्तक्षयौ शोकात् इव क्षीणा अभवत् क्षपा॥२१.२८.७९॥

प्रातः उद्यानपालेभ्यः ज्ञात्वा बन्धुजनः तयोः।
तत्र आययौ त्रपा- आश्चर्यदुःखमोह- आकुलीकृतः॥२१.२८.८०॥

आसीत् कर्तव्यतामूढः चिरम् खेदात् अवाक्मुखः।
कष्टाः कुलखलीकारहेतवः बत कुस्त्रियः॥२१.२८.८१॥

तावत् च ताम्रलिप्तीतः सः तस्याः पतिः आगमत्।
सौत्कण्ठः अनङ्गमञ्जर्याः मणिवर्मा पितुः गृहात्॥२१.२८.८२॥

सः श्वाशुरम् गृहम् प्राप्य यथातत्त्वम् अवेत्य तत्।
बाष्पान्धलोचनः ध्यायन् तत् एव उद्यानम् आययौ॥२१.२८.८३॥

तत्र भार्याम् गतासुम् ताम् दृष्ट्वा अन्यसहिताम् अपि।
शोकाग्निज्वलितः रागी सद्यः सः अपि जहौ असून्॥२१.२८.८४॥

ततः क्रन्दति तत्रस्थे जने कोलाहल- आकुलाः।
आययुः ज्ञातवृत्तान्ताः पौराः सर्वे अत्र विस्मिताः॥२१.२८.८५॥

अथ अत्र अनङ्गमञ्जर्याः पित्रा पूर्वावतारीता।
देवी संनिहिता चण्डी विज्ञप्ता अभूत् निजैः गणैः॥२१.२८.८६॥

त्वताकारप्रतिष्ठाकृत् अर्थदत्तः सदा एषः ते।
भक्तः वणिक् तत् अस्य अस्मिन् दुःखे देवि दयाम् कुरु॥२१.२८.८७॥

एतत् गणेभ्यः श्रुत्वा सा शरण्या शङ्करप्रिया।
शान्तानङ्गाः त्रयः अपि एते जीवन्तु इति समादिशत्॥२१.२८.८८॥

अथ सर्वे अपि ते सुप्तप्रतिबुद्धाः इव क्षणात्।
तत्प्रसादात् समुत्तस्थुः जीवन्तः वीतमन्मथाः॥२१.२८.८९॥

ततः दृष्ट्वा तत् आश्चर्यम् स- आनन्दे सकले जने।
लज्जानतमुखः प्रायात् स्वगृहम् कमलाकरः॥२१.२८.९०॥

अर्थदत्तः अपि ताम् ह्रीताम् आदाय अनङ्गमञ्जरीम्।
सुताम् स्वभर्तृसहिताम् ययौ बद्धौत्सवः गृहान्॥२१.२८.९१॥

इति कथयित्वा तस्याम् रात्रौ मार्गे कथाम् सः वेतालः।
निजगाद तम् त्रिविक्रमसेनम् क्षोणीपतिम् भूयः॥२१.२८.९२॥

राजन् कस्य वद एतेषु अधिकः मोहः अनुरागमूढेषु।
सः अत्र च पूर्वौक्तः ते शापः जानन् न चेत् वदसि॥२१.२८.९३॥

इति एतत् वेतालात् श्रुत्वा सः प्रत्युवाच तम् नृपतिः।
एतेषु रागमूढः प्रतिभाति मम अधिकः सः मणिवर्मा॥२१.२८.९४॥

इतरौ हि तौ उभौ अपि कालक्रमपक्वमन्मथावस्थौ।
अन्यःअन्यसानुरागौ यदि जीवितम् उज्झतः स्म तत् भवतु॥२१.२८.९५॥

मणिवर्मा तु अतिमूढः यः भार्याम् अन्यपुरुषसक्तमृताम्।
दृष्ट्वा एव कोपकाले प्रत्युत रक्तः शुचा अमुचत् प्राणान्॥२१.२८.९६॥

इति गदित वतः सः तस्य राज्ञः बत वेतालपतिः पुनः जगाम।
निजम् एव पदम् तत् अंसपीठात् अथ राजा अपि तम् अन्वगात् सः भूयः॥२१.२८.९७॥

तुलनीय - भविष्यपुराणम् ३.२.२०

कथायाः संभावित विवेचनम्

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_21&oldid=75153" इत्यस्माद् पुनः प्राप्तिः