वेतालपञ्चविंशति 09

विकिस्रोतः तः
Jump to navigation Jump to search
← वेतालपञ्चविंशति 08 वेतालपञ्चविंशति 09
सोमदेव
वेतालपञ्चविंशति 10 →

ततः गत्वा पुनः तस्मात् शिंशपापादपात् नृपः।
सः त्रिविक्रमसेनः तम् स्कन्धे वेतालम् अग्रहीत्॥९.१६.१॥

प्रस्थितः च ततः तेन वेतालेन अभ्यधायि सः।
राजन् क्व राज्यम् क्व एतस्मिन् श्मशाने भ्रमणम् निशि॥९.१६.२॥

किम् एतत् न ईक्षसे भूतसंकुलम् रात्रिभीषणम्।
चिताधूमैः इव ध्वान्तैः निरुद्धम् पितृकाननम्॥९.१६.३॥

कष्टम् कीदृक् ग्रहः अयम् ते भिक्षोः तस्य अनुरोधतः।
तत् इदम् शृणु तावत् मे प्रश्नम् मार्गविनोदनम्॥९.१६.४॥

अवन्तिषु अस्ति नगरी युग- आदौ देवनिर्मिता।
शैवी तनुः इव उद्दामभोगिभूतिविभूषिता॥९.१६.५॥

पद्मावती भोगवती या हिरण्यवती इति च।
कृत- आदिषु त्रिषु ख्याता कलौ उज्जयिनी इति च॥९.१६.६॥

तस्याम् च वीरदेव- आख्यः राजा अभूत् भूभृताम् वरः।
तस्य पद्मरतिः नाम महादेवी बभूव च॥९.१६.७॥

सः अथ राजा तया साकम् गत्वा मन्दाकिनीतटे।
हरम् आराधयामास तपसा पुत्रकाम्यया॥९.१६.८॥

चिरम् तपःस्थितः च अत्र परितुष्ट- ईश्वरौदिताम्।
कृतस्नानार्चनविधिः शुश्राव इमाम् गिरम् दिवः॥९.१६.९॥

राजन् उत्पत्स्यते पुत्रः शूरः तव कुलौद्भवः।
कन्या च अनन्यसामान्यलावण्यन्यक्कृताप्सराः॥९.१६.१०॥

श्रुत्वा एताम् नाभसीम् वाणीम् सिद्धाभीष्टः सः भूपतिः।
वीरदेवः स्वनगरीम् आययौ महिषीसखः॥९.१६.११॥

तत्र अस्य शूरदेव- आख्ये जाते प्रथमम् आत्मजे।
तस्याम् पद्मरतौ देव्याम् क्रमात् अजनि कन्यका॥९.१६.१२॥

अनङ्गस्य अपि रूपेण रतिम् उत्पादयेत् इयम्।
इति अनङ्गरतिः नाम्ना पित्रा तेन व्यधायि सा॥९.१६.१३॥

वृद्धिम् गतायाः तस्याः च सः पिता सदृशम् वरम्।
प्रेप्सुः आनाययत् पृथ्व्याम् पटेषु लिखितान् नृपान्॥९.१६.१४॥

तेषु एकः अपि न यत् तस्य तत्तुल्यः प्रत्यभासत।
तेन राजा सः वात्सल्यात् ताम् सुताम् प्रत्यभाषत॥९.१६.१५॥

अहम् तावत् न पश्यामि सदृशम् पुत्रि ते वरम्।
तत् कुरुष्व नृपान् सर्वान् मेलयित्वा स्वयम्वरम्॥९.१६.१६॥

एतत् पितृवचः श्रुत्वा राजपुत्री जगाद सा।
तात स्वयम्वरम् कर्तुम् ह्रेपणात् न अहम् उत्सहे॥९.१६.१७॥

किम् तु एकम् वेत्ति यः अपूर्वम् विज्ञानम् स्वाकृतिः युवा।
तस्मै त्वया अहम् दातव्या न अर्थः अन्येन अधिकेन मे॥९.१६.१८॥

इति अनङ्गरतेः तस्याः श्रुत्वा स्वदुहितुः वचः।
तादृशम् तत्वरम् यावत् अन्विष्यति सः भूपतिः॥९.१६.१९॥

तावत् तत्लोकतः बुद्ध्वा चत्वारः तम् उपाययुः।
वीराः विज्ञानिनः भव्याः पुरुषाः दक्षिणापथात्॥९.१६.२०॥

ते राज्ञा पूजिताः तस्मै स्वम् स्वम् विज्ञानम् एकशः।
शशंसुः संनिधौ तस्याः राजपुत्र्याः तदर्थिनः॥९.१६.२१॥

एकः जगाद शूद्रः अहम् आख्यया पञ्चपट्टिकः।
पञ्चाग्र्यवस्त्रयुग्मानि करोमि एकः अहम् अन्वहम्॥९.१६.२२॥

तेभ्यः एकम् प्रयच्छामि देवाय एकम् द्विजन्मने।
एकम् च परिगृह्णामि वाससोः आत्मनः कृते॥९.१६.२३॥

एकम् ददामि भार्यायै यदि सा भवति इह मे।
एकम् विक्रीय च आहारपान- आदि विदधामि अहम्॥९.१६.२४॥

एवम् विज्ञनिने अनङ्गरतिः मे दीयताम् इति।
इति एकेन उदिते तेन द्वितीयः पुरुषः अब्रवीत्॥९.१६.२५॥

भाषाज्ञः नाम वैश्यः अहम् सर्वेषाम् मृगपक्षिणाम्।
रुतम् वेद्मि तत् एषा मे राजपुत्री प्रदीयताम्॥९.१६.२६॥

एवम् उक्ते द्वितीयेन तृतीयः प्रोक्तवान् ततः।
अहम् खड्गधरः नाम दोःशाली क्षत्रियः नृप॥९.१६.२७॥

न खड्गविद्याविज्ञाने प्रतिमल्लः अस्ति मे क्षितौ।
तत् एषा तनया राजन् त्वया मह्यम् वितीर्यताम्॥९.१६.२८॥

इति उक्ते तु तृतीयेन चतुर्थः इदम् अभ्यधात्।
विप्रः अहम् जीवदत्त- आख्यः विज्ञानम् च मम ईदृशम्॥९.१६.२९॥

जन्तून् मृतान् अपि आनीय दर्शयामि आशु जीवतः।
तद्वीरचर्यासिद्धम् माम् पतिम् एषा प्रपद्यताम्॥९.१६.३०॥

एवम् वक्तॄन् सः तान् पश्यन् दिव्यवेष- आकृतीन् नृपः।
वीरदेवः सुतायुक्तः दोला- आरूढः इव अभवत्॥९.१६.३१॥

इति आख्याय कथाम् एताम् वेतालः पृष्टवान् नृपम्।
सः त्रिविक्रमसेनम् तम् दत्तपूर्वौक्तशापभीः॥९.१६.३२॥

तत् भवान् वक्तु तावत् मे कस्मै देया विशाम्पते।
तेषाम् चतुर्णाम् मध्यात् सा कन्या अनङ्गरतिः भवेत्॥९.१६.३३॥

एतत् श्रुत्वा सः राजा तम् वेतालम् प्रत्यभाषत।
मौनम् त्याजयति प्रायः कालक्षेपाय माम् भवान्॥९.१६.३४॥

अन्यथा गहनः कः अयम् प्रश्नः योग- ईश्वर उच्यताम्।
शूद्राय हि कुविन्दाय क्षत्रिया दीयते कथम्॥९.१६.३५॥

वैश्याय अपि कथम् देया क्षत्रिया यत् च तत् गतम्।
मृग- आदिभाषाविज्ञानम् कार्ये तत् क्व उपयुज्यते॥९.१६.३६॥

यः अपि विप्रः तृतीयः अत्र तेन अपि पतितेन किम्।
स्वकर्मप्रच्युतेन इन्द्रजालिना वीरमानिना॥९.१६.३७॥

तस्मात् तस्मै क्षत्रियाय चतुर्थाय समाय सा।
देया खड्गधराय एव स्वविद्यावीर्यशालिने॥९.१६.३८॥

एतत् तस्य वचः निशम्य नृपतेः अंसस्थलात् पूर्ववत्
वेतालः सः जगाम योगबलतः स्वस्थानम् एव आशु तत्।
भूपालः अपि सः तम् तथा एव पुनः अपि आनेतुम् अन्वक् ययौ
उत्साहएकघने हि वीरहृदये न आप्नोति खेदः अन्तरम्॥९.१६.३९॥

तुलनीय - भविष्यपुराणम् ३.२.७

चम्पा शब्दोपरि टिप्पणी

संबंधित कड़ियाँ[सम्पाद्यताम्]

  1. वेतालपञ्चविंशति
    1. वेतालपञ्चविंशति 00
    2. वेतालपञ्चविंशति 01
    3. वेतालपञ्चविंशति 02
    4. वेतालपञ्चविंशति 03
    5. वेतालपञ्चविंशति 04
    6. वेतालपञ्चविंशति 05
    7. वेतालपञ्चविंशति 06
    8. वेतालपञ्चविंशति 07
    9. वेतालपञ्चविंशति 08
    10. वेतालपञ्चविंशति 09
    11. वेतालपञ्चविंशति 10
    12. वेतालपञ्चविंशति 11
    13. वेतालपञ्चविंशति 12
    14. वेतालपञ्चविंशति 13
    15. वेतालपञ्चविंशति 14
    16. वेतालपञ्चविंशति 15
    17. वेतालपञ्चविंशति 16
    18. वेतालपञ्चविंशति 17
    19. वेतालपञ्चविंशति 18
    20. वेतालपञ्चविंशति 19
    21. वेतालपञ्चविंशति 20
    22. वेतालपञ्चविंशति 21
    23. वेतालपञ्चविंशति 22
    24. वेतालपञ्चविंशति 23
    25. वेतालपञ्चविंशति 24
    26. वेतालपञ्चविंशति 25

बाहरी कडियाँ[सम्पाद्यताम्]

"https://sa.wikisource.org/w/index.php?title=वेतालपञ्चविंशति_09&oldid=76856" इत्यस्माद् पुनः प्राप्तिः