वेतालपञ्चविंशति 16

विकिस्रोतः तः
Jump to navigation Jump to search
← वेतालपञ्चविंशति 15 वेतालपञ्चविंशति 16
सोमदेव
वेतालपञ्चविंशति 17 →



(सन्धियुक्त पाठः)
अथ गत्वा पुनः स्कन्धे वेतालं शिंशपाद्रुमात् ।
स त्रिविक्रमसेनस्तमादायोदचलत्ततः ।। १
आगच्छन्तं च तं भूपं स वेतालोऽब्रवीत्पुनः ।
राजञ्शृणु कथामेकामुदारां कथयामि ते ।। २
अस्तीह हिमवान्नाम नगेन्द्रः सर्वरत्नभूः ।
यो गौरीगङ्गयोस्तुल्यः प्रभवो हरकान्तयोः ।। ३
शूरासंस्पृष्टपृष्ठश्च यो मध्ये कुलभूभृताम् ।
अभिमानोन्नतः सत्यं गीयते भुवनत्रये ।। ४
तस्यास्ति सानुन्यन्वर्थं तत्काञ्चनपुरं पुरम् ।
न्यासीकृतमिवार्केण रश्मिवृन्दं विभाति यत् ।। ५
जीमूतकेतुरित्यासीत्तस्मिन्पुरवरे पुरा ।
विद्याधरेश्वरः श्रीमान्मेराविव शतक्रतुः ।। ६
तस्यासीत्स्वगृहोद्याने कल्पवृक्षोऽन्वयागतः ।
यथार्थनामा प्रथितो यो मनोरथदायकः ।। ७
तं प्रार्थ्य देवतात्मानं स राजा तत्प्रसादतः ।
प्राप जातिस्मरं पुत्रं बोधिसत्त्वांशसंभवम् ।। ८
दानवीरं महासत्त्वं सर्वभूतानुकम्पिनम् ।
गुरुशुश्रूषणपरं नाम्ना जीमूतवाहनम् ।। ९
संप्राप्तयौवनं तं च यौवराज्येऽभिषिक्तवान् ।
तनयं प्रेरितः सद्भिस्तद्गुणैः सचिवैश्च सः ।। 12.23.१०
यौवराज्यस्थितश्चैष जातु जीमूतवाहनः ।
हितैषिभिरुपागत्य जगदे पितृमन्त्रिभिः ।। ११
देव कल्पतरुर्योऽयमस्ति वः सर्वकामदः ।
अधृष्यः सर्वभूतानां सैष पूज्यः सदा तव ।। १२
नास्मिन्सति हि शक्रोऽपि बाधेतास्मान्कुतोऽपरः ।
एतच्छ्रुत्वा स जीमूतवाहनोऽन्तरचिन्तयत् ।। १३
अहो बतेदृशमिमं संप्राप्यामरपादपम् ।
नासादितं किमप्यस्मात्पूर्वैर्नस्तादृशं फलम् ।। १४
केवलं कैश्चिदप्यर्थैरर्थितैः कृपणोचितैः ।
आत्मा चैष महात्मा च नीतौ द्वावपि लाघवम् ।। १५
तदहं साधयिष्यामि काममस्मान्मनोगतम् ।
इति निश्चित्य स ययौ महासत्त्वोऽन्तिकं पितुः ।। १६
तत्र संविहिताशेषशुश्रूषापरितोषितम् ।
सुखासीनं तमेकान्ते पितरं स व्यजिज्ञपत् ।। १७
तात त्वमेव जानासि यदेतस्मिन्भवाम्बुधौ ।
आशरीरमिदं सर्वं वीचिविभ्रमचञ्चलम् ।। १८
विशेषेणाचिरस्थायिप्रकाशप्रविलायिनी ।
संध्या विद्युच्च लक्ष्मीश्च दृष्टा कुत्र कदा स्थिरा ।। १९
एकः परोपकारस्तु संसारेऽस्मिन्ननश्वरः ।
यो धर्मयशसी सूते युगान्तशतसाक्षिणी ।। 12.23.२०
तत्तात क्षणिकेष्वेषु भोगेष्वस्माभिरीदृशः ।
एष कल्पतरुः कस्य कृते मोघोऽभिरक्ष्यते ।। २१
यैर्वां मम ममेत्येवमाग्रहेणैष रक्षितः ।
पूर्वैस्ते कुत्र कुत्रायं तेषां कश्चैष कोऽस्य वा ।। २२
तस्मात्परोपकारैकफलसिद्ध्यै त्वदाज्ञया ।
तातैनं विनियुञ्जेऽहं कामदं कल्पपादपम् ।। २३
एवमस्त्विति पित्रा च दत्तानुज्ञोऽथ तेन सः ।
जीमूतवाहनो गत्वा कल्पद्रुममुवाच तम् ।। २४
अभीष्टाः पूरिताः कामाः पूर्वेषां देव नस्त्वया ।
तन्ममैकमिमं काममनन्यं परिपूरय ।। २५
अदरिद्रा यथा पृथ्वीमिमां द्रक्ष्ये तथा कुरु ।
भद्रं ते व्रज दत्तोऽसि लोकायार्थार्थिने मया ।। २६
इत्युक्तवति जीमूतवाहने रचिताञ्जलौ ।
त्यक्तस्त्वयैष जातोऽस्मीत्युदभूद्वाक्तरोस्ततः ।। २७
क्षणाच्चोत्पत्य स दिवं कल्पवृक्षस्तथा वसु ।
ववर्ष भुवि नैवासीत्कोऽप्यस्यां दुर्गतो यथा ।। २८
ततस्तस्य तया तीव्रसर्वसत्त्वानुकम्पया ।
जीमूतवाहनस्यात्र त्रैलोक्ये पप्रथे यशः ।। २९
तेन तद्गोत्रजाः सर्वे मात्सर्यादसहिष्णवः ।
तं लोकसात्कृतार्तिघ्नकल्पवृक्षविनाकृतम् ।। 12.23.३०
जेयं सपितृकं मत्वा संभूय कृतनिश्चयाः ।
युद्धाय समनह्यन्त तद्राज्यापजिहीर्षया ।। ३१
तद्दृष्ट्वा प्राह पितरं स्वं स जीमूतवाहनः ।
तात कस्यापरस्यास्ति शक्तिस्त्वयि धृतायुधे ।। ३२
किं त्वस्य पापकस्यार्थे शरीरस्य विनाशिनः ।
हत्वा बन्धूनकृपणो राज्यं को नाम वाञ्छति ।। ३३
तत्किं राज्येन नः कार्यं गत्वान्यत्र क्वचिद्वयम् ।
धर्ममेव चरिष्यामो लोकद्वयसुखावहम् ।। ३४
मोदन्तां कृपणा एते दायादा राज्यलोलुपाः ।
इत्युक्तवन्तं जीमूतकेतुस्तं स पिताब्रवीत् ।। ३५
अहं त्वदर्थमिच्छामि राज्यं पुत्र त्वमेव चेत् ।
तज्जहासि कृपाविष्टस्तन्मे वृद्धस्य तेन किम् ।। ३६
एवं कृताभ्यनुज्ञेन पित्रा मात्रा च सोऽन्वितः ।
मलयाद्रिमगात्त्यक्तराज्यो जीमूतवाहनः ।। ३७
तत्र चन्दनसंछन्नवहन्निर्झरकन्दरे ।
शुश्रूषमाणः पितरं स तस्थौ कल्पिताश्रमः ।। ३८
मित्त्रं चास्यात्र संपेदे मित्त्रावसुरिति श्रुतः ।
विश्वावसोः सुतः सिद्धराजस्यैतन्निवासिनः ।। ३९
एकदा चात्र स भ्राम्यन्विवेशोपवनस्थितम् ।
द्रष्टुमायतनं देव्या गौर्या जीमूतवाहनः ।। 12.23.४०
तत्रोपवीणयन्तीं च ददर्श वरकन्यकाम् ।
सखीजनान्वितां शैलतनयाराधनोद्यताम् ।। ४१
आकर्ण्यमानसंगीत्तमञ्जुवीणारवा मृगैः ।
दृष्टलोचनलावण्यलज्जितैरिव निश्चलैः ।। ४२
दधता तारकं कृष्णमर्जुनेन स्वचक्षुषा ।
पाण्डवीयामिव चमूं कर्णमूलं विविक्षतीम् ।। ४३
परस्परविमर्देन मुखेन्दोरिव दर्शनम् ।
अतृप्ताविव वाञ्छन्तौ बिभ्रतीं संमुखौ स्तनौ ।। ४४
धातुर्घटयतो मुष्टिग्रहेणेव निपीडिते ।
वलीमग्नाङ्गुलीमुद्रे मध्ये क्षाममनोरमाम् ।। ४५
दृष्टया च तया सद्यः सोऽभूज्जीमूतवाहनः ।
तन्व्या मुषितचित्तोऽन्तर्दृष्टिमार्गप्रविष्टया ।। ४६
सापि तं भूषितोद्यानं दृष्ट्वोत्कण्ठाविकारदम् ।
कामाङ्गदाहवैराग्याद्वनं मधुमिवाश्रितम् ।। ४७
तथानुरागविवशा भेजे कन्या विहस्तताम् ।
यथा सखीव वीणास्या व्याकुलालापतां ययौ ।। ४८
ततः स पप्रच्छ सखीं तस्या जीमूतवाहनः ।
किं धन्यं नाम सख्यास्ते को वंशोऽलंकृतोऽनया ।। ४९
तच्छ्रुत्वा सा सखी प्राह नाम्ना मलयवत्यसौ ।
मित्त्रावसुस्वसा सिद्धराजविश्वावसोः सुता ।। 12.23.५०
एवमुक्त्वा सहृदया सा तं जीमूतवाहनम् ।
नामान्वयौ च पृष्ट्वास्य मुनिपुत्रं सहागतम् ।। ५१
तां ब्रवीति स्म मलयवतीं स्मितमिताक्षरम् ।
सखि विद्याधरेन्द्रस्य नास्यातिथ्यं करोषि किम् ।। ५२
जगत्पूज्योऽतिथिर्ह्येष प्राप्त इत्युदिते तया ।
साभूद्विद्याधरसुता तूष्णीं लज्जानतानना ।। ५३
लज्जावतीयं मत्तोऽर्चा गृह्यतामिति वादिनी ।
एकाथ तत्सखी तस्मै सार्घ्यां मालामुपानयत् ।। ५४
स चादायैव जीमूतवाहनः प्रेमनिर्भरः ।
कण्ठे मलयवत्यास्तां मालां तस्याः समर्पयत् ।। ५५
सापि तिर्यक्प्रसृतया पश्यन्ती स्निग्धया दृशा ।
नीलोत्पलमयीं मालामिव तस्मिन्न्यवेशयत् ।। ५६
इत्यन्योन्यकृताशब्दस्वयंवरविशेषयोः ।
तयोरेत्य जगादैका चेटी तां सिद्धकन्यकाम् ।। ५७
जननी राजपुत्रि त्वां स्मरत्यागच्छ माचिरम् ।
तच्छ्रुत्वाकृष्य कामेषुकीलितामिव कृच्छ्रतः ।। ५८
सोत्कां प्रियमुखाद्दृष्टिं कथंचित्सा ययौ गृहम् ।
जीमूतवाहनोऽप्यागात्तद्गतात्मा स्वमाश्रमम् ।। ५९
साथ स्वां जननीं दृष्ट्वा प्राणेशविरहातुरा ।
गत्वा मलयवत्याशु पपात शयनीयके ।। 12.23.६०
अथान्तर्गतकामाग्निधूमेनेवाविलेक्षणा ।
अश्रुधारां प्रमुञ्चन्ती संतापक्वथिताङ्गका ।। ६१
सखीभिश्चन्दनैर्लिप्ता वीजिता चाब्जिनीदलैः ।
रतिं न भेजे शयने नाङ्के सख्या न भूतले ।। ६२
गतेऽथ वासरे क्वापि रक्तया सह संध्यया ।
हसत्प्राचीमुखं चन्द्रे समाक्रम्य च चुम्बति ।। ६३
स्मरेण प्रेर्यमाणापि दूतीसंप्रेषणादि सा ।
लज्जया नाशकत्कर्तुं जीवितस्पृहयोज्झिता ।। ६४
निनाय च निशामिन्दुविषमामब्जिनीव ताम् ।
बद्धमोहालिपटले हृदि संकोचमेत्य सा ।। ६५
तावच्च तद्वियोगार्तः सोऽपि जीमूतवाहनः ।
शयनस्थोऽपि पतितो हस्ते कुसुमधन्वनः ।। ६६
नूतनोद्भिन्नरागोऽपि प्रोन्मिषत्पाण्डुरच्छविः ।
ह्रीमूकोऽपि वदन्पीडां कामजामनयन्निशाम् ।। ६७
प्रातश्चात्युत्सुको भूयस्तद्गौर्यायतनं ययौ ।
यत्र दृष्टाभवत्तेन सा सिद्धाधिपपुत्रिका ।। ६८
तत्र तेन स मित्त्रेण मुनिपुत्रेण पृष्ठतः ।
आगत्याश्वास्यते यावन्मदनानलविह्वलः ।। ६९
तावत्तत्रैव साप्यागान्निर्गत्यैकैव निर्जने ।
गुप्तं मलयवत्यात्मत्यागाय विरहासहा ।। 12.23.७०
अलक्षयन्ती कान्तं स्वं पादपान्तरितं च सा ।
उदश्रुलोचना बाला देवीं गौरीं व्यजिज्ञपत् ।। ७१
त्वद्भक्त्या देवि संवृत्तो नास्मिञ्जन्मनि चेन्मम ।
जीमूतवाहनो भर्ता तद्भूयात्सोऽन्यजन्मनि ।। ७२
इत्युक्त्वा रचयामास स्वोत्तरीयेण तत्क्षणम् ।
अशोकतरुशाखायां पाशं सा गिरिजाग्रतः ।। ७३
हा नाथ विश्वविख्यातकरुणेनापि न त्वया ।
कथमस्मि परित्राता देव जीमूतवाहन ।। ७४
एवमुक्त्वा गले यावत्सा तं पाशं नियच्छति ।
उच्चचार दिवस्तावद्भारती देव्युदीरिता ।। ७५
पुत्रि मा साहसं कार्षीश्चक्रवर्ती पतिस्तव ।
विद्याधरेन्द्रो जीमूतवाहनो हि भविष्यति ।। ७६
इत्युक्तवत्यां देव्यां स श्रुत्वैव सवयस्यकः ।
जीमूतवाहनो हृष्टां प्रियामुपजगाम ताम् ।। ७७
सैष देव्या वरः पश्य वितीर्णः सत्य एव ते ।
इति जल्पति बालां तां तन्मित्रे मुनिपुत्रके ।। ७८
जीमूतवाहनस्तत्तद्ब्रुवन्प्रणयपेशलम् ।
स्वहस्तेनैव तं तस्याः कण्ठात्पाशमपानयत् ।। ७९
ततोऽकस्मात्सुधावर्षमिव मन्वानयोस्तयोः ।
भुवं मलयवत्यां च लिखन्त्यां ह्रीतया दृशा ।। 12.23.८०
चिन्वानागत्य सहसा सखी हृष्टा जगाद ताम् ।
सखि कल्याणिनी दिष्ट्या वर्धसेऽभीष्टसिद्धितः ।। ८१
अद्यैव हि महाराजस्तव विश्वावसुः पिता ।
कुमारमित्त्रावसुना विज्ञप्तः संनिधौ मम ।। ८२
इहागतो जगन्मान्यस्तात कल्पतरुप्रदः ।
विद्याधरेन्द्रतनयो योऽयं जीमूतवाहनः ।। ८३
अतिथित्वात्स नः पूज्यो वरश्चान्यो न तादृशः ।
तस्मान्मलयवत्यासौ कन्यारत्नेन पूज्यताम् ।। ८४
तथेति श्रद्धिते राज्ञा भ्राता मित्त्रावसुः स ते ।
तादर्थ्येन महाभागस्यास्याश्रमपदं गतः ।। ८५
जाने सद्यश्च भावी ते विवाहस्तत्स्वमन्दिरम् ।
आयाहि यातु चैषोऽपि महाभागः स्वमास्पदम् ।। ८६
इत्युक्ता सा तया सख्या राजपुत्री शनैस्ततः ।
ययुः सहर्षा सोत्का च मुहुर्वलितकंधरा ।। ८७
जीमूतवाहनोऽप्याशु गत्वा स्वाश्रममागतात् ।
मित्त्रावसोर्यथाभीष्टं कार्यं श्रुत्वाभिनन्द्य च ।। ८८
जातिस्मरः समाचख्यौ तस्मै स्वं पूर्वजन्म सः ।
यत्र मित्त्रं स तस्यासीत्सा च भार्यैव तत्स्वसा ।। ८९
ततो मित्त्रावसुः प्रीतस्तत्पित्रोः परितुष्यतोः ।
आवेद्य गत्वा पितरौ कृतार्थः स्वावनन्दयत् ।। 12.23.९०
निनाय च तदैव स्वान्गृहाञ्जीमूतवाहनम् ।
चक्रे चोत्सवसंभारं स्वसिद्ध्युचितवैभवम् ।। ९१
तस्मिन्नेव च धन्येऽह्नि तस्य विद्याधरप्रभोः ।
स्वसुर्मलयवत्याश्च विवाहं समपादयन् ।। ९२
ततो नवोढया साकं तया जीमूतवाहनः ।
तस्थौ मलयवत्या स तत्र सिद्धमनोरथः ।। ९३
एकदा कौतुकाच्चात्र स मित्त्रावसुना सह ।
मलयाद्रौ भ्रमन्नब्धेर्वेलावनमुपेयिवान् ।। ९४
तत्रास्थिराशीन्सुबहून्दृष्ट्वा मित्त्रावसुं स तम् ।
केषामेतेऽस्थिसंघाताः प्राणिनामिति पृष्टवान् ।। ९५
ततो मित्त्रावसुः श्यालस्तं कारुणिकमब्रवीत् ।
शृणु वृत्तान्तमत्रेमं संक्षेपाद्वर्णयामि ते ।। ९६
नागमाता पुरा कद्रूर्विनतां तार्क्ष्यमातरम् ।
निनाय किल दासत्वं सव्याजपणनिर्जिताम् ।। ९७
तेन वैरेण गरुडस्तामुन्मोच्यापि मातरम् ।
बली भक्षयितुं नागान्कद्रूपुत्रान्प्रचक्रमे ।। ९८
सदा प्रविश्य पातालं सोऽथ कांश्चिज्जघास तान् ।
कांश्चिन्ममर्द केचित्तु स्वयं त्रासाद्विपेदिरे ।। ९९
तद्दृष्ट्वैकपदे सर्वक्षयमाशङ्क्य नागराट् ।
वासुकिः प्रार्थनापूर्वं तार्क्ष्यस्य समयं व्यधात् ।। 12.23.१००
एकमेकमहं नागमाहारार्थं खगेन्द्र ते ।
प्रत्यहं प्रेषयाम्यत्र पुलिने दक्षिणोदधेः ।। १०१
त्वया तु न प्रवेष्टव्यं पातालेऽस्मिन्कथंचन ।
को हि स्वार्थो विनष्टेषु नागेष्वेकपदे तव ।। १०२
इत्युक्ते नागराजेन समयं प्रत्यपद्यत ।
स्वार्थदर्शी तथेत्येव गरुडो गुरुविक्रमः ।। १०३
तदाप्रभृति चेकैकं नागं भुङ्क्ते दिने दिने ।
वासुकिप्रेषितं सोऽत्र खगेन्द्रः पुलिनेऽम्बुधेः ।। १०४
अतस्तद्भक्ष्यमाणानां नागानामस्थिसंचयाः ।
एतेऽत्र गिरिशृङ्गाभा वृद्धिं कालक्रमाद्गताः ।। १०५
इति मित्त्रावसोर्वक्त्रात्सान्तर्दुःखो निशम्य सः ।
निजगाद दयाधैर्यनिधिर्जीमूतवाहनः ।। १०६
शोच्यः स वासुकी राजा यः स्वहस्तेन विद्विषे ।
उपहारीकरोति स्वाः प्रजाः क्लीबो दिने दिने ।। १०७
धृताननसहस्रः सन्नेकेनाप्याननेन सः ।
मामादौ भुङ्क्ष्व तार्क्ष्येति भाषितुं नाशकत्कथम् ।। १०८
कथं चाभ्यर्थयामास निःसत्त्वः स्वकुलक्षयम् ।
तार्क्ष्यं नागाङ्गनाक्रन्दनित्याकर्णननिर्घृणः ।। १०९
तार्क्ष्योऽपि काश्यपिर्वीरः कृष्णाधिष्ठानपावनः ।
ईदृशं कुरुते पापमहो मोहस्य गाढता ।। 12.23.११०
इत्युक्त्वा स महासत्त्वो हृदि चक्रे मनोरथम् ।
अप्यसारेण देहेन सारमत्राप्नुयामहम् ।। १११
एकस्याप्यद्य नागस्य कुर्यां जीवितरक्षणम् ।
अबान्धवस्य भीतस्य दत्त्वात्मानं गरुत्मते ।। ११२
इति संचिन्तयत्येव तस्मिञ्जीमूतवाहने ।
मित्त्रावसोः पितुः पार्श्वात्क्षत्ताह्वानार्थमाययौ ।। ११३
व्रज त्वमहमेष्यामि पश्चादिति ततश्च तम् ।
मित्त्रावसुं स जीमूतवाहनो व्यसृजद्गृहम् ।। ११४
गते तस्मिन्स चात्रैको वाञ्छितार्थोन्मुखो भ्रमन् ।
कृपालुरशृणोद्दूरात्करुणं रुदितध्वनिम् ।। ११५
गत्त्वा ददर्श चोत्तुङ्गशिलातलसमीपगम् ।
युवानमेकं पुरुषं दुःखितं सुन्दराकृतिम् ।। ११६
पुंसा राजभटेनेव त्यक्तमानीय तत्क्षणम् ।
निवर्तयन्तं रुदतीं वृद्धां सानुनयं स्त्रियम् ।। ११७
कोऽयं स्यादिति यावच्च जिज्ञासुः सोऽत्र तिष्ठति ।
करुणाकुलितश्छन्नः शृण्वञ्जीमूतवाहनः ।। ११८
तावत्सा तत्र वृद्धा स्त्री दुःखभारातिपीडिता ।
प्रावर्तत युवानं तं दृष्ट्वा दृष्ट्वानुशोचितुम् ।। ११९
हा शङ्खचूड हा दुःखशतसंप्राप्त हा गुणिन् ।
कुलैकतन्तो हा पुत्र क्व त्वां द्रक्ष्याम्यहं पुनः ।। 12.23.१२०
वत्स त्वन्मुखचन्द्रेऽस्मिन्गतेऽस्तं स पिता तव ।
शोकान्धकारपतितः कथं वृद्धो भविष्यति ।। १२१
अथार्ककरसंस्पर्शादङ्गं दूयेत यत्तव ।
कथं शक्ष्यति तत्सोढुं तार्क्ष्यभक्षणजां रुजम् ।। १२२
विस्तीर्णे नागलोकेऽपि धात्रा नागाधिपेन च ।
लब्धस्त्वं किमभव्याया विचित्यैकसुतो मम ।। १२३
इति तां विलपन्तीं च स युवा तनयोऽब्रवीत् ।
दुःखार्तमपि मामम्ब किं दुःखयसि हा भृशम् ।। १२४
निवर्तस्व गृहानेष प्रणामः पश्चिमस्तव ।
इहागमनवेला हि भवेज्जातु गरुत्मतः ।। १२५
तच्छ्रुत्वा हा हतास्मीह को मे पास्यति पुत्रकम् ।
इति चक्रन्द सा वृद्धा दिक्षु क्षिप्तार्तलोचना ।। १२६
तावच्च बोधिसत्त्वांशः स तज्जीमूतवाहनः ।
श्रुत्वा दृष्ट्वा च कृपया गाढाक्रान्तो व्यचिन्तयत् ।। १२७
हन्तायं शङ्खचूडाख्यो नागो वासुकिना बत ।
आहारहेतोस्तार्क्ष्यस्य तपस्वी प्रेषितोऽधुना ।। १२८
इयं चैतस्य जननी स्नेहेनेहान्वगागता ।
एतदेकसुता वृद्धा दुःखदीनप्रलापिनी ।। १२९
तदेनमेकमार्तं चेद्देहेनैकान्तनाशिना ।
रक्षामि नामुना नागं तन्मे धिग्जन्म निष्फलम् ।। 12.23.१३०
इत्यालोच्योपगम्यैव मुदा जीमूतवाहनः ।
वृद्धामुवाच तां मातः पुत्रं रक्षाम्यहं तव ।। १३१
तच्छ्रुत्वा भावितभया वृद्धा गरुडशङ्किनी ।
संत्रस्ता तार्क्ष्य मां भुङ्क्ष्व मां भुङ्क्ष्वेति जगाद सा ।। १३२
शङ्खचूडस्ततोऽवादीन्नैष तार्क्ष्योऽम्ब मा त्रसीः ।
क्वायं चन्द्र इवाह्लादी क्व स तार्क्ष्यो भयंकरः ।। १३३
इत्युक्ते शङ्खचूडेन प्राह जीमूतवाहनः ।
विद्याधरोऽहमायातो रक्षितुं सुतमम्ब ते ।। १३४
दास्यामि हि शरीरं स्वं वस्त्रच्छन्नं गुरुत्मते ।
क्षुधिताय प्रयाहि त्वमादायैनं सुतं गृहम् ।। १३५
तच्छ्रुत्वा साब्रवीद्वृद्धा मैवं त्वं ह्यधिको मम ।
पुत्रो यस्येदृशे काले कृपास्मास्वियमीदृशी ।। १३६
एतच्छ्रुत्वा स जीमूतवाहनः पुनरब्रवीत् ।
न मे मनोरथस्यास्य भङ्गं कर्तुमिहार्हथ ।। १३७
ग्रहादेवं ब्रुवाणं च शङ्खचूडो जगाद तम् ।
दर्शितैव महासत्त्व त्वया सत्यं कृपालुता ।। १३८
नत्वहं त्वच्छरीरेण रक्ष्यामि स्वशरीरकम् ।
रत्नव्ययेन पाषाणं को हि रक्षितुमर्हति ।। १३९
मादृशैस्तु जगत्पूर्णं स्वात्ममात्रानुकम्पिभिः ।
अनुकम्प्यं जगद्येषां विरलास्ते भवादृशाः ।। 12.23.१४०
न चाहं मलिनीकर्तुं शङ्खपालकुलं शुचि ।
कलङ्क इव तीक्ष्णांशुबिम्बं शक्ष्यामि सन्मते ।। १४१
इति तं प्रतिषिध्यैव शङ्खचूडः स्वमातरम् ।
जगादाम्ब निवर्तस्व कान्ताराद्दुर्गमादितः ।। १४२
न पश्यसि किमत्रैतन्नागासृक्कर्दमोक्षितम् ।
कृतान्तलीलापर्यङ्करौद्रं वध्यशिलातलम् ।। १४३
अहं चाब्धितटे गत्वा नत्वा गोकर्णमीश्वरम् ।
आगच्छामि द्रुतं यावन्नायाति गरुडोऽत्र सः ।। १४४
इत्युक्त्वा कृपणाक्रन्दां प्रणम्यापृच्छय मातरम् ।
स गोकर्णप्रणामार्थं शङ्खचूडो ययौ ततः ।। १४५
अस्मिंश्चेदन्तरे प्राप्तस्तार्क्ष्यः सिद्धो ममेप्सितः ।
परार्थ इति जीमूतवाहनोऽप्यकरोद्धृदि ।। १४६
तावच्चासन्नपक्षीन्द्रपक्षानिलचलांस्तरून् ।
विलोक्यात्र स मामेति निवारणपरानिव ।। १४७
मत्वा गरुडवेलां च प्राप्तां जीमूतवाहनः ।
परार्थप्राणदो वध्यशिलामध्यारुरोह ताम् ।। १४८
पवनाघूर्णिते चाब्धौ स्फुरद्रत्नप्रभादृशा ।
तं सत्त्वातिशयं तस्य पश्यतीव सविस्मयम् ।। १४९
आगत्याच्छादितनभा निपत्यैतच्छिलातलात् ।
चङच्वा गरुत्मानाहत्य महासत्त्वं जहार तम् ।। 12.23.१५०
स्रुतासृग्धारमुत्खातशिरोरत्नं च तं जवात् ।
नीत्वा भक्षयितुं शृङ्गे मलयाद्रेः प्रचक्रमे ।। १५१
एवमेव परार्थाय देहः स्यात्प्रतिजन्म मे ।
मा भूतां स्वर्गमोक्षौ तु परोपकृतिवर्जितौ ।। १५२
इति तार्क्ष्याद्यमानस्य तस्यानुध्यायतस्तदा ।
विद्याधरेन्दोरपतत्पुष्पवृष्टिर्नभस्तलात् ।। १५३
अत्रान्तरे स तद्रक्तधारास्रवशिरोमणिः ।
तस्या मलयवत्याश्च तत्पत्न्याः प्रापतत्पुरः ।। १५४
सा तद्दृष्ट्वा परिज्ञाय चूडारत्नं सुविह्वला ।
अन्तिकस्था श्वशुरयोस्ताभ्यां साश्रुरदर्शयत् ।। १५५
तौ च जायापती सूनोः शिरोरत्नं विलोक्य तम् ।
किमेतदिति संभ्रान्तौ सहसैव बभूवतुः ।। १५६
ततः स्वविद्यानुध्यानाद्यथावृत्तमवेत्य तत् ।
राजा जीमूतकेतुः सा राज्ञी कनकवत्यपि ।। १५७
वध्वा मलयवत्या तौ प्रावर्तेतां सह द्रुतम् ।
गन्तुं तत्रैव तौ यत्र तार्क्ष्यजीमूतवाहनौ ।। १५८
तावत्स शङ्खचूडोऽत्र नत्वा गोकर्णमागतः ।
ददर्श रुधिरार्द्रं तद्विग्नो वध्यशिलातलम् ।। १५९
हा हतोऽस्मि महापापो ध्रुवं तेन महात्मना ।
आत्मा गरुत्मते दत्तो मत्कृते सुकृपालुना ।। 12.23.१६०
तदन्विष्यामि नीतः स क्षणेऽस्मिन्क्वाहिवैरिणा ।
मज्जेयं नायशःपङ्के जीवन्तं चेत्तमाप्नुयाम् ।। १६१
इत्युदश्रुर्वदन्सोऽथ साधुर्दृष्ट्वा निरन्तराम् ।
पतितां भुवि तद्रक्तधारामनुसरन्ययौ ।। १६२
अत्रान्तरे भक्षयंस्तं दृष्ट्वा जीमूतवाहनम् ।
हृष्टं विरम्य गरुडश्चिन्तयामास तत्क्षणम् ।। १६३
अहो अपूर्वः कोऽप्येष भक्ष्यमाणोऽपि यो मया ।
प्रहृष्यति महासत्त्वो न तु प्राणैर्वियुज्यते ।। १६४
बिभर्ति लुप्तशेषे च गात्रे रोमाञ्चकञ्चुकम् ।
किं चोपकारिणीवास्य मयि दृष्टिः प्रसीदति ।। १६५
तत्रैव नागः कोऽप्येष साधुः पृच्छामि नाद्म्यमुम् ।
इति तार्क्ष्यं विमृश्यन्तं प्राह जीमूतवाहनः ।। १६६
पक्षीन्द्र किं निवृत्तोऽसि नहि मे मांसशोणितम् ।
देहे नास्ति न चाद्यापि परितृप्तोऽसि भुङ्क्ष्व तत्।। १६७
एतच्छ्रुत्वातिसाश्चर्यस्तं पप्रच्छ स पक्षिराड् ।
नागो नैवासि तद्बूहि महात्मन्को भवानिति ।। १६८
नाग एवास्मि कोऽयं ते प्रश्नः प्रकृतमाचर ।
प्रस्तुतार्थविरुद्धं हि कोऽभिदध्यादबालिशः ।। १६९
एवं प्रतिवदत्येव तार्क्ष्यं जीमूतवाहने ।
प्राप्तः स शङ्खचूडोऽत्र दूरादेवाभ्यभाषत ।। 12.23.१७०
मा मा कृथा महापापं साहसं विनतात्मज ।
कोऽयं भ्रमस्ते नह्येष नागो नागोऽहमेष ते ।। १७१
इत्युक्त्वा द्रुतमागत्य मध्ये स्थित्वा तयोर्द्वयोः ।
दृष्ट्वा च तार्क्ष्यं विभ्रान्तं शङ्खचूडोऽब्रवीत्पुनः ।। १७२
किं भ्राम्यसि फणाः किं मे जिह्वे द्वे च न पश्यसि ।
विद्याधरस्य किं चास्य सौम्यां पश्यसि नाकृतिम् ।। १७३
शङ्खचूडे वदत्येवं भार्या च पितरौ च तौ ।
जीमूतवाहनस्यात्र सर्वे सत्वरमाययुः ।। १७४
विलुप्ताङ्गं च तं दृष्ट्वा पितरौ तस्य तत्क्षणम् ।
चक्रन्दतुस्तौ हा पुत्र हा हा जीमूतवाहन ।। १७५
हा कारुणिक हा वत्स परार्थप्रत्तजीवित ।
हा कथं वैनतेयेदमविमृश्य कृतं त्वया ।। १७६
एतच्छ्रुत्वैव तार्क्ष्योऽत्र सोऽनुतप्तो व्यचिन्तयत् ।
हा कथं बोधिसत्त्वांशः संमोहाद्भक्षितो मया ।। १७७
जीमूतवाहनः सोऽयं परार्थप्राणदायकः ।
यस्य भ्रमति कृत्स्नेऽस्मिंस्त्रैलोक्ये कीर्तिघोषणा ।। १७८
तन्मे मृतेऽस्मिन्पापस्य प्राप्तमग्निप्रवेशनम् ।
अधर्मविषवृक्षस्य पच्यते स्वादु किं फलम् ।। १७९
इति चिन्ताकुले तार्क्ष्ये दृष्ट्वा बन्धून्निपत्य सः ।
व्रणव्यथायां पञ्चत्वं प्राप जीमूतवाहनः ।। 12.23.१८०
ततो विलपतोस्तत्र तत्पित्रोः शोकदीनयोः ।
उत्क्रुश्य मुहुरात्मानं शङ्खचूडे च निन्दति ।। १८१
भार्या मलयवत्यस्य नभो दृष्ट्वाश्रुगद्गदम् ।
पूर्वप्रसन्नां वरदामित्युपालभताम्बिकाम् ।। १८२
विद्याधराधिपो भावि चक्रवर्ती पतिस्तव ।
भवितेत्यहमादिष्टा देवि गौरि तदा त्वया ।। १८३
तन्मिथ्यावादिनी जाता त्वमप्यसि कथं मयि ।
इत्युक्तवत्यां तस्यां सा गौरी प्रत्यक्षतामगात् ।। १८४
न मे मिथ्या वचः पुत्रीत्युक्त्वा सा स्वकमण्डलोः ।
अमृतेनाशु जीमूतवाहनं सिञ्चति स्म तम् ।। १८५
तेन सोऽक्षतसर्वाङ्गः पूर्वाधिकेतरद्युतिः ।
जीवन्सद्यः समुत्तस्थौ कृती जीमूतवाहनः ।। १८६
उत्थितं प्रणतं तं च सर्वेषु प्रणमत्सु सा ।
उवाच देवी तुष्टास्मि देहदानेन तेऽमुना ।। १८७
तदेषा त्वाभिषिञ्चामि पुत्रात्मीयेन पाणिना ।
विद्याधराणामाकल्पं चक्रवर्तिपदेऽधुना ।। १८८
एवं वदन्ती जीमूतवाहनं कलशाम्बुधिः ।
तमभ्यषिञ्चच्छर्वाणी पूजिता च तिरोदधे ।। १८९
निपेतुश्चात्र तत्कालं दिव्याः कुसुमवृष्टयः ।
नदन्ति स्म च सानन्दं देवदुन्दुभयो दिवि ।। 12.23.१९०
अथोवाच स तं प्रह्वस्तार्क्ष्यो जीमूतवाहनम् ।
चक्रवर्तिन्नहं प्रीतः पुरुषातिशये त्वयि ।। १९१
अपूर्वोदारमतिना त्रिजगत्कौतुकावहम् ।
ब्रह्माण्डभित्तिलिखितं येन चित्रमिदं कृतम् ।। १९२
तन्मां प्रशाधि मत्तश्च वृणुष्वाभीप्सितं वरम् ।
इत्युक्तवन्तं गरुडं महासत्त्वो जगाद सः ।। १९३
न भक्ष्याः सानुतापेन भूत्वा नागाः पुनस्त्वया ।
तेऽप्यस्थिशेषा जीवन्तु ये त्वया पूर्वभक्षिताः ।। १९४
एवमस्तु न भोक्ष्येऽहं नागाञ्शान्तमतः परम् ।
प्राग्ये च भुक्तास्ते जीवन्त्विति तार्क्ष्योऽप्युवाच सः ।। १९५
ततोऽस्थिशेषा येऽप्यासन्नागास्तत्पूर्वभक्षिताः ।
तेऽपि सर्वे समुत्तस्थुस्तद्वरामृतजीविताः ।। १९६
सुरैर्नागैर्मुनिगणैः सानन्दैर्मिलितैरथ ।
स लोकत्रितयाभिख्यामुवाह मलयाचलः ।। १९७
तत्कालं तं च जीमूतवाहनोदन्तमद्भुतम् ।
गौर्याः प्रसादाद्विविदुः सर्वे विद्याधरेश्वराः ।। १९८
आगत्य ते च चरणावनता हिमाद्रिं निन्युः क्षणान्मुदितबन्धुसुहृत्समेतम् ।
तं पार्वतीस्वकरक्लृप्तमहाभिषेकं सच्चक्रवर्तिनमथ प्रतिमुक्ततार्क्ष्यम् ।। १९९
तत्र स पित्रा मात्रा मित्त्रावसुना च मलयवत्या च ।
निजगृहगतागतेन च संयुक्तः शङ्खचूडेन ।। 12.23.२००
लोकोत्तरचरिताद्भुतसिद्धां जीमूतवाहनः सुचिरम् ।
अभजत रत्नोपचितां विद्याधरचक्रवर्तिधुरम् ।। २०१
इत्यत्युदारसरसामाख्याय कथां तदा स वेतालः ।
पुनरेव तं त्रिविक्रमसेनं पप्रच्छ राजानम् ।। २०२
तद्ब्रूहि शङ्खचूडः किं वा जीमूतवाहनोऽभ्यधिकः ।
सत्त्वेन तयोरुभयोः पूर्वोक्तश्चात्र समयस्ते ।। २०३
इत्यस्माद्वेतालाच्छ्रुत्वा मौनं विहाय शापभयात् ।
तमुवाच स त्रिविक्रमसेनो नृपतिर्निरुद्वेगः ।। २०४
बहुजन्मसिद्धमेतच्चित्रं जीमूतवाहनस्य कियत् ।
श्लाघ्यः स शङ्खचूडो मरणोत्तीर्णोऽपि यो रिपवे ।। २०५
अन्यप्रत्तात्मानं प्राप्य सुदूरं गताय तार्क्ष्याय ।
पश्चाद्धावन्गत्वा स्वं देहमुपानयत्प्रसभम् ।। २०६
एतन्निशम्यैव नृपस्य तस्य वाक्यं स वेतालवरो जगाम ।
पुनः स्वधामैव तदंसपृष्ठान्नृपोऽपि तं सोऽनुययौ तथैव ।। २०७
इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके त्रयोविंशस्तरङ्गः ।


(सन्धिमुक्त पाठः)
अथ गत्वा पुनः स्कन्धे वेतालम् शिंशपाद्रुमात्।
सः त्रिविक्रमसेनः तम् आदाय उदचलत् ततः॥१६.२३.१॥
आगच्छन्तम् च तम् भूपम् सः वेतालः अब्रवीत् पुनः।
राजन् शृणु कथाम् एकाम् उदाराम् कथयामि ते॥१६.२३.२॥
अस्ति इह हिमवान् नाम नगैन्द्रः सर्वरत्नभूः।
यः गौरीगङ्गयोः तुल्यः प्रभवः हरकान्तयोः॥१६.२३.३॥
शूरासंस्पृष्टस्प्र्ष्ठः च यः मध्ये कुलभूभृताम्।
अभिमानौन्नतः सत्यम् गीयते भुवनत्रये॥१६.२३.४॥
तस्य अस्ति सानुनि अनुअर्थम् तत् काञ्चनपुरम् पुरम्।
न्यासीकृतम् इव अर्केण रश्मिवृन्दम् विभाति यत्॥१६.२३.५॥
जीमूतकेतुः इति आसीत् तस्मिन् पुरवरे पुरा।
विद्याधर- ईश्वरः श्रीमान् मेरौ इव शतक्रतुः॥१६.२३.६॥
तस्य आसीत् स्वगृहौद्याने कल्पवृक्षः अन्वय- आगतः।
यथा- अर्थनामा प्रथितः यः मनःरथदायकः॥१६.२३.७॥
तम् प्रार्थ्य देवता- आत्मानम् सः राजा तत् प्रसादतः।
प्राप जातिस्मरम् पुत्रम् बोधिसत्त्वांशसंभवम्॥१६.२३.८॥
दानवीरम् महासत्त्वम् सर्वभूतानुकम्पिनम्।
गुरुशुश्रूषणपरम् नाम्ना जीमूतवाहनम्॥१६.२३.९॥
संप्राप्तयौवनम् तम् च यौवराज्ये अभिषिक्तवान्।
तनयम् प्रेरितः सद्भिः तत्गुणैः सचिवैः च सः॥१६.२३.१०॥
यौवराज्यस्थितः च एषः जातु जीमूतवाहनः।
हितएषिभिः उपागत्य जगदे पितृमन्त्रिभिः॥१६.२३.११॥
देव कल्पतरुः यः अयम् अस्ति वः सर्वकामदः।
अधृष्यः सर्वभूतानाम् सः एषः पूज्यः सदा तव॥१६.२३.१२॥
न अस्मिन् सति हि शक्रः अपि बाधेत अस्मान् कुतः अपरः।
एतत् श्रुत्वा सः जीमूतवाहनः अन्तरचिन्तयत्॥१६.२३.१३॥
अहो बत ईदृशम् इमम् संप्राप्य अमरपादपम्।
न आसादितम् किम् अपि अस्मात् पूर्वैः नः तादृशम् फलम्॥१६.२३.१४॥
केवलम् कैःचित् अपि अर्थैः अर्थितैः कृपणौचितैः।
आत्मा च एषः महा- आत्मा च नीतौ द्वौ अपि लाघवम्॥१६.२३.१५॥
तत् अहम् साधयीष्यामि कामम् अस्मात् मनःगतम्।
इति निश्चित्य सः ययौ महासत्त्वः अन्तिकम् पितुः॥१६.२३.१६॥
तत्र संविहिताशेषशुश्रूषापरितोषितम्।
सुख- आसीनम् तम् एकान्ते पितरम् सः व्यजिज्ञपत्॥१६.२३.१७॥
तत त्वम् एव जानासि यत् एतस्मिन् भवाम्बुधौ।
आशरीरम् इदम् सर्वम् वीचिविभ्रमचञ्चलम्॥१६.२३.१८॥
विशेषेन अचिरस्थायिप्रकाशप्रविलायिनी।
संध्या विद्युत् च लक्ष्मीः च दृष्टा कुत्र कदा स्थिरा॥१६.२३.१९॥
एकः परौपकारः तु संसारे अस्मिन् अनश्वरः।
यः धर्मयशसी सूते युगान्तशतसाक्षिणी॥१६.२३.२०॥
तत् तात क्षणिकेषु एषु भोगेषु अस्माभिः ईदृशः।
एषः कल्पतरुः कस्य कृते मोघः अभिरक्ष्यते॥१६.२३.२१॥
यैः वा मम मम इति एवम् आग्रहेन एषः रक्षितः।
पूर्वैः ते कुत्र कुत्र अयम् तेषाम् कः च एषः कः अस्य वा॥१६.२३.२२॥
तस्मात् परौपकारएकफलसिद्ध्यै त्वताज्ञया।
तात एनम् विनियुञ्जे अहम् कामदम् कल्पपादपम्॥१६.२३.२३॥
एवम् अस्तु इति पित्रा च दत्तानुज्ञः अथ तेन सः।
जीमूतवाहनः गत्वा कल्पद्रुमम् उवाच तम्॥१६.२३.२४॥
अभीष्टाः पूरिताः कामाः पूर्वेषाम् देव नः त्वया।
तत् मम एकम् इमम् कामम् अनन्यम् परिपूरय॥१६.२३.२५॥
अदरिद्राम् यथा पृथ्वीम् इमाम् द्रक्ष्ये तथा कुरु।
भद्रम् ते व्रज दत्तः असि लोकाय अर्थार्थिने मया॥१६.२३.२६॥
इति उक्तवति जीमूतवाहने रचिताञ्जलौ।
त्यक्तः त्वया एषः जातः अस्मि इति उदभूत् वाक् तरोः ततः॥१६.२३.२७॥
क्षणात् च उत्पत्य सः दिवम् कल्पवृक्षः तथा वसु।
ववर्ष भुवि न एव आसीत् कः अपि अस्याम् दुःगतः यथा॥१६.२३.२८॥
ततः तस्य तया तीवृ- असर्वसत्त्वानुकम्पया।
जीमूतवाहनस्य अत्र त्रैलोक्ये पप्रथे यशः॥१६.२३.२९॥
तेन तत्गोत्रजाः सर्वे मात्सर्यात् असहिष्णवः।
तम् लोकसात्कृत- आर्तिघ्नकल्पवृक्षविनाकृतम्॥१६.२३.३०॥
जेयम् सपितृकम् मत्वा संभूय कृतनिश्चयाः।
युद्धाय समनह्यन्त तत् राज्यापजिहीर्षया॥१६.२३.३१॥
तत् दृष्ट्वा प्राह पितरम् स्वम् सः जीमूतवाहनः।
तात कस्य अपरस्य अस्ति शक्तिः त्वयि धृत- आयुधे॥१६.२३.३२॥
किम् तु अस्य पापकस्य अर्थे शरीरस्य विनाशिनः।
हत्वा बन्धून् अकृपनः राज्यम् कः नाम वाञ्छति॥१६.२३.३३॥
तत् किम् राज्येन नः कार्यम् गत्वा अन्यत्र क्वचित् वयम्।
धर्मम् एव चरिष्यामः लोकद्वयसुख- आवहम्॥१६.२३.३४॥
मोदन्ताम् कृपणाः एते दायादाः राज्यलोलुपाः।
इति उक्तवन्तम् जीमूतकेतुः तम् सः पिता अब्रवीत्॥१६.२३.३५॥
अहम् त्वतर्थम् इच्छामि राज्यम् पुत्र त्वम् एव चेत्।
तत् जहासि कृपा- आविष्टः तत् मे वृद्धस्य तेन किम्॥१६.२३.३६॥
एवम् कृताभ्यनुज्ञेन पित्रा मात्रा च सः अन्वितः।
मलयाद्रिम् अगात् त्यक्तराज्यः जीमूतवाहनः॥१६.२३.३७॥
तत्र चन्दनसंछन्नवहत् निःझरकन्दरे।
शुश्रूषमाणः पितरम् सः तस्थौ कल्पित- आश्रमः॥१६.२३.३८॥
मित्रम् च अस्य अत्र संपेदे मित्रावसुः इति श्रुतः।
विश्वावसोः सुतः सिद्धराजस्य एतत्निवासिनः॥१६.२३.३९॥
एकदा च अत्र सः भ्राम्यन् विवेश उपवनस्थितम्।
द्रष्टुम् आयतनम् देव्याः गौर्याः जीमूतवाहनः॥१६.२३.४०॥
तत्र उपवीणयन्तीम् च ददर्श वरकन्यकाम्।
सखीजनान्विताम् शैलतनया- आराधनौद्यताम्॥१६.२३.४१॥
आकर्ण्यमानसंगीतमञ्जुवीणारवाम् मृगैः।
दृष्टलोचनलावन्यलज्जितैः इव निःचलैः॥१६.२३.४२॥
दधता तारकम् कृष्णम् अर्जुनेन स्वचक्षुषा।
पाण्डवीयाम् इव चमूम् कर्णमूलम् विविक्षतीम्॥१६.२३.४३॥
परःपरविमर्देन मुखैन्दोः इव दर्शनम्।
अतृप्तौ इव वाञ्छन्तौ बिभ्रन्तीम् संमुखौ स्तनौ॥१६.२३.४४॥
धातुः घटयतः मुष्टिग्रहेण इव निपीडिते।
वलीमग्नाङ्गुलीमुद्रे मध्ये क्षाममनःरमाम्॥१६.२३.४५॥
दृष्टया च तया सद्यः सः अभूत् जीमूतवाहनः।
तन्व्या मुषितचित्तः अन्तः दृष्टिमार्गप्रविष्टया॥१६.२३.४६॥
सा अपि तम् भूषितौद्यानम् दृष्ट्वा उत्कण्ठाविकारदम्।
कामाङ्गदाहवैराग्यात् वनम् मधुम् इव आश्रितम्॥१६.२३.४७॥
तथा अनुरागविवशा भेजे कन्या विहस्तताम्।
यथा सखी इव वीणा अस्याः व्याकुला आलापताम् ययौ॥१६.२३.४८॥
ततः सः पप्रच्छ सखीम् तस्याः जीमूतवाहनः।
किम् धन्यम् नाम सख्याः ते कः वंशः अलंकृतः अनया॥१६.२३.४९॥
तत् श्रुत्वा सा सखी प्राह नाम्ना मलयवती असौ।
मित्रावसुस्वसा सिद्धराजविश्वावसोः सुता॥१६.२३.५०॥
एवम् उक्त्वा सहृदया सा तम् जीमूतवाहनम्।
नामान्वयौ च पृष्ट्वा अस्य मुनिपुत्रम् सह- आगतम्॥१६.२३.५१॥
ताम् ब्रवीति स्म मलयवतीम् स्मितमिताक्षरम्।
सखि विद्याधरैन्द्रस्य न अस्य आतिथ्यम् करोषि किम्॥१६.२३.५२॥
जगत्पूज्यः अतिथिः हि एषः प्राप्तः इति उदिते तया।
सा अभूत् विद्याधरसुता तूष्णीम् लज्जा- आनत- आनना॥१६.२३.५३॥
लज्जावती इयम् मत्तः अर्चा गृह्यताम् इति वादिनी।
एका अथ तत् सखी तस्मै सार्घ्याम् मालाम् उपानयत्॥१६.२३.५४॥
सः च आदाय एव जीमूतवाहनः प्रेमनिःभरः।
कण्ठे मलयवत्याः ताम् मालाम् तस्याः समर्पयत्॥१६.२३.५५॥
सा अपि तिर्यक्प्रसृतया पश्यन्ती स्निग्धया दृशा।
नीलौत्पलमयीम् मालाम् इव तस्मिन् न्यवेशयत्॥१६.२३.५६॥
इति अन्यःअन्यकृताशब्दस्वयम्वरविशेषयोः।
तयोः एत्य जगाद एका चेटी ताम् सिद्धकन्यकाम्॥१६.२३.५७॥
जननी राजपुत्रि त्वाम् स्मरति आगच्छ माचिरम्।
तत् श्रुत्वा आकृष्य कामैषुकीलिताम् इव कृच्छ्रतः॥१६.२३.५८॥
सौत्काम् प्रियमुखात् दृष्टिम् कथम्चित् सा ययौ गृहम्।
जीमूतवाहनः अपि आगात् तत् नत- आत्मा स्वमाश्रमम्॥१६.२३.५९॥
सा अथ स्वाम् जननीम् दृष्टा प्राण- ईशविरह- आतुरा।
गत्वा मलयवती आशु पपात शयनीयके॥१६.२३.६०॥
अथ अन्तर्गतकामाग्निधूमेन इव आविल- ईक्षणा।
अश्रुधाराम् प्रमुञ्चन्ती संतापक्वथिताङ्गका॥१६.२३.६१॥
सखीभिः चन्दनैः लिप्ता वीजिता च अब्जिनिदलैः।
रतिम् न भेजे शयने न अङ्के सख्याः न भूतले॥१६.२३.६२॥
गते अथ वासरे क्वापि रक्तया सह संध्यया।
हसत्प्राचीमुखम् चन्द्रे समाक्रम्य च चुम्बति॥१६.२३.६३॥
स्मरेण प्रेर्यमाणा अपि दूतीसंप्रेषण- आदि सा।
लज्जया न अशकत् कर्तुम् जीवितस्पृहया उज्झिता॥१६.२३.६४॥
निनाय च निशाम् इन्दुविषमाम् अब्जिनी इव ताम्।
बद्धमोहालिपटले हृदि संकोचम् एत्य सा॥१६.२३.६५॥
तावत् च तत्वियोग- आर्तः सः अपि जीमूतवाहनः।
शयनस्थः अपि पतितः हस्ते कुसुमधन्वनः॥१६.२३.६६॥
नूतनौद्भिन्नरागः अपि प्रोन्मिषत्पाण्डुरछविः।
ह्रीमूकः अपि वदन् पीडाम् कामजाम् अनयत् निशाम्॥१६.२३.६७॥
प्रातः च अत्युत्सुकः भूयः तत् गौरी- आयतनम् ययौ।
यत्र दृष्टा अभवत् तेन सा सिद्धाधिपपुत्रिका॥१६.२३.६८॥
तत्र तेन सः मित्रेण मुनिपुत्रेण पृष्ठतः।
आगत्य आश्वास्यते यावत् मदनानलविह्वलः॥१६.२३.६९॥
तावत् तत्र एव सा अपि आगात् निर्गत्य एका एव निःजने।
गुप्तम् मलयवती आत्मत्यागाय विरहासहा॥१६.२३.७०॥
अलक्षयन्ती कान्तम् स्वम् पादपान्तरितम् च सा।
उदश्रुलोचना बाला देवीम् गौरीम् व्यजिज्ञपत्॥१६.२३.७१॥
त्वत्भक्त्या देवि संवृत्तः न अस्मिन् जन्मनि चेत् मम।
जीमूतवाहनः भर्ता तत् भूयात् सः अन्यजन्मनि॥१६.२३.७२॥
इति उक्त्वा रचयामास स्वौत्तरीयेण तत् क्षणम्।
अशोकतरुशाखायाम् पाशम् सा गिरिजा- अग्रतः॥१६.२३.७३॥
हा नाथ विश्वविख्यातकरुणेन अपि न त्वया।
कथम् अस्मि परित्राता देव जीमूतवाहन॥१६.२३.७४॥
एवम् उक्त्वा गले यावत् सा तम् पाशम् नियच्छति।
उच्चचार दिवः तावत् भारती देवी- उदीरिता॥१६.२३.७५॥
पुत्रि मा साहसम् कार्षीः चक्रवर्ती पतिः तव।
विद्याधरैन्द्रः जीमूतवाहनः हि भविष्यति॥१६.२३.७६॥
इति उक्तवत्याम् देव्याम् सः श्रुत्वा एव सवयस्यकः।
जीमूतवाहनः हृष्टाम् प्रियाम् उपजगाम ताम्॥१६.२३.७७॥
सः एषः देव्या वरः पश्य वितीर्णः सत्यः एव ते।
इति जल्पति बालाम् ताम् तत्मित्रे मुनिपुत्रके॥१६.२३.७८॥
जीमूतवाहनः तत् तत् ब्रुवन् प्रणयपेशलम्।
स्वहस्तेन एव तम् तस्याः कण्ठात् पाशम् अपानयत्॥१६.२३.७९॥
ततः अकस्मात् सुधावर्षम् इव मन्वानयोः तयोः।
भुवम् मलयवत्याम् च लिखन्त्याम् ह्रीतया दृशा॥१६.२३.८०॥
चिन्वाना आगत्य सहसा सखी हृष्टा जगाद ताम्।
सखि कल्याणिनी दिष्ट्या वर्धसे अभीष्टसिद्धितः॥१६.२३.८१॥
अद्य एव हि महाराजः तव विश्वावसुः पिता।
कुमारमित्रावसुना विज्ञप्तः संनिधौ मम॥१६.२३.८२॥
इह आगतः जगत्मान्यः तात कल्पतरुप्रदः।
विद्याधरैन्द्रतनयः यः अयम् जीमूतवाहनः॥१६.२३.८३॥
अतिथित्वात् सः नः पूज्यः वरः च अन्यः न तादृशः।
तस्मात् मलयवत्या असौ कन्यारत्नेन पूज्यताम्॥१६.२३.८४॥
तथा इति श्रद्धिते राज्ञा भ्राता मित्रावसुः सः ते।
तादर्थ्येन महाभागस्य अस्य आश्रमपदम् गतः॥१६.२३.८५॥
जाने सद्यः च भावी ते विवाहः तत् स्वमन्दिरम्।
आयाहि यातु च एषः अपि महाभागः स्वम् आस्पदम्॥१६.२३.८६॥
इति उक्ता सा तया सख्या राजपुत्री शनैः ततः।
ययुः सहर्षा सौत्का च मुहुःवलितकंधरा॥१६.२३.८७॥
जीमूतवाहनः अपि आशु गत्वा स्व- आश्रमम् आगतात्।
मित्रावसोः यथा- अभीष्टम् कार्यम् श्रुत्वा अभिनन्द्य च॥१६.२३.८८॥
जातिस्मरः समाचख्यौ तस्मै स्वम् पूर्वजन्म सः।
यत्र मित्रम् सः तस्य आसीत् सा च भार्या एव तत्स्वसा॥१६.२३.८९॥
ततः मित्रावसुः प्रीतः तत्पित्रोः परितुष्यतोः।
आवेद्य गत्वा पितरौ कृतार्थः स्वौ अनन्दयत्॥१६.२३.९०॥
निनाय च तदा एव स्वान् गृहान् जीमूतवाहनम्।
चक्रे च उत्सवसंभारम् स्वसिद्धिउचितवैभवम्॥१६.२३.९१॥
तस्मिन् एव च धन्ये अह्नि तस्य विद्याधरप्रभोः।
स्वसुः मलयवत्याः च विवाहम् समपादयन्॥१६.२३.९२॥
ततः नव- ऊढया साकम् तया जीमूतवाहनः।
तस्थौ मलयवत्या सः तत्र सिद्धमनःरथः॥१६.२३.९३॥
एकदा कौतुकात् च अत्र सः मित्रावसुना सह।
मलयाद्रौ भ्रमन् अप्धेः वेलावनम् उपेयिवान्॥१६.२३.९४॥
तत्र अस्थिराशीन् सुबहून् दृष्ट्वा मित्रावसुम् सः तम्।
केषाम् एते अस्थिसंघाताः प्राणिनाम् इति पृष्टवान्॥१६.२३.९५॥
ततः मित्रावसुः श्यालः तम् कारुणिकम् अब्रवीत्।
शृणु वृत्तान्तम् अत्र इमम् संक्षेपात् वर्णयामि ते॥१६.२३.९६॥
नागमाता पुरा कद्रूः विनताम् तार्क्ष्यमातरम्।
निनाय किल दासत्वम् सव्याजपणनिर्जिताम्॥१६.२३.९७॥
तेन वैरेण गरुडः ताम् उन्मोच्य अपि मातरम्।
बली भक्षयितुम् नागान् कद्रूपुत्रान् प्रचक्रमे॥१६.२३.९८॥
सदा प्रविश्य पातालम् सः अथ कान्चित् जघास तान्।
कान्चित् ममर्द केचित् तु स्वयम् त्रासात् विपेदिरे॥१६.२३.९९॥
तत् दृष्ट्वा एकपदे सर्वक्षयम् आशङ्क्य नागराट्।
वासुकिः प्रार्थनापूर्वम् तार्क्ष्यस्य समयम् व्यधात्॥१६.२३.१००॥
एकम् एकम् अहम् नागम् आहारार्थम् खगैन्द्र ते।
प्रति- अहम् प्रेषयामि अत्र पुलिने दक्षिणौदधेः॥१६.२३.१०१॥
त्वया तु न प्रवेष्टव्यम् पाताले अस्मिन् कथम्चन।
कः हि स्वार्थः विनष्टेषु नागेषु एकपदे तव॥१६.२३.१०२॥
इति उक्ते नागराजेन समयम् प्रत्यपद्यत।
स्वार्थदर्शी तथा इति एव गरुडः गुरुविक्रमः॥१६.२३.१०३॥
तदाप्रभृति च एकएकम् नागम् भुङ्क्ते दिने दिने।
वासुकिप्रेषितम् सः अत्र खगैन्द्रः पुलिने अम्बुधेः॥१६.२३.१०४॥
अतः तत्भक्ष्यमाणानाम् नागनाम् अस्थिसंचयाः।
एते अत्र गिरिशृङ्ग- आभाः वृद्धिम् कालक्रमात् गताः॥१६.२३.१०५॥
इति मित्रावसोः वक्त्रात् सान्तःदुःखः निशम्य सः।
निजगाद दयाधैर्यनिधिः जीमूतवाहनः॥१६.२३.१०६॥
शोच्यः सः वासुकिः राजा यः स्वहस्तेन विद्विषे।
उपहारीकरोति स्वाः प्रजाः क्लीबः दिने दिने॥१६.२३.१०७॥
धृत- आननसहस्रः सन् एकेन अपि आननेन सः।
माम् आदौ भुङ्क्ष्व तार्क्ष्य इति भाषितुम् न अशकत् कथम्॥१६.२३.१०८॥
कथम् च अभ्यर्थयामास निःसत्त्वः स्वकुलक्षयम्।
तार्क्ष्यम् नागाङ्गनाक्रन्दनित्य- आकर्णननिःघृणः॥१६.२३.१०९॥
तार्क्ष्यः अपि काश्यपिः वीरः कृष्णाधिष्ठानपावनः।
ईदृशम् कुरुते पापम् अहो मोहस्य गाढता॥१६.२३.११०॥
इति उक्त्वा सः महासत्त्वः हृदि चक्रे मनःरथम्।
अपि असारेण देहेन सारम् अत्र आप्नुयाम् अहम्॥१६.२३.१११॥
एकस्य अपि अद्य नागस्य कुर्याम् जीवितरक्षणम्।
अबान्धवस्य भीतस्य दत्त्वा आत्मानम् गरुत्मते॥१६.२३.११२॥
इति संचिन्तयति एव तस्मिन् जीमूतवाहने।
मित्रावसोः पितुः पार्श्वात् क्षत्ता आह्वानार्थम् आययौ॥१६.२३.११३॥
व्रज त्वम् अहम् एष्यामि पश्चात् इति ततः च तम्।
मित्रावसुम् सः जीमूतवाहनः व्यसृजत् गृहम्॥१६.२३.११४॥
गते तस्मिन् सः च अत्र एकः वाञ्छितार्थौन्मुखः भ्रमन्।
कृपालुः अशृनोत् दूरात् करुणम् रुदितध्वनिम्॥१६.२३.११५॥
गत्वा ददर्श च उत्तुङ्गशिलातलसमीपगम्।
युवानम् एकम् पुरुषम् दुःखितम् सुन्दर- आकृतिम्॥१६.२३.११६॥
पुंसा राजभटेन इव त्यक्तम् आनीय तत् क्षणम्।
निवर्तयन्तम् रुदतीम् वृद्धाम् सानुनयम् स्त्रियम्॥१६.२३.११७॥
कः अयम् स्यात् इति यावत् च जिज्ञासुः सः अत्र तिष्ठति।
करुणा- आकुलितः छन्नः शृण्वन् जीमूतवाहनः॥१६.२३.११८॥
तावत् सा तत्र वृद्धा स्त्री दुःखभारातिपीडिता।
प्रावर्तत युवानम् तम् दृष्ट्वा दृष्ट्वा अनुशोचितुम्॥१६.२३.११९॥
हा शङ्खचूड हा दुःखशतसंप्राप्त हा गुणिन्।
कुलएकतन्तो हा पुत्र क्व त्वाम् द्रक्ष्यामि अहम् पुनः॥१६.२३.१२०॥
वत्स त्वत्मुखचन्द्रे अस्मिन् गते अस्तम् सः पिता तव।
सोकान्धकारपतितः कथम् वृद्धः भविष्यति॥१६.२३.१२१॥
अथ अर्ककरसंस्पर्शात् अङ्गम् दूयेत यत् तव।
कथम् शक्ष्यति तत् सोढुम् तार्क्ष्यभक्षणजाम् रुजम्॥१६.२३.१२२॥
विस्तीर्णे नागलोके अपि धात्रा नागाधिपेन च।
लब्धः त्वम् किम् अभव्यायाः विचित्य एकसुतः मम॥१६.२३.१२३॥
इति ताम् विलपन्तीम् च सः युवा तनयः अब्रवीत्।
दुःख- आर्तम् अपि माम् अम्ब किम् दुःखयसि हा भृशम्॥१६.२३.१२४॥
निवर्तस्व गृहान् एषः प्रणामः पश्चिमः तव।
इह आगमनवेला हि भवेत् जातु गरुत्मतः॥१६.२३.१२५॥
तत् श्रुत्वा हा हता अस्मि इह कः मे पास्यति पुत्रकम्।
इत चक्रन्द सा वृद्धा दिक्षु क्षिप्त- आर्तलोचना॥१६.२३.१२६॥
तावत् च बोधिसत्त्वांशः सः तत् जीमूतवाहनः।
श्रुत्वा दृष्ट्वा च कृपया गाढ- आक्रान्तः व्यचिन्तयत्॥१६.२३.१२७॥
हन्त अयम् शङ्खचूड- आख्यः नागः वासुकिना बत।
आहारहेतोः तार्क्ष्यस्य तपस्वी प्रेषितः अधुना॥१६.२३.१२८॥
इयम् च एतस्य जननी स्नेहेन इह अन्वक् आगता।
एततेकसुता वृद्धा दुःखदीनप्रलापिनी॥१६.२३.१२९॥
तत् एनम् एकम् आर्तम् चेत् देहेन एकान्तनाशिना।
रक्षामि न अमुना नागम् तत् मे धिक् जन्म निःफलम्॥१६.२३.१३०॥
इति आलोच्य उपगम्य एव मुदा जीमूतवाहनः।
वृद्धाम् उवाच ताम् मातः पुत्रम् रक्षामि अहम् तव॥१६.२३.१३१॥
तत् श्रुत्वा भावितभया वृद्धा गरुडशङ्खिनी।
संत्रस्ता तार्क्ष्य माम् भुङ्क्ष्व माम् भुङ्क्ष्व इति जगाद सा॥१६.२३.१३२॥
शङ्खचूडः ततः अवादीत् न एषः तार्क्ष्यः अम्ब मा त्रसीः।
क्व अयम् चन्द्रः इव आह्लादी क्व सः तार्क्ष्यः भयंकरः॥१६.२३.१३३॥
इति उक्ते शङ्खचूडेन प्राह जीमूतवाहनः।
विद्याधरः अहम् आयातः राक्षितुम् सुतम् अम्ब ते॥१६.२३.१३४॥
दास्यामि हि शरीरम् स्वम् वस्त्रछन्नम् गरुत्मते।
क्षुधिताय प्रयाहि त्वम् आदाय एनम् सुतम् गृहम्॥१६.२३.१३५॥
तत् श्रुत्वा सा अब्रवीत् वृद्धा मा एवम् त्वम् हि अधिकः मम।
पुत्रः यस्य ईदृशे काले कृपा- अस्मासु इयम् ईदृशी॥१६.२३.१३६॥
एतत् श्रुत्वा सः जीमूतवाहनः पुनः अब्रवीत्।
न मे मनःरथस्य अस्य भङ्गम् कर्तुम् इह अर्हथ॥१६.२३.१३७॥
ग्रहात् एवम् ब्रुवाणम् च शङ्खचूडः जगाद तम्।
दर्शिता एव महासत्त्व त्वया सत्यम् कृपालुता॥१६.२३.१३८॥
न तु अहम् त्वत्शरीरेण रक्ष्यामि स्वशरीरकम्।
रत्नव्ययेन पाषाणम् कः हि रक्षितुम् अर्हति॥१६.२३.१३९॥
मादृशैः तु जगत् पूर्णम् स्व- आत्ममात्रानुकम्पिभिः।
अनुकम्प्यम् जगत् येषाम् विरलाः ते भवादृशाः॥१६.२३.१४०॥
न च अहम् मलिनीकर्तुम् शङ्खपालकुलम् शुचि।
कलङ्कः इव तीक्ष्णांशुबिम्बम् शक्ष्यामि सत्मते॥१६.२३.१४१॥
इति तम् प्रतिषिध्य एव शङ्खचूडः स्वमातरम्।
जगाद अम्ब निवर्तस्व कान्तारात् दुःगमात् इतः॥१६.२३.१४२॥
न पश्यसि किम् अत्र एतत् नागासृक्कर्दमौक्षितम्।
कृतान्तलीलापर्यङ्करौद्रम् वध्यशिलातलम्॥१६.२३.१४३॥
अहम् च अप्धितटे गत्वा नत्वा गोकर्णम् ईश्वरम्।
आगच्छामि द्रुतम् यावत् न आयाति गरुडः अत्र सः॥१६.२३.१४४॥
इति उक्त्वा कृपण- आक्रन्दाम् प्रणम्य आपृच्छ्य मातरम्।
सः गोकर्णप्रणामार्थम् शङ्खचूडः ययौ ततः॥१६.२३.१४५॥
अस्मिन् चेत् अन्तरे प्राप्तः तार्क्ष्यः सिद्धः मम ईप्सितः।
परार्थ इति जीमूतवाहनः अपि अकरोत् हृदि॥१६.२३.१४६॥
तावत् च आसन्नपक्षीन्द्रपक्षानिलचलान् तरून्।
विलोक्य अत्र सः मा मा इति निवारणपरान् इव॥१६.२३.१४७॥
मत्वा गरुडवेलाम् च प्राप्ताम् जीमूतवाहनः।
परार्थप्राणदः वध्यशिलाम् अध्यारुरोह ताम्॥१६.२३.१४८॥
पवन- आघूर्णिते च अप्धौ स्फुरद्रत्नप्रभादृशा।
तम् सत्त्वातिशयम् तस्य पश्यति इव सविस्मयम्॥१६.२३.१४९॥
आगत्य आच्छादितनभाः निपत्य एतत्शिलातलात्।
चञ्च्वा गरुत्मान् आहत्य महासत्त्वम् जहार तम्॥१६.२३.१५०॥
स्रुतासृक्धारम् उत्खातशिरःरत्नम् च तम् जवात्।
नीत्वा भक्षयितुम् शृङ्गे मलयाद्रेः प्रचक्रमे॥१६.२३.१५१॥
एवम् एव परार्थाय देहः स्यात् प्रतिजन्म मे।
मा भूताम् स्वर्गमोक्षौ तु परौपकृतिवर्जितौ॥१६.२३.१५२॥
इति तार्क्ष्याद्यमानस्य तस्य अनुध्यायतः तदा।
विद्याधरैन्दोः अपतत् पुष्पवृष्टिः नभःतलात्॥१६.२३.१५३॥
अत्रान्तरे सः तत् रक्तधारास्रवशिरःमणिः।
तस्याः मलयवत्याः च तत्पत्न्याः प्रापतत् पुरः॥१६.२३.१५४॥
सा तत् दृष्ट्वा परिज्ञाय चूडारत्नम् सुविह्वला।
अन्तिकस्था श्वशुरयोः ताभ्याम् साश्रुः अदर्शयत्॥१६.२३.१५५॥
तौ च जायापती सूनोः शिरःरत्नम् विलोक्य तम्।
किम् एतत् इति संभ्रान्तौ सहसा एव बभूवतुः॥१६.२३.१५६॥
ततः स्वविद्या- अनुध्यानात् यथावृत्तम् अवेत्य तत्।
राजा जीमूतकेतुः सा राज्नी कनकवती अपि॥१६.२३.१५७॥
वध्वा मलयवत्या तौ प्रावर्तेताम् सह द्रुतम्।
गन्तुम् तत्र एव तौ यत्र तार्क्ष्यजीमूतवाहनौ॥१६.२३.१५८॥
तावत् सः शङ्खचूडः अत्र नत्वा गोकर्णम् आगतः।
ददर्श रुधिरार्द्रम् तत् विग्नः वध्यशिलातलम्॥१६.२३.१५९॥
हा हतः अस्मि महापापः ध्रुवम् तेन महा- आत्मना।
आत्मा गरुत्मते दत्तः मत्कृते सुकृपालुना॥१६.२३.१६०॥
तत् अन्विष्यामि नीतः सः क्षणे अस्मिन् क्व अहिवैरिणा।
मज्जेयम् न अयशःपङ्के जीवन्तम् चेत् तम् आप्नुयाम्॥१६.२३.१६१॥
इति उदश्रुः वदन् सः अथ साधुः दृष्ट्वा निःअन्तराम्।
पतिताम् भुवि तत्रक्तधाराम् अनुसरन् ययौ॥१६.२३.१६२॥
अत्रान्तरे भक्षयन् तम् दृष्ट्वा जीमूतवाहनम्।
हृष्टम् विरम्य गरुडः चिन्तयामास तत् क्षणम्॥१६.२३.१६३॥
अहो अपूर्वः कः अपि एषः भक्ष्यमानः अपि यः मया।
प्रहृष्यति महासत्त्वः न तु प्राणैः वियुज्यते॥१६.२३.१६४॥
बिभर्ति लुप्तशेषे च गात्रे रोमाञ्चकञ्चुकम्।
किम् च उपकारिणि इव अस्य मयि दृष्टिः प्रसीदति॥१६.२३.१६५॥
तत् न एषः नागः कः अपि एषः साधुः पृच्छामि न अद्मि अमुम्।
इति तार्क्ष्यम् विमृश्यन्तम् प्राह जीमूतवाहनः॥१६.२३.१६६॥
पक्षीन्द्र किम् निवृत्तः असि न हि मे मांसशोणितम्।
देहे न अस्ति न च अद्य अपि परितृप्तः असि बुङ्क्ष्व तत्॥१६.२३.१६७॥
एतत् श्रुत्वा अतिस- आश्चर्यः तम् पप्रच्छ सः पक्षिराट्।
नागः न एव असि तत् ब्रूहि महा- आत्मन् कः भवान् इति॥१६.२३.१६८॥
नागः एव अस्मि कः अयम् ते प्रश्नः प्रकृतम् आचर।
प्रस्तुतार्थविरुद्धम् हि कः अभिदध्यात् अबालिशः॥१६.२३.१६९॥
एवम् प्रतिवदति एव तार्क्ष्यम् जीमूतवाहने।
प्राप्तः सः शङ्खचूडः अत्र दूरात् एव अभ्यभाषत॥१६.२३.१७०॥
मा मा कृथाः महापापम् साहसम् विनता- आत्मज।
कः अयम् भ्रमः ते न हि एषः नागः नागः अहम् एषः ते॥१६.२३.१७१॥
इति उक्त्वा द्रुतम् आगत्य मध्ये स्थित्वा तयोः द्वयोः।
दृष्ट्वा च तार्क्ष्यम् विभ्रान्तम् शङ्खचूडः अब्रवीत् पुनः॥१६.२३.१७२॥
किम् भ्राम्यसि फणाः किम् मे जिह्वे द्वे च न पश्यसि।
विद्याधरस्य किम् च अस्य सौम्याम् पश्यसि न आकृतिम्॥१६.२३.१७३॥
शङ्खचूडे वदति एवम् भार्या च पितरौ च तौ।
जीमूतवाहनस्य अत्र सर्वे सत्वरम् आययुः॥१६.२३.१७४॥
विलुप्ताङ्गम् च तम् दृष्ट्वा पितरौ तस्य तत् क्षणम्।
चक्रन्दतुः तौ हा पुत्र हा हा जीमूतवाहन॥१६.२३.१७५॥
हा कारुणिक हा वत्स परार्थप्रत्तजीवित।
हा कथम् वैनतेय इदम् अविमृश्य कृतम् त्वया॥१६.२३.१७६॥
एतत् श्रुत्वा एव तार्क्ष्यः अत्र सः अनुतप्तः व्यचिन्तयत्।
हा कथम् बोधिसत्त्वांशः संमोहात् भक्षितः मया॥१६.२३.१७७॥
जीमूतवाहनः सः अयम् परार्थप्राणदायकः।
यस्य भ्रमति कृत्स्ने अस्मिन् त्रैलोक्ये कीर्तिघोषणा॥१६.२३.१७८॥
तत् मे मृते अस्मिन् पापस्य प्राप्तम् अग्निप्रवेशनम्।
अधर्मविषवृक्षस्य पच्यते स्वादु किम् फलम्॥१६.२३.१७९॥
इति चिन्ता- आकुले तार्क्ष्ये दृष्ट्वा बन्धून् निपत्य सः।
व्रणव्यथायाम् पञ्चत्वम् प्राप जीमूतवाहनः॥१६.२३.१८०॥
ततः विलपतोः तत्र तत्पित्रोः शोकदीनयोः।
उत्क्रुश्य मुहुः आत्मानम् शङ्खचूडे च निन्दति॥१६.२३.१८१॥
भार्या मलयवती अस्य नभः दृष्ट्वा अश्रुगद्गदम्।
पूर्वप्रसन्नाम् वरदाम् इति उपालभत अम्बिकाम्॥१६.२३.१८२॥
विद्याधराधिपः भाविचक्रवर्ती पतिः तव।
भविता इति अहम् आदिष्टा देवि गौरी तदा त्वया॥१६.२३.१८३॥
तत् मिथ्यावादिनी जाता त्वम् अपि असि कथम् मयि।
इति उक्तवत्याम् तस्याम् सा गौरी प्रत्यक्षताम् अगात्॥१६.२३.१८४॥
न मे मिथ्या वचः पुत्री इति उक्त्वा सा स्वकमण्डलोः।
अमृतेन आशु जीमूतवाहनम् सिञ्चति स्म तम्॥१६.२३.१८५॥
तेन सः अक्षतसर्वाङ्गः पूर्वाधिकतरद्युतिः।
जीवन् सद्यः समुत्तस्थौ कृती जीमूतवाहनः॥१६.२३.१८६॥
उत्थितम् प्रणतम् तम् च सर्वेषु प्रणमत्सु सा।
उवाच देवी तुष्टा अस्मि देहदानेन ते अमुना॥१६.२३.१८७॥
तत् एषा त्वा अभिषिञ्चामि पुत्र आत्मीयेन पाणिना।
विद्याधराणाम् आकल्पम् चक्रवर्तिपदे अधुना॥१६.२३.१८८॥
एवम् वदन्ती जीमूतवाहनम् कलशाम्बुधिः।
तम् अभ्यषिञ्चत् शर्वानी पूजिता च तिरःदधे॥१६.२३.१८९॥
निपेतुः च अत्र तत् कालम् दिव्याः कुसुमवृष्टयः।
नदन्ति स्म च स- आनन्दम् देवदुन्दुभयः दिवि॥१६.२३.१९०॥
अथ उवाच सः तम् प्रह्वः तार्क्ष्यः जीमूतवाहनम्।
चक्रवर्तिन् अहम् प्रीतः पुरुषातिशये त्वयि॥१६.२३.१९१॥
अपूर्वौदारमतिना त्रिजगत्कौतुक- आवहम्।
ब्रह्मा- अण्डभित्तिलिखितम् येन चित्रम् इदम् कृतम्॥१६.२३.१९२॥
तत् माम् प्रशाधि मत्तः च वृणुष्व अभीप्सितम् वरम्।
इति उक्तवन्तम् गरुडम् महासत्त्वः जगाद सः॥१६.२३.१९३॥
न भक्ष्याः सानुतापेन भूत्वा नागाः पुनः त्वया।
ते अपि अस्थिशेषाः जीवन्तु ये त्वया पूर्वभक्षिताः॥१६.२३.१९४॥
एवम् अस्तु न भोक्ष्ये अहम् नागान् शान्तमतः परम्।
प्राक् ये च भुक्ताः ते जीवन्तु इति तार्क्ष्यः अपि उवाच सः॥१६.२३.१९५॥
ततः अस्तिशेषाः ये अपि आसन् नागाः तत्पूर्वभक्षिताः।
ते अपि सर्वे समुत्तस्थुः तत्वरामृतजीविताः॥१६.२३.१९६॥
सुरैः नगैः मुनिगनैः स- आनन्दैः मिलितैः अथ।
सः लोकत्रितयाभिख्याम् उवाह मलयाचलः॥१६.२३.१९७॥
तत् कालम् तम् च जीमूतवाहनौदन्तम् अद्भुतम्।
गौर्याः प्रसादात् विविदुः सर्वे विद्याधर- ईश्वराः॥१६.२३.१९८॥
आगत्य ते च चरणावनताः हिमाद्रिम् निन्युः क्षणात् मुदितबन्धुसुहृत्समेतम्।
तम् पार्वतीस्वकरक्ळ्प्तमहा- अभिषेकम् सत्चक्रवर्तिनम् अथ प्रतिमुक्ततार्क्ष्यम्॥१६.२३.१९९॥
तत्र सः पित्रा मात्रा मित्रावसुना च मलयवत्या च।
निजगृहगत- आगतेन च संयुक्तः शङ्खचूडेन॥१६.२३.२००॥
लोकौत्तरचरिताद्भुतसिद्धाम् जीमूतवाहनः सुचिरम्।
अभजत रत्नौपचिताम् विद्याधरचक्रवर्तिधुरम्॥१६.२३.२०१॥
इति अत्युदारसरसाम् आख्याय कथाम् तदा सः वेतालः।
पुनः एव तम् त्रिविक्रमसेनम् पप्रच्छ राजानम्॥१६.२३.२०२॥
तत् ब्रूहि शङ्खचूडः किम् वा जीमूतवाहनः अभ्यधिकः।
सत्त्वेन तयोः उभयोः पूर्वौक्तः च अत्र समयः ते॥१६.२३.२०३॥
इति अस्मात् वेतालात् श्रुत्वा मौनम् विहाय शापभयात्।
तम् उवाच सः त्रिविक्रमसेनः नृपतिः निःउद्वेगः॥१६.२३.२०४॥
बहुजन्मसिद्धम् एतत् चित्रम् जीमूतवाहनस्य कियत्।
श्लाघ्यः सः शङ्खचूडः मरणौत्तीर्णः अपि यः रिपवे॥१६.२३.२०५॥
अन्यप्रत्त- आत्मानम् प्राप्य सुदूरम् गताय तार्क्ष्याय।
पश्चात् धावन् गत्वा स्वम् देहम् उपानयत् प्रसभम्॥१६.२३.२०६॥
एतत् निशम्य एव नृपस्य तस्य वाक्यम् सः वेतालवरः जगाम।
पुनः स्वधाम एव ततंसपृष्ठात् नृपः अपि तम् सः अनुययौ तथा एव॥१६.२३.२०७॥


तुलनीय - भविष्यपुराणम् ३.२.१५

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_16&oldid=108005" इत्यस्माद् पुनः प्राप्तिः