वेतालपञ्चविंशति 07

विकिस्रोतः तः
Jump to navigation Jump to search
← वेतालपञ्चविंशति 06 वेतालपञ्चविंशति 07
सोमदेव
वेतालपञ्चविंशति 08 →

ततः गत्वा पुनः प्राप्य वेतालम् शिंशपातरोः।
सः त्रिविक्रमसेनः तम् स्कन्धे जग्राह भूपतिः॥७.१४.१॥

गृहीत्वा प्रस्थितम् तम् च वेतालः सः अब्रवीत् पथि।
राजन् श्रमविनोदार्थम् कथाम् आख्यामि ते शृणु॥७.१४.२॥

अस्ति इह ताम्रलिप्ती इति पुरी पूर्वाम्बुधेः तटे।
चण्डसेनाभिधानः च राजा तस्याम् अभूत् पुरि॥७.१४.३॥

पराङ्मुखः परस्त्रीषु यः न सङ्ग्रामभूमिषु।
हर्ता च शत्रुलक्ष्मीणाम् न परद्रव्यसंपदाम्॥७.१४.४॥

तस्य एकदा दाक्षिणात्यः राजपुत्रः जनप्रियः।
आययौ सत्त्वशील- आख्यः सिंहद्वारे अत्र भूपतेः॥७.१४.५॥

तत्र च आत्मानम् आवेद्य नैर्धन्य- आत्तम् नृपम् प्रति।
कपटम् पाटयामास राजपुत्रैः सहापरैः॥७.१४.६॥

ततः कार्पटिकः भूत्वा बहूनि अब्दानि तत्र सः।
तस्थौ कुर्वन् सदा सेवान् न एव प्राप फलम् नृपात्॥७.१४.७॥

यदि राजान्वये जन्म निःधनत्वम् किम् ईदृशम्।
निःधनत्वे अपि किम् धात्रा कृता इयम् मे महा- इच्छता॥७.१४.८॥

अयम् हि सेवमानम् माम् एवम् क्लिष्टपरिच्छदम्।
चिरम् क्षुधा- अवसीदन्तम् राजा न अद्य अपि वीक्षते॥७.१४.९॥

इति यावत् च सः ध्यायति अत्र कार्पटिकः ततः।
तावत् आखेटकार्थम् सः निरगात् एकदा नृपः॥७.१४.१०॥

तस्मिन् कार्पटिके धावति अग्रे लगुडवाहिनि।
जगाम च अश्वपादातयुतः सः अथ मृगाटवीम्॥७.१४.११॥

कृत- आखेटः च तत्र आरात् महान्तम् मत्तसूकरम्।
अनुधावन् क्षणात् प्रापत् अतिदूरम् वनान्तरम्॥७.१४.१२॥

तत्र पर्णतृणछन्नमार्गे हारितसूकरः।
श्रान्तः महावने सः अथ राजा दिक्मोहम् आययौ॥७.१४.१३॥

एकः कार्पटिकः च अथ सः तम् वाताश्वपृष्ठगम्।
प्रानानपेक्षः अनुययौ पदातिः क्षुत्तृषा- अर्दितः॥७.१४.१४॥

तम् च दृष्ट्वा तथाभूतम् अन्वायातम् सः भूपतिः।
सस्नेहम् अवदत् कच्चिद् वेत्सि मार्गम् यथा- आगतम्॥७.१४.१५॥

तदा आकर्ण्य अञ्जलिम् बद्ध्वा सः तम् कार्पटिकः अभ्यधात्।
वेद्मि किम् च क्षणम् तावत् इह विश्राम्यतु प्रभुः॥७.१४.१६॥

द्युवधूमेखलामध्यमणिः एषः हि संप्रति।
देदीप्यते स्फुरत्रश्मिशिखाजालः अब्जिनीपतिः॥७.१४.१७॥

एतत् श्रुत्वा सः राजा तम् सौपरोधम् अभाषत।
तर्हि क्व अपि इह पानीयम् भवता प्रेक्ष्यताम् इति॥७.१४.१८॥

तथा इति आरुह्य सः ततः तुङ्गम् कार्पटिकः तरुम्।
नदीम् दृष्ट्वा अवरुह्य अथ नृपम् तत्र निनाय तम्॥७.१४.१९॥

तत् वाहम् च विपर्यानीकृतम् कृतविवर्तनम्।
दत्ताम्बुशष्पकवलम् विदधे विगतश्रमम्॥७.१४.२०॥

कृतस्नानाय राज्ञे च प्रोन्मुच्य वसनाञ्चलात्।
प्रक्षाल्य उपानयत् तस्मै हृद्यानि आमलकानि सः॥७.१४.२१॥

एतानि कुतः इति एतम् पृच्छन्तम् सः च भूपतिम्।
एवम् व्यजिज्ञपत् जानुस्थितः स- आमलकाञ्जलिः॥७.१४.२२॥

एतत्वृत्तिः अहम् नित्यम् व्यतीतदशवत्सरः।
चरामि आराधयन् देवम् अनेकान्तमुनिव्रतम्॥७.१४.२३॥

तत् श्रुत्वा सत्यनामा त्वम् सत्त्वशीलः किम् उच्यते।
इति उक्त्वा सः कृपा- आक्रान्तः ह्रीतः च अचिन्तयत् नृपः॥७.१४.२४॥

धिक् नृपान् क्लिष्टम् अक्लिष्टम् ये भृत्येष न जानते।
धिक् च तम् परिवारम् यः न ज्ञापयति तान् तथा॥७.१४.२५॥

इति संचिन्त्य जग्राह सः राजा आमलकद्वयम्।
हस्तात् कार्पटिकस्य अथ कथम्चित् अनुबध्नतः॥७.१४.२६॥

भुक्त्वा च तत् निपीय अम्बु विशश्राम अत्र सः क्षणम्।
जग्ध- आमलकसंपीतजलकार्पटिकान्वितः॥७.१४.२७॥

ततः सज्जीकृतम् तेन वाहम् कार्पटिकेन सः।
आरुह्य अग्रेसरे तस्मिन् एव मार्गप्रदर्शिनि॥७.१४.२८॥

पश्चात्भागम् अनारूढे हयस्य अभ्यर्थिते अपि अलम्।
ययौ सः राजा स्वपूरिम् पथि प्राप्त- आत्मसैनिकः॥७.१४.२९॥

तत्र प्रख्याप्य तत्भक्तिम् वसुभिः विषयैः च तम्।
अपूरयत् कार्पटिकम् न च अमन्यत निष्कृतिम्॥७.१४.३०॥

ततः कृतार्थः पार्श्वे अस्य चण्डसिंहस्य भूपतेः।
मुक्तकार्पटिक- आचारः सत्त्वशीलः सः तस्थिवान्॥७.१४.३१॥

एकदा तेन राज्ञा च सः सिंहलपतेः सुताम्।
याचितुम् सिंहलद्वीपम् आत्मार्थम् प्रेषितः अभवत्॥७.१४.३२॥

तत्र अप्धिवर्त्मना गच्छन् अर्चिताभीष्टदेवतः।
आरुरोह प्रवहणम् राज- आदिष्टैः सह द्विजैः॥७.१४.३३॥

गते तस्मिन् प्रवहणे मध्यभागम् अशङ्कितम्।
उत्तस्थौ जलधेः तस्मात् ध्वजः जनितविस्मयः॥७.१४.३४॥

अभ्रम्लिहाग्रः सुमहान् जाम्बूनदविनिर्मितः।
विचित्रवर्णविचलत्वैजयन्तीविराजितः॥७.१४.३५॥

तत्कालम् च अत्र सहसा समुन्नम्य घन- आवली।
भृशम् वर्षितुम् आरेभे ववौ तीव्रः च मारुतः॥७.१४.३६॥

तैः वर्षवातैः सः बलात् आकृष्य आधोरनैः इव।
आसज्यत ध्वजस्तम्भे तस्मिन् प्रवहणद्विपः॥७.१४.३७॥

तावत् च सः ध्वजः तस्मिन् वारिधौ वीचिविप्लुते।
वहनेन समम् तेन प्रावर्तत निमज्जितुम्॥७.१४.३८॥

ततः द्विजाः ते तत्रस्थाः चण्डसिंहम् स्वभूपतिम्।
उद्दिश्य उद्घोषयामासुः अभ्रह्मण्यम् भय- आकुलाः॥७.१४.३९॥

तत् आकर्ण्य असहिष्णुः च स्वामिभक्तेः अनुध्वजम्।
सः सत्त्वशीलः निःत्रिंशहस्तः बद्धौत्तरीयकः॥७.१४.४०॥

आत्मानम् अक्षिपत् तत्र निःअपेक्षः महा- उदधौ।
उदधेः कारण- आशङ्की वीरः प्रतिविधित्सया॥७.१४.४१॥

मग्ने च तस्मिन् वात- ऊर्मिदूरौत्क्षिप्तम् अभज्यत।
वहनम् तत् च तत्स्ताः च निपेतुः यादसाम् मुखे॥७.१४.४२॥

सः च मग्नः अम्बुधौ तत्र सत्त्वशीलः निरीक्षते।
यावत् तावत् ददर्श अत्र पुरीम् दिव्याम् न वारिधिम्॥७.१४.४३॥

तस्मिन् मणिमयस्थम्भैः भास्वरे हेममन्दिरे।
सत्रत्नबद्धसोपानवापीकौद्यानशोभिनि॥७.१४.४४॥

नानामणिशिलाभित्तिरत्नचित्रौच्छ्रितध्वजम्।
कात्यायनीदेवगृहम् मेरुप्रोन्नतम् ऐक्षत॥७.१४.४५॥

तत्र प्रणम्य देवीम् ताम् स्तुत्या अभ्यर्च्य ततग्रतः।
इन्द्रजालम् किम् एतत् स्यात् इति आश्चर्याद् उपाविशत्॥७.१४.४६॥

तावत् च देवि- अग्रगतप्रभामण्डलकान्तरात्।
अकस्मात् निरगात् कन्या दिव्या उद्घाट्य कवाटकम्॥७.१४.४७॥

इन्दी वराक्षी फुल्लाप्जवदना कुसुमस्मिता।
मृणालनालमृदुअङ्गी जङ्गमा इव सरोजिनी॥७.१४.४८॥

स्त्रीसहस्रपरीवारा देवीगर्भगृहम् च सा।
विवेश सत्त्वशीलस्य हृदयम् च ततः समम्॥७.१४.४९॥

निरगात् कृतपूजा च देवीगर्भगृहात् ततः।
न पुनः सत्त्वशीलस्य हृदयात् सा कथम् चन॥७.१४.५०॥

प्राविशत् सा च तत्र एव प्रभामण्डलकान्तरे।
सत्त्वशीलः अपि असौ तस्याः पश्चात् तत्र प्रविष्टवान्॥७.१४.५१॥

प्रविश्य च ददर्श अन्तः अन्यत् एव उत्तमम् पुरम्।
संकेतौद्यानम् इव यत् सर्वासाम् भोगसंपदाम्॥७.१४.५२॥

तत्र अन्तःमणिपर्यङ्कनिषण्णाम् ताम् विलोक्य सः।
कन्याम् उपेत्य तत्पार्श्वे सत्त्वशीलः उपाविशत्॥७.१४.५३॥

आसीत् च तत्मुख- आसक्तलोचनः लिखितः यथा।
अङ्गैः सौत्कम्पपुलकैः वदन् आलिङ्गनौत्कताम्॥७.१४.५४॥

दृष्ट्वा च तम् स्मर- आविष्टम् चेटीनाम् अत्र सा मुखम्।
अद्राक्षीत् ताः च तत्कालम् इङ्गितज्ञाः तम् अब्रुवन्॥७.१४.५५॥

अतिथिः त्वम् इह प्राप्तः तत् अस्मत्स्वामिनीकृतम्।
भजस्व आतिथ्यम् उत्तिष्ठ स्नाहि भुङ्क्स्व ततः परम्॥७.१४.५६॥

तत् श्रुत्वा सः अवलम्ब्य आशाम् खतम् अपि उत्थितः ततः।
ययौ प्रदर्शिताम् ताभिः एकाम् उद्यानवापिकाम्॥७.१४.५७॥

तस्याम् निमग्नः च उत्तस्थौ ताम्रलिप्त्याम् सः तत्क्षणात्।
चण्डसिंहनृपौद्यानवापीमध्यात् ससंभ्रमः॥७.१४.५८॥

तत्र प्राप्तम् अकस्मात् च विक्ष्य आत्मानम् अचिन्तयत्।
अहो किम् एतत् क्व उद्यानम् इदम् दिव्यम् क्व तत् पुरम्॥७.१४.५९॥

तत्र अमृत- आसारसमम् क्व तत् तस्याः च दर्शनम्।
क्व च अनन्तरम् एव इदम् तत्विश्लेषमहाविषम्॥७.१४.६०॥

स्वप्नः च न अयम् सुस्पष्टः विनिद्रः अनुभवः हि मे।
ध्रुवम् पातालकन्याभिः ताभिः मूढः अस्मि वञ्चितः॥७.१४.६१॥

इति ध्यायन् विना ताम् सः कन्याम् उन्मादवान् इव।
उद्याने तत्र बभ्राम काम- आर्तः विललाप च॥७.१४.६२॥

ततवस्थम् च तम् दृष्ट्वा पिशङ्गैः पुष्परेणुभिः।
वातौद्धूतैः परीताङ्गम् विप्रयोगानलैः इव॥७.१४.६३॥

उद्यानपालाः गत्वा एव चण्डसिंहमहीभृतम्।
व्यजिज्ञपन् सः च उद्भ्रान्तः स्वयम् एत्य ददर्श तम्॥७.१४.६४॥

सान्त्वयित्वा च पप्रच्छ किम् इदम् ब्रूहि नः सखे।
क्व प्रस्थितः त्वम् क्व प्राप्तः क्व अस्तः क्व पतितः शरः॥७.१४.६५॥

तत् श्रुत्वा सः स्ववृत्तान्तम् तस्मै सर्व शशंस तम्।
सत्त्वशीलः नृपतये सः अपि अथ एवम् अचिन्तयत्॥७.१४.६६॥

हन्त वीरः अपि मत्पुण्यैः कामेन एषः विडम्बितः।
आनृण्यम् गन्तुम् एतस्य लब्धः हि अवसरः मया॥७.१४.६७॥

इति अन्तः चिन्तयित्वा सः वीरः राजा जगाद तम्।
तह्रि मुञ्च मुधा शोकम् अहम् त्वाम् प्रापयामि ताम्॥७.१४.६८॥

नीत्वा तेन एव मार्गेण प्रियाम् असुरकन्यकाम्।
इति च अश्वासयामास तम् सः स्नान- आदिना नृपः॥७.१४.६९॥

अन्येद्युः मन्त्रिविन्यस्तराज्यः तेन समम् च सः।
प्रायात् प्रवहण- आरूढः तत्दर्शितपथः अम्बुधिम्॥७.१४.७०॥

प्राप्य तत्मध्यभागम् च दृष्ट्वा तम् प्राग्वत् उत्थितम्।
सपताकम् ध्वजम् सत्त्वशीलः तम् नृपम् अभ्यधात्॥७.१४.७१॥

सः अयम् अभ्युत्थितः दिव्यप्रभावः अत्र महाध्वजः।
मयि मग्ने अत्र मङ्क्तव्यम् देवेन एतम् अनु ध्वजम्॥७.१४.७२॥

इति उक्त्वा निकटम् प्राप्य ध्वजस्य अस्य निमज्जतः।
मार्गे सः सत्त्वशीलः असौ पूर्वम् आत्मानम् अक्षिपत्॥७.१४.७३॥

ततः राजा अपि चिक्षेप तत्र आत्मानम् तथा एव सः।
अन्तः मग्नौ च तौ क्षिप्रम् तत् दिव्यम् प्रापतुः पुरम्॥७.१४.७४॥

तत्र दृष्ट्वा सः स- आश्चर्यः राजा देवीम् प्रणम्य ताम्।
पार्वतीम् सत्त्वशीलेन सहितः समुपाविशत्॥७.१४.७५॥

तावत् च निरगात् तत्र सा सखीजनसंगता।
रूपिनी इव प्रभा कन्या प्रभामण्डलकात् ततः॥७.१४.७६॥

इयम् सा सुमुखी इति उक्ते सत्त्वशीलेन ताम् नृपः।
दृष्ट्वा युक्तम् अभिष्वङ्गम् तस्य तस्याम् अमन्यत॥७.१४.७७॥

सा अपि तम् वीक्ष्य राजानम् शुभशारीरलक्षणम्।
पुरुषातिशयः अपूर्वः कः अयम् स्यात् इति अचिन्तयत्॥७.१४.७८॥

विवेश च अम्बिकाधाम पूजायै सा नृपः अपि सः।
जगाम उद्यानम् आदाय सत्त्वशीलम् अवज्ञया॥७.१४.७९॥

क्षणात् च कृतपूजा सा निरगात् दैत्यकन्यका।
याचित्वा सत्पतिप्राप्तिम् देव्याः गर्भगृहान्तरात्॥७.१४.८०॥

निर्गत्य सा जगाद एकाम् सखीम् सखि गवेष्यताम्।
यः असौ इह मया दृष्टः महा- आत्मा क्व सः तिष्ठति॥७.१४.८१॥

आतिथ्यम् गृह्यताम् एत्य प्रसादः क्रियताम् त्वया।
इति च एषः अर्थ्यताम् पूज्यः पुमान् कः अपि उत्तमः हि असौ॥७.१४.८२॥

एवम् सखी तया उक्ता सा विचित्य उद्यानवर्तिने।
स्वस्वामिनीनिदेशम् तम् प्रह्वा तस्मै न्यवेदयत्॥७.१४.८३॥

तत् श्रुत्वा सः नृपः वीरः सावहेलम् उवाच ताम्।
एषैव आतिथ्यम् अस्माकम् अन्यत् किम् उपयुज्यते॥७.१४.८४॥

एतत् श्रुत्वा तया गत्वा सख्या सा श्राविता तदा।
मेने मान्यम् उदारम् तम् सर्वथा दैत्यकन्यका॥७.१४.८५॥

ततः च आकृष्यमाना इव धैर्यपाशेन तेन सा।
नृपेण मानुषायोग्ये अपि आतिथ्ये निःस्पृहा- आत्मना॥७.१४.८६॥

पति- अर्थम् पार्वतीसेवापरिपाकसमर्पितम्।
मत्वा तत् स्वयम् उद्यानम् विवेश असुरपुत्रिका॥७.१४.८७॥

विचित्रशकुन- आलापैः वाताञ्चितलताभुजैः।
विकीर्णकुसुमैः आरात् नन्द्यमाना इव पादपैः॥७.१४.८८॥

उपगम्य च सा तत्र यथावत् प्रश्रय- आनता।
आतिथ्यग्रहणार्थम् तम् प्रार्थयामास पार्थिवम्॥७.१४.८९॥

ततः सः सत्त्वशीलम् तम् उद्दिश्य उवाच ताम् नृपः।
अनेन कथिताम् देवीम् इह अहम् द्रष्टुम् आगतः॥७.१४.९०॥

गौरीम् ध्वजपथप्राप्यपरमाद्भुतकेतनाम्।
सा दृष्टा तदनु त्वम् च का अन्या आतिथ्यार्थिता अत्र नः॥७.१४.९१॥

तत् श्रुत्वा सा अब्रवीत् कन्या कौतुकात् तर्हि वीक्षितुम्।
आगम्यताम् द्वितीयम् मे पुरम् त्रिजगतद्भुताम्॥७.१४.९२॥

एवम् उक्तवतीम् ताम् च सः विहस्य नृपः अब्रवीत्।
तत् अपि अनेन एव उक्तम् मे यत्र सा स्नानवापिका॥७.१४.९३॥

ततः सा कन्यका अवादीत् देव मा स्म एवम् आदिश।
न विडम्बनशीला अहम् का वा पूज्ये विडम्बना॥७.१४.९४॥

अहम् हि सत्त्वौत्कर्षेण युष्माकम् किम्करीकृता।
तन्मम प्रार्थनाभङ्गम् न एव एवम् कर्तुम् अर्हथ॥७.१४.९५॥

एतत् श्रुत्वा तथा इति उक्त्वा सत्त्वशीलसखः सः तत्।
प्रभामण्डलकौपान्तम् ययौ राजा तया सह॥७.१४.९६॥

अपावृतकवाटे च तस्मिन् अन्तः तथा एव सः।
प्रवेशितः ददर्श अस्याः तत् दिव्यम् अपरम् पुरम्॥७.१४.९७॥

नित्य संनद्धसर्वऋतु सदापुष्पफलद्रुमम्।
मेरुपृष्ठम् इव अशेषम् निर्मितम् रत्नकाञ्चनैः॥७.१४.९८॥

रत्न- आसने महा- अर्हे तम् राजानम् उपवेश्य सा।
यथा- उचित उपनीतार्घ्या दैत्यराजसुता अब्रवीत्॥७.१४.९९॥

कन्या अहम् असुरैन्द्रस्य कालनेमेः महा- आत्मनः।
चक्रायुधेन च सः मे स्वःगतिम् प्रापितः पिता॥७.१४.१००॥

विश्वकर्मकृतम् च इदम् पैतृकम् मे पुरद्वयम्।
न जरा अत्र न मृत्युः च बाधते सर्वकामदे॥७.१४.१०१॥

इदानीम् च पिता त्वम् मे सपुरा अहम् वशे तव।
इति अर्पित- आत्मसर्वस्वाम् ताम् उवाच सः भूपतिः॥७.१४.१०२॥

यदि एवम् तत् सुते हि अस्मै मया दत्ता असि अनिन्दिते।
सत्त्वशीलाय वीराय सुहृदे बान्धवाय च॥७.१४.१०३॥

एवम् देवीप्रसादेन मूर्तेन इव नृपेण सा।
उक्ता गुणज्ञा विनता तत् तथा इति अन्वमन्यत॥७.१४.१०४॥

ततः कृतार्थम् तम् तस्याः कृतपाणिग्रहम् नृपः।
दत्तासुरपुराइश्वर्यम् सत्त्वशीलम् उवाच सः॥७.१४.१०५॥

बुक्तयोः आमलकयोः तयोः एकम् मया तव।
संशोधितम् असंशुद्धाद् ऋणी ते अहम् द्वितीयतः॥७.१४.१०६॥

इति प्रणतम् उक्त्वा तम् दैत्यपुत्रीम् जगाद ताम्।
मार्गः मे दर्श्यताम् येन स्वपुरीम् प्राप्नुयाम् इति॥७.१४.१०७॥

ततः अपराजितम् नाम खड्गम् भक्ष्यम् फलम् च सा।
एकम् जरामृत्युहरम् तस्मै दैत्यसुता ददौ॥७.१४.१०८॥

ताभ्याम् युक्तः तया उक्तायाम् वाप्यम् मग्नः स्वदेशतः।
उत्थाय सर्वसंसिद्धकामः अभूत् सः क्रमात् नृपः॥७.१४.१०९॥

सत्त्वशीलः अपि दैत्यस्त्रीपुरराज्यम् शशास सः।
तत् ब्रूहि कः अप्धिपतने द्वयोः सत्त्वाधिकः अनयोः॥७.१४.११०॥

इति श्रुत्वा तथा प्रश्नम् वेतालात् शपभीतितः।
सः त्रिविक्रमसेनः तम् भूपतिः प्रत्यभाषत॥७.१४.१११॥

एतयोः सत्त्वशीलः अत्र सः मे सत्त्वाधिकः मतः।
सः हि अविज्ञाततत्त्वार्थः निरास्थः पतितः अम्बुधौ॥७.१४.११२॥

राजा तु तत्त्वम् विज्ञाय विवेश अम्भःधिम् आस्थया।
दैत्यकन्याम् च न अवञ्छत् असाध्या स्पृहया इति सः॥७.१४.११३॥

इति तस्य आकर्ण्य वचः निरस्तमौनस्य भूपतेः स्कन्धात्।
सः जगाम पूर्ववत् तम् वेतालः शिंशपातरुम् स्वपदम्॥७.१४.११४॥

राजा अपि तथा एव सः तम् पुनः अपि आनेतुम् अनुजगाम जवात्।
प्रारब्धे हि असमाप्ते कार्ये शिथिलीभवन्ति किम् सुधियः॥७.१४.११५॥

तुलनीय - भविष्यपुराणम् ३.२.८

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_07&oldid=76758" इत्यस्माद् पुनः प्राप्तिः