वेतालपञ्चविंशति 23

विकिस्रोतः तः
Jump to navigation Jump to search
← वेतालपञ्चविंशति 22 वेतालपञ्चविंशति 23
सोमदेव
वेतालपञ्चविंशति 24 →

ततः गत्वा पुनः प्राप शिंशपापादपात् ततः।
सः त्रिविक्रमसेनः तम् वेतालम् राजसत्तमः॥२३.३०.१॥

स्कन्धे कृत्वा च तम् मौनी दर्शितानेकवैकृतम्।
यावत् प्रतिष्ठते तावत् सः वेतालः तम् अब्रवीत्॥२३.३०.२॥

राजन् अकार्ये अपि एतस्मिन् दुःवारः अयम् ग्रहः तव।
तत् ते श्रमविनोदाय कथयामि कथाम् शृणु॥२३.३०.३॥

आसीत् कलिङ्गविषये नाम्ना शोभावती पुरी।
दिवि इव शक्रनगरी वसतिः शुभकर्मणाम्॥२३.३०.४॥

याम् प्रद्युम्नः इव ऐश्वर्यवीर्यातिशयविश्रुतः।
प्रद्युम्ननामा नृपतिः शशास ऊर्जितशासनः॥२३.३०.५॥

गुणापकर्षः चापेषु मुरजेषु कर- आहतिः।
युगेषु अश्रूयत कलिः यस्याम् प्रज्ञासु तीक्ष्णता॥२३.३०.६॥

एकदेशे पुरः तस्याः नृपेण प्रतिपादितः।
यज्ञस्थलाभिधानः अभूत् अग्रहारः बहुद्विजः॥२३.३०.७॥

तत्र आसीत् यज्ञसोम- आख्यः ब्राह्मणः वेदपारगः।
महाधनः अग्निहोत्री च पूजितातिथिदेवतः॥२३.३०.८॥

तस्य व्यतीते तारुण्ये मनःरथशतैः सुतः।
भार्यायाम् अनुरूपायाम् एकः एव उदपद्यत॥२३.३०.९॥

ववृधे च पितुः सः अस्य गृहे बालः सुलक्षणः।
कृताभिधानः विधिवत् देवसोमः इति द्विजैः॥२३.३०.१०॥

प्राप्तषोडशवर्षः च सः विद्याविनय- आदिभिः।
आवर्जितजनः अकस्मात् ज्वरेण प्राप पञ्चताम्॥२३.३०.११॥

ततः परासुम् स्नेहात् तम् आश्लिष्य सह भार्यया।
यज्ञसेनः पिता शोचन् न दाहाय जहौ चिरम्॥२३.३०.१२॥

ब्रह्मन् संसारगन्धर्वनगरस्य न वेत्सि किम्।
परावरज्ञः अपि गतिम् वारिबुद्बुदभङ्गुराम्॥२३.३०.१३॥

ये सैन्यैः पूरितधराः हर्म्यपृष्ठेषु हारिषु।
लसत्संगीतनादेषु रत्नपर्यङ्कवर्तिनः॥२३.३०.१४॥

श्रीखण्डद्रवलिप्ताङ्गाः वरस्त्रीपरिवारिताः।
व्यलसन् अमरम्मन्याः भूलोके अस्मिन् नराधिपाः॥२३.३०.१५॥

ते अपि एककाः श्मशानेषु रुदत्प्रेतानुयायिषु।
चिताधिशयिनः यत्र जग्धाः क्रव्यात्कृशानुभिः॥२३.३०.१६॥

शिवाभिः वलितौपान्ताः कालेन कवलीकृताः।
न रोद्धुम् शकिताः कैःचित् तत्र अन्येषाम् कथा एव का॥२३.३०.१७॥

तत् एतम् प्रेतम् आश्लिष्य विद्वन् वद करोषि किम्।
इति- आदि अबोधयन् वृद्धाः मिलिताः तम् द्विजम् ततः॥२३.३०.१८॥

ततः तेन कथम्चित् तम् मुक्तम् आरोप्य तत्सुतम्।
शिबिकायाम् गतप्राणम् कृतप्रेतप्रसाधनम्॥२३.३०.१९॥

बान्धवाः वैशसौदश्रुमिलत्बन्धुजनान्विताः।
श्मशानम् प्रापयामासुः कोलाहलसमाकुलाः॥२३.३०.२०॥

अत्र अन्तरे च तत्र आसीत् श्मशाने कः अपि तापसः।
वृद्धः पाशुपतः योगी मठिकायाम् कृतस्थितिः॥२३.३०.२१॥

वयसा तपसा च अतिभूयसा सुकृशाम् तनुम्।
बिभ्राणः भङ्गभीत्या इव सिराभिः परिवेष्टितम्॥२३.३०.२२॥

नाम्ना वामशिवः भस्मपाण्डुरोम- आवृत- आकृतिः।
विद्युत्पिङ्गजटाजूटः महेश्वर इव अपरः॥२३.३०.२३॥

सः तापसः अत्र तत् कालम् दत्तौपालम्भखेदितम्।
मूर्खम् शठम् ध्यानयोग- आदि- अवलिप्तम् अहम्कृतम्॥२३.३०.२४॥

भिक्षाफलव्रतधरम् शिष्यम् अन्तिकवासिनम्।
जगाद दूरात् श्रुत्वा तम् जनकोलाहलम् बहिः॥२३.३०.२५॥

उत्तिष्ठ गत्वा अत्र बहिः विज्ञाय आगच्छ सत्वरम्।
कुतः अत्र अश्रुतपूर्वः अयम् श्मशाने तुमुल- आरवः॥२३.३०.२६॥

इति उक्ते गुरुणा तेन सः शिष्यः प्रत्युवाच तम्।
न अहम् यामि स्वयम् याहि भिक्षावेला हि अपैति मे॥२३.३०.२७॥

तत् श्रुत्वा उवाच सः गुरुः धिक् मूर्ख उदरतत्पर।
अह्नः अर्धप्रहरे याते भिक्षावेला अत्र का तव॥२३.३०.२८॥

श्रुत्वा एव एतत् सः तम् क्रुद्धः कुशिष्यः प्राह तापसम्।
धिक् जराजीर्ण न अहम् ते शिष्यः न त्वम् गुरुः मम॥२३.३०.२९॥

अहम् अन्यत्र यास्यामि वह पात्रीम् इमाम् स्वयम्।
इति उक्त्वा उत्थाय सः प्रायात् त्यक्त्वा अग्रे दण्डकुण्डिकाम्॥२३.३०.३०॥

विहसन् अथ निर्गत्य मठिकायाः सः तापसः।
तत्र आगात् यत्र दाहार्थम् आनीतः सः द्विजार्भकः॥२३.३०.३१॥

दृष्ट्वा च तम् जनतया शोच्यमानाग्र्ययौवनम्।
योगी प्रवेष्टुम् तत्देहम् मतिम् चक्रे जरा- अर्दितः॥२३.३०.३२॥

गत्वा च द्रुतम् एकान्ते मुक्तकण्ठम् प्ररुद्य च।
ननर्त सः ततः क्षिप्रम् अङ्गहारैः यथा- उचितैः॥२३.३०.३३॥

ततः विवेश योगात् तत् द्विजपुत्रकलेवरम्।
क्षणात् सः स्वतनुम् त्यक्त्वा तपस्वी यौवनैच्छया॥२३.३०.३४॥

तत् क्षणम् रचितायाम् च चितायाम् सहसा एव सः।
लब्धजीवः द्विजयुवा प्रोत्तस्थौ कृतजृम्भिकः॥२३.३०.३५॥

तत् दृष्ट्वा बन्धुवर्गस्य दिष्ट्या जीवति जीवति।
इति उद्बभूव नादः अत्र निखिलस्य जनस्य च॥२३.३०.३६॥

अथ अमोक्ष्यन् व्रतम् सर्वान् मृषा योग- ईस्वरः स तान्।
विप्रपुत्रशरीरान्तःप्रविष्टः तापसः अब्रवीत्॥२३.३०.३७॥

लोकान्तरगतस्य अद्य महापाशुपतव्रतम्।
ग्राह्यम् साक्षात् मम अभाष्य दत्तम् शर्वेण जीवितम्॥२३.३०.३८॥

अधुना एव च धार्यम् तत् गत्वा एकान्ते व्रतम् मया।
जीवितम् मे अन्यथा न अस्ति तत् यूयम् यात यामि अहम्॥२३.३०.३९॥

इति सर्वान् सः तत्रस्थान् संबोध्य दृढनिश्चयः।
स्वगृहान् प्रेषयामास हर्षशोक- आकुलान् व्रती॥२३.३०.४०॥

स्वयम् च गत्वा श्वभ्रे तत् क्षिप्त्वा पूर्वकलेवरम्।
आत्तव्रतः महायोगी युवीभूतः अन्यतः ययौ॥२३.३०.४१॥

इति व्याख्याय वेतालः कथाम् निशि तदा पथि।
तम् त्रिविक्रमसेनम् सः राजानम् पुनः अब्रवीत्॥२३.३०.४२॥

राजन् ब्रूहि सः योगी- इन्द्रः कस्मात् परपुरे वसन्।
प्ररुरोद ननर्त अथ कौतुकम् महत् अत्र मे॥२३.३०.४३॥

इति वेतालतः श्रुत्वा शापशङ्की सः भूपतिः।
विमुच्य मौनम् एवम् तम् अवादीत् धीमताम् वरः॥२३.३०.४४॥

शृणु तत्र बभूव अस्य यः अभिप्रायः तपस्विनः।
सह वृद्धम् चिराय इदम् शरीरम् सिद्धिसाधनम्॥२३.३०.४५॥

पितृभ्याम् लालितम् बाल्ये त्यजामि अद्य इति दुःखितः।
सः जरत् तापसः अरोदीत् देहस्नेहः हि दुःत्यजः॥२३.३०.४६॥

नवम् देहम् प्रवेक्ष्यामि साधयिष्यामि अतः अधिकम्।
इति हर्षात् अनृत्यत् च कस्य न इष्टम् हि यौवनम्॥२३.३०.४७॥

एतत् तस्य वचः निशम्य नृपतेः अंसत् सः भूयः अपि
अगात् वेतालः मृतपूरुषान्तरगतः तम् शिंशपापादपम्।
राजा सः अपि तम् अन्वधावत् अधिकौत्साहः पुनः प्रेप्सया
कल्पान्ते अपि अचलम् कुलाद्रिविजयि स्थैर्यम् हि धीर- आत्मनाम्॥२३.३०.४८॥

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_23&oldid=17682" इत्यस्माद् पुनः प्राप्तिः