वेतालपञ्चविंशति 20
← वेतालपञ्चविंशति 19 | वेतालपञ्चविंशति 20 सोमदेव |
वेतालपञ्चविंशति 21 → |
ततः गत्वा गृहीत्वा अंसे वेतालम् शिंशपातरोः।
सः त्रिविक्रमसेनः तम् उच्चचाल पुनः नृपः॥२०.२७.१॥
मौनेन प्रस्थितम् तं च वेतालः अंसात् उवाच सः।
राजन् कः ते अनुबन्धः अयम् गच्छ रात्रिसुखं भज॥२०.२७.२॥
न युक्तम् तव नेतुम् माम् कुभिक्षोः तस्य गोचरम्।
ग्रहः वा तत्र चेत् अस्तु कथाम् एकाम् इमाम् शृणु॥२०.२७.३॥
अस्ति स्वरेखा- अनुत्क्रान्तवर्णभेदव्यवस्थिति।
नगरम् चित्रकूटाख्यम् बिभ्राणम् सत्यनामताम्॥२०.२७.४॥
तत्रामृतरसासारवर्षी प्रणयिचक्षुषाम्।
चन्द्रावलोकः इति आसीत् राजा राजशिखामणिः॥२०.२७.५॥
आलानम् शौर्यकरिणः त्यागस्य उत्पत्तिकेतनम्।
विलासवेश्म रूपस्य शशंसुः यं विचक्षणाः॥२०.२७.६॥
सतीषु सर्वसंपत्सु यन्न प्राप निजौचिताम्।
भार्याम् सा एका परम् चिन्ता यूनः तस्य अभवत् हृदि॥२०.२७.७॥
एकदा च तदुद्वेगविनोदाय महा- अटवीम्।
जगाम अश्वीयसहितः मृगयायै सः भूपतिः॥२०.२७.८॥
तत्र सूकरवृन्दानि भिन्दन् बाणैः निरन्तरैः।
श्यामलाम्बररोचिष्णुः तमांसि इव रविः करैः॥२०.२७.९॥
शाययन् शरशय्यासु सिंहान् समरदुःमदान्।
मूर्धजैः धवलैः भीष्मान् अर्जुनाधिकविक्रमः॥२०.२७.१०॥
विपक्षीकृत्य शरभान् पातयन् पर्वतौपमान्।
दम्भोलिकर्कशप्रासपातैः जम्भारिविक्रमः॥२०.२७.११॥
रसात् विविक्षुः सः नृपः वनाभ्यन्तरम् एककः।
तीव्रपार्ष्णिप्रहारेण प्रेरयामास वाजिनम्॥२०.२७.१२॥
सः वाजी तेन च कशाघातेन उत्तेजितः भृशम्।
पार्ष्णिघातेन विषमम् समम् च अगणयन् क्षणात्॥२०.२७.१३॥
वनान्तरम् ततः अनैषीत् वाताधिकजवः नृपम्।
मोहितैन्द्रियवृत्तिम् तम् व्यतीत्य दशयोजनीम्॥२०.२७.१४॥
तत्र तस्मिन् स्थिते वाहे राजा दिङ्मोहम् एत्य सः।
भ्रमन् श्रान्तः ददर्श एकम् आरात् सुविपुलम् सरः॥२०.२७.१५॥
मारुतेन आभिमुख्येन नमितौन्नमितैः मुहुः।
इत एहि इति हस्ताभैः संज्ञाम् कुर्वदिवाम्बुजैः॥२०.२७.१६॥
तत्र गत्वा च तुरगम् विपर्याणौपवर्तितम्।
स्नातपीतम् तरुच्छायाबद्धम् दत्ततृणौत्करम्॥२०.२७.१७॥
कृत्वा स्वयम् कृतस्नानः पीताम्बुः गलितश्रमः।
रम्येषु तत्प्रदेशेषु ददौ दृष्टिम् इतः ततः॥२०.२७.१८॥
एकत्र च अशोकतरोः अधस्तात् मुनिकन्यकाम्।
आमुक्तपुष्प- आभरणाम् वल्कलांशुकशोभिनीम्॥२०.२७.१९॥
मुग्धबद्धजटाजूटसविशेषमनःरमाम्।
सखीद्वितीयाम् आश्चर्यरूपाम् राजा ददर्श सः॥२०.२७.२०॥
अचिन्तयत् च पुष्पेषोः पतितः शरगोचरे।
का इयम् स्यात् सरसि स्नातुम् सावित्री किम् स्विद् आगता॥२०.२७.२१॥
किम् हरस्य अङ्कविभ्रष्टा गौरी भूयः श्रिता तपः।
अहनि अस्तंगतस्य इन्दोः कान्तिः किम् वा धृतव्रता॥२०.२७.२२॥
तत् एताम् उपसृत्य इह शनैः उपलभे वरम्।
इति आलोच्य ययौ तस्याः कन्यायाः सः अन्तिकम् नृपः॥२०.२७.२३॥
सा अपि दृष्ट्वा तम् आयान्तम् तद्रूपाकुलितेक्षणा।
पूर्वप्रारब्धपुष्पस्रक्सन्नहस्ता व्यचिन्तयत्॥२०.२७.२४॥
कः अयम् ईदृक् अरण्ये अस्मिन् सिद्धः विद्याधरः नु किम्।
बत अस्य रूपम् विश्वस्य कृतार्थीकरणम् दृशोः॥२०.२७.२५॥
एवम् वितर्क्य पश्यन्ती तिर्यक् तम् त्रपया ततः।
उत्थाय सोरुस्तम्भा अपि गन्तुम् प्रावर्तत एव सा॥२०.२७.२६॥
अथ उपेत्य सः राजा ताम् एवम् नागरिकः अब्रवीत्।
आस्ताम् प्रथमदृष्टस्य दर्शनैकफलार्थिनः॥२०.२७.२७॥
जनस्य दूरायातस्य सुन्दरि स्वागतादिकम्।
कः अयम् नु आश्रमिणाम् धर्मः यत् एतस्मात् पलाय्यते॥२०.२७.२८॥
इति उक्ते भूभुजा तस्याः सखी तद्वत् विचक्षणा।
तत्र उपवेश्य नृपतेः चकार आतिथ्यसत्क्रियाम्॥२०.२७.२९॥
अथ सप्रणयम् राजा ताम् सः पप्रच्छ सौत्सुकः।
भद्रे कः पुण्यवान् वंशः त्वत्सख्या अलंकृतः अनया॥२०.२७.३०॥
कानि श्रोत्रामृतस्यन्दीनि अस्याः नामाक्षराणि च।
किम् च एवम् अनया पुष्पसुकुमारम् इदम् वपुः॥२०.२७.३१॥
तापसौचितया वृत्त्या विजने अस्मिन् कदर्थ्यते।
इति राज्ञः वचः श्रुत्वा तत्सखी प्रत्युवाच सा॥२०.२७.३२॥
एषा महाऋषेः कण्वस्य दुहिता वर्धित- आश्रमे।
मेनकासंभवा कन्या नाम्ना च इन्दीवरप्रभा॥२०.२७.३३॥
इह अस्मिन् सरसि स्नातुम् आगता अनुज्ञया पितुः।
इतः अत्र न अतिदूरे अस्ति तस्य एतत् पितुः आश्रमः॥२०.२७.३४॥
इति उक्तः सः तया हृष्टः राजा आरुह्य तुरङ्गमम्।
याचितुम् ताम् सुताम् तस्य कण्वऋषेः आश्रमम् ययौ॥२०.२७.३५॥
विवेश च विनीतः तम् बहिः स्थापितवाहनः।
जटावल्कलिभिः पूर्णम् पादपैः इव तापसैः॥२०.२७.३६॥
तन्मध्ये च तम् अद्राक्षीत् ऋषिभिः परिवारितम्।
तेजसा आह्लादनम् कण्वमुनिम् चन्द्रम् इव ग्रहैः॥२०.२७.३७॥
उपेत्य पादयोः तम् च ववन्दे सा अपि तम् मुनिः।
कल्पित- आतिथ्यविश्रान्तम् ज्ञानी क्षिप्रात् अभाषत॥२०.२७.३८॥
वत्स चन्द्रवलोक एतत् शृणु यत् वच्मि ते हितम्।
जानासि यादृक् संसारे प्राणिनाम् मृत्युतः भयम्॥२०.२७.३९॥
तत् निःकारणम् एव एतान् वराकान् हंसि किम् मृगान्।
शस्त्रम् हि भीतरक्षार्थम् धात्रा क्षत्रस्य निर्मितम्॥२०.२७.४०॥
तत् प्रजाः रक्ष धर्मेण समुन्मूलय कण्टकान्।
हस्ति- अश्वास्त्र- आदियोग्याभिः चललक्ष्म्य- आदि साधय॥२०.२७.४१॥
भुङ्क्ष्व राज्यसुखम् देहि धनम् दिक्षु यशः किर।
कृतान्तक्रीडितम् हिंस्रम् मृगयाव्यसनम् त्यज॥२०.२७.४२॥
हन्तुः वध्यस्य च अन्यस्य यत्र तुल्या प्रमादिता।
किम् तेन बहुअनर्थेन पाण्डोः वृत्तम् न किम् श्रुतम्॥२०.२७.४३॥
एतत् कण्वमुनेः वाक्यम् श्रुत्वा समभिनन्द्य च।
राजा चन्द्रावलोकः तम् अर्थज्ञः प्रत्यभाषत॥२०.२७.४४॥
अनुशिष्टः अस्मि भगवन् कृतः मे अनुग्रहः परः।
मृगयायाः निवृत्तः अहम् प्राणिनः सन्तु निःभयाः॥२०.२७.४५॥
तत् श्रुत्वा उवाच सः मुनिः तुष्टः अहम् अमुना तव।
प्राणिषु अभयदानेन तत् वृणीष्व ईप्सितम् वरम्॥२०.२७.४६॥
इति उक्तः तेन मुनिना कालज्ञः सः नृपः अभ्यधात्।
तुष्टः असि चेत् सुताम् देहि मह्यम् इन्दीवरप्रभाम्॥२०.२७.४७॥
इति अर्थितवते सः अस्मै राज्ञे स्नानगताम् मुनिः।
अप्सरःसंभवाम् कन्याम् ताम् ददौ अनुरूपिकाम्॥२०.२७.४८॥
ततः कृतविवाहः ताम् मुनिभार्याप्रसाधिताम्।
कृतानुयात्राम् उद्बाष्पैः तापसैः आ निज- आश्रमात्॥२०.२७.४९॥
इन्दीवरप्रभाम् भार्याम् आदाय आरुह्य वाजिनम्।
चन्द्रावलोकः तरसा प्रतस्थे सः ततः नृपः॥२०.२७.५०॥
गच्छतः च अस्य विततम् दृष्ट्वा तत्दिनचेष्टितम्।
रविः खिन्नः इव अस्ताद्रिम् अस्तके समुपाविशत्॥२०.२७.५१॥
ददृशे मृगनेत्रा च क्रमात् उद्रिक्तमन्मथा।
ध्वान्तनीलपटछन्नरूपा रात्रि- अभिसारिका॥२०.२७.५२॥
तस्मिन् काले पथि प्राप सः राजा अश्वत्थपादपम्।
सज्जन- आशयसुस्वच्छवापीजलतटस्थितम्॥२०.२७.५३॥
शाखापत्त्रओघसंछन्नशाद्वलश्यामलस्थलम्।
दृष्ट्वा च तम् वसामि इह रात्रिम् इति अकरोत् हृदि॥२०.२७.५४॥
ततः अवतीर्य तुरगात् दत्त्वा तस्मै तृणौदकम्।
विश्रम्य पुलिने वाप्याः उपयुक्ताम्बुमारुतः॥२०.२७.५५॥
मुनिपुत्रिकया सार्धम् तया तस्य तरोः तले।
प्रियया पुष्पशय्यायाम् संविवेश सः भूपतिः॥२०.२७.५६॥
तत्क्षणम् च समाक्रम्य तिमिरांशुकहारिणा।
सरागम् आननम् प्राच्याः चुचुम्बे शशलक्ष्मणा॥२०.२७.५७॥
विरेजुः चन्द्रकिरणैः समाश्लिष्य प्रसारिताः।
वीतमानावकाशाः च अशेषाः वितमसः दिशः॥२०.२७.५८॥
अत्र अन्तरे लतागुल्मविवरप्रसृतैः करैः।
ऐन्दवैः रत्नदीप- आभैः तरुमूले विभासिते॥२०.२७.५९॥
सः अपि राजा सिषेवे ताम् आश्लिष्य इन्दीवरप्रभाम्।
नवसंगमसौत्कण्ठसरसम् सुरतौत्सवम्॥२०.२७.६०॥
विस्रंसयामास शनैः नीवीम् तस्याः त्रपाम् इव।
अखण्डयत् च दशनैः मुग्धभावम् इव अधरम्॥२०.२७.६१॥
रचयामास कुचयोः यौवनद्विपकुम्भयोः।
करजक्षतसत्रत्ननवनक्षत्रमालिकाम्॥२०.२७.६२॥
मुखम् कपोलौ नयने मुहुः परिचुचुम्ब च।
लावण्यामृतनिःष्यन्दम् आपिबन् इव सर्वतः॥२०.२७.६३॥
इत्थं निधुवनक्रीडासुखेन सः तया सह।
निनाय कान्तया तत्र राजा क्षणम् इव क्षपाम्॥२०.२७.६४॥
प्रातः च मुक्तशयनः सांध्यस्य अनन्तरम् विधेः।
स्वसैन्यावाप्तये यातुम् उन्मुखः अभूत् वधूसखः॥२०.२७.६५॥
तावत् च नक्तम् लुप्ताप्जखण्डशोभम् निशापतिम्।
भिया इव अस्ताद्रिकुहरप्रलीनम् ध्वस्ततेजसम्॥२०.२७.६६॥
हन्तुकाम इव क्रोधात् आताम्रतररोचिषि।
प्रसारितकरौत्क्षिप्तमण्डलाग्रे विवस्वति॥२०.२७.६७॥
अकस्मात् आजगाम अत्र विद्युत्पिङ्गशिरःरुहः।
कज्जलश्यामलः कालमेघ- आभः ब्रह्मराक्षसः॥२०.२७.६८॥
अन्त्रमालाकृतौत्तंसः केशयज्ञोपवीतभृत्।
खादन् नरशिरःमांसम् कपालेन पिबन् असृक्॥२०.२७.६९॥
सः अट्टहासम् विमुच्य उग्रम् मुखेन अग्निम् वमन् क्रुधा।
दंष्ट्राकरालः राजानम् भर्त्सयन् निजगाद तम्॥२०.२७.७०॥
पाप ज्वालामुखम् नाम विद्धि माम् ब्रह्मराक्षसम्।
निवासः च एष मे अश्वत्थः देवैः अपि न लङ्घ्यते॥२०.२७.७१॥
सः अयम् त्वया समाक्रम्य परिभुक्तः स्त्रिया सह।
रात्रिचर्य- आगतस्य अद्य तत् भुङ्क्ष्व अविनयात् फलम्॥२०.२७.७२॥
एषः अहम् ते दुःआचार कामौपहतचेतसः।
उत्पाट्य हृदयम् भोक्ष्ये पास्यामि एव च शोणितम्॥२०.२७.७३॥
तत् श्रुत्वा एव तथा घोरम् तम् अवध्यम् अवेक्ष्य च।
त्रस्ताङ्गनः सविनयम् भयात् प्रत्यब्रवीत् नृपः॥२०.२७.७४॥
अजानता अपराद्धम् यत् मया ते तत् क्षमस्व मे।
तव अहम् आश्रमे हि अस्मिन् अतिथिः शरण- आश्रितः॥२०.२७.७५॥
दास्यामि च ईप्सितम् तुभ्यम् आनीय पुरुषम् पशुम्।
येन ते भविता तृप्तिः तत् प्रसीद क्रुधम् त्यज॥२०.२७.७६॥
इति राज्ञः वचः श्रुत्वा शान्तः सः ब्रह्मराक्षसः।
अस्तु कः दोषः इति अन्तः विचिन्त्य एवम् अभाषत॥२०.२७.७७॥
यः सप्तवर्षदेश्यः अपि महासत्त्वः विवेकवान्।
त्वदर्थे स्वेच्छया आत्मानम् दद्यात् ब्राह्मणपुत्रकः॥२०.२७.७८॥
हन्यमानम् च यम् माता हस्तयोः पादयोः पिता।
अवष्टभ्य अतिसुदृढम् संनिवेश्य महीतले॥२०.२७.७९॥
तादृशम् पुरुषम् मह्यम् उपहारीकरोषि चेत्।
स्वयम् खड्गप्रहारेण हत्वा सप्तदिनान्तरे॥२०.२७.८०॥
तत् ते क्षमिष्ये न्यक्कारम् अन्यथा तु महीपते।
सद्यः विनाशयिष्यामि त्वाम् अहम् सपरिच्छदम्॥२०.२७.८१॥
श्रुत्वा एतत् सः भयाद् राजा प्रतिपेदे तथा इति तत्।
तिरःबभूव च ब्रह्मराक्षसः सः अपि तत् क्षणम्॥२०.२७.८२॥
अथ चन्द्रावलोकः असौ राजा सेइन्दीवरप्रभः।
हय- आरूढः ततः प्रायात् सैन्यम् चिन्वन् सुदुर्मनाः॥२०.२७.८३॥
अहो अहम् मृगयया मदनेन च मोहितः।
गतः पाण्डुः इव अकाण्डे विनाशम् बत बालिशः॥२०.२७.८४॥
प्राप्यते हि उपहारः अस्य राक्षसः तादृशः कुतः।
तत् निजम् नगरम् तावत् यामि पश्यामि भावि किम्॥२०.२७.८५॥
इति ध्यायन् सः च प्राप स्वसैन्यम् चिन्वत् आगतम्।
तद्युक्तः च सदारः स्वम् चित्रकूटम् अगात् पुरम्॥२०.२७.८६॥
तत्र तस्य उचिताम् भार्याप्राप्तिम् वीक्ष्य कृतोत्सवे।
राष्ट्रे अन्तर्गतदुःखस्य दिनशेषः जगाम सः॥२०.२७.८७॥
द्वितीये अह्नि रहः सर्वम् स्ववृत्तान्तम् शशंस सः।
मन्त्रिभ्यः तेषु च एकः तम् मन्त्री सुमतिः अब्रवीत्॥२०.२७.८८॥
विषादः देव ते मा भूत् उपहारम् हि तादृशम्।
आनेष्यामि अहम् अन्विष्य बहु- आश्चर्या हि मेदिनी॥२०.२७.८९॥
एवम् आश्वास्य राजानम् सः सौवर्णीम् अकारयत्।
मन्त्री सप्ताब्ददेशीयबालकप्रतिमाम् द्रुतम्॥२०.२७.९०॥
रत्नैः अलंकृताम् ताम् च कृत्वा कर्णीरथार्पिताम्।
भ्रामयामास नगरग्रामघोषेषु इतः ततः॥२०.२७.९१॥
यः सप्तवर्षदेशीयः स्वेच्छया विप्रपुत्रकः।
ददाति सर्वसत्त्वार्थम् आत्मानम् ब्रह्मरक्षसे॥२०.२७.९२॥
उपहाराय सत्त्वस्थः मातापित्रोः अनुज्ञया।
हन्यमानः च यः ताभ्याम् हस्तपादे प्रगृह्यते॥२०.२७.९३॥
तस्मै ग्रामशतोपेताम् हेमरत्नमयीम् इमाम्।
ददाति प्रतिमाम् राजा पित्रोः उपचिकीर्षवे॥२०.२७.९४॥
इति च भ्राम्यमानायाः तस्याः प्रतिकृतेः शिशोः।
पटहोद्घोषणाम् मन्त्री सः अग्रे अजस्रम् अदापयत्॥२०.२७.९५॥
तावत् श्रुत्वा तत् एकस्मिन् अग्रहारे द्विजार्भकः।
कः अपि सप्ताब्ददेशीयः अपि अतिधीरः अद्भुत- आकृतिः॥२०.२७.९६॥
पूर्वाभ्यासेन बाल्ये अपि सदा परहिते रतः।
प्रजापुण्यपरीपाक इव स- आकारताम् गतः॥२०.२७.९७॥
उवाच उद्घोषकान् एत्य युष्मदर्थे ददामि अहम्।
आत्मानम् पितरौ गत्वा बोधयित्वा अभ्युपैमि च॥२०.२७.९८॥
इति ऊचिवान् तान् मुदितान् सः बालः अनुमतः च तैः।
गत्वा गृहम् जगाद स्वौ पितरौ रचिताञ्जलिः॥२०.२७.९९॥
ददामि सर्वसत्त्वार्थम् देहम् एतम् विनश्वरम्।
तत् माम् अभ्यनुजानीतम् हताम् च आपदम् आत्मनः॥२०.२७.१००॥
आत्मप्रतिकृतिम् हि एताम् गृहीत्वा वितरामि वाम्।
हेमरत्नमयीम् राज्ञा दत्ताम् ग्रामशतान्विताम्॥२०.२७.१०१॥
एवम् मे युष्मदानृण्यम् परार्थः च एव सिध्यति।
युवाम् च ध्वस्तदारिद्र्यौ बहून् पुत्रान् अवाप्स्यथः॥२०.२७.१०२॥
इति उक्तवन्तम् सहसा पितरौ तौ तम् ऊचतुः।
किम् एतत् भाषसे पुत्र वातेन क्षुभितः असि किम्॥२०.२७.१०३॥
किम् वा ग्रहगृहीतः असि प्रलपसि अन्यथा कथम्।
कः हि अर्थैः घातयेत् पुत्रम् देहम् दद्यात् च कः शिशुः॥२०.२७.१०४॥
एतत् पित्रोः वचः श्रुत्वा बालः पुनः उवाच सः।
न बुद्धिमोहात् जल्पामि शृणुतम् मे अर्थवत् वचः॥२०.२७.१०५॥
अवाच्य अशुचिसंपूर्णम् उत्पत्त्या एव सुगुप्सितम्।
दुःखक्षेत्रम् विनाशि एव शरीरम् अचिरात् इदम्॥२०.२७.१०६॥
तत् एतेन अति- असारेण सुकृतम् यत् उपार्ज्यते।
तत् एव सारम् संसारे कृतबुद्धिभिः उच्यते॥२०.२७.१०७॥
सर्वभूतोपकारात् च किम् अन्यत् सुकृतम् परम्।
तत्र अपि पित्रोः भक्तिः चेत् किम् देहात् दृश्यते फलम्॥२०.२७.१०८॥
इत्यादिवाक्यैः सः शिशुः शोचन्तौ दृढनिश्चयः।
तौ अङ्गीकारयामास पितरौ स्वमनीषितम्॥२०.२७.१०९॥
गत्वा च राजभृत्येभ्यः प्रतिमाम् तम् हिरण्मयीम्।
आनीय प्रददौ ताभ्याम् सग्रामशतशासनाम्॥२०.२७.११०॥
ततः कृत्वा अग्रतः राजभृत्यान् तान् एव सः द्रुतम्।
पितृभ्याम् अन्वितः प्रायात् चित्रकूटम् नृपान्तिकम्॥२०.२७.१११॥
तत्र चन्द्रावलोकः तम् वीक्ष्य अखण्डिततेजसम्।
रक्षारत्नम् इव प्राप्तम् बालम् राजा ननन्द सः॥२०.२७.११२॥
आरोप्य गजपृष्टम् च रचितस्रक्विलेपनम्।
निनाय तम् सपितृकम् केतनम् ब्रह्मरक्षसः॥२०.२७.११३॥
तत्र मण्डलम् आलिख्य तस्य अश्वत्थस्य पार्श्वतः।
विहितौचितपूजेन हुते वह्नौ पुरोधसा॥२०.२७.११४॥
आविर्बभूव मुक्ताट्टहासः सः अध्ययनम् पठन्।
घूर्णन् रक्त- आसवक्षीबः जृम्भमाणः मुहुः श्वसन्॥२०.२७.११५॥
ज्वलत्नेत्रः दिशः कुर्वन् देहछाया- अन्धकारिताः।
ज्वालामुखः महारौद्रदर्शनः ब्रह्मराक्षसः॥२०.२७.११६॥
ततः चन्द्रावलोकः तम् दृष्ट्वा प्रह्वः अब्रवीत् नृपः।
नरोपहारः भगवन् आनीतः सः मया तव॥२०.२७.११७॥
सप्तमः दिवसः च अद्य प्रतिज्ञातस्य सः अस्य ते।
तत् प्रसीद गृहाण एतम् उपहारम् यथाविधि॥२०.२७.११८॥
इति राञ्ज्ञा अर्थितः विप्रकुमारम् ब्रह्मराक्षसः।
सः तम् आलोकयामास जिह्वया सृक्किणी लिहन्॥२०.२७.११९॥
तत् क्षणम् सः महासत्त्वः बालः हृष्यन् अचिन्तयत्।
स्वदेहदानेन अनेन सुकृतम् यत् मया अर्जितम्॥२०.२७.१२०॥
तेन मा भूत् मम स्वर्गः मोक्षः वा निःउपक्रियः।
भूयात् तु मे परार्थाय देहः जन्मनि जन्मनि॥२०.२७.१२१॥
इति संकल्पयति एव तस्मिन् आपूर्यत क्षणात्।
विमानैः सुरसंघानाम् पुष्पवृष्टिमुचाम् नभः॥२०.२७.१२२॥
अथ अग्रे प्रापितम् तस्य बालम् तम् ब्रह्मरक्षसः।
माता जग्राह करयोः पिता चरणयोः तथा॥२०.२७.१२३॥
ततः यावत् तम् आकृष्टखड्गः राजा जिघांसति।
तावत् जहास सः शिशुः तथा सर्वे अत्र ते यथा॥२०.२७.१२४॥
सब्रह्मराक्षसाः त्यक्त्वा स्वम् स्वम् कर्म सविस्मयाः।
रचिताञ्जलयः प्रह्वाः तन्मुखप्रेक्षिणः अभवन्॥२०.२७.१२५॥
इति व्याख्याय वेतालः विचित्रसरसाम् कथाम्।
तम् त्रिविक्रमसेनम् सः निजगाद नृपम् पुनः॥२०.२७.१२६॥
तत् ब्रूहि राजन् कः हेतुः यत् तेन हसितम् तदा।
बालेन एतादृशे अपि अस्मिन् प्राणान्तसमये अपि अहो॥२०.२७.१२७॥
कौतुकम् च महन् मे अत्र तत् एतत् चेत् न वक्ष्यसि।
जानानः अपि ततः मूर्धा शतधा ते स्फुटिष्यति॥२०.२७.१२८॥
इति वेतालतः श्रुत्वा सः राजा प्रत्युवाच तम्।
शृणु यः अभूत् अभिप्रायः हासे तस्य शिशोः तदा॥२०.२७.१२९॥
यः नाम दुर्बलः जन्तुः सः भये प्रत्युपस्थिते।
क्रन्दति प्राणहेतोः स्वम् पितरम् मातरम् तथा॥२०.२७.१३०॥
तद्व्यपाये च राजानम् आर्तत्राणाय निर्मितम्।
तदलाभे अपि यदि अत्र यथासंभवि दैवतम्॥२०.२७.१३१॥
तस्य तु एकस्थम् अपि एतत् सर्वम् संजातम् अन्यथा।
पितृभ्याम् हस्तपादम् हि रुद्धम् तस्य अर्थतृष्णया॥२०.२७.१३२॥
राजा च त्रातुम् आत्मानम् स्वयम् तम् हन्तुम् उद्यतः।
दैवतम् तत्र यत् ब्रह्मरक्षः तत् तस्य भक्षकम्॥२०.२७.१३३॥
अध्रुवस्य अन्तविरसस्य आधिव्याधिक्षतस्य च।
देहस्य अर्थे विमूढानाम् तेषाम् ईदृक् विडम्बना॥२०.२७.१३४॥
ब्रह्मा- इन्द्रविष्णुरुद्र- आद्याः यत्र अवश्यम् विनाशिनः।
तत्र एषाम् ईदृशी का अपि शरीरस्थैर्यवासना॥२०.२७.१३५॥
एतत् तत् मोहवैचित्र्यम् दृष्ट्वा मत्वा च वाञ्छितम्।
सिद्धम् आश्चर्यहर्षाभ्याम् सः जहास द्विजार्भकः॥२०.२७.१३६॥
इति उक्त्वा विरतस्य तस्य नृपतेः अंसात् सः भूयः अपि
तत् वेतालः झगिति स्वकम् पदम् अगात् अन्तर्हितः मायया।
राजा सः अपि अविकल्पम् एव पुनः अपि अन्वक् ययौ तम्
जवात् अक्षोभ्यम् हृदयम् बत इह महताम् अम्भःनिधीनाम् इव॥२०.२७.१३७॥
तुलनीय - भविष्य पुराणम् ३.२.१९
संबंधित कड़ियाँ
[सम्पाद्यताम्]- वेतालपञ्चविंशति
- वेतालपञ्चविंशति 00
- वेतालपञ्चविंशति 01
- वेतालपञ्चविंशति 02
- वेतालपञ्चविंशति 03
- वेतालपञ्चविंशति 04
- वेतालपञ्चविंशति 05
- वेतालपञ्चविंशति 06
- वेतालपञ्चविंशति 07
- वेतालपञ्चविंशति 08
- वेतालपञ्चविंशति 09
- वेतालपञ्चविंशति 10
- वेतालपञ्चविंशति 11
- वेतालपञ्चविंशति 12
- वेतालपञ्चविंशति 13
- वेतालपञ्चविंशति 14
- वेतालपञ्चविंशति 15
- वेतालपञ्चविंशति 16
- वेतालपञ्चविंशति 17
- वेतालपञ्चविंशति 18
- वेतालपञ्चविंशति 19
- वेतालपञ्चविंशति 20
- वेतालपञ्चविंशति 21
- वेतालपञ्चविंशति 22
- वेतालपञ्चविंशति 23
- वेतालपञ्चविंशति 24
- वेतालपञ्चविंशति 25