द्वात्रिंशत्पुत्तलिकासिंहासनम्/१०

विकिस्रोतः तः
Jump to navigation Jump to search

अथ अनावृष्टिवारणोपायवर्णनं नाम पञ्चविंशोपाख्यानम्

अथ पुनरपि राजा यावत् सिंहासनमारोढुम् अचेष्टत, तावदन्यया पुत्तलिकया तं निवार्य्य उक्तं,-भो राजन्! यस्य विक्रमस्येव औदार्य्यादिगुणाः सन्ति, तेनैव अस्मिन् सिंहासने उपवेष्टव्यम् ।

भोजेनोक्तं - भोः पुत्तलिके! कथय विक्रमस्य औदार्य्यादिगुणवृत्तान्तम् ।

सा अब्रवीत्- श्रूयतां राजन्! विक्रमादिर्त्ये राज्यं शासति, एकदा कश्चित् ज्योतिषिकः समागत्य राजानमुद्दिश्य,-

सूर्य्यः शौर्य्यमथेन्दुरिन्द्रपदवीं सम्मङ्गलं मङ्गलः

सद्बुद्धिञ्च बुधो गुरुश्च गुरुतां शुक्रः सुतं शं शनिः ।

राहुर्बाहुबलं करोतु नियतं केतुः कुलस्योन्नतिं

नित्यं प्रीतिकरा भवन्तु भवतां सर्वेऽनुकूला ग्रहाः।।२५४।।

इत्याशिषमुक्त्वा पञ्चाङ्गानि (च) कथयामास ।

अथ भूपतिः ज्योतिषिकमपृच्छत्,- भो दैवज्ञ! अस्मिन् संवत्सरे कीदृक् शुभमशुभं वो भविष्यति ?

दैवज्ञ आह,- अस्मिन् वर्षे राजा रविः, मन्त्री भौमः, ( छ) मेघाधिपोऽपि भौमः एव; शनैश्चरो रोहिणीशकटं भित्त्वा (ज) यास्यति, तस्मात् सर्वथा अनावृष्टिर्भविष्यति । उक्तञ्च संहितायाम्, (झ)--

यदा ह्यर्कसुतो भुङ्क्ते रोहिणोशकटं खलु ।

भित्त्वा न वर्षति तदा मेघो द्वादश वत्सरान् ।। २५५ ।।

तथा च,-

रोहिणीशकटमर्कनन्दनः

चेद्भिनत्ति रुधिरौघभाक् मही ।

किं ब्रवीमि न हि वारि सागरे

सर्वलोक उपयाति संक्षयम् ।। २५६ ।।

मतान्तरे च,-

यदा भिनत्ति मन्दोऽयं रोहिण्याः शकटं तदा ।

वर्षाणि द्वादशानीह वारिवाहो न वर्षति ।। २५७ ।।

एतद्दैवज्ञवचनं श्रुत्वा राजा अब्रवीत् - तस्याऽवर्षस्य कोऽपि प्रतिकारोपायोऽस्ति न वा ?

दैवज्ञेनोक्तं,-कुतो नास्ति? किमपि ग्रहहोमादिकं क्रियते चेत् वृष्टिर्भविष्यति ।

ततो राजा विक्रमः श्रोत्रियान् ( ञ) ब्राह्मणान् आहूय, तेषां पुरतः दैवज्ञमुखात् श्रुतं पूर्ववृत्तान्तम् उक्त्वा, तैर्होमं कारयितुमारब्धवान् । ततस्तैः सर्वाऽपि होमक्रिया सम्पूर्णं सम्पादिता । राज्ञा च द्रव्यान्नवस्त्रादिना ब्राह्मणाः सन्तोषिताः; दश दानानि (ट) च दत्तानि । तदनन्तरं भूरिदानेन दीनान्धबधिरपङ्ग्वनाथादयोऽपि सन्तोषिताः; परं वृष्टिर्नाभूत् । तदभावेन सर्वे लोकाः दुर्भिक्षपीडिताः बुभुक्षिताः (ठ) परं क्लेशमगच्छन् । राजाऽपि तेषां दुःखेन स्वयमतिदुःखितः सन्, एकदा यज्ञशालायां (ड) समुपविष्टो यावच्चिन्तयति, तावत् अशरीरिणी वाग् उदचरत्- भो राजन्! पुरःस्थितदेवालय- निवासिनी देवी ते आशां पूरयिष्यति । अस्या देवतायाः पुरतः द्वात्रिंशल्लक्षणयुक्तस्य पुरुषस्य शिरः छित्त्वा बलिः(ढ) दीयते चेत, वृष्टिर्भविष्यति ।

तदाकर्ण्य राजा आत्मानमेव द्वात्रिंशल्लक्षणयुक्तं पुरुषम् अवधार्य्य देवालयं गत्वा देवीं प्रणम्य यावत् खड्गं स्वशिरश्छेदार्थं दधाति, तावद्देवतया तया खड्गे धृतो भणितश्च,- भो राजन्! तव औदार्य्येण प्रसन्नाऽस्मि, वरं वृणीष्व ।

राजा वदति,- भोः देवि! यदि मयि प्रसन्नाऽसि, तर्हि इमामनावृष्टिं निवारय । देवतयाऽपि तथा भविष्यति इत्युक्त्वा तिरोदधे ( ण) । ततो राजा देवालयात् निर्गत्य यावत् निजपुरीमागन्तुं प्रवृत्तः, तावदेव अम्बरप्रदेशः घनाघनैरावृतः मुहुर्मुहुः श्रवणभीषण- वज्रनिर्घोषैः शिखण्डिनां मोदमुत्पादयन्, दिव्योदकपिपासून् चातकान् उन्मुखयन्, चपलाविकाशैः दिगन्तरालमुद्भासयन्, करिशुण्डाकारस्थूलधारवर्षणैः सरस्तडागादीन् उत्पूरयन्, सर्वप्राणिनां क्लेशमपाकरोत् । ( त) तद्दृष्ट्वा हर्षातिशयो राजा निजसभामागतः ।

इमां कथां कथयित्वा पुत्तलिकया भणितं,- भो राजन् । यदि त्वयि एवं धैर्य्यं परोपचिकीर्षा (थ) च विद्यते, तर्हि अस्मिन् सिंहासने समुपविश । राजा तूष्णीं स्थितः ।

इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे अनावृष्टि-वारणोपायवर्णनं नाम पञ्चविंशोपाख्यानम् ।। २५ ।।


अथ कामधेनुसंवादो नाम षड्विंशोपाख्यानम्

पुनरपि राजा यावत् सिंहासनं समुपवेष्टमुपचक्रमे, तावदन्यया पुत्तलिकया प्रतिरुध्य उक्तं,- भो राजन्! अस्मिन् सिंहासने स एव उपवेष्टुं योग्यः ( द ), यस्य विक्रमस्येवौदार्य्यादयो गुणाः सन्ति ।

तदाकर्ण्य भोजेनोक्तं- भोः पु्त्तलिके! कथय तस्य विक्रमस्यौदार्य्यादिगुणवृत्तान्तम् ।

राज्ञैवं पृष्टा सा अब्रवीत्,- भो राजन्! श्रूयताम- औदार्य्य दया विवेक धैर्य्यादिगुणैः ( ध) अन्यो विक्रमसदृशो राजा भूमण्डले नास्ति । अन्यच्च, तेन यदुच्यते तदन्यथा न क्रियते, यच्चित्ते तिष्ठति, वाचा तत्तथैव वदति, यद्वचने प्रकाशयति तत्तथैव करोति, अतोऽतीव सज्जनोऽयम् । उक्तञ्च-

यथा चित्तं तथा वाक्यं, यथा वाक्यं तथा क्रिया ।

चित्ते वाचि क्रियायाञ्च साधूनामेकरूपता ।। २५८ ।।

एकदा सुरनगर्य्याम् (न) इन्द्रः सिंहासने उपविष्ट आसीत । तस्य च सभायामष्टाऽशीतिसहस्राणि ऋषीणाम् आसन् । त्रयस्त्रिंशत्कोट्यः देवता उपविष्टा अभवन् । तथा अष्टौ लोकपालाः, एकोनपञ्चाशम्मरुतः, द्वादशादित्याः, नारदः, तुम्बुरुः,. ( प) उर्वशी मेनेका-रम्भा-तिलोत्तमा मिश्रकेशी घृताची मञ्जुघोषा- प्रियदर्शना प्रभृतिदिव्यस्त्रियश्च (फ) उपविष्टा बभूवुः । सर्वोऽपि गन्धर्वाणां गणः (ब) उपविष्टोऽभूत् । तस्मिन्नवसरे तत्र नारदेन उक्तम्- अभ्रादिभूमण्डले (भ) विक्रमार्कसदृशः कीर्त्तिमान्, परोपकारी, महासत्त्वसम्पन्नो राजा नास्ति । तस्य तद्वचनमाकर्ण्य सर्वे देवसभास्थिताः परं विस्मयं जग्मुः । तदा सुरभिः ( म) अभणत्- कोऽत्र सन्देहः? विस्मयो वा कः ? उक्तञ्च,-

दाने तपसि शौर्ये च विज्ञाने विनये नये ।

विस्मयो न च कर्त्तव्यो बहुरत्ना वसुन्धरा ।। २५९ ।।

तथाच,-

वाजि वारण-लौहानां काष्ठपाषाण वाससाम् ।

नारी पुरुष तोयानाम् अन्तरं महदन्तरम् ।। २६०।।

तत् श्रुत्वा इन्द्रेण सुरभिकन्या कामधेनुः ( य) भणिता,- त्व विक्रमस्य दयापरोपकारादीन् गुणान् निर्णेतुं मर्त्यलोकं गच्छ इति ।

ततः कामधेनुरत्यन्तदुर्बलं गोरूपं धृत्वा मर्त्त्यलोकं गच्छन्ती, यावत् विक्रमार्को मार्गे समायाति, तावत् स्वयम् अत्यन्तदुस्तरे पङ्के निमग्ना स्वसमीपवर्त्तिना च केनचित् व्याघ्रेण सतृष्णमवलोकितेत्येवं स्वमायया ( र) आत्मानमतिविपन्नमदर्शयत्; राजानं दृष्ट्वा च कातरं शब्दं चकार । एवं तत् कातरोक्ति- श्रवणविदलितप्रायहृदये राजनि तां गां पङ्कात् उत्थापयितुं प्रयत्नं कुर्व्वाणे, सूर्य्योऽस्तं गतः । अथ क्रमेणान्धकारमयी रात्रिरप्यागता । सोऽपि अनाथां तां गां रक्षन् तत्रैव स्थितः । एवं निशाऽवसानमभूत् । ततः सूर्य्योदये जाते सा गौः तस्य राज्ञो दयाधैर्य्यादिगुणान् निरीक्ष्य, स्वयमेवोत्थिता राजानमवदत्,- भो राजन्! अहं कामधेनुः; तव दयादिगुणान् परीक्षितुं स्वर्गात् समागता; स्वयमेत्य प्रत्ययश्च ( ल) दृष्टः । त्वत्सदृशो दयापरो राजा भूतले नास्ति । तव अनेन गुणेन अहं प्रसन्नाऽस्मि, वरं वृणीष्व ।

राज्ञा भणितं,- त्वत्प्रसादात् मयि क्वचिदपि न्यूनता नास्ति, तत् किं मया प्रार्थ्यते ?

तयोक्तं,- मम वाक्यं कथमपि निष्फलं न भवति, तस्माद् अहं तव समीपे एव तिष्ठामि इत्युक्त्वा राज्ञा सह निरगच्छत् ।

ततो राजा यावत् तया सह मार्गे गच्छति, तावत् ब्राह्मणः कश्चिदागत्य-

सानन्दं नन्दिहस्ताऽऽहतमुरजरवाऽऽहूतकौमारबर्हि-

त्रासान्नासाग्ररन्ध्रं विशति फणिपतौ भोगसङ्कोचभाजि ।

गण्डोड्डीनालिमालामुखरितककुभस्ताण्डवे शूलपाणे-

र्वैनायक्यश्चिरं वो वदनविधुतयः पान्तु चीत्कारवत्यः ।।२६१।।

इत्याशिषं प्रयुज्याऽब्रवीत्-- भो राजन्! भाग्याद्दरिद्रोऽहम् उदरान्नसंस्थानार्थं दिवानिशमितस्ततो भ्रमामि, पश्यामि च निरन्तरं सर्वान् कातरदर्शनेन, परं दुर्भाग्यात् मां केचन न पश्यन्ति । उक्तञ्च-

दारिद्र्याय नमस्तुभ्यं सिद्धोऽहं त्वत्प्रसादतः ।

पश्याम्यहं जगत् सर्वं न मां पश्यति कश्चन ।। २६२।।

यस्तु दारिद्र्यमुद्रितः, (व) तस्य गृहे सर्वदा सूतकमेव (श) भवति । तथा चोक्तम्,-

स्त्रग्रासं पथिकाय देहि सुभगे! नो नो गिरो निष्फलाः

कस्मात? ब्रूहि, मखे! नु सूतकमिदं, कालावधिर्नास्ति किम्? ।

यावज्जीवमिदं न याति विषमं पुत्रोद्भवं सूतकम्

को जातो मयि सर्ववित्तरहिते ? दारिद्र्यनामा सुतः ।। २६ ३।।

राज्ञोक्तं,- भो ब्राह्मण! किं याचसे ?

ब्राह्मणेन भणितं - भो राजन्! भवान् आश्रितकल्पवृक्षः(ष); यावज्जीवं मम दारिद्र्यविच्छित्तिः ( स) यथा भवति, तथा विधेयम् ।

राज्ञोक्तं,- तर्हि इयं कामधेनुस्तव ईप्सितं दास्यति, इमां गृहाण इत्युक्त्वा तस्मै तां कामधेनुं प्रादात् । ब्राह्मणः स्वर्गसुखं गतः ( ह) इव तां कामधेनुं गृहीत्वा निजस्थानं जगाम; राजाऽपि निजनगरीमगात् ।

इमां कथां कथयित्वा पुत्तलिका भोजराजं जगाद,- भो द्यूतकारसंवादो नाम सप्तविंशोपाख्यानम् । राजन् । त्वयि एवमौदार्य्यं यदि विद्यते, तर्हि अस्मिन् सिंहासने समुपविश । राजा तूष्णीम् (क) अभूत्। ।

इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे कामधेनु- संवादो नाम षड्विंशोपाख्यानम् ।।२६ ।।


अथ द्यूतकारसंवादो नाम सप्तविंशोपाख्यानम्

पुनरपि राजा सिंहासने उपवेष्टुं यावत् प्रायतत, तावदन्या पुत्तलिका तं निवार्य्याऽभणत् भो राजन्! यस्य विक्रमस्येव दया दाक्षिण्यौदार्य्यादयो गुणाः सन्ति, सोऽस्मिन् सिंहासने उपवेष्टुं क्षमः ।

राज्ञोक्तं,- भोः पुत्तलिके! कथय तस्य विक्रमस्य दया दाक्षिण्यौदार्य्यादिगुणवृत्तान्तम् ।

सा अब्रवीत्,- श्रूयतां राजन्! विक्रमो राजा कदाचित् पृथिवीं पर्यटन् नगरमेकमगमत् । तत्रत्यो राजा अतीव धार्मिकः, श्रुतिस्मृतिविहितानुष्ठानपरः, तत्र स्थितान् ब्राह्मणादिचतुर्वर्णान् सम्यक् प्रतिपालयति स्म । तत्रत्यः सर्वो लोकः सदाचाररतः, अतिथिप्रियः, ( ख) दयापरश्चासीत् । राजा विक्रमः दिनत्रयं दिनपञ्चकं वा अत्र स्थास्यामि इति कृतनिश्चयः, कञ्चन अतिमनोहरं देवालयं गत्वा, तत्रत्यं देवं नमकृत्य रङ्गमण्डपे ( ग) उपविष्टः । अत्रान्तरे कश्चित् राजकुमार इव अतिमनोहररूपः दुकूल- वस्त्रधारी, ( घ) नानाऽऽभरणालङ्कृतशरीरः, कुङ्कुम- कर्पूर कस्तूरी मिश्रितैः चन्दनैर्विलिप्ततनुः वयस्यैः सह तत्रागत्य, कियत्कालं नानाविधकामकथाप्रस्तावविनोदादिकं (ङ) विधाय, पुनस्तैः सह तस्मात् निर्गतः । राजाऽपि तं दृष्ट्वा -कोऽयम् ? इति मनसि विचारयन् स्थितः ।

ततो द्वितीयदिने,स एव एकाकी, वस्त्रादिरहितः, कौपीनमात्रशेषः (च) सन् समागत्य, देवालयस्य रङ्गमण्डपे पपात । राजा तं दृष्ट्वा भणति,- भोः सदाशय! पूर्वेद्युः (छ) त्वम् अलङ्कृतशरीरो राजकुमार इव वयस्यैः संसेव्यमानोऽत्र समागतः, अद्य कथमीदृशीं कष्टां दशां प्राप्तोऽसि ?

तेनोक्तं,- भोः स्वामिन्! किमुच्यते? अहं पूर्वेद्युस्तथैव आसम्; इदानीं दैवयोगात् एवं जातोऽस्मि । तथा हि,-

ये वर्द्धिताः करिकपोलमदेन भृङ्गाः

प्रोत्फुल्लपङ्कजरजःसुरभीकृताङ्गाः ।

ते साम्प्रतं प्रतिदिनं क्षपयन्ति कालं

निम्बेषु चार्ककुसुमेषु च दैवयोगात् ।।२६४।।

तथा च,-

सरससहकारपालीपरिमलकेलीपरायणओ मधुपः ।

अधुना हतविधिवशादर्कवने शरभसङ्कुले भ्रमति ।।२६५।।

तथा च,.-

ये वर्द्धिताः कनकपङ्कजरेणुमध्ये

मन्दाकिनीविमलनीरतरङ्गभङ्गे ।

ते साम्प्रतं विधिवशात् कलहंसपोताः

शैवालजालजटिलं जलमाश्रयन्ति ।। २६६ ।।

अपि च,-

वातान्दोलितपङ्कजच्युतरजःपुञ्जाङ्गरागोज्ज्वलो

यः शृण्वन् कलकूजितं मधुलिहां सञ्जातहर्षः पुरा ।

कान्ताचञ्चुपुटाञ्चलस्थितविसग्रासग्रहेऽप्यक्षमः

सोऽयं सम्प्रति हंसको विधिवशात् शम्बूकमन्विष्यति ।। २ ६०।

अन्यच्च, - कर्म्मणा नियमितो (ज) जनः किं कष्टं न प्राप्नोति? तथा चोक्तम्,-

दैवे समर्प्य चिरमञ्चितकर्म्मजालं

सुस्थाः सुखं वसत किं परयाचनाभिः? ।

मेरुं प्रदक्षिणयतोऽपि दिवाकरस्य

ते तस्य सप्त तुरगा न कदाचिदष्टौ ।। २६८ ।।

अपि च,-

ब्रह्मा येन कुलालवत् नियमितो ब्रह्माण्डभाण्डोदरे

विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे ।

रुद्रो येन कपालपाणिपुटको भिक्षाऽटनं कारितः

सूर्य्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्म्मणे ।।२६९।।

अथवा-

स यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं

तत् प्राप्नोति मरुस्थलेऽपि नियतं मेरौ ततो नाधिकम् ।

तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा मा कृथाः

कूपे पश्य? पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ।।२७०।।

राज्ञा भणितं,- को भवान्?

तेनोक्तम्,- अहं देवदत्तो नाम दयूतकारः ( झ) ।

राज्ञोक्तं - द्यूतक्रीडां जानासि त्वम् ?

तेनोक्तं,-द्यूतविद्याविषये अहं विचक्षणः । अन्यच्च, सारीक्रीडां चतुरङ्गक्रीडाञ्च ( ञ) जानामि, परं सर्व्वमेव तदनर्थकं, दैवमेव बलवदिति । उक्तञ्च,-

शशिदिवाकरयोर्ग्रहपीडनं

गजभुजङ्गमयोरपि बन्धनम् ।

मतिमताञ्च निरीक्ष्य दरिद्रतां

विधिरहो! बलवानिति मे मतिः ।। २७१ ।।

राज्ञोक्तं ,- भो देवदत्त! त्वमेवम् अतिप्राज्ञोऽपि कथम् अतिपापे द्यूतकर्मणि रतोऽसि ?

तेनोक्तं,- प्राज्ञोऽपि पुरुषः कर्म्मणा ( ट) प्रेर्यमाणः किं किं न करोति ?

राज्ञा भणितं - भो देवदत्त! द्यूतं महदापन्मूलम्; सर्वेषां व्यसनानाम् (ठ) आश्रयो द्यूतमेव ।

उक्तञ्च-

भवनमिदमकीर्त्तेश्चोरवेश्याङ्गनानां

व्यसनपतिरुदारः सन्निधिः पापभाजाम् ।

विषमनरकमार्गः प्रज्ञया ह्यत्र को हि

विमलविशदबुद्धिर्द्यूतमङ्गीकरोति? ।। २७२ ।।

तस्मात् कारणात् महापापानि सप्त व्यसनानि ( ड) त्याज्यानि । उक्तञ्च,-

द्यूत-मांस-सुरा-वेश्याऽऽखेट-चौर्य्य पराङ्गनाः ।

महापापानि सप्तैव व्यसनानि त्यजेद् बुधः ।। २७३ ।।

अन्यच्च-

यस्त्वेकव्यसनासक्तो निर्गमे च न पश्यति ।

किं पुनः सप्तभिर्युक्तो व्यसनैः सङ्कुलः पुमान्? ।। २७४ ।।

तथा हि,-

द्यूतात् धर्म्मसुतः पलादिह बको मद्याद् यदोर्नन्दना-

श्चोरः कामवशात् मृगान्तकरणात् स ब्रह्मदत्तो नृपः ।

चौरत्वाच्छिवभूतिरन्यवनितासङ्गाद् दशास्यो हठा-

देकैकव्यसनाहता इति नराः सर्वैर्न को नश्यति? ।। २७५ ।।

अतस्त्वया एतानि परित्याज्यानि ।

द्यूतकारेणोक्तं,- -भोः स्वामिन्! मम तदेव जीवनं, ( ढ) कथं परित्यज्यते ?, यदि त्वं ममोपरि कृपां विधाय, कमपि धनार्ज्जनोपायं कथयि- ष्यसि, तर्हि अहं द्यूतं त्यक्ष्यामि ।

अस्मिन्नवसरे विदेशवासिनौ द्वौ ब्राह्मणावागत्य, देवालयस्य एकदेशे समुपविष्टौ परस्परं मन्त्रयतः ( ण) । तत्र एकेनोक्तं,- मया सर्वोऽपि पिशाचलिपिकल्पः ( त) अवलोकितः । तत्र एवं लिखितमस्ति यत् अस्य देवालयस्य ईशानभागे पञ्चधनुः- प्रमाणे दीनारपूरितं ( थ) घटत्रयं स्थापितमस्ति, तत्समीपे भैरवस्य प्रतिमा ( द) विद्यते, यः कश्चित् भैरवं स्वरक्तेन अभिषेक्ष्यति, तेन तद् ग्राह्यमिति ।

राजा तस्य तद्वचनमाकर्ण्य तत्र गत्वा, स्वदेहरक्तेन भैरवं यावत् अभिषेक्तुं प्रवर्त्तते,तावत प्रसन्नेन भैरवेण भणितं,- भोः राजन्! वरं वृणीष्व ।

राज्ञोक्तम् अस्मै द्यूतकाराय दीनारपूरितं घटत्रयं देहि ।

ततस्तद्वचनाद् भैरवेण तद्धनं द्यूतकाराय दत्तम् । तदधिगम्य च द्यूतकारो राजानं स्तुत्वा स्वनगरं गतः; राजाऽपि निजनगरमागतः ।

इमां कथां कथयित्वा पुत्तलिका राजानमभणत्- भोः राजन् । त्वयि एवं धैर्य्यौदार्य्यपरोपकारादिगुणाः विद्यन्ते चेत्, तर्हि अस्मिन् सिंहासने समुपविश ।

राजा तूष्णीमासीत् ।

इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे द्यूतकार- संवादो नाम सप्तविंशोपाख्यानम् ।। २७७।।


अथ नरबलिनिवारणं नाम अष्टाविंशोपाख्यानम्

पुनरपि राजा यावत् सिंहासने समुपवेष्टुमुपक्रमते, तावदन्या पुत्तलिका सहसा तं निवार्य्य वदति,-भो राजन्! अस्मिन् सिंहासने औदार्य्यधैर्य्यादिगुणयुक्तो विक्रम एव उपवेष्टुं क्षमः, नान्यः ।

तच्छ्रुत्वा भोजेनोक्तं, -भोः पुत्तलिके! बलवती श्रवणवासना मे जायते, तत् कथय तस्य विक्रमस्यौदार्य्यादिगुणवृत्तान्तम् ।

मा कथयति - श्रूयतां राजन्! विक्रमादित्यो राजा पृथिव्यां पर्यटन् कदाचित् नगरमेकमगमत् । तस्य च नगरस्य समीपे विमलोदका काचित् नदी प्रावहत् । नदीतीरे च नानाविधतरुकुसुमफलोपशोभितम एकं वनमासीत् । तन्मध्ये अतिमनोहरः कश्चित् देवालयः अवर्त्तत । राजा तस्याः सरितो विमले जले स्नात्वा, देवालयं प्रविश्य तत्रत्यं देवं नमस्कृत्य च तत्र उपविष्टः ।

अत्रान्तरे (ध) तत्र चत्वारो वैदेशिकाः (न) समागत्य, राज्ञः समीपे उपविष्टाः । ततो राजा ताम् अप्राक्षीत्- भोः भद्राः । यूयं कुतः समागताः ?

तेष्वेकेनोक्तं- वयम् अपूर्व्वदेशात् आगताः।

राज्ञोक्तं-तत्र देशे भवद्भिः किं किम् अपूर्व्वं दृष्टम्?

तेनोक्तं - तत्र देशे वेतालपुरी नाम काचित पुरी वर्त्तते, तत्र शोणितप्रिया काचित् देवताऽस्ति । तत्रत्यो महाजनः ( प) राजा च प्रतिवत्सरं स्वमनोरथपूरणार्थम् अशुभनिवृत्त्यर्थञ्च (फ) तस्यै देवतायै कञ्चित् पुरुषोपहारं ( व) प्रयच्छति । तस्मिन् दिने यदि कोऽपि वैदेशिकः समायाति, तर्हि तमेव देवतायै पशुवत् समर्पयति ( भ) । वयमपि तस्मिन्नेव दिवसे मार्ग- वशात् ( म) तन्नगरं गताः । ततस्तत्रत्या अस्मान् समुद्धर्त्तुं (य) समागताः । तत् श्रुत्वा वयं प्राणभयेन, पलाय्य (र) अत्र समागताः । एतन्महदाश्चर्य्यम् अस्माभिः दृष्टम् । ।

तत् श्रुत्वा राजा विक्रमः कौतूहलपरवशस्तत्र गत्वा भयङ्कराञ्च तां देवतां विलोक्य प्रणम्य च अस्तौषीत्-

ब्रह्माणी कमलेन्दुसौम्यवदना, माहेश्वरी, लीलया

कौमारी रिपुदर्पनाशनकरी, चक्रायुधा वैष्णवी ।

वाराही, नरसिंहशक्तिरमला, शाक्री च वज्रायुधा,

चामुण्डा, गणनाथरुद्रमहिता रक्षन्तु मां मातरः।।२७६।।

एवं स्तुतिं विधाय रङ्गमण्डपे ( ल) उपविष्टः ।

तस्मिन्नवसरे कश्चिद्दीनवदनः ( व) महाजनैः सह वाद्यं पुरस्कृत्य समागमत् । राजाऽपि तं दृष्ट्वा एवं मनसि विचारयति स्म,- अयमेव देवताबलिनिमित्तम् एभिः महाजनैः समानीतः, ततः अत्यन्तक्लान्तवदनः (श) इव दृश्यते । तद् अस्मिन्नेव अवसरे मम शरीरं दत्त्वा एनं मोचयिष्यामि । इदं शरीरं शतवर्षाणि स्थित्वा सर्वथा नाशमेव यास्यति, अतः शरीरिणां स्वदेहव्ययेन(ष) अपि धर्म्मः कीर्त्तिश्चोपार्ज्जनीया । उक्तञ्च.-

चला लक्ष्मीश्चलाः प्राणाश्चलो देहोऽथ यौवनम् ।

चलाचलश्च संसारः कीर्त्तिर्धर्म्मश्च निश्चलः ।। २७७ ।।

अन्यच्च,-

अनित्यानि शरीराणि वैभवं नैव शाश्वतम् ।

नित्यं सन्निहितो मृत्युः कर्त्तव्यो धर्म्मसङ्ग्रहः ।।२७८।।

तथा च,-

अर्थाः पादरजोपमाः गिरिणदीवेगोपमं यौवनम्

मानुष्यं जलबिन्दुलोलचपलं फेनोपमं जीवितम् ।

धर्मं यो न करोति निश्चलमतिः स्त्रर्गार्गलोद्घाटनं

पश्चात्तापहतो जरापरिणतः शोकाग्निना दह्यते ।।२७९।।

एवं विचार्य्य राजा तान् महाजनानुवाच-भो महाजनाः! अयं दीनवदनः कुत्र नीयते ?

तैरुक्तम्,- एनं देवतायै बलि- निमित्तं दास्यामः ।

राज्ञोक्तं - कस्मात् कारणात् ?

तैरुक्तं, - देवता अनेन पुरुषोपहारेण तुष्टा सती अस्माकं मनोरथं पूरयिष्यति ।

राज्ञोक्तं - भो महाजनाः! अयमत्यन्ताल्प- तनुः, ( स) परं भीतश्च, अस्य शरीरोपहारेण देवतायाः का तृप्तिर्भविष्यति? तस्मादमुं मुञ्चत ।, अहमेव तदर्थं मम शरीरं दास्यामि । अहं पुष्टाङ्गः ( ह) अस्मि, मम मांसोपहारेण देवतायाः महती तृप्तिर्भविष्यति । अतो मां मारयत इति भणन् तं मोचयित्वा, राजा स्वयमेव देवतायाः पुरतो गत्वा खड्गं यावत् निजकण्ठे पातयति, तावद्देवतया खड्गं धृत्वा भणितं,- भो महासत्त्व । तव धैर्य्येण परोपकारकरणेन च अहमतीव सन्तुष्टाऽस्मि, वरं वृणीष्व ।

राज्ञोक्तं - भो देवि! यदि मयि प्रसन्नाऽसि, तहि अद्य प्रभृति पुरुषमांसोपहारं परित्यज।

तच्छ्रुत्वा देवतया - तथाऽस्तु इति भणितम् ।

एतत्सर्वमालोक्य ते महाजना राजानं वदन्ति स्म,- भो राजन्! त्वं स्वसुखानभिलाषी (क) सन् द्रुम ( ख) इव- - ?रार्थमेव नियतं खेदं वहसि (ग) । तथा हि,- ।

स्वसुखनिरभिलाषः खिद्यसे लोकहेतीः

प्रतिदिनमथवा ते सृष्टिरेवंविधैव ।

अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं - शमयति परितापं छायया संश्रितानाम् ।। २८० ।।

नास्माभिः कदापि क्वचिदपि भवादृशः परार्थपरो दृष्टः तदनेन व्यवहारेण अतीव भीता वयं भवतः कल्याणमाशास्महे इत्युक्त्वा सर्वे ते निष्क्रान्ताः । अथ राजाऽपि तेषाम् अनुज्ञां गृहीत्वा निजनगरमगमत् ।

इति कथां कथयित्वा पुत्तलिका भोजम् अवदत्,- भोः राजन्! त्वयि एवं धैर्य्यौदार्य्यपरोपकारादिगुणा विद्यन्ते चेत्, तर्हि अस्मिन् सिंहासने समुपविश ।

राजा तूष्णीं स्थितः ।

इति विक्रमार्कचरिते सिंहासनोपाख्याने अप्सरा भोजसंवादे नरबलिनिवारणं नाम अष्टाविंशोपाख्यानम् ।। २८ ।।


अग्रिमपुटम्