वेतालपञ्चविंशति 14

विकिस्रोतः तः
Jump to navigation Jump to search
← वेतालपञ्चविंशति 13 वेतालपञ्चविंशति 14
सोमदेव
वेतालपञ्चविंशति 15 →

सः त्रिविक्रमसेनः अथ गत्वा तम् शिंशपातरोः।
भूयः अपि आसाद्य वेतालम् स्कन्धे जग्राह भूपतिः॥१४.२१.१॥

प्रस्थितम् च तम् उर्वी- ईशम् सः वेतालः अभ्यधात् पुनः।
राजन् श्रान्तः असि तत् चित्राम् कथाम् आख्यामि ते शृणु॥१४.२१.२॥

अस्ति अयोध्या इति नगरी राजधानी बभूव या।
रक्षःकुलकृतान्तस्य रामरूपस्य शार्ङ्गिणः॥१४.२१.३॥

तस्याम् राजा अभवत् वीरकेतुः नाम ररक्ष यः।
क्षोणीम् इमाम् महाबाहुः प्राकारः नगरीम् इव॥१४.२१.४॥

तस्मिन् महीपतौ अस्याम् पुर्याम् एकः महावणिक्।
रत्नदत्ताभिधानः अभूत् वणिक्नीवहनायकः॥१४.२१.५॥

नन्दयन्ती- अभिधानायाम् पत्न्याम् तस्य उदपद्यत।
सुता रत्नवती नाम देवता- आराधनार्जिता॥१४.२१.६॥

सा च तस्य पितुः वेश्मनि अवर्धत मनस्विनी।
रूपलावण्यविनयैः सह एव सहजैः गुणैः॥१४.२१.७॥

यौवनस्थाम् च ताम् तस्मात् रत्नदत्तात् न केवलम्।
महान्तः वणिजः यावत् राजानः अपि ययाचिरे॥१४.२१.८॥

सा तु पुम्द्वेषिणी न ऐच्छत् भर्तारम् अपि वासवम्।
प्राणत्यागौद्यता सेहे न विवाहकथाम् अपि॥१४.२१.९॥

तेन तस्याः पिता तूष्णीम् तस्थौ वात्सल्यदुःस्थितः।
सः च प्रवादः अयोद्यायाम् तस्याम् सर्वत्र पप्रथे॥१४.२१.१०॥

अत्र अन्तरे सदा चौरैः मुष्यमाणाः किल आखिलाः।
संभूय अत्र नृपम् पौराः वीरकेतुम् व्यजिज्ञपन्॥१४.२१.११॥

नित्यम् मुष्यामहे चौरैः रात्रौ रात्रौ इह प्रभो।
लक्ष्यन्ते ते च न अस्माभिः तत् देवः वेत्तु यत् परम्॥१४.२१.१२॥

इति पौरैः सः विज्ञप्तः राजा ताम् अभितः पुरीम्।
तस्करान्वेषणे छन्नान् आदिशत् रत्रिरक्षकान्॥१४.२१.१३॥

ते अपि प्रापुः न यत् चौरान् पुरी सा अमुष्यत एव च।
तदा एकदा स्वयम् राजा निशि स्वैरम् विनिर्ययौ॥१४.२१.१४॥

एकाकी च आत्तशस्त्रः अत्र भ्रमन् सः अपश्यत् एकतः।
एकम् प्राकारपृष्टेन यान्तम् कम् अपि पूरुषम्॥१४.२१.१५॥

निःशब्दपदविन्यासविचित्रगतिकौशलम्।
सशङ्कलोलनयनम् पश्यन्तम् पृष्टतः मुहुः॥१४.२१.१६॥

अयम् सः नूनम् चौरः मे मुष्णाति एकचरः पुरीम्।
इति मत्वा एव निकटम् सः तस्य उपययौ नृपः॥१४.२१.१७॥

ततः सः चौरः दृष्ट्वा तम् नृपम् कः असि इति अभाषत।
चौरः अहम् इति राजा तम् चौरम् प्रत्यब्रवीत् सः तम्॥१४.२१.१८॥

सः अथ चौरः अभ्यधात् दृष्ट्वा तर्हि तुल्यः असि मे सुहृत्।
तत् एहि मत्गृहम् तावत् मित्र- आचारम् करोमि ते॥१४.२१.१९॥

तत् श्रुत्वा सः तथा इति उक्त्वा तेन एव सह भूपतिः।
ययौ वनान्तःधरणीखातान्तःवर्ति तत्गृहम्॥१४.२१.२०॥

अशेषभोगभोग- आढ्यम् भास्वत्दीपप्रकाशितम्।
नवीनम् इव पातालम् बलिराजानधिष्ठितम्॥१४.२१.२१॥

तत्र प्रविष्टे तस्मिन् च कृत- आसनपरिग्रहे।
राज्ञि सः अभ्यन्तरगृहम् प्रविवेश अथ तस्करः॥१४.२१.२२॥

तत् क्षणम् च तम् एत्य एका दासी तत्र अवदत् नृपम्।
महाभाग प्रविष्टः त्वम् इह मृत्युमुखे कथम्॥१४.२१.२३॥

एकचौरः हि असौ पापम् निःगत्य अतः करिष्यति।
ध्रुवम् विस्वासघाती इति तत् इतः त्वरितम् व्रज॥१४.२१.२४॥

इति उक्तः सः तया राजा निःगत्य एव ततः द्रुतम्।
गत्वा स्वराजधानीम् च निशि सैन्यानि असज्जयत्॥१४.२१.२५॥

संनद्धसैन्यः च आगत्य दस्योः तस्य रुरोध तत्।
भूगृहद्वारविवरम् रसत्तूर्याकुलैः बलैः॥१४.२१.२६॥

ततः रुद्धे गृहे वृत्तम् प्रतिभेदम् अवेत्य सः।
मरणे निःचितः चौरः शूरः युद्धाय निर्ययौ॥१४.२१.२७॥

निःगतः च रणे चक्रे पराक्रमम् अमानुषम्।
करान् चकर्त करिणाम् जङ्घाः चिच्छेद वाजिनाम्॥१४.२१.२८॥

जहार च शिरांसि एकः भटानाम् खड्गचर्मभृत्।
ततः तम् क्षपितानीकम् अभ्यधावत् स्वयम् नृपः॥१४.२१.२९॥

सः तस्य खड्गविद्याज्ञः राजा करणयुक्तितः।
हस्तात् जहार निःत्रिंशम् अथ ताम् क्षुरिकाम् अपि॥१४.२१.३०॥

अशस्त्रम् मुक्तशस्त्रः अथ बाहुयुद्धेन तम् नृपः।
चौरम् निहत्य धरणौ सजीवग्राहम् अग्रहीत्॥१४.२१.३१॥

निनाय तम् च संयम्य सधनम् नगरीम् निजाम्।
प्रातः च अज्ञापयत् तस्य शूल- आरोपणनिग्रहम्॥१४.२१.३२॥

नीयमानम् च तम् वध्यभूमिम् चौरम् सडिण्डिमम्।
ददर्श सा रत्नवती वणिक्कन्या अत्र हर्म्यतः॥१४.२१.३३॥

व्रणितम् धूलिलिप्ताङ्गम् अपि एतम् मारमोहिता।
दृष्ट्वा एव गत्वा पितरम् रत्नदत्तम् उवाच सा॥१४.२१.३४॥

वधाय नीयते यः अयम् एष भर्ता वृतः मया।
तत् नृपात् रक्ष तात एनम् न चेत् एनम् अनु म्रिये॥१४.२१.३५॥

तत् श्रुत्वा ताम् पिता अवादीत् किम् इदम् पुत्रि भाषसे।
या त्वम् न इच्छसि भूपालाम् अपि भर्त्क़्न् अभीप्सतः॥१४.२१.३६॥

सा पापम् तस्करम् इमम् वाञ्छसि आपद्गतम् कथम्।
इति आदि पित्रा प्रोक्ता अपि निःचयात् न चचाल सा॥१४.२१.३७॥

ततः सः तत्पिता गत्वा तस्य चौरस्य सत्वरम्।
सर्वस्वेन अपि राजानम् वधान् मोक्षम् अयाचत॥१४.२१.३८॥

राजा तु तम् न तत्याज हेमकोटिशतैः अपि।
स्वशरीरपण- आनीतम् चौरम् सर्वापहारिणम्॥१४.२१.३९॥

ततः पितरि उपायाते विमुखे सा वणिक्सुता।
अनुमर्तुम् कृतस्नाना वार्यमाणा अपि बन्धुभिः॥१४.२१.४०॥

आरुह्य शिबिकाम् तस्य दस्योः वध्यभुवम् ययौ।
अन्वीयमाना रुदता पित्रा मात्रा जनेन च॥१४.२१.४१॥

तावत् च वधकैः सः अत्र चौरः शूले अधिरोपितः।
ताम् ददर्श गलत्प्राणः तथा सज्ञातिम् आगताम्॥१४.२१.४२॥

जनात् श्रुत्वा च वृत्तान्तम् अश्रु मुक्त्वा क्षणम् ततः।
हसन् सः चौरः किम् अपि प्राणान् शूलगतः जहौ॥१४.२१.४३॥

ततः अवतारितम् शूलात् सा तत्चौरकलेवरम्।
आदाय च आरुरोह अत्र चिताम् साध्वी वणिक्सुता॥१४.२१.४४॥

तत् क्षणम् च श्मशाने अत्र भैरवः कृतसंनिधिः।
अदृश्यः भगवान् एवम् ताम् उवाच अन्तरिक्षतः॥१४.२१.४५॥

अस्मिन् स्वयम्वरपतौ एवम् भक्त्या तव अनया।
तुष्टः अस्मि तत् वरम् मत्तः प्रार्थयस्व पतिव्रते॥१४.२१.४६॥

तत् श्रुत्वा एव वरम् देवात् एवम् वव्रे प्रणम्य सा।
नाथ पुत्रशतम् भूयात् अपुत्रस्य अपि मत्पितुः॥१४.२१.४७॥

येन अनन्यसुतः न एषः प्राणान् जह्यात् मया विना।
इति प्रोक्तवतीम् एनाम् साध्वीम् देवः अब्रवीत् पुनः॥१४.२१.४८॥

पितुः पुत्रशतम् ते अस्तु वरम् अन्यम् वृणीष्व च।
त्वादृशी दृढसत्त्वा हि न एतावत्मात्रम् अर्हति॥१४.२१.४९॥

तत् आकर्ण्य अथ सा अवादीत् प्रसन्नः मयि चेत् प्रभुः।
तत् जीवतु एषः भर्ता मे धार्मिकः च सदा अस्तु इति॥१४.२१.५०॥

एवम् अस्तु अक्षतः जीवन् उत्तिष्ठतु एषः ते पतिः।
धार्मिकः च अस्तु राजास्य वीरकेतुः च तुष्यतु॥१४.२१.५१॥

इति उक्तवति अनालक्ष्यमूर्तौ शर्वे नभःस्थिते।
उत्तस्थौ अक्षताङ्गः अत्र चौरः जीवन् तदा एव सः॥१४.२१.५२॥

ततः विस्मितहृष्टः सन् रत्नदत्तः सुताम् वणिक्।
आदाय ताम् रत्नवतीम् चौरम् जामातरम् च तम्॥१४.२१.५३॥

प्रहृष्टैः बान्धवैः साकम् प्रविश्य निजमन्दिरम्।
लब्धपुत्रवरः चक्रे स्व- आनन्दौचितम् उत्सवम्॥१४.२१.५४॥

ज्ञातवृत्तान्ततुष्टः च तदा एव आनाय्य तम् नृपः।
एकवीरम् वीरकेतुः चौरम् सेनापतिम् व्यधात्॥१४.२१.५५॥

चौर्यात् निवृत्तः अथ सः ताम् परिणीय वणिक्सुताम्।
एकवीरः सुखम् तस्थौ मार्गस्थः राजसंमतः॥१४.२१.५६॥

इति कथयित्वा सः कथाम् वेतालः दत्तपूर्वशापभयम्।
अंसस्थितः त्रिविक्रमसेनम् पप्रच्छ तम् क्षितिपम्॥१४.२१.५७॥

राजन् ब्रूहि सपितृकाम् उपस्थिताम् ताम् वणिक्सुताम् दृष्ट्वा।
चौरेण शूलपृष्टे रुदितम् हसितम् च किम् तेन॥१४.२१.५८॥

अथ राजा प्रत्यवदत् रुदितम् चौरेण दुःखतः तेन।
न अस्य अनृण्यम् अकारणबन्धोः यातः अस्मि वणिजः इति॥१४.२१.५९॥

आश्चर्यतः च हसितम् किम् इयम् कन्या नृपान् वरान् हित्वा।
मयि अस्मिन् अनुरक्ता स्त्रीचित्तम् अहो विचित्रम् इति॥१४.२१.६०॥

इति उक्तवाक्यस्य महीभृतः अंसात् मायी स्वशक्त्य एव तदा जगाम।
स्वम् धाम वेतालवरः सः राजा अपि एतम् पुनः पूर्ववत् अन्वगच्छत्॥१४.२१.६१॥

तुलनीय - भविष्य पुराणम् ३.२.१३

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_14&oldid=76289" इत्यस्माद् पुनः प्राप्तिः