वेतालपञ्चविंशति 17

विकिस्रोतः तः
Jump to navigation Jump to search
← वेतालपञ्चविंशति 16 वेतालपञ्चविंशति 17
सोमदेव
वेतालपञ्चविंशति 18 →

ततः गत्वा पुनः तस्मात् सः राजा शिंशपातरोः।
तम् त्रिविक्रमसेनः अंसे वीरः वेतालम् अग्रहीत्॥१७.२४.१॥

प्रस्थितम् च ततः तम् सः वेतालः स्कन्धतः अब्रवीत्।
राजन् श्रमविनोदाय शृणु एताम् वच्मि ते कथाम्॥१७.२४.२॥

अखण्डधर्ममर्यादम् गङ्गाकूले कृत- आस्पदम्।
कलेः अगम्यम् कनकपुरम् नाम्ना अभवत् पुरम्॥१७.२४.३॥

तस्मिन् यशोधन- आख्यः अभूत् अन्वर्थः वसुधा- अधिपः।
ररक्ष विप्लवाम्भःधेः यः वेला- अद्रिः इव क्षितिम्॥१७.२४.४॥

जगाताह्लादकः चण्डप्रतापः अखण्डमण्डलः।
विधिना यः च चन्द्रार्कौ एकीकृत्य इव निर्ममे॥१७.२४.५॥

मौर्ख्यम् परपरीवादे न शास्त्रार्थे दरिद्रता।
दोषे न कोषदण्डाभ्याम् यस्य आसीत् च महीपतेः॥१७.२४.६॥

पापभीरुः यशःलुब्धः षण्ढः परपुरंध्रिषु।
यः शौर्याउदार्यशृङ्गारमयः जनतया जगे॥१७.२४.७॥

तस्य राज्ञः पुरे तस्मिन् अभूत् एकः महावणिक्।
उन्मादिनी इति ख्याता च कन्या तस्य अभवत् सुता॥१७.२४.८॥

यः यः ताम् हि ददर्श अत्र सः सः तद्रूपसंपदा।
उन्माद्यति स्म मदनस्य अपि मोहनशक्तया॥१७.२४.९॥

तस्याम् च यौवनस्थायाम् सः गत्वा तत्पिता वणिक्।
यशोधनम् तम् राजानम् नीतिवेदी व्यजिज्ञपत्॥१७.२४.१०॥

त्रैलोक्यरत्नभूता मे प्रदेया अस्ति सुता प्रभो।
ताम् अनावेद्य देवस्य न अन्यस्मै दातुम् उत्सहे॥१७.२४.११॥

देवः अपि सर्वरत्नानाम् प्रभुः कृत्स्ने अपि भूतले।
तत्स्वीकृत्य अनुगृह्णातु देवः ताम् प्रतिमुच्य वा॥१७.२४.१२॥

इति आकर्ण्य वणिक्वाक्यम् सः राजा ब्राह्मणान् निजान्।
स- आदरम् व्यसृजत् तस्याः सौलक्षण्यम् अवेक्षितुम्॥१७.२४.१३॥

ते गत्वा ब्राह्मणाः दृष्ट्वा ताम् त्रैलोक्यएकसुन्दरीम्।
सद्यः क्षोभम् ययुः क्षिप्रात् लब्ध्वा धैर्यम् अचिन्तयन्॥१७.२४.१४॥

इमाम् प्राप्नोति चेत् राजा तत् राष्ट्रम् अवसीदति।
एतत्मोहितचित्तः हि किम् सः राज्यम् अवेक्षते॥१७.२४.१५॥

तस्मात् सुलक्षण इति एषा न आख्येया क्षितिपाय नः।
इति एव मन्त्रम् संमन्त्र्य राज्ञः ते जग्मुः अन्तिकम्॥१७.२४.१६॥

कुलक्षणा सा देव इति तम् ऊचुः च अत्र ते मृषा।
तेन राजा सः न एव एताम् स्वीचकार वणिक्सुताम्॥१७.२४.१७॥

ततः तदाज्ञया ताम् सः कन्याम् उन्मादिनीम् पिता।
वणिक् बलधर- आख्याय तत् सेनापतये ददौ॥१७.२४.१८॥

अथ सा तत्गृहे तस्थौ भर्त्रा तेन समम् सुखम्।
कुलक्षणा इति अहम् राज्ञा त्यक्ता इति आत्तविमानना॥१७.२४.१९॥

याति काले च जातु अत्र हत्वा हेमन्तहस्तिनम्।
फुल्लकुन्दलतादन्तम् मथिताम्बुजिनीवनम्॥१७.२४.२०॥

आजगाम लसत्पुष्पमञ्जरीकेसर- आवलिः।
चूताङ्कुरनखः क्रीडन् कानने मधुकेसरी॥१७.२४.२१॥

तत् कालम् च अत्र नगरे तम् वसन्तमहा- उत्सवम्।
सः राजा निर्ययौ द्रष्टुम् गज- आरूढः यशोधनः॥१७.२४.२२॥

तद्रूप- आलोकसंभाव्यविप्लवाः कुलयोषितः।
अपसारयितुम् दत्तम् तदा च उद्घोषडिण्डिमम्॥१७.२४.२३॥

सा श्रुत्वा उन्मादिनी तस्मै राज्ञे स्वगृहहर्म्यतः।
आत्मानम् दर्शयामास परित्यागावमानतः॥१७.२४.२४॥

सः च ताम् चक्षुभे दृष्ट्वा राजा ज्वालाम् इव उद्गताम्।
संधुक्षितस्य कामाग्नेः मधुना मलयानिलैः॥१७.२४.२५॥

निर्वर्णयन् च तद्रूपम् जैत्रम् अस्त्रम् मनःभुवः।
गाढम् प्रविष्टम् हृदये क्षणात् मोहम् उपाययौ॥१७.२४.२६॥

भृत्यैः आश्वासितः च अत्र राजधानीम् प्रविश्य सः।
पृष्टेभ्यः बुबुधे तेभ्यः ताम् प्रागुपनता- उज्झिताम्॥१७.२४.२७॥

ततः निर्वास्य देशात् तान् तत्कुलक्षणवादिनः।
विप्रान् अनुदिनम् दध्यौ ताम् एव उत्कः सः भूपतिः॥१७.२४.२८॥

अहो जड- आत्मा निःलज्जः चन्द्रः नित्यम् उदेति यत्।
जगन्नेत्रोत्सवे तस्याः निःकलङ्के मुखे सति॥१७.२४.२९॥

कठोरौ हेमकलशौ गजकुम्भौ च कर्कशौ।
लभेते न उपमाम् अस्याः स्तनयोः पीनतुङ्गयोः॥१७.२४.३०॥

काञ्चीनक्षत्रमाला- अङ्कम् तत् तस्याः जघनस्थलम्।
कम् न कंदर्पमातङ्गमस्तक- आभम् विलोभयेत्॥१७.२४.३१॥

इति ताम् चिन्तयन् अन्तः क्षीयते स्म दिने दिने।
कामाग्निपुटपाकेन पच्यमानः सः भूपतिः॥१७.२४.३२॥

ह्रिया निगूहमानः च पृच्छद्भ्यः बाह्यलक्षणैः।
कृच्छ्रात् शशंस च आप्तेभ्यः स्वपीडाकारणम् सः तत्॥१७.२४.३३॥

अलम् संतप्य भजसे स्वाधीनाम् तर्हि किम् न ताम्।
इति उक्तः तैः च न एव एतत् अनुमेने सः धार्मिकः॥१७.२४.३४॥

ततः बलधरः बुद्ध्वा सः सेनापतिः एत्य तम्।
प्रभुम् अभ्यर्थयामास सत्भक्तः चरण- आनतः॥१७.२४.३५॥

दासस्त्री तव दासी एव सा देव न पराङ्गना।
स्वयम् च अहम् प्रयच्छामि तत् भार्याम् स्वीकुरुष्व मे॥१७.२४.३६॥

अथवा ताम् त्यजामि इह देव देवकुले ततः।
न दोषः ग्रहणे तस्याः तव देवकुलस्त्रियः॥१७.२४.३७॥

इति स्वसेनापतिना निर्बन्धेन सः पार्थिवः।
तेन अनुनाथ्यमानः अपि सान्तःकोपम् उवाच तम्॥१७.२४.३८॥

राजा भूत्वा कथम् कुर्याम् अधर्मम् अहम् ईदृशम्।
मयि उल्लङ्घितमर्यादे कः हि तिष्ठेत् स्ववर्त्मनि॥१७.२४.३९॥

भक्तः अपि च भवान् पापे नियोजयति माम् कथम्।
परलोकमहादुःखहेतौ क्षणसुख- आवहे॥१७.२४.४०॥

न क्षमिष्ये च ते धर्म्यान् दारान् यदि विहास्यसि।
सहते मादृशः कः हि तादृशम् धर्मविप्लवम्॥१७.२४.४१॥

तत् वरम् मृत्युः इति उक्त्वा सः राजा निषिषेध तम्।
त्यजन्ति उत्तमसत्त्वाः हि प्राणान् अपि न सत्पथम्॥१७.२४.४२॥

तथा एव अर्थयमानान् च पौरजानपदान् अपि।
मिलितान् सः निराचक्रे राजा सुदृढनिश्चयः॥१७.२४.४३॥

ततः क्रमेण तेन एव स्मरज्वरभरौष्मणा।
प्रक्षीणदेहः प्रययौ सः यशःशेषताम् नृपः॥१७.२४.४४॥

सेनापतिः च असहिष्णुः तम् तथा प्रमयम् प्रभोः।
सः अग्निम् विवेश भक्तानाम् अनिर्वाच्यम् हि चेष्टितम्॥१७.२४.४५॥

इति आख्यातकथा- आश्चर्यः वेतालः अंसस्थितः तदा।
सः त्रिविक्रमसेनम् तम् भूयः पप्रच्छ पार्थिवम्॥१७.२४.४६॥

तत् एतयोः कः नृपतेः सेनापतिमहीभृतोः।
सत्त्वेन अभ्यधिकः ब्रूहि पूर्वौक्तः समयः च ते॥१७.२४.४७॥

इति वेतालतः श्रुत्वा मुक्तमौनः सः तम् नृपः।
प्रत्युवाच द्वयोः राजा सत्त्ववान् अधिकः तयोः॥१७.२४.४८॥

तत् आकर्ण्य एव वेतालः स- आक्षेपः तम् अभाषत।
सेनापतिः कथम् न अत्र राजन् अभ्यधिकः वद॥१७.२४.४९॥

यः तथा स्वामिने भक्त्या स्वभार्याम् ताम् तथाविधाम्।
सुचिरज्ञाततत्भोगसुख- आस्वादः अपि उपानयत्॥१७.२४.५०॥

आत्मानम् च अग्निसात् चक्रे तस्मिन् पञ्चत्वम् आगते।
अनास्वादिततत्भोगः तत्कान्ताम् तु जहौ नृपः॥१७.२४.५१॥

वेतालेन एवम् उक्तः तु विहस्य सः नृपः अब्रवीत्।
यदि अपि एवम् तथा अपि एतत् किम् चित्रम् कुलपुत्रकः॥१७.२४.५२॥

सेनापतिः सः भक्त्या यत् स्वामि- अर्थे तत् तथा अकरोत्।
प्राणैः अपि हि भृत्यानाम् स्वामिसंरक्षणम् व्रतम्॥१७.२४.५३॥

राजानः तु मद- आध्माताः गजाः इव निःअङ्कुशाः।
छिन्दन्ति धर्ममर्यादाशृङ्खलाम् विषयौन्मुखाः॥१७.२४.५४॥

तेषाम् हि उद्रिक्तचित्तानाम् अभिषेकाम्बुभिः समम्।
विवेकः विगलति ओघेन उह्यमानः इव अखिलः॥१७.२४.५५॥

क्षिप्यन्ते इव च उद्धूय चलत्चामरमारुतैः।
वृद्धौपदिष्टशास्त्रार्थरजोमशकमक्षिकाः॥१७.२४.५६॥

आतपत्रेण सत्यम् च सूर्य- आलोकः निवार्यते।
विभूतिवात्या- उपहता दृष्टिः मार्गम् च न ईक्षते॥१७.२४.५७॥

ते ते च विपदम् प्राप्ताः मारमोहितचेतसः।
जगद्विजयिनः अपि इह राजानः नहुष- आदयः॥१७.२४.५८॥

एषः राजा पुनः पृथ्व्याम् एकछत्रः अपि यत् तया।
उन्मदिन्या चपलया लक्ष्म्या इव न विमोहितः॥१७.२४.५९॥

प्राणान् अपि सः धर्म- आत्मा तत्याज न पुनः पदम्।
अमार्गे निदधे धीरः तेन असौ मे अधिकः मतः॥१७.२४.६०॥

इति आकर्ण्य नृपस्य तस्य वचनम् भूयः ततंसस्थलात् वतालः सहसा स्वम् एव सः पदम् मायाप्रभावात् ययौ।
राजा अपि अन्वसरत् तथा एव सः पुनः संप्राप्तुम् एतम् जवात् आरब्धे हि सुदुःकरे अपि महताम् मध्ये विरामः कुतः॥१७.२४.६१॥

तुलनीय - भविष्यपुराणम् ३.२.१६

मुकुलोपरि टिप्पणी

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_17&oldid=76889" इत्यस्माद् पुनः प्राप्तिः