वेतालपञ्चविंशति 25

विकिस्रोतः तः
Jump to navigation Jump to search
← वेतालपञ्चविंशति 24 वेतालपञ्चविंशति 25
सोमदेव

ततः तस्य अन्तिकम् भिक्षोः क्षान्तिशीलस्य भूपतिः।
सः त्रिविक्रमसेनः अत्र प्राप स्कन्धे शवम् वहन्॥२५.३२.१॥

ददर्श तम् च श्रमणम् मार्गाभिमुखम् एककम्।
कृष्णपक्षक्षपारौद्रे श्मशाने तरुमूलगम्॥२५.३२.२॥

असृग्लिप्तस्थले गौरेण अस्थिचूर्णेन निर्मिते।
मण्डले दिक्षु विन्यस्तपूर्णशोणितकुम्भके॥२५.३२.३॥

महातैलप्रदीप- आढ्ये हुतपार्श्वस्थवह्निनि।
संभृतौचितसंभारे स्वैष्टदैवतपूजने॥२५.३२.४॥

उपागात् च सः तम् राजा सः अपि भिक्षुः विलोक्य तम्।
आनीतमटकम् हर्षात् उत्थाय उवाच संस्तुवन्॥२५.३२.५॥

दुःकरः मे महाराज विहितः अनुग्रहः त्वया।
त्वा दृशाः क्व क्व चेष्टा इयम् देशकालौ क्व च ईदृशौ॥२५.३२.६॥

निःकम्पम् सत्यम् एव आहुः मुख्यम् त्वाम् कुलभूभृताम्।
एवम् आत्मानपेक्षेण परार्थः येन साध्यते॥२५.३२.७॥

एतत् एव महत्त्वम् च महताम् उच्यते बुधैः।
प्रतिपन्नात् अचलनम् प्राणानाम् अत्यये अपि यत्॥२५.३२.८॥

इति ब्रुवन् सः सिद्धार्थमानी भिक्षुः महीपतेः।
तस्य अवतारयामास स्कन्धात् तम् मटकम् तदा॥२५.३२.९॥

स्नपयित्वा समालभ्य बद्धमाल्यम् विधाय च।
मटकम् मण्डलस्य अन्तः स्थापयामास तस्य तत्॥२५.३२.१०॥

भस्मौद्धूलितगात्रः च केशयज्ञौपवीतभृत्।
प्रावृतप्रेतवसनः भूत्वा ध्यानस्थितः क्षणम्॥२५.३२.११॥

तस्मिन् मन्त्रबल- आहूतम् प्रवेश्य नृकलेवरे।
तम् वेतालवरम् भिक्षुः पूजयामास सः क्रमात्॥२५.३२.१२॥

ददौ तस्मै कपालार्घपात्रेण अर्घ्यम् सुनिःमलैः।
नरदन्तैः ततः पुष्पम् सुगान्धि च विलेपनम्॥२५.३२.१३॥

दत्त्वा मानुषनेत्रैः च धूपम् मांसैः बलिम् तथा।
समाप्य पूजाम् राजानम् तम् उवाच सः पार्श्वगम्॥२५.३२.१४॥

राजन् इह अस्य मन्त्राधिराजस्य कृतसंविधेः।
प्रणामम् अङ्गैः अष्टाभिः निपत्य कुरु भूतले॥२५.३२.१५॥

येन अभिप्रेतसिद्धिम् ते दास्यति एषः वरप्रदः।
श्रुत्वा एतत् स्मृतवेतालवचाः राजा अब्रवीत् सः तम्॥२५.३२.१६॥

न अहम् जानामि तत् पूर्वम् प्रदर्शयतु मे भवान्।
ततः तथा एव तत् अहम् करिष्ये भगवन् इति॥२५.३२.१७॥

ततः दर्शयितुम् यावत् सः भिक्षुः पतितः भुवि।
तावत् खड्गप्रहारेण सः राजा अस्य शिरः अच्छिनत्॥२५.३२.१८॥

आचकर्ष च हृत्पद्मम् उदरात् अस्य पाटितम्।
वेतालाय च तस्मै तत्शिरःहृत्कमलम् ददौ॥२५.३२.१९॥

साधुवादे ततः दत्ते प्रीतैः भूतगणैः ततः।
तुष्टः अब्रवीत् सः वेतालः नृपम् तम् नृकलेवरात्॥२५.३२.२०॥

राजन् विद्याधरैन्द्रत्वम् भिक्षोः आसीत् यत् ईप्सितम्।
तत् तावत् भूमिसाम्राज्यभोगान्ते ते भविष्यति॥२५.३२.२१॥

क्लेशितः असि मया यत् त्वम् तत् अभीष्टम् वरम् वृणु।
इति उक्तवन्तम् वेतालम् सः राजा तम् अभाषत॥२५.३२.२२॥

त्वम् चेत् प्रसन्नः कः नाम न सिद्धः अभिमतः वरः।
तथा अपि अमोघवचनात् इदम् त्वत्तः अहम् अर्थये॥२५.३२.२३॥

आद्याः प्रश्नकथाः एताः नाना- आख्यानमनःरमाः।
चतुर्विंशतिः एषा च पञ्चविंशी समाप्तिगा॥२५.३२.२४॥

सर्वाः ख्याताः भवन्तु एताः पूजनीयाः च भूतले।
इति तेन अर्थितः राज्ञा वेतालः निजगाद सः॥२५.३२.२५॥

एवम् अस्तु विशेषम् च शृणु वच्मि अत्र भूतले।
याः चतुर्विंशतिः पूर्वाः या एषा च एका समापिनी॥२५.३२.२६॥

कथा- आवली इयम् वेतालपञ्चविंशतिक- आख्यया।
ख्याता जगति पूज्या च शिवा च एव भविष्यति॥२५.३२.२७॥

यः श्लोकमात्रम् अपि अस्याः कथयिष्यति स- आदरः।
यः वा श्रोष्यति तौ सद्यः मुक्तपापौ भविष्यतः॥२५.३२.२८॥

यक्षवेतालकूष्माण्डडाकिनीराक्षस- आदयः।
न तत्र प्रभविष्यन्ति यत्र एषा कीर्तयिष्यते॥२५.३२.२९॥

इति उक्त्वा सः ययौ तस्मात् निर्गत्य नृकलेवरात्।
यथा अभिरुचितम् धाम वेतालः योगमायया॥२५.३२.३०॥

ततः तत्र सुरैः सार्धम् राज्ञः तस्य महेश्वरः।
साक्षात् आविरभूत् तुष्टः प्रणतम् च आदिदेश तम्॥२५.३२.३१॥

साधु वत्स हतः अद्य अयम् यत् त्वया कूटतापसः।
विद्याधरमहाचक्रवर्तिताहठकामुकः॥२५.३२.३२॥

त्वम् आदौ विक्रमादित्यः सृष्टः अभूः स्वांशतः मया।
म्लेच्छरूपावतीर्णानाम् असुराणाम् प्रशान्तये॥२५.३२.३३॥

अद्य च उद्दामदुःवृत्तदमनाय मया पुनः।
त्वम् त्रिविक्रमसेन- आख्यः हीरः सृष्टः अत्र भूपतिः॥२५.३२.३४॥

अतः सद्वीपपातालाम् स्थापयित्वा महीम् वशे।
विद्याधराणम् अचिरात् अधिराजः भविष्यसि॥२५.३२.३५॥

भुक्त्वा दिव्यान् चिरम् भोगान् उद्विग्नः स्वैच्छया एव तान्।
त्यक्त्वा मम एव सायुज्यम् अन्ते यास्यसि असंशयम्॥२५.३२.३६॥

अपराजितनामानम् खड्गम् च एतम् गृहाण मे।
यस्य प्रसादात् सर्वम् त्वम् प्राप्स्यसि एतत् यथा उदितम्॥२५.३२.३७॥

इति उक्त्वा खड्गरत्नम् तत् दत्त्वा तस्मै महीभृते।
वाक्पुष्पाभ्यर्चितः तेन देवः शंभुः तिरःदधे॥२५.३२.३८॥

अथ दृष्ट्वा समाप्तम् कार्यम् अशेषम् निशि प्रभातायाम्।
प्रविवेश सः त्रिविक्रमसेनः स्वपुरम् नृपः प्रतिष्ठानम्॥२५.३२.३९॥

तत्र क्रमावगतरात्रिविचेष्टिताभिः
अभ्यर्चितः प्रकृतिभिः विततौत्सवाभिः।
स्नानप्रदानगिरिशार्चननृत्तगीतवाद्य- आदिभिः
तत् अखिलम् सः दिनम् निनाय॥२५.३२.४०॥

अल्पैः एव च वासरैः सः नृपतिः शार्वस्य वीर्यात् असेः
सद्वीपाम् सरसा तलाम् च बुभुजे निःकण्टकाम् मेदिनीम्।
संप्राप्य अथ हर- आज्ञया सुमहतीम् विद्याधराधीशताम्
भुक्त्वा ताम् सुचिरम् जगाम भगवत्सायुज्यम् अन्ते कृती॥२५.३२.४१॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_25&oldid=17684" इत्यस्माद् पुनः प्राप्तिः