वेतालपञ्चविंशति 22

विकिस्रोतः तः
Jump to navigation Jump to search
← वेतालपञ्चविंशति 21 वेतालपञ्चविंशति 22
सोमदेव
वेतालपञ्चविंशति 23 →

ततः राजा पुनः गत्वा वेतालम् शिंशपा- अग्रतः।
सः त्रिविक्रमसेनः तम् प्राप्य अंस- आरोपितम् व्यधात्॥२२.२९.१॥

आयान्तम् तम् च राजानम् सः वेतालः अब्रवीत् पथि।
राजन् साधुः सुसत्त्वः त्वम् तत् अपूर्वाम् कथाम् शृणु॥२२.२९.२॥

बभूव पूर्वम् कुसुमपुराख्यनगरेश्वरः।
पृथ्वीतले अस्मिन् धरणीवराहः नाम भूपतिः॥२२.२९.३॥

तस्य ब्राह्मणभूयिष्ठे राष्ट्रे ब्रह्मस्थलाभिधः।
अग्रहारः अभवत् तत्र विष्णुस्वामी इति अभूत् द्विजः॥२२.२९.४॥

तस्य अनुरूपा भार्या अभूत् यथा स्वाहा हविः भुजः।
तस्याम् च तस्य चत्वारः क्रमात् उत्पेदिरे सुताः॥२२.२९.५॥

अधीतवेदेषु उत्क्रान्तशैशवेषु च तेषु सः।
विष्णुस्वामी दिवम् प्रायात् भार्यया अनुगतः तया॥२२.२९.६॥

ततः ते तत्र तत्पुत्राः सर्वे अपि आनाय्य दुःस्थिताः।
गोत्रजैः हृतसर्वस्वाः मन्त्रयांचक्रिरे मिथः॥२२.२९.७॥

न अस्ति इह गतिः अस्माकम् तत् व्रजामः वयम् न किम्।
इतः मातामहगृहम् ग्रामम् यञ्जस्थलाभिधम्॥२२.२९.८॥

एतत् एव विनिश्चित्य प्रस्थिताः भैक्ष्यभोजनाः।
मातामहगृहम् प्रापुः ते अथ तत् बहुभिः दिनैः॥२२.२९.९॥

तत्र मातामहाभावात् मातुलैः दत्तसंश्रयाः।
भुञ्जानाः तत्गृहे तस्थुः स्वाध्यायाभ्यासतत्पराः॥२२.२९.१०॥

कालक्रमात् च तेषाम् ते मातुलानाम् अकिम्चनाः।
अवज्ञापात्रताम् जग्मुः भोजन- आच्छादन- आदिषु॥२२.२९.११॥

ततः स्वजनसंस्फूर्जदवमानहतात्मनाम्।
तेषाम् रहः सचिन्तानाम् ज्येष्ठः भ्राता अब्रवीत् इदम्॥२२.२९.१२॥

भो भ्रातरः किम् क्रियते सर्वम् आचेष्टते विधिः।
न शक्यम् पुरुषस्य इह क्वचित् किम्चित् कदाचन॥२२.२९.१३॥

अहम् हि उद्वेगतः भ्राम्यन् प्राप्तः अद्य पितृकानने।
विपन्नस्थितम् अद्राक्षम् त्रस्ताङ्गम् पुरुषम् भुवि॥२२.२९.१४॥

अचिन्तयम् च दृष्ट्वा तम् अहम् ताम् स्पृहयन् गतिम्।
धन्यः अयम् एवम् विश्रान्तः दुःखभारम् विमुच्य यः॥२२.२९.१५॥

इति संचिन्त्य तत् कालम् कृत्वा मरणनिश्चयम्।
वृक्षाग्रसङ्गिना पाशेन आत्मानम् उदलम्बयम्॥२२.२९.१६॥

यावत् च मे विसंज्ञस्य तदा निर्यान्ति नासवः।
तावत् त्रुटितपाशः अत्र पतितः अस्मि महीतले॥२२.२९.१७॥

लब्धसंज्ञः च केनापि पुंसा क्षिप्रात् कृपालुना।
आश्वास्यमानम् आत्मानम् अपश्यम् पटमारुतैः॥२२.२९.१८॥

सखे कथय विद्वान् अपि एवम् कम् प्रति खिद्यसे।
सुखम् हि सुकृतात् दुःखम् दुःकृतात् एति न अन्यतः॥२२.२९.१९॥

दुःखात् यदि तव उद्वेगः सुकृतम् तत् समाचर।
कथम् तु नारकम् दुःखम् आत्मत्यागेन वाञ्छसि॥२२.२९.२०॥

इति उक्त्वा माम् समाश्वास्य सः च क्व अपि गतः पुमान्।
अहम् च इह आगतः त्यक्त्वा तादृशम् मरणौद्यमम्॥२२.२९.२१॥

तत् एवम् न इच्छति विधौ न मर्तुम् अपि लभ्यते।
इदानीम् च तनुम् तीर्थे तपसा दाहयामि अहम्॥२२.२९.२२॥

येन निःधनतादुःखभागी न स्याम् अहम् पुनः।
इति उक्तवन्तम् ज्येष्ठम् तम् कनिष्ठाः भ्रातरः अब्रुवन्॥२२.२९.२३॥

अर्थैः विना कथम् प्राज्ञः अपि आर्य दुःखेन बाध्यसे।
किम् न वेत्सि यत् अर्थानाम् शरदभ्रचला गतिः॥२२.२९.२४॥

आहृत्य रक्ष्यमाणा अपि यत्नेन अन्तविरागिणी।
असत्मैत्री च वेश्या च श्रीः च कस्य कदा स्थिरा॥२२.२९.२५॥

तत् उद्योगेन सः गुणः कःअपि उपार्ज्यः मनस्विना।
आनीयन्ते हटात् बद्ध्वा येन अर्थहरिणाः मुहुः॥२२.२९.२६॥

इति उक्तः भ्रातृभिः धैर्यम् क्षणात् ज्येष्ठः अवलम्ब्य सः।
उवाच कः गुणः तादृगर्जनीयः भवेत् इति॥२२.२९.२७॥

ततः विचिन्त्य सर्वे ते वदन्ति स्म परस्परम्।
विचिन्त्य पृथ्वीम् विज्ञानम् किम्चित् शिक्षामहे वयम्॥२२.२९.२८॥

निश्चित्य एतत् च संकेतस्थानम् उक्त्वा समागमे।
एकएकशः ते चत्वारः चतस्रः प्रययुः दिशः॥२२.२९.२९॥

याति काले च मिलिताः ते संकेतनिकेतने।
किम् केन शिक्षितम् इति भ्रातरः अन्यःअन्यम् अब्रुवन्॥२२.२९.३०॥

अथ अत्र एकः अब्रवीत् ईदृक् विज्ञानम् शिक्षितम् मया।
येन अस्थिशकलम् प्राप्य प्राणिनः यस्य कस्यचित्॥२२.२९.३१॥

उत्पादयामि अहम् तस्मिन् मांसम् तदुचितम् क्षणात्।
एतत् तस्य वचः श्रुत्वा द्वितीयः तेषु अभाषत॥२२.२९.३२॥

अहम् तत्र एव संजातमांसे अस्थिशकले किल।
जाने जनयितुम् लोमत्वचम् तत्प्राणिसंभवि॥२२.२९.३३॥

ततः तृतीयः अपि अवदत् जाने तत्र एव च अस्मि अहम्।
तत्प्राण्यवयवान् स्रष्टुम् जातत्वङ्मांसलोमनि॥२२.२९.३४॥

चतुर्थः च ततः अवादीत् उत्पन्न अवयव- आकृतिम्।
तम् एव प्राणिनम् प्रानैः युक्तम् कर्तुम् अवैमि अहम्॥२२.२९.३५॥

एवम् उक्त्वा मिथः स्वस्वविज्ञानप्रथनाय ते।
चत्वारः अपि अस्थिखण्डाय प्रययुः भ्रातरः अटवीम्॥२२.२९.३६॥

तत्र सिंहस्य ते प्रापुः अस्थिखण्डम् विधेः वशात्।
अविज्ञातविशेषाः च गृह्नन्ति स्म तथा एव तत्॥२२.२९.३७॥

एकः च तत् समुचितैः ततः मांसैः अयोजयत्।
द्वितीयः अजनयत् तस्य तद्वत् त्वक्लोमसंहतीः॥२२.२९.३८॥

तृतीयः च अखिलैः अङ्गैः तत्योग्यैः तत् अपूरयत्।
चतुर्थः च ददौ तस्य सिंहीभूतस्य जीवितम्॥२२.२९.३९॥

उदतिष्ठत् अथ उद्धूतसटाभारः अतिभैरवः।
सः दंष्ट्रासंकटमुखः सिंहः खरनखाङ्कुशः॥२२.२९.४०॥

धावित्वा च स्वनिर्मातॄंस्तान् एव चतुरः अपि सः।
अवधीत् केसरी तृप्तः विवेश च वनम् ततः॥२२.२९.४१॥

एवम् ते सिंहनिर्माणदोषात् नष्टाः द्विजातयः।
दुष्टम् हि जन्तुम् उत्थाप्य कस्य आत्मनि सुखम् भवेत्॥२२.२९.४२॥

इत्थम् च उपार्जितः यत्नात् गुणः अपि विधुरे विधौ।
संपत्तये न न परम् जायते तु विपत्तये॥२२.२९.४३॥

मूले हि अविकृते दैवे सिक्ते प्रज्ञानवारिणा।
नय- आलवालः फलति प्रायः पौरुषपादपः॥२२.२९.४४॥

इति तस्याम् निशि मार्गे वेतालेन अंसतः कथाम् तेन।
आख्याय सः त्रिविक्रमसेनः राजा पुनः जगदे॥२२.२९.४५॥

राजन् तेषु अपराध्यति चतुर्षु कः तत्र सिंहनिर्माणे।
यत् न्यवधीत् तत्क्लृप्तः वद समयः सः अत्र पूर्वः ते॥२२.२९.४६॥

इति वेतालात् श्रुत्वा राजा सः अचिन्तयत् विमौनस्य।
इच्छति गन्तुम् अयम् मे यातु आनेष्यामि अमुम् भूयः॥२२.२९.४७॥

इति हृदि निश्चित्य सः तम् महीपतिः प्रत्युवाच वेतालम्।
यः तस्य जीवदायी सिंहस्य सः पापभाक् तेषु॥२२.२९.४८॥

प्राणिविशेषम् अबुद्ध्वा मांसत्वक्लोमगात्रनिर्माणम्।
युक्तिबलात् तु कृतम् यैः तेषाम् दोषः अस्ति न अज्ञानात्॥२२.२९.४९॥

येन तु सिंह- आकारम् दृष्ट्वा विद्याप्रकाशनौत्केन।
प्राणाः तस्य वितीर्णाः तेन कृताः ब्रह्महत्याः ताः॥२२.२९.५०॥

एतत् सः राज्ञः वचनम् निशम्य स्वधाम वेतालवरः जगाम।
तस्य अंसतः तत् पुनः एव मायी राजा अपि तम् सः अनुससार भूयः॥२२.२९.५१॥

तुलनीय - भविष्य पुराणे विक्रम - वेताल कथा

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_22&oldid=75117" इत्यस्माद् पुनः प्राप्तिः