वेतालपञ्चविंशति 10

विकिस्रोतः तः
Jump to navigation Jump to search
← वेतालपञ्चविंशति 09 वेतालपञ्चविंशति 10
सोमदेव
वेतालपञ्चविंशति 11 →

सः त्रिविक्रमसेनः अथ गत्वा तम् शिंशपातरोः।
राजा जग्राह वेतालम् पुनः अंसे चचाल च॥१०.१७.१॥

प्रयान्तम् च तम् आह स्म वेतालः सः अंसपृष्ठगः।
श्रान्तः असि राजन् तत् इमाम् शृणु श्रमहराम् कथाम्॥१०.१७.२॥

अभूत् सकलभूपालमस्तकन्यस्तशासनः।
वीरबाहुः इति ख्यातः नाम्ना पार्थिवसत्तमः॥१०.१७.३॥

तस्य अनङ्गपुरम् नाम बभूव नगरौत्तमम्।
तत्र आसीत् अर्थदत्त- आख्यः सार्थवाहः महाधनः॥१०.१७.४॥

तस्य आसीत् धनदत्त- आख्यज्येष्ठपुत्रकनीयसी।
सुता मदनसेना इति कन्यारत्नम् वणिक्पतेः॥१०.१७.५॥

ताम् एकदा निजौद्याने क्रीडन्तीम् ससखीजनाम्।
ददर्श धर्मदत्त- आख्यः भ्रातृमित्रम् वणिक्सुतः॥१०.१७.६॥

सः ताम् आलोक्य लावण्यरसनिःभरनिःझराम्।
आलक्ष्य कुचकुम्भाग्राम् वलित्रयतरङ्गिताम्॥१०.१७.७॥

यौवनद्विरदस्य इव क्रीडामज्जनवापिकाम्।
सद्यः अभूत् स्मरबाणओघसंतापहृतचेतनः॥१०.१७.८॥

अहो धारा- अधिरूढेन रूपेण द्योतिता अमुना।
इयम् मे मानसम् भेत्तुम् भल्ली मारेण निर्मिता॥१०.१७.९॥

इति आदि यावत् ध्यायन् सः निर्वर्णयति ताम् चिरम्।
तावत् तस्य अतिचक्राम चक्राह्वस्य इव वासरः॥१०.१७.१०॥

ततः मदनसेना सा विवेश स्वगृहान्तरम्।
चित्तम् च धर्मदत्तस्य ततनालोकनव्यथा॥१०.१७.११॥

ततदर्शनदुःखाग्निसंतापेन इव च ज्वलन्।
लोहितः निपपात आशु भास्वान् अपि अपराम्बुधौ॥१०.१७.१२॥

ताम् विज्ञाय एव सुमुखीम् नक्तम् अभ्यन्तरे गताम्।
उदियाय शनैः चन्द्रः तत्मुखाब्जविनिर्जितः॥१०.१७.१३॥

तावत् गत्वा गृहम् ताम् सः धर्मदत्तः अनुचिन्तयन्।
तस्थौ निपत्य शयने चन्द्रपाद- आहतः लुठन्॥१०.१७.१४॥

यत्नेन पृच्छ्यमानः अपि सखिभिः बन्धुभिः तथा।
न किम्चित् कथयामास स्मरग्रहविमोहितः॥१०.१७.१५॥

निशि कृच्छ्रात् च संप्राप्तनिद्रः स्वप्ने तथा एव ताम्।
पश्यन् अनुनयन् कान्ताम् किम् किम् चक्रे न सोत्सुकः॥१०.१७.१६॥

प्रातः प्रबुद्धः गत्वा च ददर्श एकाकिनीम् रहः।
सखीम् प्रतीक्षमानाम् ताम् तत्र उद्यानस्थिताम् पुनः॥१०.१७.१७॥

उपेत्य च परिष्वङ्गलालसः प्रेमपेशलैः।
ताम् उपच्छन्दयामास वचोभिः चरण- आनतः॥१०.१७.१८॥

कन्या अहम् परदाराः च न तव अस्मि इह संप्रतम्।
पित्रा समुद्रदत्ताय दत्ता अहम् वणिजे यतः॥१०.१७.१९॥

दिनैः कतिपयैः एव विवाहः भविता च मे।
तत् गच्छ तूष्णीम् मा कश्चित् पश्येत् दोषः भवेत् ततः॥१०.१७.२०॥

इति उक्तः सः तया अति अर्थम् धर्मदत्तः जगाद ताम्।
यत् अस्तु मे न जीवेयम् विना हि भवतीम् अहम्॥१०.१७.२१॥

तत् श्रुत्वा सा वाणिक्कन्या बलात्कारभय- आकुला।
तम् उवाच विवाहः मे तावत् संपद्यताम् इह॥१०.१७.२२॥

कन्यादानफलम् तातः प्राप्नोतु चिरकाङ्क्षितम्।
ततः अहम् त्वाम् उपैष्यामि निःचितम् प्रणयार्जिता॥१०.१७.२३॥

श्रुत्वा एतत् सः अब्रवीत् न इष्टा हि अन्यपूर्वा मम प्रिया।
परभुक्ते हि कमले किम् अलेः जायते रतिः॥१०.१७.२४॥

इति उक्ता तेन सा अवादीत् कृतौद्वाहा एव तर्हि अहम्।
पूर्वम् त्वाम् उपयास्यामि ततः अभ्येष्यामि तम् पतिम्॥१०.१७.२५॥

एवम् उक्तवतीम् तस्मिन् न उज्झति प्रत्ययम् विना।
वणिक्पुत्रे सशपथम् सत्यवाचम् बबन्ध सा॥१०.१७.२६॥

ततः तेन उज्झता विग्ना सा विवेश स्वमन्दिरम्।
प्राप्ते च लग्नदिवसे निःवृत्तौद्वाहमङ्गला॥१०.१७.२७॥

गत्वा पतिगृहम् नीत्वा सोत्सवेन च तत्दिनम्।
सा पत्या समम् अध्यास्त शयनीयगृहम् निशि॥१०.१७.२८॥

तत्र शय्यानिषण्णा अपि न तस्य प्रत्यपद्यत।
पत्युः समुद्रदत्तस्य परिष्वङ्गम् असंमुखी॥१०.१७.२९॥

तेन अनुनीयमाना अपि यत् उदश्रुः बभूव सा।
तत् सः न अभिमतः अस्मि अस्याः नूनम् इति अकरोत् हृदि॥१०.१७.३०॥

जगाद च अनभिमतः यदि अहम् तव सुन्दरि।
तत् मे न अर्थः त्वया गच्छ यः प्रियः तव तम् प्रति॥१०.१७.३१॥

तत् श्रुत्वा सा नतमुखी शनैः एवम् उवाच तम्।
त्वम् मे प्राणाधिकः प्रेयान् विज्ञप्तिम् किम् तु मे शृणु॥१०.१७.३२॥

अनुतिष्ठ सहर्षम् च प्रयच्छ च मम अभयम्।
कुरुष्व शपथम् यावत् आर्यपुत्र वदामि ते॥१०.१७.३३॥

एवम् उक्तवती कृच्छ्रात् तथा तेन कृते पुनः।
सलज्जम् सविषादम् च सभयम् च जगाद सा॥१०.१७.३४॥

एकाकिनीम् गृहौद्याने दृष्ट्वा माम् एकदा युवा।
अरुणत् धर्मदत्त- आख्यः सखा भ्रातुः स्मर- आतुरः॥१०.१७.३५॥

रक्षन्त्या सपरीवादम् कन्यादानफलम् पितुः।
मया हठप्रवृत्तस्य तस्य वाक्संयमः कृतः॥१०.१७.३६॥

पूर्वम् कृतविवाहा त्वाम् उपैष्यामि ततः प्रियम्।
तत् मे सत्यवचः पाल्यम् अनुमन्यस्व तत् प्रभो॥१०.१७.३७॥

यावत् तत् निकटम् गत्वा क्षणेन उपैमि ते अन्तिकम्।
न हि शक्नोमि अतिक्रान्तुम् सत्यम् आबाल्य सेवितम्॥१०.१७.३८॥

इति तस्याः वचःवज्रपातेन सहसा हतः।
समुद्रदत्तः सत्येन बद्धः क्षणम् अचिन्तयत्॥१०.१७.३९॥

अहो धिक् अन्यरक्ता इयम् गन्तव्यम् ध्रुवम् एतया।
तत्सत्यम् हन्मि किम् यातु कः अस्याः परिणयग्रहः॥१०.१७.४०॥

इति आलोच्य अनुमेने ताम् यथा- इष्टगमनाय सः।
सा अपि उत्थाय ततः तस्मात् निर्ययौ पतिवेश्मनः॥१०.१७.४१॥

तावत् अत्र उदयाद्रीन्द्रहर्म्याग्रम् हिमदीधितिः।
आरुरोह कर- आक्रान्तहसत्पूर्वदिकङ्गनः॥१०.१७.४२॥

ततः तमःसु अपि आश्लिष्य स्थितेषु अद्रिदरी प्रियाः।
सेवमानेषु भृङ्गेषु अपि अपरम् कुमुद- आकरम्॥१०.१७.४३॥

यान्ती मदनसेना सा मार्गे दृष्ट्वा एकका निशि।
चौरेण आधाव्य केन अपि रुरुधे वसनाञ्चले॥१०.१७.४४॥

का त्वम् ब्रूहि क्व यासि इति तेन उक्ता बिभ्यती च सा।
उवाच किम् तव अनेन मुञ्च कार्यम् इह अस्ति मे॥१०.१७.४५॥

ततः चौरः अब्रवीत् मत्तः चौरात् त्वम् मुच्यसे कथम्।
तत् श्रुत्वा सा अवदत् तम् च गृहाण आभरणानि मे॥१०.१७.४६॥

अथ चौरः अभ्यधात् मुग्धे किम् एभिः उपलैः मम।
चन्द्रकान्त- आननाम् तार्क्ष्यरत्नासितशिरःरुहाम्॥१०.१७.४७॥

वज्रमध्याम् सुवर्णाङ्गीम् पद्मरागाङ्घ्रिहारिणीम्।
जगताभरणम् न एव मोक्ष्यामि भवतीम् अहम्॥१०.१७.४८॥

इति उक्ता तेन चौरेण विवशा सा वणिक्सुता।
आख्याय निजवृत्तान्तम् एवम् प्रार्थयते स्म तम्॥१०.१७.४९॥

क्षमस्व मे क्षणम् यावत् कृत्वा सत्यानुपालनम्।
इहस्थस्य एव ते पार्श्वम् आगमिष्यामि सत्वरम्॥१०.१७.५०॥

न अहम् उल्लङ्घयिष्यामि भद्र सत्याम् इमाम् गिरम्।
श्रुत्वा एतत् सत्यसंधाम् ताम् मत्वा चौरः मुमोच सः॥१०.१७.५१॥

तस्थौ प्रतीक्षमानः च तत्र एव सः ततागमम्।
सा अपि तस्य अन्तिकम् धर्मदत्तस्य वणिजः ययौ॥१०.१७.५२॥

सः च अभीष्टाम् अपि प्राप्ताम् तथा ताम् विजने स्थिताम्।
दृष्ट्वा पृष्ट्वा यथावृत्तम् विचिन्त्य क्षणम् अब्रवीत्॥१०.१७.५३॥

सत्येन तव तुष्टः अस्मि किम् त्वया मे परस्त्रिया।
यावत् त्वाम् न ईक्षते कश्चित् तावत् गच्छ यथा- आगतम्॥१०.१७.५४॥

इति तेन परित्यक्ता सा तथा इति आययौ ततः।
चौरस्य निकटम् तस्य प्रतिपालयतः पथि॥१०.१७.५५॥

ब्रूहि कः ते अत्र वृत्तान्तः गतायाः इति पृच्छते।
तस्मै सा तेन वणिजा यथा मुक्ता तथा अब्रवीत्॥१०.१७.५६॥

ततः सः चौरः अवादीत् ताम् यदि एवम् तत् मया अपि असि।
विमुक्ता सत्यतुष्टेन गृहम् साभरणा व्रज॥१०.१७.५७॥

एवम् तेन अपि सा त्यक्ता रक्षिता च अनुयायिना।
अलुप्तशीला मुदिता पत्युः एव आययौ गृहम्॥१०.१७.५८॥

तत्र गुप्तम् प्रविष्टा सा प्रहृष्टा उपागता सती।
दृष्ट्वा पृष्टवते तस्मै पत्ये सर्वम् अवर्णयत्॥१०.१७.५९॥

सः अपि अलुप्तमुखछायाम् ताम् असंभोगलक्षणाम्।
संभाव्य अभग्नचारित्राम् सत्यलाभरताम् सतीम्॥१०.१७.६०॥

अदृष्टमनसम् भार्याम् अभिनन्द्य कुलौचितम्।
तस्थौ समुद्रदत्तः अथ तया सह यथासुखम्॥१०.१७.६१॥

इति तत्र कथाम् उक्त्वा पितृवनभूमौ तदा सः वेतालः।
वदति स्म तम् त्रिविक्रमसेनम् वसुधा- अधिपम् भूयः॥१०.१७.६२॥

तत् ब्रूहि चौरवणिजाम् एषाम् मध्यात् नरैन्द्र कः त्यागी।
जानन् यदि न वदिष्यसि विदलिष्यति ते शिरः शतधा॥१०.१७.६३॥

तत् श्रुत्वा सः महीपतिः उज्झितमौनः तम् आह वेतालम्।
एषां चौरः त्यागी न पुनः वणिजौ उभौ अपि तौ॥१०.१७.६४॥

यः हि पतिः ताम् अजहात् अत्याज्याम् तादृशीम् विवाहि अपि।
कुलजः सः अन्य- आसक्ताम् भार्याम् जानन् कथम् वहतु॥१०.१७.६५॥

यः अपि अपरः सः भयात् ताम् अत्याक्षीत् कालजीर्णसंवेगः।
विदितार्थः भर्ता अस्याः प्रातः ब्रूयात् नृपाय इति॥१०.१७.६६॥

चौरः तु गुप्तचारी निरपेक्षः पापकर्मकृत् प्राप्तम्।
स्त्रीरत्नम् यत् अमुञ्चत् साभरणम् तेन सः त्यागी॥१०.१७.६७॥

एतत् श्रुत्वा एव अंसतः तस्य राज्ञः वेतालः अगात् पूर्ववत् स्वम् पदम् सः।
राजा भूयः अपि अत्र संप्राप्तुम् एतत् प्रायात् एव अखन्डितौद्दामधैर्यः॥१०.१७.६८॥

तुलनीय - भविष्यपुराणम् ३.२.९

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_10&oldid=76300" इत्यस्माद् पुनः प्राप्तिः