वेतालपञ्चविंशति 18

विकिस्रोतः तः
← वेतालपञ्चविंशति 17 वेतालपञ्चविंशति
वेतालपञ्चविंशति 18
सोमदेव
वेतालपञ्चविंशति 19 →

सन्धियुक्त पाठः

( अष्टादशो वेतालः)

ततः पितृवने तस्मिन्क्रव्यभक्षिभिरावृते ।
ज्वालाविलोलरसनैर्भूतैरिव चिताग्निभिः ।। १
गत्वैव तस्यामक्षोभ्यः क्षपायां शिंशपातरुम् ।
स त्रिविक्रमसेनस्तमाससाद पुनर्नृपः ।। २
तत्रापश्यच्च वेतालविकृतान्सदृशाकृतीन् ।
उल्लम्बमानान्सुबहून्प्रेतकायानशङ्कितम् ।। ३
अहो किमेतत्किंवान्यन्मायी कालं क्षिपत्ययम् ।
वेतलो मे न वेदयेषां ग्राह्यं येनेह भूयसाम् ।। ४
असिद्धार्थस्य चेद्रात्रिरियं मम गमिष्यति ।
ततो वह्निं प्रवेक्ष्यामि न सहिष्ये तु हास्यताम् ।। ५
इति चिन्तयतस्तस्य राज्ञो विज्ञाय निश्चयम् ।
सत्त्वतुष्टः स वेतालः स्वमायां संजहार ताम् ।। ६
ततो दृष्ट्वैकमेवात्र वेतालं नृकलेवरे ।
अवतीर्य गृहीत्वांसे स प्रतस्थे पुनर्नृपः ।। ७
प्रक्रामन्तं च तं भूयः स वेतालोऽभ्यभाषत ।
राजन्नोद्विजसे चित्रं तदिमां मे कथां शृणु ।। ८
अस्ति गौरीतपःक्लेशवृतेन त्रिपुरारिणा ।
असामान्यगुणोत्कर्षलुब्धेनेव स्वयं वृता ।। ९
भोगवत्यमरावत्योस्तृतीयोज्जयिनी पुरी ।
उदारसुकृतप्राप्यनानाभोगोपबृंहिता ।। 12.25.१०
यस्यां स्तब्धत्वकार्कश्ये कुचेषु वरयोषिताम् ।
तासामेव भ्रुवोर्भङ्गो लोचनेषु च चापलम् ।। ११
तमो निशासु वक्रत्वं यस्या कविवरोक्तिषु ।
मदो दन्तिषु जाड्यं च मुक्तामलयजेन्दुषु ।। १२
तस्यां चन्द्रप्रभाख्यस्य राज्ञोऽमात्यो बहुश्रुतः ।
देवस्वामीत्यभूद्विप्रो भूरियज्ञो महाधनः ।। १३
तस्य कालेन तनयश्चन्द्रस्वामीत्यजायत ।
सोऽधीतविद्योऽपि युवा द्यूतैकव्यसनोऽभवत् ।। १४
एकदा च द्विजसुतश्चन्द्रस्वामी स कांचन ।
द्यूतकारमहाठिण्ठां द्यूतेन क्रीडितुं ययौ ।। १५
आश्लिष्यामः कमत्रेति विपद्भिरिव वीक्षितुम् ।
विक्षिप्तैः कृष्णशाराभैर्नेत्रैरक्षैर्निरन्तराम् ।। १६
कः सोऽस्ति न श्रियं यस्य हराम्यप्यलकापतेः ।
इतीव तन्वतीं नादान्द्यूतकृत्कलहस्वनैः ।। १७
तां प्रविश्य क्रमाद्दीव्यन्नक्षैः स कितवैः सह ।
वस्त्रादि हारयित्वापि धनमन्यदहारयत् ।। १८
मृग्यमाणं च यन्नादात्स तद्धनमसंभवि ।
तदवष्टभ्य सभ्येन लगुडैः पर्यताड्यत ।। १९
लगुडाहतसर्वाङ्गः पाषाणमिव निश्चलम् ।
कृत्वा मृतमिवात्मानं तस्थौ विप्रसुतोऽथ सः ।। 12.25.२०
तथैव दिवसान्द्वित्रांस्तत्र तस्मिन्नवस्थिते ।
क्रुद्धः स सभ्यष्ठिण्ठायां कितवान्स्वानभाषत ।। २१
श्रितानेनाश्मता तावत्तदेतं क्षिपत क्वचित् ।
नीत्वान्धकूपे निःसत्वं धनं दास्याम्यहं तु वः ।। २२
इत्युक्तास्तेन कितवास्तं चन्द्रस्वामिनं ततः ।
अरण्यं निन्युरुत्क्षिप्य दूरं कूपगवेषिणः ।। २३
तत्रैको वृद्धकितवस्तानन्यानेवमभ्यधात् ।
मृतोऽयं प्रायशस्तत्किं कूपे क्षिप्तेन नोऽमुऽना ।। २४
तदिहैवैनमुज्झित्वा वक्ष्यामः कूप उज्झितम् ।
इति ते तद्वचः सर्वे तथेति प्रतिपेदिरे ।। २५
ततस्त्यक्त्वा गतेष्वेषु कितवेषु स उत्थितः ।
चन्द्रस्वामी विवेशात्र शून्यमेकं शिवालयम् ।। २६
तत्र किंचित्समाश्वस्य चिन्तयामास दुःखितः ।
विश्वस्तो मायया कष्टं मुषितः कितवैरहम् ।। २७
तदीदृशः क्व गच्छामि नाग्नोपहतपांसुलः ।
पिता बन्धुः सुहृद्वापि दृष्ट्वा किं हि वदेन्मम ।। २८
तत्संप्रति स्थितोऽस्मीह नक्तं च क्षुत्प्रशान्तये ।
पश्यामि निर्गत्य कथं यतिष्ये भोजनं प्रति ।। २९
इत्यालोचयतस्तस्य क्लान्तस्यानम्बरस्य च ।
मन्दीकृतातपोऽस्ताद्रिं रविस्त्यक्ताम्बरो ययौ ।। 12.25.३०
तावच्च भूतिदिग्धाङ्गस्तत्रायाति स्म तापसः ।
महाव्रती जटाशूलधरो हर इवापरः ।। ३१
स चन्द्रस्वामिनं दृष्ट्वा कोऽसीति परिपृच्छ्य च ।
श्रुत्वा तस्माच्च वृत्तान्तं प्रह्वं तं तापसोऽब्रवीत् ।। ३२
त्वं ममेहाश्रमं प्राप्तः क्षुत्क्लान्तोऽचिन्तितोऽतिथिः ।
तदुत्तिष्ठ कृतस्नानो भिक्षाभागं ममाहर ।। ३३
प्रत्युक्तो व्रतिना सोऽथ चन्द्रस्वामी जगाद तम् ।
विप्रोऽहं भगवन्भोक्ष्ये भिक्षाभागं कथं तव ।। ३४
तच्छ्रुत्वा स व्रती सिद्धः प्रविश्य मठिकां निजाम् ।
इष्टसंपादिनीं विद्यां सस्मारातिथिवल्लभः ।। ३५
संस्मृतोपस्थितां तां च किं करोमीति वादिनीम् ।
अमुष्यातिथ्यमतिथेः कुरुष्वेति शशास ताम् ।। ३६
तथेत्युक्ते तया तत्र सोद्यानं साङ्गनाजनम् ।
पुरं सौवर्णमुत्पन्नं चन्द्रस्वामी ददर्श सः ।। ३७
विस्मितं च तमभ्येत्य तस्माद्वाराङ्गनाः पुरात् ।
ऊचुरुत्तिष्ठ भद्रैहि स्नाहि भुङ्क्ष्व त्यज श्रमम् ।। ३८
इत्युक्त्वाभ्यन्तरं नीत्वा स्नापयित्वानुलिप्य च ।
ताभिः स दत्तसद्वस्त्रो निन्येऽन्यद्वासकोत्तमम् ।। ३९
तत्रान्तः स ददर्शैकां प्रधानयुवतिं युवा ।
सर्वाङ्गसुन्दरीं धात्रा कौतुकादिव निर्मिताम् ।। 12.25.४०
तया स सोत्कयोत्थाय स्वासनार्धोपवेशितः ।
बुभुजे दिव्यमाहारं तथैवात्र समं ततः ।। ४१
भुक्तपक्वफलस्वादुताम्बूलः स्वरसेन च ।
पर्यङ्कशयने भेजे तत्संभोगसुखं निशि ।। ४२
प्रातः प्रबुद्धश्चापश्यत्तदेवात्र शिवायलम् ।
नापि दिव्याङ्गनां नापि पुरं तन्न परिच्छदम् ।। ४३
ततः स विग्नो निर्यातं मठिकातः स्मिताननम् ।
पृष्टरात्रिसुखं प्रातस्तापसं तं व्यजिज्ञपत् ।। ४४
त्वत्प्रसादादहं रात्रावुषितो भगवन्सुखम् ।
किं तु यास्यन्ति मे प्राणास्तया दिव्यस्त्रिया विना ।। ४५
तच्छ्रुत्वा स तपस्वी तं हसन्कारुणिकोऽब्रवीत् ।
इहैवास्स्व पुनर्नक्तं भविष्यति तथैव ते ।। ४६
इत्युक्ते व्रतिना तेन तद्युक्त्यैव प्रतिक्षपम् ।
चन्द्रस्वाम्यत्र सोऽभुङ्क्त भोगांस्तांस्तत्प्रसादतः ।। ४७
बुद्ध्वा च तं शनैर्विद्याप्रभावं विधिचोदितः ।
एकदा तापसेन्द्रं तं स प्रसाद्यान्वयाचत ।। ४८
सत्यं कृपा चेद्भगवन्मयि ते शरणागते ।
तदेतां देहि मे विद्यां यत्प्रभावोऽयमीदृशः ।। ४९
इति ब्रुवाणं निर्बन्धात्तं प्रत्याह स तापसः ।
असाध्या तव विद्येयं साध्यतेऽन्तर्जले ह्यसौ ।। 12.25.५०
तत्र चैषा सृजत्याशु जपतः साधकस्य तत् ।
मायाजालं विमोहाय येन सिद्धिं न सोऽश्नुते ।। ५१
स हि तत्र पुनर्जातं बालमात्मानमीक्षते ।
ततो युवानमुद्व्यूढदारं जातात्मजं तथा ।। ५२
सुहृन्मेऽयमयं शत्रुरिति मिथ्या स मुह्यति ।
न च स्मरति जन्मेदं न विद्यासाधने क्रियाम् ।। ५३
यस्तु त्रिरष्टवर्षः सन्गुरुविद्याप्रबोधितः ।
जन्म स्मृत्वा विदित्वा तद्धीरो मायाविजृम्भितम् ।। ५४
तद्वशोऽप्यत्र कुरुते तथैवाग्निप्रवेशनम् ।
परमार्थं जलोत्तीर्णः सिद्धविद्यः स पश्यति ।। ५५
अन्यस्य न परं विद्या शिष्यस्यैषा हि सिद्ध्यति ।
अस्थानार्पणतो यावद्गुरोरपि विनश्यति ।। ५६
मत्सिद्ध्यैव फले सिद्धे किं ग्रहेणामुना तव ।
मत्सिद्धिहान्या मा जातु तवैतदपि नङ्क्ष्यति ।। ५७
एवं तपस्विनोक्तेऽपि चन्द्रस्वामी ग्रहेण सः ।
शिक्ष्यामि सर्वं मा भूद्वश्चिन्तात्रेति तमब्रवीत् ।। ।५८
ततोऽस्मै प्रतिपेदे तां विद्यां दातुं स तापसः ।
बताश्रितानुरोधेन किं न कुर्वन्ति साधवः ।। ५९
ततो नीत्वा नदीतीरं स तं स्माह महाव्रती ।
वत्स विद्यां जपन्मायां यदा द्रक्ष्यसि तां तदा ।। 12.25.६०
मायाग्निमेव प्रविशेर्विद्यया बोधितो मया ।
अहं च तावत्स्थास्यामि तवेहैव नदीतटे ।। ६१
इत्युक्त्वाध्यापयामास तमाचान्तं शुचिं शुचिः ।
स चन्द्रस्वामिनं विद्यां सम्यक्तां व्रतिनां वरः ।। ६२
ततस्तीरे स्थिते तस्मिन्गुरौ मूर्ध्ना प्रणम्य तम् ।
चन्द्रस्वामी स रभसान्नदीमवततार ताम् ।। ६३
तस्यामन्तर्जले विद्यां तां जपन्सहसैव सः ।
तन्मायामोहितो मिथ्या सर्वं विस्मृत्य जन्म तत् ।। ६४
वीक्षते यावदन्यस्यामुत्पन्नः स्वात्मना पुरि ।
पुत्रो विप्रस्य कस्यापि बुद्धिं स शनकैर्गतः ।। ६५
कृतोपनयनोऽधीतविद्यो दारानवाप्य च ।
तद्दुःखसुखसंमूढः संपूर्णोऽपत्यवान्क्रमात् ।। ६६
ततश्चात्र सुतस्नेहस्वीकृतस्तत्तदाचरत् ।
स्थितो बद्धरतिः सार्धं पितृभ्यां बन्धुभिस्तथा ।। ६७
एवं जन्मान्तरं मिथ्या तस्यानुभवतोऽत्र सः ।
काले प्रबोधिनीं विद्यां गुरुः प्रायुङ्क्त तापसः ।। ६८
स तद्विद्याप्रयोगेण सद्यस्तेन प्रबोधितः ।
स्मृत्वात्मानं गुरुं तं च मायाजालमवेत्य तत् ।। ६९
उद्यतोऽग्निप्रवेशाय दिव्यासाध्यफलाप्तये ।
पर्यवारि निषेधद्भिर्वृद्धाप्तगुरुबन्धुभिः ।। 12.25.७०
बहुधा बोध्यमानोऽपि तैर्दिव्यसुखलोलुपः ।
स सज्जितचितं प्रायान्नदीतीरं सबान्धवः ।। ७१
दृष्ट्वात्र वृद्धौ पितरौ भार्यां च मरणोद्यताम् ।
क्रन्दन्ति बालापत्यानि सोऽथ मोहादचिन्तयत् ।। ७२
कष्टं म्रियन्ते स्वजनाः सर्वे मे विशतोऽनलम् ।
न च जानामि किं सत्यं गुरोस्तद्वचनं न वा ।। ७३
तत्किं नु प्रविशाम्यग्निमुत न प्रविशामि किम् ।
अथवा तत्कथं मिथ्या स्यात्संवादि गुरोर्वचः ।। ७४
तद्विशाम्यनलं काममित्यन्तः प्रविमृश्य सः ।
अग्निप्रवेशं विदधे चन्द्रस्वामी किल द्विजः ।। ७५
अनुभूतहिमस्पर्शो वह्नेश्च स सविस्मयः ।
शान्तमायो नदीतीरादुत्थायोपययौ तटम् ।। ७६
तत्र स्थितं च दृष्ट्वा तं गुरुं नत्वा च पादयोः ।
पृच्छन्तं चाग्निशैत्यान्तं स्वमुदन्तमबोधयत् ।। ७७
ततस्तं स गुरुः प्राह वत्स शङ्के कृतस्त्वया ।
अपचारोऽत्र शीतस्ते कथं जातोऽग्निरन्यथा ।। ७८
अदृष्टमेतदेतस्या विद्यायाः साधने यतः ।
एतद्गुरोर्वचः श्रुत्वा चन्द्रस्वामी जगाद सः ।। ७९
नापचारो मया कश्चिद्विहितो भगवन्निति ।
ततः स तद्गुरुर्विद्यां जिज्ञासुस्तां समस्मरत् ।। 12.25.८०
न च साविरभूत्तस्य न तच्छिष्यस्य तस्य वा ।
नष्टविद्यावथोभौ तौ विषण्णौ जग्मतुस्ततः ।। ८१
इत्याख्याय कथामथ वेतालः पृष्टवान्स तं भूयः ।
पृथ्वीपतिं त्रिविक्रमसेनं समयं निगद्य पूर्वोक्तम् ।। ८२
राजन्संशयमेतं छिन्द्धि मम ब्रूहि हेतुना केन ।
विहितेऽपि यथोद्दिष्टे कर्मणि विद्योभयोस्तयोर्नष्टा ।। ८३
एतत्स वेतालवचो निशम्य तं प्रत्यवोचन्मनुजेन्द्रवीरः ।
जाने भवान्मे क्षिपतीह कालं योगेश्वरैवं तदपि ब्रवीमि ।। ८४
न दुष्करेणापि हि कर्मणैव शुद्धेन सिद्धिः पुरुषस्य लभ्या ।
यावन्न निष्क्रम्य विकल्पशुद्धं धीरं मनो निर्मलसत्त्ववृत्ति ।। ८५
तस्यात्र मन्दस्य तु विप्रयूनश्चित्तं प्रबुध्यापि विकल्पते स्म ।
विद्या न सा तेन गतास्य सिद्धिरस्थानदानाच्च गुरोर्विनष्टा ।। ८६
इति तस्य नृपस्य सृष्टवाचो बत वेतालवरोऽसतः स भूयः ।
निजमेव पदं ययावलक्ष्यो नृपतिस्तं च तथैव सोऽन्वयासीत् ।। ८७

इति महाकवि श्रीसोमदेवभट्टविरचिते कथासरित्सागरे शशाङ्कवतीलम्बके पञ्चविंशस्तरङ्गः ।

सन्धिविश्लिष्ट पाठः --

ततः पितृवने तस्मिन् क्रव्यभक्षिभिः आवृते।
ज्वालाविलोलरसनैः भूतैः इव चिता- अग्निभिः॥१८.२५.१॥

गत्वा एव तस्याम् अक्षोभ्यः क्षपायाम् शिंशपातरुम्।
सः त्रिविक्रमसेनः तम् आससाद पुनः नृपः॥१८.२५.२॥

तत्र अपश्यत् च वेतालविकृतान् सदृश- आकृतीन्।
उल्लम्बमानान् सुबहून् प्रेतकायान् अशङ्कितम्॥१८.२५.३॥

अहो किम् एतत् किम् वा अन्यत् मायी कालम् क्षिपति अयम्।
वेतालः मे न वेद्मि एषाम् ग्राह्यम् येन इह भूयषाम्॥१८.२५.४॥

असिद्धार्थस्य चेत् रात्रिः इयम् मम गमिष्यति।
ततः वह्निम् प्रवेक्ष्यामि न सहिष्ये तु हास्यताम्॥१८.२५.५॥

इति चिन्तयतः तस्य राज्ञः विज्ञाय निश्चयम्।
सत्त्वतुष्टः सः वेतालः स्वमायाम् संजहार ताम्॥१८.२५.६॥

ततः दृष्ट्वा एकम् एव अत्र वेतालम् नृकलेवरे।
अवतीर्य गृहीत्वा अंसे सः प्रतस्थे पुनः नृपः॥१८.२५.७॥

प्रक्रामन्तम् च तम् भूयः सः वेतालः अभ्यभाषत।
राजन् न उद्विजसे चित्रम् तत् इमाम् मे कथाम् सृणु॥१८.२५.८॥

अस्ति गौरीतपःक्लेशवृतेन त्रिपुरारिणा।
असामान्यगुणौत्कर्षलुब्धेन इव स्वयम्वृता॥१८.२५.९॥

भोगवती अमरावत्योः तृतीय उज्जयिनी पुरी।
उदारसुकृतप्राप्यनानाभोगौपबृंहिता॥१८.२५.१०॥

यस्याम् स्तब्धत्वकार्कश्ये कुचेषु वरयोषिताम्।
तासाम् एव भ्रुवोः भङ्गः लोचनेषु च चापलम्॥१८.२५.११॥

तमः निशासु वक्रत्वम् यस्याम् कविवरौक्तिषु।
मदः दन्तिषु जाड्यम् च मुक्तामलयजैन्दुषु॥१८.२५.१२॥

तस्याम् चन्द्रप्रभ- आख्यस्य राज्ञः अमात्यः बहुश्रुतः।
देवस्वामी इति अभूत् विप्रः भूरियज्ञः महाधनः॥१८.२५.१३॥

तस्य कालेन तनयः चन्द्रस्वामी इति अजायत।
सः अधीतविद्यः अपि युवा द्यूतएकव्यसनः अभवत्॥१८.२५.१४॥

एकदा च द्विजसुतः चन्द्रस्वामी सः कांचन।
द्यूतकारमहाठिण्ठाम् द्यूतेन क्रीडितुम् ययौ॥१८.२५.१५॥

आश्लिष्यामः कम् अत्र इति विपद्भिः इव वीक्षितुम्।
विक्षिप्तैः कृष्णशार- आभैः नेत्रैः अक्षैः निरन्तराम्॥१८.२५.१६॥

कः सः अस्ति न श्रियम् यस्य हरामि अपि अलकापतेः।
इति इव तन्वतीम् नादान् द्यूतकृत्कलहस्वनैः॥१८.२५.१७॥

ताम् प्रविश्य क्रमात् दीव्यन् अक्षैः सः कितवैः सह।
वस्त्र- आदि हारयित्वा अपि धनम् अन्यत् अहारयत्॥१८.२५.१८॥

मृग्यमाणम् च यत् न आदात् सः तत् धनम् असंभवि।
तद् अवष्टभ्य सभ्येन लगुडैः पर्यताड्यत॥१८.२५.१९॥

लगुड- आहतसर्वाङ्गः पाषाणम् इव निःचलम्।
कृत्वा मृतम् इव आत्मानम् तस्थौ विप्रसुतः अथ सः॥१८.२५.२०॥

तथा एव दिवसान् द्वित्रान् तत्र तस्मिन् अवस्थिते।
क्रुद्धः सः सभ्यः ठिण्ठायाम् कितवान् स्वान् अभाषत॥१८.२५.२१॥

श्रिता अनेन अश्मता तावत् तत् एतम् क्षिपत क्वचित्।
नीत्वा अन्धकूपे निःसत्त्वम् धनम् दास्यामि अहम् तु वः॥१८.२५.२२॥

इति उक्ताः तेन कितवाः तम् चन्द्रस्वामिनम् ततः।
अरण्यम् निन्युः उत्क्षिप्य दूरम् कूपगवेषिणः॥१८.२५.२३॥

तत्र एकः वृद्धकितवः तान् अन्यान् एवम् अभ्यधात्।
मृतः अयम् प्रायशः तत् किम् कूपे क्षिप्तेन नः अमुना॥१८.२५.२४॥

तत् इह एव एनम् उज्झित्वा वक्ष्यामः कूपे उज्झितम्।
इति ते तत्वचः सर्वे तथा इति प्रतिपेदिरे॥१८.२५.२५॥

ततः त्यक्त्वा गतेषु एषु कितवेषु सः उत्थितः।
चन्द्रस्वामी विवेश अत्र शून्यम् एकम् शिव- आलयम्॥१८.२५.२६॥

तत्र किम्चित् समाश्वस्य चिन्तयामास दुःखितः।
विश्वस्तः मायया कष्टम् मुषितः कितवैः अहम्॥१८.२५.२७॥

तत् ईदृशः क्व गच्छामि नाग्नौपहतपांशुलः।
पिता बन्धुः सुहृत् वा अपि दृष्ट्वा किम् हि वदेत् मम॥१८.२५.२८॥

तत् संप्रति स्थितः अस्मि इह नक्तम् च क्षुत्प्रशान्तये।
पश्यामि निर्गत्य कथम् यतिष्ये भोजनम् प्रति॥१८.२५.२९॥

इति आलोचयतः तस्य क्लान्तस्य अनम्बरस्य च।
मन्दीकृत- आतपः अस्ताद्रिम् रविः त्यक्ताम्बरः ययौ॥१८.२५.३०॥

तावत् च भूतिदिग्धाङ्गः तत्र आयाति स्म तापसः।
महाव्रती जटाशूलधरः हरः इव अपरः॥१८.२५.३१॥

सः चन्द्रस्वामिनम् दृष्ट्वा कः असि इति परिपृच्छ्य च।
स्रुत्वा तस्मात् च वृत्तान्तम् प्रह्वम् तम् तापसः अब्रवीत्॥१८.२५.३२॥

त्वम् मम इह आश्रमम् प्राप्तः क्षुत्क्लान्तः अचिन्तितः अतिथिः।
तत् उत्तिष्ठ कृतस्नानः भिक्षाभागम् मम आहर॥१८.२५.३३॥

इति उक्तः व्रतिना सः अथ चन्द्रस्वामी जगाद तम्।
विप्रः अहम् भगवन् भोक्ष्ये भिक्षाभागम् कथम् तव॥१८.२५.३४॥

तत् श्रुत्वा सः व्रती सिद्धः प्रविश्य मठिकाम् निजाम्।
इष्टसंपादिनीम् विद्याम् सस्मार अतिथिवल्लभः॥१८.२५.३५॥

संस्मृतौपस्थिताम् ताम् च किम् करोमि इति वादिनीम्।
अमुष्य आतिथ्यम् अतिथेः कुरुष्व इति शशास ताम्॥१८.२५.३६॥

तथा इति उक्ते तया तत्र सौद्यानम् साङ्गनाजनम्।
पुरम् सौवर्णम् उत्पन्नम् चन्द्रस्वामी ददर्श सः॥१८.२५.३७॥

विस्मितम् च तम् अभ्येत्य तस्मात् वाराङ्गनाः पुरात्।
ऊचुः उत्तिष्ठ भद्र एहि स्नाहि भुङ्क्ष्व त्यज श्रमम्॥१८.२५.३८॥

इति उक्त्वा अभ्यन्तरम् नीत्वा स्नापयित्वा अनुलिप्य च।
ताभिः सः दत्तसत्वस्त्रः निन्ये अन्यत् वासकौत्तमम्॥१८.२५.३९॥

तत्र अन्तः सः ददर्श एकाम् प्रधानयुवतिम् युवा।
सर्वाङ्गसुन्दरीम् धात्रा कौतुकात् इव निर्मिताम्॥१८.२५.४०॥

तया सः सौत्कया उत्थाय स्व- आसनार्धौपवेशितः।
बुभुजे दिव्यम् आहारम् तया एव अत्र समम् ततः॥१८.२५.४१॥

भुक्तपक्वफलस्वादुताम्बूलः स्वरसेन च।
पर्यङ्कशयने भेजे तत्संभोगसुखम् निशि॥१८.२५.४२॥

प्रातः प्रबुद्धः च अपश्यत् तत् एव अत्र शिव- आयलम्।
न अपि दिव्याङ्गनाम् न अपि पुरम् तत् न परिच्छदम्॥१८.२५.४३॥

ततः सः विग्नः निर्यातम् मठिकातः स्मित- आननम्।
पृष्टरात्रिसुखम् प्रातः तापसम् तम् व्यजिज्ञपत्॥१८.२५.४४॥

तत्प्रसादात् अहम् रात्रौ उषितः भगवन् सुखम्।
किम् तु यास्यन्ति मे प्राणाः तया दिव्यस्त्रिया विना॥१८.२५.४५॥

तत् श्रुत्वा सः तपस्वी तम् हसन् कारुणिकः अब्रवीत्।
इह एव आस्स्व पुनः नक्तम् भविष्यति तथा एव ते॥१८.२५.४६॥

इति उक्ते व्रतिना तेन तत्युक्त्य एव प्रतिक्षपम्।
चन्द्रस्वामी अत्र सः अभुङ्क्त भोगान् तान् तत्प्रसादतः॥१८.२५.४७॥

बुद्ध्वा च तम् शनैः विद्याप्रभावम् विधिचोदितः।
एकदा तापसैन्द्रम् तम् सः प्रसाद्य अन्वयाचत॥१८.२५.४८॥

सत्यम् कृपा चेत् भगवन् मयि ते शरण- आगते।
तत् एताम् देहि मे विद्याम् यत्प्रभावः अयम् ईदृशः॥१८.२५.४९॥

इति ब्रुवाणम् निर्बन्धात् तम् प्रत्याह सः तापसः।
असाध्या तव विद्या इयम् साध्यते अन्तर्जले हि असौ॥१८.२५.५०॥

तत्र च एषा सृजति आशु जपतः साधकस्य तत्।
मायाजालम् विमोहाय येन सिद्धिम् न सः अश्नुते॥१८.२५.५१॥

सः हि तत्र पुनः जातम् बालम् आत्मानम् ईक्षते।
ततः युवानम् उद्व्यूढदारम् जात- आत्मजम् तथा॥१८.२५.५२॥

सुहृत् मे अयम् अयम् शत्रुः इति मिथ्या सः मुह्यति।
न च स्मरति जन्म इदम् न विद्यासाधने क्रियाम्॥१८.२५.५३॥

यः तु त्रिःअष्टवर्षः सन् गुरुविद्याप्रबोधितः।
जन्म स्म्र्त्वा विदित्वा तत् धीरः मायाविजृम्भितम्॥१८.२५.५४॥

तत्वशः अपि अत्र कुरुते तथा एव अग्निप्रवेशनम्।
परमार्थम् जलौत्तीर्णः सिद्धविद्यः सः पश्यति॥१८.२५.५५॥

अन्यस्य न परम् विद्या शिष्यस्य एषा हि सिध्यति।
अस्थानार्पणतः यावत् गुरोः अपि विनश्यति॥१८.२५.५६॥

मत्सिद्ध्या एव फले सिद्धे किम् ग्रहेण अमुना तव।
मत्सिद्धिहान्या मा जातु तव एतत् अपि नङ्क्ष्यति॥१८.२५.५७॥

एवम् तपस्विना उक्ते अपि चन्द्रस्वामी ग्रहेण सः।
शिक्ष्यामि सर्वम् मा भूत् वः चिन्ता अत्र इति तम् अब्रवीत्॥१८.२५.५८॥

ततः अस्मै प्रतिपेदे ताम् विद्याम् दातुम् सः तापसः।
बत आश्रितानुरोधेन किम् न कुर्वन्ति साधवः॥१८.२५.५९॥

ततः नीत्वा नदीतीरम् सः तम् स्म आह महाव्रती।
वत्स विद्याम् जपन् मायाम् यदि द्रक्ष्यसि ताम् तदा॥१८.२५.६०॥

माया- अग्निम् एव प्रविशेः विध्यया बोधितः मया।
अहम् च तावत् स्थास्यामि तव इह एव नदीतटे॥१८.२५.६१॥

इति उक्त्वा अध्यापयामास तम् आचान्तम् शुचिम् शुचिः।
सः चन्द्रस्वामिनम् विद्याम् सम्यक् ताम् व्रतिनाम् वरः॥१८.२५.६२॥

ततः तीरे स्थिते तस्मिन् गुरौ मूर्ध्ना प्रणम्य तम्।
चन्द्रस्वामी सः रभसात् नदीम् अवततार ताम्॥१८.२५.६३॥

तस्याम् अन्तःजले विद्याम् ताम् जपन् सहसा एव सः।
तत्मायामोहितः मिथ्या सर्वम् विस्मृत्य जन्म तत्॥१८.२५.६४॥

वीक्षते यावत् अन्यस्याम् उत्पन्नः स्व- आत्मना पुरि।
पुत्रः विप्रस्य कस्य अपि बुद्धिम् सः शनकैः गतः॥१८.२५.६५॥

कृतौपनयनः अधीतविद्यः दारान् अवाप्य च।
तत्दुःखसुखसंमूढः संपूर्णः अपत्यवान् क्रमात्॥१८.२५.६६॥

ततः च अत्र सुतस्नेहस्वीकृतः तत् तत् आचरत्।
स्थितः बद्धरतिः सार्धम् पितृभ्याम् बन्धुभिः तथा॥१८.२५.६७॥

एवम् जन्मान्तरम् मिथ्या तस्य अनुभवतः अत्र सः।
काले प्रबोधिनीम् विद्याम् गुरुः प्रायुङ्क्त तापसः॥१८.२५.६८॥

सः तत्विद्याप्रयोगेण सद्यः तेन प्रबोधितः।
स्मृत्वा आत्मानम् गुरुम् तम् च मायाजालम् अवेत्य तत्॥१८.२५.६९॥

उद्यतः अग्निप्रवेशाय दिव्यासाध्यफल- आप्तये।
पर्यवारि निषेधद्भिः वृद्ध- आप्तगुरुबन्धुभिः॥१८.२५.७०॥

बहुधा बोध्यमानः अपि तैः दिव्यसुखलोलुपः।
सः सज्जितचितम् प्रायात् नदीतीरम् सबान्धवः॥१८.२५.७१॥

दृष्ट्वा अत्र वृद्धौ पितरौ भार्याम् च मरणौद्यताम्।
क्रन्दन्ति बालापत्यानि सः अथ मोहात् अचिन्तयत्॥१८.२५.७२॥

कष्टम् म्रियन्ते स्वजनाः सर्वे मे विशतः अनलम्।
न च जानामि किम् सत्यम् गुरोः तत् वचनम् न वा॥१८.२५.७३॥

तत् किम् नु प्रविशामि अग्निम् उत न प्रविशामि किम्।
अथवा तत् कथम् मिथ्या स्यात् संवादि गुरोः वचः॥१८.२५.७४॥

तत् विशामि अनलम् कामम् इति अन्तः प्रविमृश्य सः।
अग्निप्रवेशम् विदधे चन्द्रस्वामी किल द्विजः॥१८.२५.७५॥

अनुभूतहिमस्पर्शः वह्नेः च सः सविस्मयः।
शान्तमायः नदीतीरात् उत्थाय उपययौ तटम्॥१८.२५.७६॥

तत्र स्थितम् च दृष्ट्वा तम् गुरुम् नत्वा च पादयोः।
पृच्छन्तम् च अग्निशैत्यान्तम् स्वम् उदन्तम् अबोधयत्॥१८.२५.७७॥

ततः तम् सः गुरुः प्राह वत्स शङ्के कृतः त्वया।
अपचारः अत्र शीतः ते कथम् जातः अग्निः अन्यथा॥१८.२५.७८॥

अदृष्टम् एतत् एतस्याः विद्यायाः साधने यतः।
एतत् गुरोः वचः श्रुत्वा चन्द्रस्वामी जगाद सः॥१८.२५.७९॥

न अपचारः मया कःचित् विहितः भगवन् इति।
ततः सः तत्गुरुः विद्याम् जिज्ञासुः ताम् समस्मरत्॥१८.२५.८०॥

न च सा आविःअभूत् तस्य न तत्शिष्यस्य तस्य वा।
नष्टविद्यौ अथ उभौ तौ विषण्णौ जग्मतुः ततः॥१८.२५.८१॥

इति आख्याय कथाम् अथ वेतालः पृष्टवान् सः तम् भूयः।
पृथ्वीपतिम् त्रिविक्रमसेनम् समयम् निगद्य पूर्वौक्तम्॥१८.२५.८२॥

राजन् संशयम् एतम् छिन्द्धि मम ब्रूहि हेतुना केन।
विहिते अपि यथा उद्दिष्टे कर्मणि विद्या उभयोः तयोः नष्टा॥१८.२५.८३॥

एतत् सः वेतालवचः निशम्य तम् प्रत्यवोचत् मनुजैन्द्रवीरः।
जाने भवान् मे क्षिपति इह कालम् योग- ईश्वर एवम् तत् अपि ब्रवीमि॥१८.२५.८४॥

न दुष्करेण अपि हि कर्मण एव शुद्धेन सिद्धिः पुरुषस्य लभ्या।
यावत् न निष्क्रम्य विकल्पशुद्धम् धीरम् मनः निर्मलसत्त्ववृत्ति॥१८.२५.८५॥

तस्य अत्र मन्दस्य तु विप्रयूनः चित्तम् प्रबुध्य अपि विकल्पते स्म।
विद्या न सा तेन गता अस्य सिद्धिः अस्थानदानात् च गुरोः विनष्टा॥१८.२५.८६॥

इति तस्य नृपस्य सृष्टवाचः बत वेतालवरः अंसतः सः भूयः।
निजम् एव पदम् ययौ अलक्ष्यः नृपतिः तम् तथा एव सः अन्वयासीत्॥१८.२५.८७॥

तुलनीय - भविष्य पुराणे वेतालपंचविंशति

यक्षिण्योपरि टिप्पणी

यक्षिणीसाधन मन्त्राः

कपर्द्युपरि टिप्पणी


संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_18&oldid=108624" इत्यस्माद् प्रतिप्राप्तम्